14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH

From Samskrita Vyakaranam
Revision as of 18:15, 17 June 2021 by Vamsisudha (talk | contribs)

14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH
Jump to navigation Jump to search

२०२१ ध्वनिमुद्रणानि

१) tatpuruShasamAsaH- paricayaH_ 2021-06-05
२) tatpuruShasamAsaH-- samAsAntHAH+ dvitiiyatatpuruSHaH_ 2021-06-12



तिङन्तपदस्य निर्माणे मातॄणां पद्धति: वैज्ञानिकी, तर्कपूर्णा इति तु वयं जानीमः एव, किन्तु समासपाठ्यक्रमे अपि मातुः पद्धत्यां वैलक्ष्ण्यं वर्तते एव  | माता समासपाठस्य विज्ञानं, समग्रहचिन्तनं च पाठयति यत् न वैयाकरणसिद्धान्तकौमुद्यां न वा लघुसिद्धान्तकौमुद्यां न वा अन्यत्र कुत्रापि लभ्यते  | समासप्रकरणस्य अध्यापनार्थं, छात्राणां सुखबोधनार्थं च मातृभिः समासप्रक्रियायां पञ्च उपाङ्गानि कृतानि | एतादृशक्रमेण समासप्रसङ्गे कीदृशकार्याणि भवितुम् अर्हन्ति; तत्सम्बद्धसूत्राणि च अष्टाध्यायां कुत्र वर्तन्ते इत्यपि ज्ञायते ।


समासप्रकरणस्य अध्ययने मातुः पाठ्यक्रमः न केवलं विलक्षणः, सरलः अपि अस्ति येन सुलभतया अर्थबोधः जायते  | बहूनां विद्यार्थीनां भ्रमः जायते वैयाकरणसिद्धान्तकौमुदीं पठित्वा परन्तु  मातुः पाठ्यक्रमे समासपाठः पठ्यते चेत् निश्चयेन बोधः भवत्येव  | मातुः पाठे समासप्रक्रियायां पञ्च उपाङ्गानि सन्ति  | एतस्य विवरणम् अग्रे दीयते ।

 

पञ्च उपाङ्गानि

समासप्रक्रियायां समस्तपदस्य निर्माणार्थं पञ्चोपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति |  इमानि पञ्च उपाङ्गनि सन्ति—


१) प्रातिपदिकसंज्ञा = समासस्य प्रातिपदिकसंज्ञा विधीयते कृत्तद्धितसमासाश्च (१.२.४६) इति सूत्रेण | सामान्यतया प्रातिपदिकसंज्ञानन्तरं पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते सुपो धातुप्रातिपदिकयोः (२.४.७१) इति सूत्रेण | सर्वत्र विभक्तेः लुक् भवति इति नास्ति, तस्य अपवादाः सन्ति | अष्टाध्यायां (६.३.१) इत्यस्मात् सूत्रात् आरभ्य (६.३.२४) इति सूत्रपर्यन्तं पूर्वपदस्य विभक्तेः अलुक् भवति  | उत्तरपदे इति अधिकारे सुब्-अलुक् इति एकं कार्यम् अस्ति |


२) पूर्वनिपातः

प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति संज्ञासूत्रेण समासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति  | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण |

३)  लिङ्गवचनयोः निर्णयः

समासस्य लिङ्गस्य, वचनस्य च निर्णयः भवति तृतीयस्तरे | समास-वचननिर्णय-सम्बद्धसूत्राणि २.४.१ इत्यस्मात् आरभ्य २.४.१६ इति अन्तपर्यन्तं सन्ति  | समास-लिङ्गनिर्णय-सम्बद्धसूत्राणि २.४.१७ इत्यस्मात् आरभ्य  २.४.३४ इत्यन्तपर्यन्तं सन्ति ।

४) समासान्तप्रत्ययाः

समासप्रक्रियायां कुत्रचित् समासान्तप्रत्ययः विधीयते इति स्मर्तव्यम् | अष्टाध्यायां समासान्ताधिकारः (५.४.६८) इत्यस्मात् सूत्रात् आरभ्य (५.४.१६०) इति सूत्रपर्यन्तम् अस्ति  | अस्मिन् अधिकारे समासे कुत्रचित् समासान्तप्रत्ययाः विधीयन्ते ।

