14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

no edit summary
No edit summary
No edit summary
(12 intermediate revisions by the same user not shown)
Line 64:
|-
|31) [https://archive.org/download/samAsaH-pANini-dvArA/185_tatpuruShasamAsaH-punnasmaraNam_2024-04-06.mp4 tatpuruShasamAsaH-punnasmaraNam_2024-04-06]
|-
|32) [https://archive.org/download/samAsaH-pANini-dvArA/186_tatpuruShasamAsaH-punnasmaraNam_2024-04-13.mp4 tatpuruShasamAsaH-punnasmaraNam_2024-04-13]
|-
|33) [https://archive.org/download/samAsaH-pANini-dvArA/187_tatpuruShasamAsaH-punnasmaraNam_2024-04-20.mp4 tatpuruShasamAsaH-punnasmaraNam_2024-04-20]
|-
|34) [https://archive.org/download/samAsaH-pANini-dvArA/188_tatpuruShasaMasaH-punnasmaraNam_2024-04-27.mp4 tatpuruShasaMasaH-punnasmaraNam_2024-04-27]
|-
|35) [https://archive.org/download/samAsaH-pANini-dvArA/189_tatpuruShasamAsaH-punnasmaraNam_2024-05-04.mp4 tatpuruShasamAsaH-punnasmaraNam_2024-05-04]
|}
<big>'''<u>तत्पुरुषसमासः - सामान्यतत्पुरुषस्य सारांशः</u>'''</big>
Line 1,707 ⟶ 1,715:
<big>एवम् उपरि उक्तेषु अर्थेषु षष्ठीतत्पुरुषसमासः निषिध्यते  |</big>
|}
----
----<big>४)    </big>
 
====== <big>४)    </big>'''<big>क्तेन च पूजायाम् (२.२.१२)</big>''' ======
<big>पूजार्थे, सत्कारार्थे, बुद्ध्यर्थे च यः क्तप्रत्ययः वर्तमानकालार्थे विधीयते, तदन्तेन सुबन्तेन सह षष्ठ्यन्तं सुबन्तं न समस्यते |</big>
 
====== '''<big>क्तेन च पूजायाम् (२.२.१२)</big>''' ======
 
<big>इच्छार्थे, पूजार्थे (सत्कारार्थे), बुद्ध्यर्थे च यः क्तप्रत्ययः वर्तमानकालार्थे विधीयते, तदन्तेन सुबन्तेन सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते | कृदन्तप्रकरणे पूजाद्यर्थे क्तप्रत्ययः विधीयते वर्तमानार्थे '''मतिबुद्धिपूजार्थेभ्यश्च''' ( ३.२.१८८) इत्यनेन सूत्रेण | प्रकृतसूत्रे पूजायाम् इति पदं क्तप्रत्ययस्य उपलक्षणम् अस्ति | अर्थात् '''मतिबुद्धिपूजार्थेभ्यश्च''' ( ३.२.१८८) इत्यनेन सूत्रेण यः क्तप्रत्ययः विधीयते इच्छार्थे, पूजार्थे, बुद्ध्यर्थे च तस्य सङ्केतः अस्ति प्रकृतसूत्रे | '''मतिबुद्धिपूजार्थेभ्यश्च''' ( ३.२.१८८) इति सूत्रेण क्तप्रत्ययः विधीयते कर्मार्थे अथवा भावार्थे |</big><big>क्तेन तृतीयान्तं, चाव्ययं, पूजायां सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''पूजायां''' '''षष्ठी सुप् क्तेन सुपा सह न तत्पुरुषः समासः च |'''</big>
 
<big>इच्छार्थे, पूजार्थे (सत्कारार्थे), बुद्ध्यर्थे च यः क्तप्रत्ययः वर्तमानकालार्थे विधीयते, तदन्तेन सुबन्तेन सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते | कृदन्तप्रकरणे पूजाद्यर्थे क्तप्रत्ययः विधीयते वर्तमानार्थे '''मतिबुद्धिपूजार्थेभ्यश्च''' ( ३.२.१८८) इत्यनेन सूत्रेण | प्रकृतसूत्रे पूजायाम् इति पदं क्तप्रत्ययस्य उपलक्षणम् अस्ति | अर्थात् '''मतिबुद्धिपूजार्थेभ्यश्च''' ( ३.२.१८८) इत्यनेन सूत्रेण यः क्तप्रत्ययः विधीयते इच्छार्थे, पूजार्थे, बुद्ध्यर्थे च तस्य सङ्केतः अस्ति प्रकृतसूत्रे | '''मतिबुद्धिपूजार्थेभ्यश्च''' ( ३.२.१८८) इति सूत्रेण क्तप्रत्ययः विधीयते कर्मार्थे अथवा भावार्थे |</big>
 
<big>क्तेन तृतीयान्तं, चाव्ययं, पूजायां सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''पूजायां''' '''षष्ठी सुप् क्तेन सुपा सह न तत्पुरुषः समासः च |'''</big>
 
<big>यथा—</big>
 
 
 
<big>१)</big> <big>राज्ञां मतः = मतः इति क्तप्रत्ययान्तः शब्दः इच्छार्थे अस्ति | मन् इति धातुतः क्तप्रत्ययस्य विधानं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण भवति, अतः मतः इति रूपं निष्पन्नं भवति | वाक्यमेवं भवति राज्ञां मतः (इष्टः) पुत्रः | मतः इति क्तान्तस्य योगे राजशब्दस्य षष्ठीविभक्तिः जायते '''क्तस्य च वर्तमाने''' ( २.३.६७) इति सूत्रेण | '''क्तस्य च वर्तमाने''' ( २.३.६७) इति सूत्रेण क्तस्य वर्तमानकालविहितस्य प्रयोगे षष्ठी विभक्तिर्भवति | मतः इति क्तप्रत्ययान्तः वर्तमानकाले विहितः इत्यतः राज्ञाम् इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति '''षष्ठी''' (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः क्रियते '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण | अतः राजमतः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – राज्ञां मतः इति |</big>
 
 
 
Line 1,766 ⟶ 1,773:
 
 
----
----<big>५)     षष्ठ्यन्तं समर्थं सुबन्तम् अधिकरणार्थे विहितस्य क्त्प्रत्ययस्य, तदन्तेन सुबन्तेन सह न समस्यते |</big>
 
====== <big>५)    </big> '''<big>अधिकरणवाचिना च (२.२.१३)</big>''' ======
 
 
 
 
 
<big>अधिकरणार्थे विहितः क्तप्रत्ययः, तदन्तेन सुबन्तेन षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते  | अधिकरणार्थे '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण क्तप्रत्ययः विधीयते  | तादृशस्य क्तप्रत्ययान्तस्य एव अधिकरणवाचिना इति शब्दस्य द्वारा ग्रहणं भवति | अधिकरणं वक्ति इति अधिकरणवाची, तेन, अधिकरणवाचिना | अधिकरणवाचिना तृतीयान्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''क्तेन च पूजायाम्''' (२.२.१२) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् अधिकरणवाचिना क्तेन सुपा सह न तत्पुरुषः समासः च |'''</big>
 
====== '''<big>अधिकरणवाचिना च (२.२.१३)</big>''' ======
<big>षष्ठ्यन्तं समर्थं सुबन्तम् अधिकरणार्थे विहितः क्तप्रत्ययः, तदन्तेन सुबन्तेन न समस्यते  | अधिकरणार्थे '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण क्तप्रत्ययः विधीयते  | तादृशस्य क्तप्रत्ययान्तस्य एव अधिकरणवाचिना इति शब्दस्य द्वारा ग्रहणं भवति | अधिकरणं वक्ति इति अधिकरणवाची, तेन | अधिकरणवाचिना तृतीयान्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''क्तेन च पूजायाम्''' (२.२.१२) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् अधिकरणवाचिना क्तेन सुपा सह  न तत्पुरुषः समासः च |'''</big>
 
<big>यथा—</big>
 
 
<big>इदम् एषाम् आसितम् – आस् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, आसित इति प्रातिपदिकं निष्पन्नम् | अधिकरणार्थे आसितम् इति क्तप्रत्ययान्तशब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते '''अधिकरणवाचिना च''' (२.२.१३) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषाम् आसितम् |</big>
 
 
<big>अत्र प्रश्नः उदेति यत् आसितम् इति क्तप्रत्ययान्तस्य योगे षष्ठी विभक्तिः कथं प्राप्यते इति ?</big>
 
 
<big>'''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण कृद्योगे अनुक्तकर्तुः अनुक्तकर्मणः च षष्ठी विधीयते इति जानीमः | किन्तु '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इति ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति । '''क्तक्तवतू निष्ठा''' ( १.१.२६) इति सूत्रेण क्तश्च क्तवतुश्च प्रत्ययौ निष्ठासंज्ञौ भवतः । '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इति सूत्रे निष्ठा इत्यनेन क्तक्तवत्वोः ग्रहणं भवति । '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण क्तप्रत्ययस्य योगे अनुक्तकर्तुः अनुक्तकर्मणः च या षष्ठी प्राप्ता अस्ति तस्य निषेधः भवति '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इति सूत्रेण । अतः क्तप्रत्ययस्य योगे षष्ठी न प्राप्यते एव तर्हि कथं षष्ठीतत्पुरुषसमासः जायते ?</big>
 
 
<big>अत्र उच्यते यत् '''अधिकरणवाचिनश्च''' ( २.३.६८)</big> <big>इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति | अर्थात् अधिकरणार्थे क्तस्य योगे षष्ठी स्यात् | इदं सूत्रं '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इति निषेधस्य अपवादः | यथा इदम् एषाम् आसितम् | इदम् एषां शयितम् | इदम् अहेः सुप्तम् | इदं वनकपेः यातम् | इदम् एषां भुक्तम् | इदम् एषाम् अशितम् | इदम् एषां गतम् | '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण प्रतिषेधे प्राप्ते पुनः षष्ठी विधीयते '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रेण | '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रं '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रस्य अपवादः अस्ति |</big>
 
 
<big>इदम् एषाम् आसितम् इत्यत्र आस् इति अकर्मकधातुः ध्रौव्यार्थे अस्ति इति कृत्वा '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण अधिकरणार्थे क्तप्रत्ययः विधीयते, अतः आसितम् इति रूपं लभ्यते | अत्र क्तप्रत्ययः अधिकरणार्थे विहितः इत्यतः अधिकरणम् उक्तं भवति येन अधिकरणस्य प्रथमाविभक्तिः एव जायते | इदम् इति अधिकरणवाचिशब्दः , आसितम् इति क्तान्तेन उक्तः इति कृत्वा इदम् इति प्रथमाविभक्तौ अस्ति | सामान्यतया अधिकरणस्य सप्तमीविभक्तिः जायते यदि अधिकरणं प्रत्ययेन अनुक्तं भवति | परन्तु अत्र क्तप्रत्ययेन अधिकरणम् उक्तम् इत्यतः अधिकरणस्य प्रथमा जायते | आसितम् इत्यनेन इदम् इति अधिकरणम् उक्तम् परन्तु इमे इति कर्तारः तु अनुक्ताः सन्ति | तर्हि आसितम् इति क्तप्रत्ययान्तस्य योगे इमे इति कर्तॄणां षष्ठी प्राप्ता अस्ति '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण | तस्याः षष्ठेः निषेधः क्रियते '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण | पुनः '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे कर्तुः षष्ठी विभक्तिर्भवति | आसितम् इति क्तान्तस्य योगे अनुक्तकर्तरि षष्ठी विभक्तिः जायते | अतः एषाम् इति षष्ठ्यन्तं जायते | वाक्यं भवति एषां इदम् आसितम् इति |</big>
<big>इदम् एषाम् आसितम् इत्यत्र आस् इति अकर्मकधातुः ध्रौव्यार्थे अस्ति इति कृत्वा '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण अधिकरणार्थे क्तप्रत्ययः विधीयते, अतः आसितम् इति रूपं लभ्यते | अत्र क्तप्रत्ययः अधिकरणार्थे विहितः इत्यतः अधिकरणम् उक्तं भवति येन अधिकरणस्य प्रथमाविभक्तिः एव जायते | इदम् इति अधिकरणवाचिशब्दः , आसितम् इति क्तान्तेन उक्तः इति कृत्वा इदम् इति प्रथमाविभक्तौ अस्ति | सामान्यतया अधिकरणस्य सप्तमीविभक्तिः जायते यदि अधिकरणं प्रत्ययेन अनुक्तं भवति | परन्तु अत्र क्तप्रत्ययेन अधिकरणम् उक्तम् इत्यतः अधिकरणस्य प्रथमा जायते | आसितम् इत्यनेन इदम् इति अधिकरणम् उक्तम् परन्तु इमे इति कर्तारः तु अनुक्ताः सन्ति | तर्हि आसितम् इति क्तप्रत्ययान्तस्य योगे इमे इति कर्तॄणां षष्ठी प्राप्ता अस्ति '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण | तस्याः षष्ठेः निषेधः क्रियते '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण | पुनः '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे कर्तुः षष्ठी विभक्तिर्भवति | आसितम् इति क्तान्तस्य योगे अनुक्तकर्तरि षष्ठी विभक्तिः जायते | अतः एषाम् इति षष्ठ्यन्तं जायते | वाक्यं भवति एषाम् इदम् आसितम् इति |</big>
 
 
<big>एवमेव अन्येषु उदाहरणेषु अपि द्रष्टव्यम् |</big>
 
 
<big>इदम् एषां गतं – गम् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, गत इति प्रातिपदिकं निष्पन्नम् | अधिकरणार्थे गतम् इति क्तप्रत्ययान्तस्य शब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्तः आसीत् तस्य निषेधः क्रियते '''अधिकरणवाचिना च''' (२.२.१३) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषां गतम् |</big>
 
 
<big>इदम् एषां भुक्तम् – भुज् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, भुक्त इति प्रातिपदिकं निष्पन्नम् | अधिकरणार्थे भुक्तम् इति क्तप्रत्ययान्तस्य शब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्त आसीत् तस्य निषेधः क्रियते '''अधिकरणवाचिना च''' (२.२.१३) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषां भुक्तम् |</big>
 
 
<big>'''एकस्मिन् वाक्ये कर्तुः कर्मणः च द्वयोः प्राप्तिः चेत्'''</big> -
 
 
 
<big><u>'''एकस्मिन् वाक्ये कर्तुः कर्मणः च द्वयोः प्राप्तिः चेत्'''</u></big> -
 
 
<big>यदि '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण अधिकरणार्थे क्तप्रत्ययः विहितः तर्हि एकस्मिन्नेव वाक्ये कर्तृकर्मणी द्वे अपि अनुक्ते भवितुम् अर्हतः | एवं चेत् '''अधिकरणवाचिनश्च''' ( २.३. ६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे अनुक्तकर्तुः षष्ठी विभक्तिर्भवति वा नो चेत् अनुक्तकर्मणः भवति वा नो चेत् द्वयोः अपि भवति वा ?</big>
 
 
<big>अस्य प्रश्नस्य समाधानार्थं किञ्चित् सूत्रक्रमविषये चिन्तनीयं भवति | क्तप्रत्ययान्तशब्दः तु कृदन्तः वर्तते इति कारणेन '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण कृद्योगे अनुक्ते कर्तरि कर्मणि च षष्ठी स्यात् | किन्तु अस्य सूत्रस्य नियमनं क्रियते '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इत्यनेन | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रेण कर्तृकर्मणोः उभयोः प्राप्तिः यस्मिन् कृति वर्तते तत्र कर्मण्येव षष्ठी विभक्तिर्भवति, न तु कर्तरि | पुनः '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण '''कर्तृकर्मणोः कृति''' (२.३.६५) इति प्राप्ता षष्ठी प्रतिषिध्यते | अनेन ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति | पुनः '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति इत्युक्तम् | '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रं तु '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इत्यस्य अपवादः अस्ति |</big>
<big>अस्य प्रश्नस्य समाधानार्थं किञ्चित् सूत्रक्रमविषये चिन्तनीयं भवति | क्तप्रत्ययान्तशब्दः तु कृदन्तः वर्तते इति कारणेन '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण कृद्योगे अनुक्ते कर्तरि कर्मणि च षष्ठी स्यात् | किन्तु अस्य सूत्रस्य नियमनं क्रियते '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इत्यनेन | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रेण कर्तृकर्मणोः उभयोः प्राप्तिः यस्मिन् कृति वर्तते तत्र कर्मण्येव षष्ठी विभक्तिर्भवति, न तु कर्तरि | पुनः '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण '''कर्तृकर्मणोः कृति''' (२.३.६५) इति सूत्रेण प्राप्तायाः षष्ठ्याः प्रतिषेधः | अनेन ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति | पुनः '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति इत्युक्तम् | '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रं तु '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इत्यस्य अपवादः अस्ति |</big>
 
 
<big>अधो भागे कोष्ठके अष्टाध्य्यायाः आधारेण सूत्राणां क्रमः उच्यते -</big>
Line 1,807 ⟶ 1,835:
|-
|'''<big>उभयप्राप्तौ कर्मणि ( २.३.६६)</big>'''
|<big>'''कर्तृकर्मणोः कृति'''<nowiki> (२.३.६५) इत्यस्य नियमनम् | उभयप्राप्तौ कर्मणि एव षष्ठी</nowiki></big>
|<big>नियमसूत्रं</big>
|-
|'''<big>क्तस्य च वर्तमाने ( २.३. ६७)</big>'''
|<big>'''मतिबुद्धिपूजार्थेभ्यश्'''च ( ३.२.१८८) इत्यनेन वर्तमानार्थे विहितस्य क्तस्य योगे षष्ठी भवति कर्तुः '''क्तस्य च वर्तमाने''' इत्यनेन सूत्रेण ।</big>
|<big>अपवादसूत्रम्अपवादसूत्रं</big> <big>'''(न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३. ६९) इत्यस्य)'''</big>
|-
|'''<big>अधिकरणवाचिनश्च ( २.३.६८)</big>'''
|<big>'''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः'''<nowiki>( ३.४.७६) इत्यनेन अधिकरणार्थे विहितस्य क्तस्य योगे षष्ठी भवति '''अधिकरणवाचिनश्च'''<nowiki> इत्यनेन |</nowiki></big>
|<big>अपवादसूत्रम्अपवादसूत्रं</big> <big>'''(न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३. ६९) इत्यस्य)'''</big>
|-
|'''<big>न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३. ६९)</big>'''
|<big>'''कर्तृकर्मणोः कृति''' (२.३.६५) इति प्राप्ता षष्ठी प्रतिषिध्यते</big>
|<big>निषेधकसूत्रं</big> <big>'''(कर्तृकर्मणोः कृति''' ( २.३.६५) इत्यस्य )'''</big>
|}
 
 
<big>एतादृशक्रमं मनसि निधाय अग्रे उदाहरणं नीत्वा पश्यामः |</big>
 
 
<big>'''एषाम् इदं भुक्तम् ओदनस्य''' | अस्मिन् उदाहरणे भुज् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, भुक्त इति प्रातिपदिकं निष्पन्नम् | नपुंसकलिङ्गे भुक्तम् इति रूपं भवति | अधिकरणार्थे भुक्तम् इति क्तप्रत्ययान्तस्य योगे '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रेण षष्ठी विभक्तिर्भवति इत्युक्तम् | अस्माकम् उदाहरणे तु कर्ता, कर्म च द्वयमपि अनुक्तम् |</big>
 