५)  उत्तरपदाधिकारः

कुत्रचित् उत्तरपदे इति अधिकारे स्थितस्य सूत्रस्य प्रभावेण पूर्वपदे किञ्चित् कार्यं भवति | अष्टाध्यायाम् उत्तरपदाधिकारः ( ६.३.१) इत्यस्मात् सूत्रात् आरभ्य ( ६.३.१३१) इति सूत्रपर्यन्तम् अस्ति | अस्मिन् अधिकारे उत्तरपदे परे पूर्वपदस्य किञ्चित् कार्यं भवति  | यथा विश्वमेव मित्रम् यस्य इति बहुव्रीहिसमासे पूर्वपदस्य स्वरस्य दीर्घत्वं भवति मित्रे चर्षौ ( ६.३.१३०) इति सूत्रेण मित्रशब्दे परे विश्वस्य दीर्घः स्यात् ऋषौ वाच्ये इत्यर्थः, अतः विश्वामित्रः इति समासः सिद्ध्यति |

मातुः पाठ्यक्रमम् अवलम्ब्य अग्रे तत्पुरुषसमासस्य विषये पठामः ।

तत्पुरुषसमासः

ज्ञातविषयः अस्ति यत् समासे पञ्च प्रभेदाः सन्ति – केवलसमासः, अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वः चेति  | एतावता अस्माभिः समासपरिचयः प्राप्तः, केवलसमासः, अव्ययीभावसमासः च अधीतः | समासे प्राधान्यनिर्ण्यः कथं भवति इत्यपि ज्ञातवन्तः एव  | येन पदार्थेन सह क्रियान्वयः, गुणान्वयः वा भवति सः अर्थः प्राधान्यम् आवहति | एकार्थीभावसामर्थ्यम् अस्ति चेत् एव समासः भवति इत्यपि जानीमः  | यदा पदार्थानां मेलनेन एकार्थस्य बोधः जायते तदा समासे एकार्थीभावरूपसामर्थ्यम् अस्ति इति वदामः |  एकार्थीभावसामर्थ्यस्य अभावे समासः न भवति | अत्र परिभाषासूत्रं अस्ति समर्थः पदविधिः (२.१.१) इति | समर्थानां पदानामेव समासः भवति |

समर्थः पदविधिः (२.१.१)

पदसम्बन्धी यः विधिः सः समर्थाश्रितो भवेत् | समर्थानां पदानां सम्बद्धार्थानां विधिः इति ज्ञातव्यम् | विधिः नाम कार्यम् इत्यर्थः | एतत् सूत्रं परिभाषासूत्रम् अस्ति |


अधुना तत्पुरुषसमासस्य विषये पठामः |

तत्पुरुषसमासे प्रायेण उत्तरपदार्थस्य प्राधान्यं भवति | यथा राजपुरुषः इति षष्ठीतत्पुरुषसमासः, तस्य लौकिकविग्रहः अस्ति राज्ञः पुरुषः इति | अस्मिन् समासे पुरुषः इति उत्तरपदस्य प्राधान्यम् इत्यतः एव अयं समासः तत्पुरुषसमासः इत्युच्यते | अष्टाध्यायां तत्पुरुषसमास-सम्बद्धसूत्राणि २.१.२२ इति सूत्रात् आरभ्य २.२.२२ इति सूत्रपर्यन्तं सन्ति | एतानि सर्वाणि सूत्राणि तत्पुरुषः (२.१.२२) इति सूत्रयस्य अधिकारे सन्ति।

तत्पुरुषः (२.१.२२)

तत्पुरुषः इति अधिकारसूत्रम् अस्ति | एतस्य सूत्रस्य अधिकारः २.१.२२ - २.२.२२ इति सूत्रं पर्यन्तम् अस्ति | अस्मिन् अधिकारे यानि सूत्राणि सन्ति, तेषां सर्वेषां तत्पुरुषसंज्ञा भवति | अस्मिन् अधिकारे सप्ततिः सूत्राणि सन्ति | तत्पुरुषः प्रथमान्तं, एकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम् |


तत्पुरुषसमासस्य चत्वारः प्रभेदाः सन्ति— १) सामान्यतत्पुरुषसमासः, २) कर्मधारयः, ३) द्विगुः, ४) नञ्प्रभृतयः चेति | अग्रे एतेषां सूत्रसहितं विवरणं द्रक्ष्यामः | अस्मिन् करपत्रे सामान्यतत्पुरुषसमासः प्रस्तुतः अस्ति | अग्रिमेषु करपत्रेषु अन्यान् तत्पुरुषसमासान् पठिष्यामः |


अ)   सामान्यतत्पुरुषसमास:

सामान्यतत्पुरुषसमासे विग्रहावस्थायां पूर्वपदे प्रथमाविभक्तिं विहाय अन्यविभक्तिनां प्रयोगः भवति |

सामान्य-तत्पुरुष-समासस्य षट् प्रभेदाः सन्ति –

१) द्वितीया-तत्पुरुषसमासः, यथा- कृष्णं श्रितः = कृष्णश्रितः ;

२) तृतीया-तत्पुरुषसमासः, यथा - गुडेन मिश्रः = गुडमिश्रः ;

३) चतुर्थी-तत्पुरुषसमासः, यथा - यूपाय दारु = यूपदारु ;

४) पञ्चमी-तत्पुरुषसमासः, यथा - चोराद् भयम् = चोरभयम् ;

५) सप्तमी-तत्पुरुषसमासः,  यथा - कर्मणि कुशलः = कर्मकुशलः ;

६) षष्ठी-तत्पुरुषसमासः, यथा - राज्ञः पुरुषः = राजपुरुषः |

यः तत्पुरुषसमासः एतेषु प्रभेदेषु अन्यतमः, सः समासः सामान्यतत्पुरुषसमासः इति नाम्ना ज्ञायते | अष्टाध्यायां पाणिनिना प्रथम-तत्पुरुषसमासः न उक्तः एव, परन्तु लोके प्रथम-तत्पुरुषः इति व्यवहारः अपि दृश्यते | वस्तुतस्तु लोके यः प्रथमतत्पुरुषसमासः इति व्यवहारः दृश्यते,  सः एव  व्याकरणलोके एकदेशिसमासः इति नाम्ना ज्ञायते | अयम् एकदेशिसमासः, षष्ठी-तत्पुरुषसमासस्य अपवादः अस्ति  | यथा पूर्वं कायस्य = पूर्वकायः इति एकदेशिसमासः |

आ) कर्मधारयसमासः

तत्पुरुषसमासस्य द्वितीयः प्रभेदः कर्मधारयसमासः इति | कर्मधारयसमासे विशेषण-विशेष्योः समासः भवति | विशेषणपदस्य पूर्वप्रयोगः भवति सामान्यतया |कर्मधारयसमासस्य नवप्रभेदाः सन्ति – १) विशेषण-पूर्वपद-कर्मधारयः, २) विशेषणोत्तरपद -कर्मधारयः, ३) विशेषणोभयपद-कर्मधारयः ४) उपमान-पूर्वपद-कर्मधारयः, ५) उपमानोत्तरपद-कर्मधारयः, ६) अवधारण-पूर्वपद-कर्मधारयः, ७) सम्भावना-पूर्वपद-कर्मधारयः, ८) मध्यमपद-लोप-कर्मधारयः, ९) मयूरव्यंसकादयः चेति | यः कोपि समासः एतेषु प्रभेदेषु अन्यतमः चेत् तस्य नाम कर्मधारयसमासः इति |  कर्मधारयः इति संज्ञा दीयते तत्पुरुषः सामानाधिकरणः कर्मधारयः ( १.२.४२) इति सूत्रेण |  अस्य विवरणम् अग्रिमे करपत्रे दीयते |