 
<big>'''''एषाम् इदं भुक्तम् ओदनस्य''''' इति उदाहरणस्य लटि वाक्यमेवं सम्भवति - '''इमे अस्मिन् ओदनं भुञ्जते''' इति | अत्र ''कर्ता इमे'', ''कर्म ओदनम्, अधिकरणम् अस्मिन्, भुञ्जते इति क्रियापदम्'' | अस्मिन् वाक्ये कर्ता, कर्म च उल्लेखितं वर्तते |</big>
 
 
<big>'''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति इत्युक्तम् | सूत्रे कर्तुः भवति वा नो चेत् कर्मणः भवति वा इति नोक्तम् | परन्तु सूत्रक्रमम् आधारीकृत्य वयं पश्यामः चेत् आदौ '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रेणैव कृद्योगे षष्ठी प्राप्ता आसीत् कर्तुः कर्मणः च, तस्य नियमनं क्रियते '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रेण | तर्हि यत्र उभयप्राप्तिः अस्ति एकस्मिन्नेव कृति तर्हि कर्मणि एव षष्ठी स्यात् '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इत्यस्य आधारेण | अतः अस्माकं प्रकृतोदाहरणे कृद्योगे कर्मणः एव षष्ठी स्यात् न तु कर्तुः | अतः '''''एभिः इदं भुक्तम् ओदनस्य''' इति वाक्यं स्यात् |'' परन्तु '''एषाम् इदं भुक्तम् ओदनस्य''' इति वाक्यं दृश्यते व्याख्यानेषु, तर्हि तत् कथं सिद्धयति इति चिन्तनीयम् ''|''</big>
 
 
<big>'''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रस्य न्यासव्याख्यायामेवम्</big> <big>उक्तं यत् यत्र कर्ता एव संभवति तत्र कर्तरि</big> <big>षष्ठी</big> <big>भवति, यथा – इदम् एषाम् आसितमिति | अत्र आसेः (आस्-धातोः) अकर्मकत्वात् कर्ता एव सम्भवति, न कर्म | यत्र तु कर्म कर्ता द्वयमपि सम्भवति तत्र उभयत्रापि षष्ठी भवति, यथा – इदम् एषां भुक्तम् ओदनस्य इति | भुजेः ( भुज्-धातोः) सकर्मकत्वात् कर्म अपि अस्ति एव ओदनः | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति नियमः कस्मात् न भवति? '''कर्त्तृकर्मणोः कृति''' ( २.३.६५ ) इत्यस्याः षष्ठ्याः प्राप्तेः एव नियमो विज्ञायते | `'''अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या।प।१९) इति, `मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्`''' (व्या।प।१०) इति वा |</big>
 
<big>'''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रस्य न्यासव्याख्यायामेवम्</big> <big>उक्तं यत् यत्र कर्ता एव संभवति तत्र कर्तरि</big> <big>षष्ठी</big> <big>भवति, यथा – इदम् एषाम् आसितमिति | अस्य एव लटि वाक्यम् अस्ति - अस्मिन् इमे आसते | अत्र आसेः (आस्-धातोः) अकर्मकत्वात् कर्ता एव सम्भवति, न कर्म | यत्र तु कर्म, कर्ता च द्वयमपि सम्भवति तत्र उभयत्रापि षष्ठी भवति, यथा – इदम् एषां भुक्तम् ओदनस्य इति | भुजेः ( भुज्-धातोः) सकर्मकत्वात् कर्म अपि अस्ति एव ओदनः | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति नियमः कस्मात् न भवति? '''कर्तृकर्मणोः कृति''' ( २.३.६५ ) इत्यस्याः षष्ठ्याः प्राप्तेः एव नियमो विज्ञायते | `'''अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` इति, `मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्`''' इति वा |</big>
 
 
<big>बालमनोरमायामेवम् उक्तम् - इदमेषां भुक्तमोदनस्य इत्यत्र तु कर्तृकर्मणोद्वयोरपि षष्ठी इति | 'उभयप्राप्तौ' इति नियमस्तु न प्रवर्तते, '''मध्येऽपवादन्यायेन''' कर्तृकर्मणोः कृति इति षष्ठ्या एव तत् नियमाभ्युपगमात् |</big>
 
 
<big>एतत् कथं वा सिद्धयति इति ज्ञातुं '''१)`अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा, २) मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषाद्वयं ज्ञातव्यम् | एकया परिभाषया एव कार्यं सिद्धयति तथापि द्वयोः पठनं वयं कुर्मः |</big>
 
१) <big>'''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषा | विधिः वा प्रतिषेधः वा अनन्तरस्यैव अव्यवहितस्यैव भवति न तु व्यवहितस्य इति परिभाषार्थः | अस्यां परिभाषायां वा इति शब्दः '''च''' इत्यस्मिन् अर्थे प्रयुक्तः अस्ति |</big>
 
१) <big>'''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषा | अनन्तरस्यैव विधिः वा प्रतिषेधः वा अव्यवहितस्यैव भवति न तु व्यवहितस्य इति परिभाषार्थः | अस्यां परिभाषायां वा इति शब्दः '''<u>च</u>''' इत्यस्मिन् अर्थे प्रयुक्तः अस्ति |</big>
<big>'''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रे उक्तं यत् उभयप्राप्तिः यस्मिन् कृति तत्र कर्मणि एव षष्ठी स्यात् | अस्मिन् सूत्रे कर्तुः षष्ठी न स्यात् इति यः प्रतिषेधः वर्तते, सः प्रतिषेधः अनन्तरस्यैव अव्यवहितस्यैव भवति न तु व्यवहितस्य इति | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रस्य साक्षात् परं '''क्तस्य च वर्तमाने''' ( २.३. ६७) इति सूत्रम् अस्ति | अतः यदि '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रेण उक्तस्य प्रतिषेधस्य कार्यम् अनन्तरस्य अव्यवहितस्य '''क्तस्य च वर्तमाने''' ( २.३. ६७) इति सूत्रे एव भवितुम् अर्हति अस्याः परिभाषायाः आधारेण तर्हि अस्य सूत्रस्य निषेधः न भवति '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रे |</big>
 
२) <big>'''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषा | अनया परिभाषया सूत्रपाठे सामान्यशास्त्रमध्ये पठितानि विशेषसूत्राणि (अपवादसूत्राणि) स्वापेक्षया पूर्वाणि एव तानि बाधन्ते न तु पराणि इति परिभाषार्थः । मध्ये पठिता: अपवादाः पूवस्यैव विधेः बाधकाः भवन्ति, उत्तरस्य विधेः बाधकाः न भवन्ति इत्यर्थः |</big>
 
<big>'''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रे उक्तं यत् उभयप्राप्तिः यस्मिन् कृति तत्र कर्मणि एव षष्ठी स्यात् | अस्मिन् सूत्रे कर्तुः षष्ठी न स्यात् इति यः प्रतिषेधः वर्तते, सः प्रतिषेधः समीपवर्तिनः अव्यवहितस्यैव भवति न तु व्यवहितस्य इति | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रम् '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रस्य अनन्तरं वर्तते, अतः '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इत्यस्मिन् यः प्रतिषेधः वर्तते सः प्रतिषेधः समीपवर्तिनः अव्यवहितस्य सूत्रस्य एव बाधां करोति | अतः '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रम् '''कर्तृकर्मणोः कृति''' ( २.३.६५) , '''क्तस्य च वर्तमाने''' ( २.३. ६७) इति सूत्रद्वयमेव बाधते | फलितार्थः एवं यत् '''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषायाः आधारेण '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रेण '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रस्य प्रतिषेधः न स्यात् | एवञ्चेत् '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रम् '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रं न बाधते इत्यतः कर्तुः कर्मणः च षष्ठीविभक्तिः भवितुम् अर्हति '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रेण |</big>
<big>सामान्यशास्त्रम् अस्ति '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रं, विशेषशास्त्रम् अस्ति '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति विशेषसूत्रं '''कर्तृकर्मणोः कृति''' ( २.३.६५)''',''' '''क्तस्य च वर्तमाने''' ( २.३. ६७), '''अधिकरणवाचिनश्च''' (२.३.६८), '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३. ६९) इति सूत्राणां मध्ये पठितं वर्तते इति कारणात् इदं सूत्रं केवलं '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति अव्यवहितं पूर्वसूत्रम् एव बाधते न तु पराणि सूत्राणि | अनया परिभाषया '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रं केवलं '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति पूर्वसूत्रस्य एव बाधकम् अस्ति न तु अन्येषां परसूत्राणाम् | अतः '''अधिकरणवाचिनश्च''' (२.३.६८) इति सूत्रेण कर्तृकर्मणोद्वयोरपि षष्ठी भवितुम् अर्हति न तु केवलं कर्तुः एव | अतः एव इदमेषां भुक्तमोदनस्य इति उदाहरणं सम्भवति |</big>
 
<big>आहत्य यत्र कर्ता कर्म च द्वयमपि अनुक्तं एकस्मिन्नेव वाक्ये अपि च क्तप्रत्ययः अधिकरणार्थे विहितः तत्र द्वयोः षष्ठीविभक्तिः भवति '''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः बलेन अथवा '''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषायाः बलेन | कथञ्चित् अपि वयं समर्थयितुं शक्नुमः |</big>
 