इ)     द्विगुसमासः

तत्पुरुषसमासस्य तृतीयः प्रभेदः द्विगुसमासः इति | द्विगुसमासः कर्मधारयसमासस्य एव एकः प्रभेदः अस्ति | विशेषणवाचकं पदं सङ्ख्यावाचकं पदम् अस्ति चेत् तदा समासः द्विगुः इति उच्यते | द्विगुसमासस्य त्रयः प्रभेदाः सन्ति – १) तद्धितार्थद्विगुः, यथा – षण्णां मातॄणाम् अपत्यम् = षाण्मातुरः ; २) उत्तरपदद्विगुः, यथा – पञ्च गावः धनं यस्य सः = पञ्चगवधनः;  ३) समाहारद्विगुश्चेति, यथा – पञ्चाणां पात्राणां समाहारः = पञ्चपात्रम् | द्विगुश्च (२.१.२३) इति सूत्रेण द्विगुसमासः अपि तत्पुरुषसंज्ञकः स्यात् | द्विगोः तत्पुरुषत्वे समासान्ताः प्रयोजनम्। अस्य विवरणम् अग्रिमे करपत्रे दीयते |

ई)     नञ्प्रभृतयः

तत्पुरुषसमासस्य चतुर्थः प्रभेदः नञ्प्रभृतयः इति | नञ्प्रभृतीनां पञ्च प्रभेदाः सन्ति — १) नञ्समासः, २) कुसमासः, ३) गतिसमासः ४) प्रादिसमासः, ५) उपपदसमासः चेति |


१) नञ्समासः

नञ् इति किञ्चन अव्ययम् अस्ति |  तत् सुबन्तेन समासं प्राप्नोति नञ् (२.२.६) इति सूत्रेण | नञ् इत्यत्र ञकारस्य इत्संज्ञा भवति, न इति अवशिष्यते |  यथा – न धर्मः = अधर्मः |

२) कुसमासः, ३) गतिसमासः, ४) प्रादिसमासः च

एतान् त्रीन् प्रभेदान् मिलित्वा पठामः यतोहि अत्र विधायकं सूत्रम् एकमेव वर्तते | कुगतिप्रादयः (२.२.१८) इत्यनेन कुगतिप्रादयः समर्थेन सुबन्तेन सह नित्यं समस्यन्ते, तत्पुरुषश्च समासो भवति |

कुमासः = कुशब्दः सुबन्तेन नित्यं समस्यते | यथा – कुत्सितः पुरुषः = कुपुरुषः |

गतिसमासः = गतिसंज्ञायुक्तं पदं सुबन्तेन समस्यते | यथा –  अशुक्लं शुक्लं कृत्वा = शुक्लीकृत्य |

प्रादिसमासः = प्रादयः नित्यं सुबन्तेन समस्यते | यथा – शोभनः पुरुषः = सुपुरुषः |



५) उपपदसमासः

उपपदं सुबन्तं सुबन्तेन समस्यते | यथा – कुम्भं करोति इति = कुम्भकारः |

अस्मिन् करपत्रे एतेषु तत्पुरुषसमासेषु सामान्यतत्पुरुषसमासस्य विषये सूत्रसहितं विवरणं पठामः | अग्रे अन्येषां विषये सूत्रसहितं विवरणं पठिष्यामः |


तत्पुरुषसमासस्य पञ्च उपाङ्गानि

तत्पुरुषसमासस्य विषये पञ्च उपाङ्गानि पश्यामः –


१)     प्रातिपदिकसंज्ञा

समासस्य विधानं भवति केनचित् तत्पुरुषसमास-सम्बद्धसूत्रेण | तत्पश्चात् समासस्य प्रातिपदिकसंज्ञा विधीयते कृत्तद्धितसमासाश्च (१.२.४६) इति सूत्रेण | प्रातिपदिकसंज्ञानन्तरं पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते सुपो धातुप्रातिपदिकयोः (२.४.७१) इति सूत्रेण | यथा अव्ययीभावसमासे अस्माभिः प्रक्रिया अधीता तथैव तत्पुरुषसमासस्य विषये अपि चिन्तनीयम्।


२)   पूर्वनिपातः

प्रथमानिर्दिष्टं समास उपसर्जनम्(१.२.४३) इति संज्ञासूत्रेण तत्पुरुषसमासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति  | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण  |


३)     तत्पुरुषसमासस्य लिङ्गम्

तत्पुरुषसमासे, द्वन्द्वसमासे च उत्तरपदस्य यत् लिङ्गं तदेव लिङ्गं भवति समस्तपदस्य | तदर्थं सूत्रम् अस्ति परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इति |

परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) = द्वन्द्वस्य तत्पुरुषस्य च परस्य यत् लिङ्गं तत् भवति  | उत्तरपदलिङ्गं द्वन्द्वतत्पुरुषयोः विधीयते | स नपुंसकम् ( २ -४ -१७) इत्यनेन सूत्रेण समाहारद्वन्द्वे नपुंसकलिङ्गस्य विहितत्वात् इतरेतरयोगद्वन्द्वस्य क्रियते  ग्रहणम् अस्मिन् सूत्रे | द्वन्द्वश्च तत्पुरुषश्च द्वन्द्वत्त्पुरुषौ, तयोर्द्वन्द्वतत्पुरुषयोः | परवत् अव्ययं, लिङ्गं प्रथमान्तं, द्वन्द्वतत्पुरुषयोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अनुवृत्ति-सहित-सूत्रं— द्वन्द्वतत्पुरुषयोः परवत् लिङ्गम्


यथा —

सीतायाः पतिः = सीतापतिः इति षष्ठीतत्पुरुषसमासः  | अस्मिन् समासे उत्तरपदम् अस्ति पतिः इति, तस्य लिङ्गम् अस्ति पुंलिङ्गम्, अतः समस्तपदस्य लिङ्गम् अपि पुंलिङ्गम् एव भवति परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इति सूत्रेण | अनेन कारणेन सीतापतिः इति तत्पुरुषसमासः पुंलिङ्गे सिद्ध्यति।


एवमेव  इतरेतरयोगद्वन्द्वसमासे अपि समासस्य लिङ्गम् उत्तरपदम् आश्रित्य भवति  -


कुक्क्टश्च मयूरी च = कुक्कुटमयूर्यौ | उत्तरपदं स्त्रीलिङ्गे  इत्यतः समस्तपदम् अपि स्त्रीलिङ्गे भवति |

मयूरी च कुक्कुटश्च = मयूरीकुक्कुटौ  | उत्तरपदं पुंलिङ्गे इत्यतः समस्तपदम् अपि पुंलिङ्गे भवति |


४)    समासान्तप्रत्ययाः

समासप्रक्रियायां कुत्रचित् समासान्तप्रत्ययः विधीयते इति जानीमः | समासान्ताः समासस्य अवयवाः सन्ति इत्यतः एव समासान्तानां योजनानन्तरं सम्पूर्णस्य समस्तपदस्य प्रातिपदिकसंज्ञा भवति | यद्यपि एतानि कार्याणि समस्तपदस्य निर्माणे भवन्ति तथापि प्रक्रिया तु तद्धितप्रक्रियाम् आश्रित्य एव भवति  | नाम तद्धितप्रकरणे यानि सूत्राणि प्रसक्तानि भवन्ति तद्धितप्रक्रियायां, तानि समासप्रक्रियायाम् अपि प्रसक्तानि भवन्ति यतोहि समासान्ताः तद्धिताधिकारे सन्ति  | अत एव पाणिनिना एते समासान्तप्रत्ययाः तद्धिताधिकारे स्थापिताः ।

तद्धिताः (४.१.७६) = अधिकारसूत्रम् इदम् | अस्य सूत्रस्य अधिकारः अस्ति ४.१.७६ इति सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तं नाम ५.४.१७० इति पर्यन्तम्  | अस्मिन् अधिकारे ये प्रत्ययाः विधीयन्ते ते सर्वे तद्धितसंज्ञकाः भवन्ति  | सूत्रं स्वयं सम्पूर्णम् ।