२) <big>'''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषा | अनया परिभाषया सूत्रपाठे सामान्यशास्त्रमध्ये पठितानि विशेषसूत्राणि (अपवादसूत्राणि) स्वापेक्षया पूर्वाणि एव तानि बाधन्ते न तु पराणि इति परिभाषार्थः | मध्ये पठिताः अपवादाः पूवस्यैव विधेः बाधकाः भवन्ति, उत्तरस्य विधेः बाधकाः न भवन्ति इति भाष्ये स्पष्टतया उक्तम्</big>
<big>'''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) =  ध्रौव्यागतिप्रत्यवसानार्थेभ्यः यः क्तो विहितः सः अधिकरणे भवति | ध्रौव्यार्थकेभ्यः ( स्थिरतावाचकेभ्यः) , गत्यर्थकेभ्यः, प्रत्यवसानार्थकेभ्यः( भोजनार्थकेभ्यः) च धातुभ्यः अधिकरणर्थे क्तप्रत्ययः विधीयते | '''चाद्यथाप्राप्तम्''' - अस्मिन् सूत्रे अधिकरणार्थे क्तप्रत्ययः विधीयते इत्यतः कर्मार्थे, भावार्थे तस्य निषेधः न स्यात्, एतदर्थं सूत्रे चकारग्रहणम् अस्ति | अतः यथाप्राप्तं कर्त्रर्थे, कर्मार्थे, भावार्थे च क्तप्रत्ययस्य समुच्चयः क्रियते | सूत्रे चकारग्रहणेन यथाप्राप्तं कर्त्रर्थे, कर्मार्थे ,भावार्थे च क्तप्रत्ययः विधीयते | ध्रौव्यार्थाः अकर्मकाः, प्रत्यवसानार्थाः अभ्यवहारार्थाः ( food) इति स्वनिकायप्रसिद्धिः |  निकाय इत्युक्ते विषयः इत्यर्थः | ध्रौव्यं नाम स्थैर्यम्, स्थिरता | सूत्रे ध्रौव्यशब्देन स्थिरता इत्यस्मिन् अर्थे ये धातवः सन्ति तेषां सर्वेषां ग्रहणं भवति | एवमेव गत्यर्थकानां प्रत्यवसानार्थकानां च ग्रहणं भवति | ध्रौव्यं च गतिश्च प्रत्यवसानं च तेषाम् इतरेतरयोगद्वन्द्वः ध्रौव्यगतिप्रत्यवसानानि, तानि अर्थः येषां ते ध्रौव्यगतिप्रत्यवसानार्थाः, तेभ्यः ध्रौव्यगतिप्रत्यवसानार्तेभ्यः '''|''' क्त प्रथमान्तम् अधिकरणे सप्तम्यन्तं, चाव्ययं, ध्रौव्यगतिप्रत्यवसानार्तेभ्यः पञ्चम्यन्तम् '''|''' '''कृदतिङ्''' ( ३.१.९३) इत्यस्य अधिकारः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अधिकरणे ध्रौव्यगतिप्रत्यवसानार्थेभ्यः कृत् क्त च |'''</big>
 
 
 
<big>सामान्यशास्त्रम् अस्ति '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रं, विशेषशास्त्रम् अस्ति '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति विशेषसूत्रं '''कर्तृकर्मणोः कृति''' ( २.३.६५)''',''' '''क्तस्य च वर्तमाने''' ( २.३. ६७), '''अधिकरणवाचिनश्च''' (२.३.६८), '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३. ६९) इति सूत्राणां मध्ये पठितं वर्तते इति कारणात् '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रं केवलं '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति अव्यवहितं पूर्वसूत्रम् एव बाधते न तु पराणि सूत्राणि | अनया परिभाषया '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रं केवलं '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति पूर्वसूत्रस्य एव बाधकम् अस्ति न तु अन्येषां परसूत्राणां '''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः बलेन | अतः '''अधिकरणवाचिनश्च''' (२.३.६८) इति सूत्रेण कर्तृकर्मणोद्वयोरपि षष्ठी भवितुम् अर्हति न तु केवलं कर्तुः एव | अतः एव इदमेषां भुक्तमोदनस्य इति उदाहरणं सम्भवति |</big>
 
 
<big>आहत्य यत्र कर्ता, कर्म च द्वयमपि अनुक्तं एकस्मिन्नेव वाक्ये अपि च क्तप्रत्ययः अधिकरणार्थे विहितः तत्र द्वयोः षष्ठीविभक्तिः भवति '''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः बलेन अथवा '''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषायाः बलेन | कथञ्चित् अपि वयं समर्थयितुं शक्नुमः |</big>
 
 
 
<big>अत्र अन्यापि परिभाषा वर्तते - '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्''' इति | अस्याः परिभाषायाः अर्थः एवमस्ति - सूत्रपाठक्रमे पूर्वपठितानि विशेषशास्त्राणि स्व-अव्यवहितानि सामान्यशास्त्राणि एव बाधन्ते न तु व्यवहितानि | यथा सूत्रपाठक्रमे '''एत्येधत्यूठसु''' ( ६.१.८९) इति विशेषशास्त्रं, तदव्यवहितसामान्यशास्त्रं '''एङि पररूपं''' (६.१.९४) इति, अतः तदेव बाधते न तु व्यवहितम् '''ओमाङोश्च''' (६.१.९५) इति पररूपम् | एत्येधत्यूठ्सु इत्यनेन सूत्रेण विधीयमाना वृद्धिः पररूपगुणयोः अपवादः भवति | अत्र बाध्यविशेषचिन्तापक्षे पररूपविधायकसूत्रे द्वे स्तः – १) '''एङि पररूपम्''' (६-१ -९४), २) '''ओमाङोश्च''' ( ६ -१ -९५) इति | अनयोः द्वयोः मध्ये केन सूत्रेण विहितस्य पररूपस्य बाधकं भवति इति जिज्ञासायां '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्''' इति एषा परिभाषा आरब्धा |</big>
 
 
 
<big>बाधकशास्त्रस्य आकाङ्क्षा जायते , मम बाध्यम् किमति ?</big>
 
<big>तदा प्रथमोपस्थितत्वाद् अनन्तरं शास्त्रमन्वेति | अतः आकाङ्क्षा शान्ता | तदनन्तरं विद्यमानं शास्त्रं न बाधते आकाङ्क्षायाः अभावात् | किञ्च व्यवहितस्यापि बाधे विप्रतिषेधे परं कार्यम् इति शास्त्रस्य बाधकल्पना वक्तव्या यतोहि तेन सूत्रेण परशास्त्रस्य प्राबल्यं बोध्यते, अनेन बाधकशास्त्रस्य पूर्वशास्त्रस्य प्राबल्यबोधने विरोधः स्पष्टः एव |</big>
 
 
 
 
 
<big>तेन अव + एहि (आ + इहि ) इति स्थितिः | महाभाष्ये उक्तं उअत् धातूपसर्गयोः अन्तरङ्गत्वात्‌ आ + इहि इति प्रथमं कार्यम्‌ | आ + इहि इत्यत्र आङ्-उपसर्गस्य 'इहि' इत्यस्य इकारेण सह गुणैकादेशे कृते '''आद्गुणः''' (६.१.८७) इत्यनेन सूत्रेण '''एहि''' इति रूपं प्राप्यते |</big>
 
 
<big>अव + एहि इति स्थितौ बहूनि सूत्राणि प्रसक्तानि | अत्र सूत्रक्रमः एवमसति -</big>
{| class="wikitable"
|+
!<big>सूत्रक्रमः</big>
!<big>सूत्रार्थः</big>
!<big>सम्बन्धः</big>
|-
|<big>'''वृद्धिरेचि''' (६.१.८८)</big>
|<big>अवर्णात् एच्-वर्णे परे संहितायाम् पूर्वपरयोः एकः वृद्धि-एकादेशः भवति ।</big>
|<big>उत्सर्गसूत्रम्</big>
|-
|<big>'''एत्येधत्यूठ्सु''' (६.१.८९)</big>
|<big>अवर्णात् इण्-धातोः एध्-धातोः च एच्-वर्णे परे तथा ऊठ्-शब्दे परे संहितायाम् पूर्वपरयोः एकः वृद्धि-आदेशः भवति ।</big>
|<big>इदं सूत्रम् '''एङि पररूपं''' ( ६.१.९४) इत्यस्य अपवादः ।</big>
|-
|<big>'''एङि पररूपं''' ( ६.१.९४)</big>
|<big>अवर्णान्तात् उपसर्गात् एकारादि/ओकारादि-धातुरूपे परे पूर्वपरयोः एकः पररूपः आदेशः भवति ।</big>
|<big>इदं सूत्रं '''वृद्धिरेचि''' (६.१.८८) इत्यस्य अपवादः ।</big>
|-
|<big>'''ओमाङोश्च''' (६.१.९५)</big>
|<big>अवर्णात् ओम्-शब्दे परे आङ्-शब्दे च परे संहितायाम् पूर्वपरयोः एकः पररूप-एकादेशः भवति ।</big>
|<big>इदं सूत्रं '''वृद्धिरेचि''' (६.१.८८) इत्यस्य अपवादः ।</big>
|}
 
 
 
<big>अव + एहि इति स्थितौ '''वृद्धिरेचि''' (६.१.८८) इति सूत्रम् आदौ प्रसक्तम् अस्ति किन्तु तत्सूत्रं प्रबाध्य '''एङि पररूपं''' (६.१.९४) इत्यनेन पररूपादेशः प्राप्तः अस्ति | किन्तु '''एङि पररूपं''' (६.१.९४) इति सूत्रं बाधित्वा '''एत्येधत्यूठ्सु''' (६.१.८९) इत्यनेन वृद्ध्येकादेशः प्राप्तः अस्ति | अधुना '''ओमाङोश्च''' (६.१.९५) इत्यनेन पररूपादेशः अपि प्राप्तः अस्ति यतोहि '''अन्तादिवच्च''' (६.१.८४) इत्यनेन एहि इत्यत्र यः एकारः 'आ + इ' इत्यनयोः प्रतिनिधिः, तस्माच्च आङ्त्वं स्वीक्रियते | '''अन्तादिवच्च''' (६.१.८४) इत्यनेन 'एकः पूर्वपरयोः' अस्मिन् अधिकारे उक्तः एकादेशः पूर्वशब्दस्य अन्तिमवर्णवत्, तथा परशब्दस्य आदिवर्णवत् भवति | '''एत्येधत्यूठ्सु''' (६.१.८९) इति सूत्रं यथा '''एङि पररूपं''' (६.१.९४) इति सूत्रस्य अपवादः तथा '''ओमाङोश्च''' (६.१.९५) इत्यस्यापि अपवादः अस्ति वा?</big>
 
 
 