समासान्ताः (५.४.६८) = एतत् अधिकारसूत्रम् अस्ति  | अस्मात् सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तं ये तद्धितप्रत्ययाः पाठिताः ते समासप्रक्रियायां विधीयन्ते  | अर्थात् समासान्तस्य अधिकारः ५.४.६८ इत्यस्मात् सूत्रात् आरभ्य ५.४.१६० इति सूत्रपर्यन्तम्  | एते समासान्तप्रत्ययाः प्रातिपदिकात् विधीयन्ते यतोहि ङ्याप्प्रातिपदिकात् ( ४.१.१) इति सूत्रस्य अधिकारः अस्ति चतुर्थाध्ययात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तम्  |

तत्पुरुषसमासस्य प्रसङ्गे एते समासान्ताः विधीयन्ते | अत्र सारांशरूपेण विवरणं दीयते | अग्रे एतेषाम् अध्ययनं भविष्यति   |

सूत्रक्रमाङ्कः सूत्रं समासान्तप्रत्ययः समासप्रकारः
5|4|68 समासान्ताः समासान्त-
अधिकारसूत्रम्
5|4|86 तत्पुरुषस्याङ्गुलेः अच् तत्पुरुषसमासान्तप्रत्ययः
संख्याऽव्ययादेः
5|4|87 अहस्सर्वैकदेशसंख्यातपुण्याच्च अच् तत्पुरुषसमासान्तप्रत्ययः
रात्रेः
5|4|88 अह्नोऽह्न एतेभ्यः प्रकृत्यादेशः तत्पुरुषसमासान्तप्रत्ययः
5|4|89 न संख्याऽऽदेः समाहारे प्रकृत्यादेशनिषेधः तत्पुरुषसमासान्तप्रत्ययः
5|4|90 उत्तमैकाभ्यां च प्रकृत्यादेशनिषेधः तत्पुरुषसमासान्तप्रत्ययः
5|4|91 राजाऽहस्सखिभ्यष्टच्‌ टच् तत्पुरुषसमासान्तप्रत्ययः
5|4|92 गोरतद्धितलुकि टच् तत्पुरुषसमासान्तप्रत्ययः
5|4|93 अग्राख्यायामुरसः टच् तत्पुरुषसमासान्तप्रत्ययः
5|4|94 अनोऽश्मायस्सरसाम् टच् तत्पुरुषसमासान्तप्रत्ययः
जातिसंज्ञयोः
5|4|95 ग्रामकौटाभ्यां च तक्ष्णः टच् तत्पुरुषसमासान्तप्रत्ययः
5|4|96 अतेः शुनः टच् तत्पुरुषसमासान्तप्रत्ययः
5|4|97 उपमानादप्राणिषु टच् तत्पुरुषसमासान्तप्रत्ययः
5|4|98 उत्तरमृगपूर्वाच्च सक्थ्नः टच् तत्पुरुषसमासान्तप्रत्ययः
5|4|99 नावो द्विगोः टच् तत्पुरुषसमासान्तप्रत्ययः
5|4|100 अर्धाच्च टच् तत्पुरुषसमासान्तप्रत्ययः
5|4|101 खार्याः प्राचाम् टच् तत्पुरुषसमासान्तप्रत्ययः
5|4|102 द्वित्रिभ्यामञ्जलेः टच् तत्पुरुषसमासान्तप्रत्ययः
5|4|103 अनसन्तान्नपुंसकाच्छन्दसि टच् तत्पुरुषसमासान्तप्रत्ययः
5|4|104 ब्रह्मणो जानपदाख्यायाम् टच् तत्पुरुषसमासान्तप्रत्ययः
5|4|105 कुमहद्भ्यामन्यतरस्याम्‌ टच् तत्पुरुषसमासान्तप्रत्ययः


तत्पुरुषसमासान्त-प्रत्ययसम्बद्ध-सूत्रा:

तत्पुरुषसमासान्त-प्रत्ययसम्बद्ध-सूत्राणां सारांशः दीयते

a)     तत्पुरुषस्याङ्गुलेः संख्याऽव्ययादेः ( ५.४.८६)

तत्पुरुषसमासे पूर्वपदं सङ्ख्यावाचकशब्दः उत अव्ययवाचकः शब्दः अस्ति , उत्तरपदं च 'अङ्गुलि' इति शब्दः विद्यते, तस्मात् 'अच्' इति समासान्तप्रत्ययः विधीयते  | यथा – द्वे अङ्गुली प्रमाणम् अस्य = द्व्यङ्गुलम्।

b)    अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः ( ५.४.८७)