<big>'''एत्येधत्यूठ्सु''' (६.१.८९) इति विशेषसूत्रम् '''एङि पररूपं''' (६.१.९४) इति सामान्यशास्त्रम् अस्ति | अतः '''एत्येधत्यूठ्सु''' (६.१.८९) इति विशेषसूत्रम् स्वस्मात् अव्यवहितस्य परस्य '''एङि पररूपं''' (६.१.९४) इति सामान्यसूत्रस्य बाधां करोति न तु व्यवहितस्य '''ओमाङोश्च''' (६.१.९५) इति सूत्रस्य कार्यम् | '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्''' इति पारिभाषायाः बलेन अतः अत्र '''ओमाङोश्च''' (६.१.९५) इत्यनेन पररूपमेव भवति न तु वृद्धिः '''एत्येधत्यूठ्सु''' (६.१.८९) इति सूत्रेण | अतः अवेहि इति रूपं लभ्यते |</big>
 
 
<big>प्रकृतस्थितौ</big> '''<big>पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्</big>''' <big>इति पारिभाषायाः बलेन '''क्तस्य च वर्तमाने''' ( २.३.६७), '''अधिकरणवाचिनश्च''' ( २.३.६८) चेति द्वे विशेषसूत्रे (अपवादसूत्रे) तयोः अनन्तरं विद्यमानस्य सामान्यसूत्रस्य '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रस्य बाधां करोति |</big>
 
 
 
<big>'''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) =  ध्रौव्यगतिप्रत्यवसानार्थेभ्यः यः क्तो विहितः सः अधिकरणे भवति | ध्रौव्यार्थकेभ्यः ( स्थिरतावाचकेभ्यः) , गत्यर्थकेभ्यः, प्रत्यवसानार्थकेभ्यः( भोजनार्थकेभ्यः) च धातुभ्यः अधिकरणर्थे क्तप्रत्ययः विधीयते | '''चाद्यथाप्राप्तम्''' - अस्मिन् सूत्रे अधिकरणार्थे क्तप्रत्ययः विधीयते इत्यतः कर्मार्थे, भावार्थे तस्य निषेधः न स्यात्, एतदर्थं सूत्रे चकारग्रहणम् अस्ति | अतः यथाप्राप्तं कर्त्रर्थे, कर्मार्थे, भावार्थे च क्तप्रत्ययस्य समुच्चयः क्रियते | सूत्रे चकारग्रहणेन यथाप्राप्तं कर्त्रर्थे, कर्मार्थे ,भावार्थे च क्तप्रत्ययः विधीयते | ध्रौव्यार्थाः अकर्मकाः, प्रत्यवसानार्थाः अभ्यवहारार्थाः ( food) इति स्वनिकायप्रसिद्धिः |  निकाय इत्युक्ते विषयः इत्यर्थः | ध्रौव्यं नाम स्थैर्यम्, स्थिरता | सूत्रे ध्रौव्यशब्देन स्थिरता इत्यस्मिन् अर्थे ये धातवः सन्ति तेषां सर्वेषां ग्रहणं भवति | एवमेव गत्यर्थकानां प्रत्यवसानार्थकानां च ग्रहणं भवति | ध्रौव्यं च गतिश्च प्रत्यवसानं च तेषाम् इतरेतरयोगद्वन्द्वः ध्रौव्यगतिप्रत्यवसानानि, तानि अर्थः येषां ते ध्रौव्यगतिप्रत्यवसानार्थाः, तेभ्यः ध्रौव्यगतिप्रत्यवसानार्तेभ्यः '''|''' क्त प्रथमान्तम् अधिकरणे सप्तम्यन्तं, चाव्ययं, ध्रौव्यगतिप्रत्यवसानार्तेभ्यः पञ्चम्यन्तम् '''|''' '''कृदतिङ्''' ( ३.१.९३) इत्यस्य अधिकारः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अधिकरणे ध्रौव्यगतिप्रत्यवसानार्थेभ्यः कृत् क्त च |'''</big>
 
 
<big>अस्मिन् पद्ये अस्य सूत्रस्य उदाहरणं लभ्यते -</big>
 
 
'''<big>मुकुन्दस्यासितमिदमिदं यातं रमापतेः |</big>'''
 
'''<big>भुक्तम् एतद् अनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः |</big>'''
 
 
<big>श्लोकार्थः = श्रीकृष्णं द्रष्टुम् अभिलाषिण्यः गोप्यः उक्तवत्यः - इदं मुकुन्दस्य उपवेशनस्थानम् इति | एतत् मुकुन्दस्य गमनागमनमार्गः इति | एतत् मुकुन्दस्य भोजनस्थानम् इति |</big>
 
<big>'''मुकुन्दस्यासितमिति इदम्''' - एतत् श्रीकृष्णस्य उपवेशनस्थानम् | आसितम् = आस्यते अस्मिन् इति आसनस्थानम् इत्यर्थः | ध्रौव्योदाहरणमिदम् | आस उपवेशने इति ध्रौव्यर्थकधातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण | आस इति धातुः सेट् इति कृत्वा इडागमः भूत्वा आसितम् इति रूपं लभ्यते | पक्षे आसेः अकर्मकत्वात् कर्तरि भावे च अपि क्तप्रत्ययान्तं रूपं लभ्यते | '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रे चकारग्रहणात् कर्त्रर्थे कर्मार्थे भावार्थे च क्तप्रत्ययः विधीयते | आस इति धातुः अकर्मकः इति कारणेन क्तप्रत्ययः कर्त्रर्थे भावार्थे च भवति | '''गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च''' ( ३.४.७२) इति सूत्रेण गत्यर्थकेभ्यः अकर्मकेभ्यः च धातुभ्यः क्तप्रत्ययः कर्त्रर्थे भवति | '''तयोरेव कृत्यक्तखलर्थाः''' ( ३.४.७०) इति सूत्रेण क्तप्रत्ययः कर्मार्थे भावार्थे च भवति | कर्तरि प्रयोगे वाक्यं भवति मुकुन्दः आसितः इति | भावे प्रयोगे वाक्यं भवति तेन आसितम् इति |</big>
 
<big>'''इदंमुकुन्दस्यासितमिति यातं रमापतेःइदम्''' =- इदंएतत् रमापतेःश्रीकृष्णस्य गमनागमनस्य मार्गः इत्यर्थःउपवेशनस्थानम् | यातम्आसितम् = गम्यतेआस्यते अत्रअस्मिन् इति यातं, मार्गःआसनस्थानम् इत्यर्थः | गत्यर्थोदाहरणमिदम् ध्रौव्योदाहरणमिदम् | याआस गतिप्रापणयोःउपवेशने इति गत्यर्थकधातुतःध्रौव्यर्थकधातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण | आस इति धातुः सेट् इति कृत्वा इडागमः भूत्वा आसितम् इति रूपं लभ्यते | पक्षे आसेः अकर्मकत्वात् कर्तरि भावे च अपि क्तप्रत्ययान्तं रूपं लभ्यते | '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रे चकारग्रहणात् कर्त्रर्थे, कर्मार्थे, भावार्थे च क्तप्रत्ययः विधीयते यथाप्राप्तम् | गत्यर्थकेभ्यःआस धातुभ्यःइति धातुः अकर्मकः इति कारणेन क्तप्रत्ययः कर्त्रर्थे, भावार्थे च भवति | कर्त्रर्थे '''गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च''' ( ३.४.७२) इति सूत्रेण क्तप्रत्ययःगत्यर्थकेभ्यः विधीयतेअकर्मकेभ्यः अतः वाक्यंधातुभ्यः भवतिक्तप्रत्ययः रमापतिः इदं यातःकर्त्रर्थे भवति | कमार्थे क्तप्रत्ययः विधीयते '''तयोरेव कृत्यक्तखलर्थाः''' ( ३.४.७०) इति सूत्रेण, अतःक्तप्रत्ययः कर्मार्थे भावार्थे च भवति | कर्तरि प्रयोगे वाक्यं भवति मुकुन्दः अस्मिन् आसितः इति | भावे प्रयोगे वाक्यं भवति तेन इदंअस्मिन् यातम्आसितम् इति |</big>
 
 
<big>'''इदं यातं रमापतेः''' = इदं रमापतेः गमनागमनस्य मार्गः इत्यर्थः | यातम् = गम्यते अत्र इति यातं, मार्गः इत्यर्थः | गत्यर्थोदाहरणमिदम् | या गतिप्रापणयोः इति गत्यर्थकधातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण | '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रे चकारग्रहणात् कर्त्रर्थे, कर्मार्थे, भावार्थे च क्तप्रत्ययः विधीयते यथाप्राप्तम् | गत्यर्थकेभ्यः धातुभ्यः क्तप्रत्ययः कर्त्रर्थे, भावार्थे च भवति | कर्त्रर्थे '''गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च''' ( ३.४.७२) इति सूत्रेण क्तप्रत्ययः विधीयते, अतः वाक्यं भवति रमापतिः अस्मिन् यातः | भावार्थे क्तप्रत्ययः विधीयते '''तयोरेव कृत्यक्तखलर्थाः''' ( ३.४.७०) इति सूत्रेण, अतः वाक्यं भवति तेन अस्मिन् यातम् इति |</big>
 
 
<big>'''एतत् अनन्तस्य भुक्तम्''' = एतत् श्रीकृष्णस्य भोजनस्थानम् इत्यर्थः | भुक्तं = भुज्यते अस्मिन् इति भुक्तम् | प्रत्यवसानोदहरणमिदम् | भुज पालनाभ्यवहारयोः इति प्रत्यवसानार्थकधातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण | '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रे चकारग्रहणात् कर्त्रर्थे, कर्मार्थे, भावार्थे च क्तप्रत्ययः विधीयते | भुज् इति धातुः प्रत्यवसानार्थकः, अतः भावार्थे अपि क्तप्रत्ययः विधीयते, अतः वाक्यं भवति तेन अस्मिन् भुक्तम् इति |</big>
 
 
<big>'''एतत् अनन्तस्य भुक्तम्''' = एतत् श्रीकृष्णस्य भोजनस्थानम् इत्यर्थः | भुक्तं = भुज्यते अस्मिन् इति भुक्तम् | प्रत्यवसानोदहरणमिदम् | भुज पालनाभ्यवहारयोः इति प्रत्यवसानार्थकधातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण | '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रे चकारग्रहणात् कर्त्रर्थे कर्मार्थे भावार्थे च क्तप्रत्ययः विधीयते | भुज् इति धातुः प्रत्यवसानार्थकः अतः कर्मार्थे अपि क्तप्रत्ययः विधीयते, अतः वाक्यं भवति तेन इदं भुक्तम् इति |</big>
 
<big>'''इति गोप्यः दिदृक्षवः ऊचुः''' = एवं दर्शनाभिलाषिण्यः गोप्यः उक्तवत्यः | ऊचुः इति लिट्लकारे प्रथमपुरुषे बहुवचनान्तं रूपम् | ऊचुः नाम उक्तम् इत्यर्थः |</big>
 
<big>'''अधिकरणवाचिनश्च''' ( २.३. ६८) = अधिकरणवाचिनः क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति | '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण अधिकरणार्थे यः क्तप्रत्ययः विधीयते तस्य ग्रहणं भवति प्रकृतसूत्रे | क्तप्रत्ययः निष्ठासंज्ञकः इति कृत्वा तस्य योगे कर्तुः कर्मणः षष्ठी न भवति '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण | प्रकृतसूत्रं '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रस्य अपवादः अस्ति | अधिकरणं वक्ति इति अधिकरणवाची, तस्य अधिकरणवाचिनः | अधिकरणवाचिनः षष्ठ्यन्तं, चाव्ययम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् षष्ठी इत्यस्य अनुवृत्तिः | '''क्तस्य च वर्तमाने''' ( २.३.६७) इति सूत्रात् क्तस्य इत्यस्य अनुवृत्तिः | '''अनभिहिते''' ( २.३.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अधिकरणवाचिनः''' '''क्तस्य च षष्ठी अनभिहिते''' '''|''' यथा इदम् एषाम् आसितम् | इदम् एषां शयितम् | इदम् अहेः सुप्तम् | इदं वनकपेः यातम् | इदम् एषां भुक्तम् | इदम् एषाम् अशितम् | इदम् एषां गतम् |</big>
----<big>६)     ''' '''कृद्योगे कर्मणि या षष्ठी प्राप्ता, तादृशस्य षष्ठ्यन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह समासः न भवति |</big>
 
<big>'''अधिकरणवाचिनश्च''' ( २.३. ६८) = अधिकरणवाचिनः क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति | '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण अधिकरणार्थे यः क्तप्रत्ययः विधीयते तस्य ग्रहणं भवति प्रकृतसूत्रे | क्तप्रत्ययः निष्ठासंज्ञकः इति कृत्वा तस्य योगे कर्तुः, कर्मणः च षष्ठी न भवति '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण | प्रकृतसूत्रं '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रस्य अपवादः अस्ति | अधिकरणं वक्ति इति अधिकरणवाची, तस्य अधिकरणवाचिनः | अधिकरणवाचिनः षष्ठ्यन्तं, चाव्ययम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् षष्ठी इत्यस्य अनुवृत्तिः | '''क्तस्य च वर्तमाने''' ( २.३.६७) इति सूत्रात् क्तस्य इत्यस्य अनुवृत्तिः | '''अनभिहिते''' ( २.३.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अधिकरणवाचिनः''' '''क्तस्य च षष्ठी अनभिहिते''' '''|''' यथा इदम् एषाम् आसितम् | इदम् एषां शयितम् | इदम् अहेः सुप्तम् | इदं वनकपेः यातम् | इदम् एषां भुक्तम् | इदम् एषाम् अशितम् | इदम् एषां गतम् |</big>
====== '''<big>कर्मणि च (२.२.१४)</big>''' ======
 
 
 
----
 
====== <big>६)     ''' '''</big>'''<big>कर्मणि च (२.२.१४)</big>''' ======
 
 
 
<big>'''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रस्य द्वारा कर्मार्थे विहितं षष्ठ्यन्तं समर्थेन सुबन्तेन सह न समस्यते | अर्थात् कर्मणि च या षष्ठी सा न समस्यते | कर्मणि सप्तम्यन्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''कर्मणि षष्ठी सुप्  सुपा सह न तत्पुरुषः समासः च |'''</big>
 
Line 1,881 ⟶ 1,993:
 
<big>दुह् प्रपूरणे इति धातुतः घञ् इति प्रत्ययः क्रियते चेत् दोहः इति कृत्प्रत्ययान्तः शब्दः निष्पन्नः भवति | वाक्यं भवति आश्चर्यः अगोपेन गवां दोहः इति | दोहः इति पदस्य कर्म अस्ति गाः इति पदम्  | सामान्यतया अनुक्तकर्मणि द्वितीयाविभक्तिः भवति इति जानीमः, परन्तु कृत्प्रत्ययस्य योगे अनुक्ते कर्मणि द्वितीया न भवति अपि तु षष्ठी भवति '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रेण | गाः इति कर्मणः कृत्योगे '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रेण षष्ठीविभक्तिः प्राप्यते येन गवाम् इति रूपं सिद्धं भवति  | अगोपः इति अनुक्तकर्तुः '''कर्तृकरणयोस्तृतीया''' ( २.३.१८) इति सूत्रेण तृतीया एव जायते | गवां इति षष्ठ्यन्तस्य पदस्य  दोहः इति कृदन्त-शब्देन सह यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण,  तस्य निषेधः क्रियते '''कर्मणि च''' (२.२.१४) इति सूत्रेण, अतः षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – आश्चर्यः गवां दोहः अगोपेन  इति |</big>
----
----<big>७)   कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः  | कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह न समस्यते |</big>
 
====== <big>७)  </big> '''<big>तृजकाभ्यां कर्तरि (२.२.१५)</big>''' ======
 
 
 
====== '''<big>तृजकाभ्यां कर्तरि (२.२.१५)</big>''' ======
<big>कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा न समस्यते | कृद्योगे कर्मणि या षष्ठी प्राप्ता '''कर्तृकर्मणोः कृति''' (२.४.६५) इत्यनेन, तदन्तस्य सुबन्तस्य कर्त्रर्थे तृच्प्रत्ययान्तेन, अकशब्दान्तेन च सह न समस्यते | अक-शब्देन ण्वुल्-प्रत्ययस्य ग्रहणं भवति  | '''ण्वुल्तृचौ''' (३.१.१३३) इति सूत्रेण ण्वुल्-प्रत्ययः विधीयते, अनुबन्धलोपानन्तरं वु इति अवशिष्यते | '''युवोरनाकौ''' ( ७.१.१) इति सूत्रेण वु इत्यस्य स्थाने अक इति आदेशः भवति | अतः '''तृजकाभ्यां कर्तरि''' (२.२.१५)  इति सूत्रे अक इति शब्दस्य द्वारा ण्वुल्-प्रत्ययान्तस्य एव ग्रहणं भवति  | कर्तरि इति पदं तृजाकाभ्याम् इति पदस्य विशेषणम् | अर्थात् तृच्-प्रत्ययः अथवा अक-प्रत्ययः कर्त्रर्थे विहितः इत्यर्थः | तृच् -प्रत्ययः, ण्वुल् -प्रत्ययः च कृत्प्रत्ययौ स्तः  | '''कर्तृकर्मणोः कृति''' (२.४.६५) इति सूत्रेण कृत्प्रयोगे कर्तरि कर्मणि च षष्ठीविभक्तिः भवति | तृच् च अकश्च तयोरितरेतरयोगद्वन्द्वः तृजकौ, ताभ्यां तृजकाभ्याम् | तृजकाभ्यां तृतीयान्तं, कर्तरि सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् कर्तरि तृजकाभ्यां सुब्भ्यां सह न तत्पुरुषः समासः''' |</big>
 
Line 1,912 ⟶ 2,027:
 
<big>५)</big> <big>त्रिभुवनस्य विधाता = त्रिभुवनविधाता, त्रिभुवनस्य विधाता | अत्र समासः कथं सिद्ध्यति ?</big>
 
 
 
<big>विधाता इति तृजन्तः शब्दः अस्ति, तस्य योगे कर्मणः या षष्ठी प्राप्ता सा न समस्यते यतोहि '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण षष्ठीसमासः निषिध्यते खलु ?</big>
 
<big>तस्य समाधानं काशिकायां दीयते यत् विधातृ इति वस्तुतः तृच्प्रत्ययान्तः शब्दः एव नास्ति अपि तु तृन्प्रत्ययान्तः | '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण केवलं तृजन्तस्य पदस्य एव समासः निषिध्यते न तु तृन्-प्रत्ययान्तस्य  | अत्र तु विधातृ इति प्रातिपदिकं तु तृन्प्रत्ययं योजयित्वा निर्मितम् अस्ति, अतः '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति  सूत्रेण निषेधः प्रवृत्तः न भवति  | अतः त्रिभुवनविधाता इति षष्ठीसमासः सिद्ध्यति  | त्रिभुवनम् इति पदम् अपि समस्तपदमेव | तस्य विग्रहः अस्ति त्रयाणां भुवनानां समाहारः इति  | अयं द्विगुसमासः अस्ति | तस्य विवरणम् अग्रे करिष्यते  |</big>
 
 
 