तत्पुरुषसमासस्य पूर्वपदम् 'अहन्', 'सर्व', 'सङ्ख्यात' तथा 'पुण्य' एतेषु कश्चन शब्दः, एकदेशवाचकः शब्दः,  संख्यावाचकः शब्दः, अथवा अव्ययवाचकः शब्दः अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति  | यथा - अहश्च रात्रिश्च एतयोः समाहारः = अहोरात्रः  | सर्वरात्रः, पुण्यरात्रः, पूर्वरात्रः इत्यादीनि उदाहरणानि  |

c)    अह्नोऽह्न एतेभ्यः (५.४.८८)

यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् टच् इति समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति  | यथा – सर्वाह्णः, पूर्वाह्णः |

d)    न संख्याऽऽदेः समाहारे ( ५.४.८९)

समाहारद्विगोः विषये अहन्-शब्दस्य 'अह्न' इति आदेशः न भवति | यथा - द्वयोः अह्नोः समाहारः = द्वयहः |

e)     उत्तमैकाभ्यां च ( ५.४.९०)

'पुण्य' शब्दस्य विषये तथा च 'एक' शब्दस्य विषये अहन् शब्दस्य अह्न-आदेशः न भवति | यथा - पुण्याहः, एकाहः |

f)      राजाऽहस्सखिभ्यष्टच्‌ ( ५.४.९१)

यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति  | यथा- महाराजः |

g)    गोरतद्धितलुकि ( ५.४.९२)

तत्पुरुषसमासे 'गो' इति शब्दः उत्तरपदरूपेण विद्यते, तथा च यत्र तद्धितप्रत्ययस्य लुक् न भवति, तत्र 'टच्' इति समासान्तप्रत्ययः विधीयते  | यथा - परमगवः |

h)    अग्राख्यायामुरसः ( ५.४.९३)

तत्पुरुषसमासस्य उत्तरपदरूपेण 'अग्रः' अस्मिन् अर्थे 'उरस्' शब्दः विधीयते चेत्, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति  |यथा – अश्वानाम् उरः = अश्वोरसम् |

i)      अनोऽश्मायस्सरसाम् जातिसंज्ञयोः ( ५.४.९४)

यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण 'अनस्', 'अश्मन्', 'अयस्' तथा 'सरस्' एतेषु कश्चन शब्दः विद्यते, तस्मात् जातौ तथा संज्ञायां गम्यमानायां 'टच्' इति समासान्तप्रत्ययः भवति | यथा - महान् च असौ अनः च = महानसः |

j)      ग्रामकौटाभ्यां च तक्ष्णः ( ५.४.९५)

यस्मिन् तत्पुरुषसमासे पूर्वपदम् 'ग्राम' तथा 'कौट' एतयोः किञ्चन अस्ति तथा च उत्तरपदम् 'तक्षन्' इति शब्दः अस्ति, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति | यथा - ग्रामस्य तक्षः = ग्रामतक्षः |

k)     अतेः शुनः ( ५.४.९६) 

यस्मिन् तत्पुरुषसमासे पूर्वपदम् 'अति' तथा उत्तरपदम् 'श्वन्' इति अस्ति, तस्मात् टच् इति समासान्तप्रत्ययः भवति  |यथा – अतिक्रान्तः श्वानम् = अतिश्वः |

l)      उपमानादप्राणिषु ( ५.४.९७)

उपमानवाची प्रयुक्तः श्वन् शब्दः यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण प्रयुज्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति  |परन्तु समस्तपदेन प्राणिनः निर्देशः क्रियते चेत् अयं प्रत्ययः न विधीयते | यथा - आर्कषः श्वा इव = आकर्षश्वः |

m)  उत्तरमृगपूर्वाच्च सक्थ्नः ( ५.४.९८)