<big>त्रिभुवनविधाता इत्यत्र समासं प्राप्तुम् अन्यमार्गः अपि अस्ति  | विधाता इति तृजन्तः इत्येव मत्त्वा अन्यमार्गेण समासं प्राप्तुं शक्यते | यथा – त्रिभुवनम् इति कर्मणः अविवक्षां कृत्वा, शेषत्वस्य विवक्षां कृत्वा षष्ठी विभक्तिः यदा जायते '''षष्ठी शेषे''' ( २.३.५०) इति सूत्रेण तदा तु षष्ठीसमासः भवितुम् अर्हति '''षष्ठी''' ( २.२.८) इति सूत्रेण | सम्बन्धार्थे षष्ठी यदा विधीयते तदा तु '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण निषेधं कर्तुं सामार्थ्यं न भवति यतोहि विधाता इति तृजन्तस्य कर्म न भवति त्रिभुवनम्, अतः समासः तु सिद्ध्यति एव  | शेषषष्ठ्या सिद्धयति समासः इति कैयटेन उक्तम् |</big>
 
 
<big>एवमेव घटानां निर्माता इत्यत्रापि चिन्तनीयम्</big> <big>|</big>
----
----<big>८)     कर्त्रर्थे षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः न भवति | कर्तरि षष्ठ्या अकेन न समासः |</big>
 
====== <big>८)    </big> '''<big>कर्तरि च (२.२.१६)</big>''' ======
 
 
 
====== '''<big>कर्तरि च (२.२.१६)</big>''' ======
<big>कर्तरि षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः न भवति | कर्तरि षष्ठ्या अकेन न समासः  | अक इति स्वयं प्रत्ययः नास्ति परन्तु ण्वुल्-प्रत्ययस्य स्थाने अक इति आदेशः भवति | कर्तरि सप्तम्यन्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तृजकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् अक इत्यस्य अनुवृत्तिः भूत्वा तस्य विभक्तेः परिवर्तनं कृत्वा अकेन इति तृतीयान्तं पदं भवति  | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''कर्तरि''' '''षष्ठी सुप् अकेन सुपा सह विभाषा न तत्पुरुषः समासः च |'''</big>
 
<big>यथा—</big>
 
 
<big>भवतः शायिका = शीङ् स्वप्ने इति धातुतः ण्वुल् प्रत्ययं योजयित्वा शायिका इति स्त्रीलिङ्गपदं निष्पन्नम् | भवतः इति शब्दे कर्तरि षष्ठीविभक्तिः अस्ति | भवतः शायिका, अनयोः पदयोः योगे यः षष्ठीसमासः प्राप्तः, तस्य निषेधः भवति '''कर्तरि च''' (२.२.१६) इति सूत्रेण | अतः भवत्शायिका इति समासः न भवति |</big>
 
<big>'''तृजकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् केवलम् अक इत्यस्य अनुवृत्तिः भवति '''कर्तरि च''' (२.२.१६) इति सूत्रे | अत्र  तृच् इत्यस्य अनुवर्तनं न भवति यतो हि तृच् प्रत्ययः '''कर्तरि कृत्''' ( ३.४.६७) इति सूत्रस्य आधारेण कर्त्रर्थे एव विधीयते | फलितार्थः एवं यत् यदि प्रत्ययः कर्त्रर्थे अस्ति तर्हि कर्ता उक्तः भवति तेनैव प्रत्ययेन | कर्ता उक्तः इति कारणेन कर्तुः प्रथमा एव भवति, अतः कर्त्रर्थे षष्ठी न भवत्येव | यदा कर्त्रर्थे षष्ठी एव न सम्भवति तर्हि तया सह समासस्य प्रसङ्गः अपि न सम्भवति | यदि प्राप्तिः एव नास्ति तर्हि तस्य निषेधः कथं वा स्यात् | अतः '''कर्तरि च''' (२.२.१६) इति सूत्रे '''तृजकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् केवलम् अक इत्यस्य अनुवृत्तिः भवति न तु तृच् इत्यस्य |</big>
 
 
 
<big>'''ण्वुल्तृचौ''' (३.१.१३३) इति सूत्रेण सर्वेभ्यः धातुभ्यः ण्वुल्‌, तृच्‌ च विहितौ भवतः | '''कर्तरि कृत्‌''' (३.४.६७) इत्यनेन कर्त्रर्थे एतौ प्रत्ययौ भवतः | ण्वुल् प्रत्ययस्य स्थाने अक इति आदेशः भवति '''युवोरनाकौ''' (७.१.१) इति सूत्रेण | ण्वुल् इति प्रत्ययः अपि सामान्यतया कर्त्रर्थे एव भवति तर्हि कर्तुः कथं षष्ठी प्राप्यते ?</big>
 
 
 
<big>किन्तु '''धात्वर्थनिर्देशे ण्वुल्''' इति वार्तिकेन ण्वुल्प्रत्ययः धात्वर्थे भवति | धात्वर्थः नाम भावार्थः इति | अयं ण्वुल्प्रत्ययान्तः शब्दः स्त्रीलिङ्गे भवति | अतः ण्वुल्प्रत्ययान्तस्य योगे अनुक्तकर्तुः षष्ठी भवति '''कर्तृकर्मणोः कृति''' (२.४.६५) इति सूत्रेण | एतादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन षष्ठीसमासः प्राप्तः अस्ति '''षष्ठी''' ( २.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''कर्तरि च''' (२.२.१६) इति सूत्रेण |</big>
 
 
<big>'''पर्यायार्हर्णोत्पत्तिषु ण्वुच् ( ३.३.१११)''' =एतेष्वर्थेषु धातोः ण्वुच् प्रत्ययो भावार्थे स्त्रीलिङ्गे च भवति | पर्यायः परिपाटी (क्रमः) | अर्हणम् अर्हः, योग्यता | ऋणं तत् यत् परस्य धार्यते | उत्पत्तिः जन्म |</big>
 
 
<big>ण्वुच्प्रत्ययान्तस्य योगे अनुक्तकर्तुः षष्ठी भवति '''कर्तृकर्मणोः कृति''' (२.४.६५) इति सूत्रेण | एतादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन षष्ठीसमासः प्राप्तः अस्ति '''षष्ठी''' ( २.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''कर्तरि च''' (२.२.१६) इति सूत्रेण |</big>
Line 1,946 ⟶ 2,076:
 
<big>३) भवतः आसिका -</big> <big>भवतः उपवेशनस्य क्रमः |</big>
 
 
<big>ण्वुच्प्रत्ययस्य ण्वुल्प्रत्ययस्य रूपेषु भेदः नास्ति केवलं स्वरे एव भेदः भवति |</big>
 
 
<big>षष्ठीसमासनिषेधकप्रकरणं समाप्तम् | अग्रे एकं सूत्रम् अस्ति षष्ठीसमासस्य विषये | अधुना पर्यन्तं समाससूत्रेषु '''विभाषा''' (२.१.११) इति सूत्रस्य अधिकारः इत्यनेन कारणेन समासस्य विधिः विकल्पेन भवति स्म | अग्रेमे सूत्रे समासः नित्यं भवति | तदनन्तरं पुनः समासः विकल्पेन भवति |</big>
----
----<big>८)</big> <big>क्रिडार्थे, जीविकार्थे च यः अकप्रत्ययान्तः, तदन्तेन सुबन्तेन सह षष्ठ्यन्तस्य सुबन्तस्य समासः नित्यः, तत्पुरुषश्च समासो भवति |</big>
 
====== <big>८)</big> '''<big>नित्यं क्रीडाजीविकयोः (२.२.१७)</big>''' ======
 
 
====== '''<big>नित्यं क्रीडाजीविकयोः (२.२.१७)</big>''' ======
<big>क्रिडार्थे, जीविकार्थे च यः अकप्रत्ययान्तः, तदन्तेन सुबन्तेन सह षष्ठ्यन्तस्य सुबन्तस्य समासः नित्यः, तत्पुरुषश्च समासो भवति | तृच्-प्रत्ययः तु क्रिडार्थे, जीविकार्थे च न भवति इति कारणेन अत्र केवलम् ण्वुल्प्रत्ययस्य (अकप्रत्ययस्य) ग्रहणं भवति | '''संज्ञायाम्''' ( ३.३.१०९) इति सूत्रेण संज्ञायां ण्वुल्प्रत्ययः ( अक) भावार्थे विधीयते | नित्यम् इति पदस्य ग्रहणेन आगम्यमाना विभाषा इति अधिकारस्य निवृत्तिः भवति | समासस्य नित्यता इति कारणेन पक्षे विग्रहवाक्यं न भवति | क्रीडा च जीविका च तयोरितरेतरयोगद्वन्द्वः क्रीडाजीविके, तयोः क्रीडाजीविकयोः | नित्यमिति क्रियाविशेषणं द्वितीयान्तं, क्रीडाजीविकयोः सप्तम्यन्तम्  | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''तृजकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् अक इत्यस्य अनुवृत्तिः भूत्वा तस्य विभक्तेः परिवर्तनं कृत्वा अकेन इति तृतीयान्तं पदं भवति  | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् क्रीडाजीविकयोः अकेन सुपा सह नित्यं तत्पुरुषः समासः |'''</big>
 
 
<big>'''संज्ञायाम्''' ( ३.३.१०९) = संज्ञायां विषये धातोः ण्वुल् प्रत्ययो भावार्थे भवति | भावार्थे ण्वुल्प्रत्ययस्य विधानात् कर्ता कर्म च अनुक्तं भवति | यत्र उभयप्राप्तिः अस्ति, तत्र '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रेण अनुक्तकर्मणः षष्ठी भवति | एतादृशस्य कर्मणः षष्ठीसमासः न भवति '''कर्मणि च''' ( २.२.१४) इति सूत्रेण | परन्तु '''नित्यं क्रीडाजीविकयोः''' (२.२.१७) इति सूत्रेण समासनिषेधस्य प्रतिषेधः क्रियते | अर्थात् पुनः समासविधानं क्रियते '''नित्यं क्रीडाजीविकयोः''' (२.२.१७) इति सूत्रेण | '''नित्यं क्रीडाजीविकयोः''' (२.२.१७) इति सूत्रं '''विभाषा''' ( २.१.११) इत्यस्मात् अधिकारसूत्रात् विभाषा इति पदस्य अनुवृत्तेः निषेधं कृत्वा षष्ठीसमासस्य नित्यविधानं करोति |</big>
 