तत्पुरुषसमासे पूर्वपदम् 'उत्तर', 'मृग', 'पूर्व' एतेषु किञ्चन उत उपमानवाचकः शब्दः अस्ति, तथा च उत्तरपदम् 'सक्थिन्' शब्दः अस्ति, तस्मात् टच् इति समासान्तप्रत्ययः भवति  |यथा – उत्तरं सक्थि (leg) = उत्तरसक्थम् |

n)    नावो द्विगोः ( ५.४.९९)

यस्मिन् द्विगुसमासे 'नौ' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति  | परन्तु द्विगुसमासस्य निमित्तभूतस्य तद्धितप्रत्ययस्य यदि लुक् भवति तर्हि अयम् टच् प्रत्यय न भवति  | यथा - पञ्चानां नवां समाहारः = पञ्चनावः |

o)    अर्धाच्च ( ५.४.१००)

यस्मिन् तत्पुरुषसमासे 'अर्ध' शब्दः पूर्वपदरूपेण विद्यते तथा च 'नौ' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति | यथा - अर्धं नावः = अर्धनावः |

p)    खार्याः प्राचाम् ( ५.४.१०१)

यस्मिन् तत्पुरुषसमासे 'खारी' शब्दः उत्तरपदरूपेण विद्यते, तथा च 'अर्ध' शब्दः पूर्वपदरूपेण विद्यते उत द्विगुसमासविधानम् भवति, तत्र 'टच्' इति समासान्तप्रत्ययः भवति | यथा - अर्धं खार्याः ( quantity) = अर्धखारः |

q)    द्वित्रिभ्यामञ्जलेः ( ५.४.१०२)

यस्मिन् द्विगुसमासे पूर्वपदम् 'द्वि' उत 'त्रि' एतयोः किञ्चन अस्ति तथा च उत्तरपदम् 'अञ्जलि' इति शब्दः अस्ति, तस्मात् प्राचामाचार्याणाम् मतेन 'टच्' इति समासान्तप्रत्ययः भवति  |परन्तु प्रक्रियायाम् द्विगुनिमित्तकस्य तद्धितप्रत्ययस्य लुक् भवति चेत् टच्-प्रत्ययः न विधीयते | यथा - द्व्योः अञ्जल्योः समाहारः = द्वयञ्जलः |

r)      अनसन्तान्नपुंसकाच्छन्दसि ( ५.४.१०३)

यस्य तत्पुरुषसमास्य उत्तरपदस्य अन्ते 'अन्' तथा 'असन्' इति विद्यते, तस्मात् नपुँसकरूपस्य निर्माणे वेदेषु टच् इति समासान्तप्रत्ययः भवति |

s)     ब्रह्मणो जानपदाख्यायाम् ( ५.४.१०४)

यस्मिन् तत्पुरुषसमासे 'ब्रह्मन्' शब्दः उत्तरपदरूपेण विद्यते तथा च येन समस्तपदेन ब्रह्मण जनपदेन सह सम्बन्धः निर्दिश्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति | यथा - सुराष्ट्रे ब्रह्मा = सुराष्ट्रब्रह्म |

t)      कुमहद्भ्यामन्यतरस्याम्‌ ( ५.४.१०५)

यस्मिन् तत्पुरुषसमासे 'कु' उत 'महत्' शब्दः पूर्वपदरूपेण विद्यते, तथा च 'ब्रह्मन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् विकल्पेन 'टच्' इति समासान्तप्रत्ययः भवति | यथा - कुत्सितः ब्रह्मा = कुब्रह्मः |

५)     उत्तरपदाधिकारः

कुत्रचित् उत्तरपदे इति अधिकारे स्थितस्य सूत्रस्य प्रभावेण पूर्वपदे किञ्चित् कार्यं भवति |अष्टाध्यायाम् उत्तरपदाधिकारः ( ६.३.१) इत्यस्मात् सूत्रात् आरभ्य ( ६.३.१३१) इति सूत्रपर्यन्तम् अस्ति | अस्मिन् अधिकारे उत्तरपदे परे पूर्वपदस्य किञ्चित् कार्यं भवति  | यथा विश्वमित्रः इति समासे पूर्वपदस्य स्वरस्य दीर्घत्वं भूत्वा विश्वामित्रः इति भवति  |