 
<big>'''संज्ञायाम्''' ( ३.३.१०९) इति सूत्रस्य उदहरणानि -</big>
 
 
<big>यथा - उद्दालकपुष्पभञ्जिका ( breaking uddalaka flowers) | वारणपुष्पप्रचायिका ( gathering of varana flowers) | अभ्यूषखादिका ( eating of अभ्यूष-grains)| आचोषखादिका | शालभञ्जिका ( kind of game played in the east of India) | तालभञ्जिका |</big>
 
<big>प्रकृतसूत्रे क्रीडार्थे इत्यस्य उदाहरणानि –</big>
 
 
१) <big>उद्दालकपुष्पाणां भञ्जनम् = उद्दालकपुष्पभञ्जिका (उद्दालकानां पुष्पाणि भज्यन्ते यत्र क्रीडायां - a sort of game played by the people in which Uddālaka flowers are broken or crushed). | उद्दालकपुष्पभञ्जिका इति नित्यसमासः भवति '''नित्यं क्रीडाजीविकयोः''' (२.२.१७) इति सूत्रेण  |</big>
 
 
<big>उद्दालकस्य पुष्पाणि इति षष्ठीसमासः भूत्वा तदनन्तरम् उद्दालकपुष्पाणां भञ्जनम् इति उद्दालकपुष्पभञ्जिका इति समासः भवति | भञ्ज् इति धातुतः '''संज्ञायाम्''' (३.३.१०९) इति सूत्रेण भावार्थे ण्वुल्प्रत्ययः विधीयते | अलौकिकविग्रहः –</big>
 
 
<big>उद्दालकपुष्प + आम् + भञ्जिका +सु  | '''नित्यं क्रीडा जीविकयोः''' (२.२.१७) इत्यनेन सूत्रेण षष्ठीसमासः विधीयते नित्यरूपेण | समाससंज्ञानन्तरं समासस्य प्रातिपदिकसंज्ञा भवति, सुब्लुक् भवति, उद्दालकपुष्प इत्यस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति  | अतः उद्दालकपुष्पभञ्जिका इति समासः निष्पद्यते  | अत्र समासः नित्यः इत्यतः स्वपदविग्रहवाक्यं न भवति अपि तु अस्वपदविग्रहवाक्यमेव भवति |</big>
 
 
<big>२) वारणपुष्पाणां प्रचायिका = वारणप्रचायिका ( वारणपुष्पाणां चयनस्य क्रीडा) | वारणप्रचायिका इति नित्यसमासः भवति '''नित्यं क्रीडाजीविकयोः''' (२.२.१७) इति सूत्रेण  |</big>
 
 
<big>३) अभ्यूषाणां ( खाद्यपदार्थः) खादिका = अभ्यूषखादिका ( खाद्यपदार्थस्य खादनस्य क्रीडा ) |</big>
 
 
<big>४) ओचोषाणां खादिका = ओचोषखादिका ( ( खाद्यपदार्थस्य खादनस्य क्रीडा ) |</big>
 
<big>एवमेव शालभञ्जिका, तालभञ्जिका |</big>
 
 
<big>एतानि सर्वाणि उदाहरणानि क्रीडायाः संज्ञा अस्ति | व्यस्तप्रयोगे संज्ञायाः ज्ञानं न भवति इत्यतः समासः नित्यः | यथा वयं जानीमः नित्यसमासः अविग्रहः अथवा अस्वपदविग्रहः भवति | उद्दालकपुष्पाणां भञ्जनं , वारणपुष्पाणां प्रचयनम् इति एवं रीत्या अस्वपदविग्रहं कृत्वा एतेषाम् अर्थः अवगन्तव्यः | किन्तु एतेषाम् अलौकिकविग्रहवाक्यं तु न सम्भवति |</big>
 
 
 
<big>'''जीविकार्थे उदाहरणानि''' –</big>
 
<big>दन्तानां लेखकः = दन्तलेखकः | दन्तानां कला-विशेषेण यः जीविकां चालयति अथवा लोकप्रचलितानां दन्तकथानां लेखकः दन्तलेखकः इति उच्यते | यः तादृशीं कथां लिखित्वा जीवनं चालयति सः इत्यर्थः | दन्तानां लेखनेन जीवति इति अस्वपद-विग्रहवाक्यम् | अत्र लिख् इति धातुतः ण्वुल् प्रत्ययं योजयित्वा, अकादेशं कृत्वा लेखकः इति रूपं सिद्धम् | अत्र '''ण्वुल्तृचौ''' ( ३.१.१३३) इति सूत्रेण कर्त्रर्थे ण्वुल्प्रत्ययः विहितः अस्ति | ण्वुल्प्रत्ययः कर्त्रर्थे अस्ति इति कृत्वा कर्ता उक्तः, कर्म च अनुक्तं भवति | अनुक्तकर्मणः षष्ठी भवति कृद्योगे '''कर्तृकर्मणोः कृति''' ( २.३.६५) इत्यनेन सूत्रेण | तादृशस्य षष्ठ्यन्तस्य षष्ठीसमासः प्राप्तः अस्ति '''षष्ठी''' ( २.२.८) इति सूत्रेण | पुनः '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण तादृशस्य षष्ठीसमासस्य निषेधः प्राप्तः आसीत् | अधुना '''नित्यं क्रीडाजीविकयोः''' (२.२.१७) इति सूत्रेण तस्य निषेधस्य प्रतिप्रसवः क्रियते, येन पुनः नित्यसमासः भवति | अतः दन्तलेखकः इति समासः निष्पद्यते |</big>
 
 
 
<big>प्रकृतसूत्रे '''क्रीडाजीविकयोः''' इति पदस्य प्रयोजनं किम् ?</big>
 
 
<big>'''ओदनस्य भोजकः''' इत्यत्र क्रीडार्थः अपि नास्ति, जीविकार्थः अपि नास्ति इत्यतः</big> <big>'''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण षष्ठीसमासस्य निषेधः क्रियते |</big> <big>'''ओदनस्य भोजकः''' इत्यत्र षष्ठीसमासः नास्ति यतोहि क्रीडा अथवा जीविका इत्यस्मिन् अर्थे नास्ति ण्वुल्प्रत्ययः |</big> <big>क्रीडार्थे अथवा जीविकार्थे अस्ति चेत् '''नित्यं क्रीडा जीविकयोः''' (२.२.१७) इति सूत्रेण षष्ठीसमासः नित्यरूपेण जायते |</big>
----
----<big>१०)</big> <big>ईषत् इति अव्ययम् अकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति |</big>
 
'''<big>ईषदकृता (२.२.७)</big>'''
 
====== <big>१०)</big> '''<big>ईषदकृता (२.२.७)</big>''' ======
<big>ईषत् इति अव्ययम् अकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति | न कृत् अकृत्, तेन अकृता | ईषद् अव्ययम्, अकृता तृतीयान्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''ईषद् सुप्  अकृता सुपा सह विभाषा तत्पुरुषः समासः |'''</big>
 
 
<big>अस्मिन् सूत्रे '''ईषद्''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरम् ईषद् इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |</big>
Line 1,998 ⟶ 2,147:
<big>ईषत् पिङ्गलः = ईषत्पिङ्गलः  | किञ्चित् पीतः इत्यर्थः  | पिङ्गल इति शब्दः अव्युत्पन्नः अतः अकृदन्तं पदम् अस्ति |</big>
 
<big>ईषत् रक्तम् = ईषद्रक्तम्  | किञ्चित् रक्तवर्णीयम् इत्यर्थः | अत्र रक्तम् इति कृदन्तं क्तान्तम् अस्ति इति कृत्वा '''ईषदकृता''' (२.२.७) इत्यनेन तु समासः न भवति  | तर्हि अत्र समासः कथं जातः ?</big>
 
 
<big>तर्हि अत्र समासः कथं जातः ?</big>
 
<big>'''ईषद् गुणवचनेनेति वक्तव्यम्''' इति वार्तिकेन ईषद् इति शब्दः गुणवाचिना सुबन्तेन सह समस्यते | प्रकृतसूत्रे अकृता इति पदं निष्कास्य गुणवचनेन इति वक्तव्यम् आसीत् | अनेन उन्नतः, रक्तं, पीतम् इत्यादिभिः गुणवचनैः सह ईषत् इति पदस्य समासः स्यात् | अतः ईषत्कडारः ( 'a somewhat proud) , ईषत्पिङ्गलः ( a little brownish) , ईषत्विकटः ( a little hideous), ईषदुन्नतः ( a little raised), ईषत्पीतम् ( a little yellow.), ईषद्रक्तम् ( a little red) इत्यादयः समासाः भवन्ति ।</big>
 
 
<big>'''ईषद् गुणवचनेनेति''' '''वक्तव्यम्''' इति वार्तिकेन रक्तम् इति गुणवाचिना कृदन्तपदेन सह अपि ईषत् इति शब्दस्य समासः भवति इत्युक्तम्  | अतः ईषद्रक्तम् इति समासः जातः |</big>
 
 
 
<big>ईषद् गार्ग्यः = अत्र समासः न भवति | गार्ग्यः इति पदं गुणवाचि नास्ति अतः '''ईषद् गुणवचनेनेति वक्तव्यम्''' इत्यनेन वार्तिकेन समासः न भवति  | गार्ग्यः इति पदं यद्यपि अकृदन्तं तथापि '''ईषदकृता''' (२.२.७) इत्यनेन अपि समासः न भवति यतोहि अत्र समासः अनभीष्टः अस्ति |</big>
 
 
 
<big>प्रश्नः उदेति यत् ईषत् इति अव्ययस्य योगे किमर्थं समासः क्रियते इति ? केवलम् ईषत् इति पदस्य अन्येन सुबन्तेन योजयामः चेत् रूपं लभ्यते खलु?</big>
page_and_link_managers, Administrators
5,097

edits