14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

no edit summary
No edit summary
No edit summary
(5 intermediate revisions by the same user not shown)
Line 70:
|-
|34) [https://archive.org/download/samAsaH-pANini-dvArA/188_tatpuruShasaMasaH-punnasmaraNam_2024-04-27.mp4 tatpuruShasaMasaH-punnasmaraNam_2024-04-27]
|-
|35) [https://archive.org/download/samAsaH-pANini-dvArA/189_tatpuruShasamAsaH-punnasmaraNam_2024-05-04.mp4 tatpuruShasamAsaH-punnasmaraNam_2024-05-04]
|}
<big>'''<u>तत्पुरुषसमासः - सामान्यतत्पुरुषस्य सारांशः</u>'''</big>
Line 1,713 ⟶ 1,715:
<big>एवम् उपरि उक्तेषु अर्थेषु षष्ठीतत्पुरुषसमासः निषिध्यते  |</big>
|}
----
----<big>४)    </big><big>पूजार्थे, सत्कारार्थे, बुद्ध्यर्थे च यः क्तप्रत्ययः वर्तमानकालार्थे विधीयते, तदन्तेन सुबन्तेन सह षष्ठ्यन्तं सुबन्तं न समस्यते |</big>
 
====== <big>४)    </big>'''<big>क्तेन च पूजायाम् (२.२.१२)</big>''' ======
 
 
Line 1,771 ⟶ 1,773:
 
 
----
----<big>५)    </big> <big>अधिकरणार्थे विहितस्य क्तप्रत्ययस्य, तदन्तेन सुबन्तेन सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते |</big>
 
====== <big>५)    </big> '''<big>अधिकरणवाचिना च (२.२.१३)</big>''' ======
 
 
Line 1,863 ⟶ 1,865:
 
 
<big>'''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रस्य न्यासव्याख्यायामेवम्</big> <big>उक्तं यत् यत्र कर्ता एव संभवति तत्र कर्तरि</big> <big>षष्ठी</big> <big>भवति, यथा – इदम् एषाम् आसितमिति | अस्य एव लटि वाक्यम् अस्ति - अस्मिन् इमे आसते | अत्र आसेः (आस्-धातोः) अकर्मकत्वात् कर्ता एव सम्भवति, न कर्म | यत्र तु कर्म, कर्ता च द्वयमपि सम्भवति तत्र उभयत्रापि षष्ठी भवति, यथा – इदम् एषां भुक्तम् ओदनस्य इति | भुजेः ( भुज्-धातोः) सकर्मकत्वात् कर्म अपि अस्ति एव ओदनः | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति नियमः कस्मात् न भवति? '''कर्तृकर्मणोः कृति''' ( २.३.६५ ) इत्यस्याः षष्ठ्याः प्राप्तेः एव नियमो विज्ञायते | `'''अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या।प।१९) इति, `मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्`''' (व्या।प।१०) इति वा |</big>
 
 
Line 1,875 ⟶ 1,877:
 
 
<big>'''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रे उक्तं यत् उभयप्राप्तिः यस्मिन् कृति तत्र कर्मणि एव षष्ठी स्यात् | अस्मिन् सूत्रे कर्तुः षष्ठी न स्यात् इति यः प्रतिषेधः वर्तते, सः प्रतिषेधः समीपवर्तिनः अव्यवहितस्यैव भवति न तु व्यवहितस्य इति | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रम् '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रस्य अनन्तरं वर्तते, अतः '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इत्यस्मिन् यः प्रतिषेधः वर्तते सः प्रतिषेधः समीपवर्तिनः अव्यवहितस्य सूत्रस्य एव बाधां करोति | अतः '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रम् '''कर्तृकर्मणोः कृति''' ( २.३.६५) , '''क्तस्य च वर्तमाने''' ( २.३. ६७) इति सूत्रद्वयमेव बाधते | फलितार्थः एवं यत् '''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषायाः आधारेण '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रेण '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रस्य प्रतिषेधः न स्यात् | एवञ्चेत् '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रम् '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रं न बाधते इत्यतः कर्तुः कर्मणः च षष्ठीविभक्तिः भवितुम् अर्हति '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रेण |</big>
 
 
२) <big>'''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषा | अनया परिभाषया सूत्रपाठे सामान्यशास्त्रमध्ये पठितानि विशेषसूत्राणि (अपवादसूत्राणि) स्वापेक्षया पूर्वाणि एव तानि बाधन्ते न तु पराणि इति परिभाषार्थः | मध्ये पठिता:पठिताः अपवादाः पूवस्यैव विधेः बाधकाः भवन्ति, उत्तरस्य विधेः बाधकाः न भवन्ति इत्यर्थःइति |भाष्ये स्पष्टतया उक्तम्</big>
 
 
<big>सामान्यशास्त्रम् अस्ति '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रं, विशेषशास्त्रम् अस्ति '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति विशेषसूत्रं '''कर्तृकर्मणोः कृति''' ( २.३.६५)''',''' '''क्तस्य च वर्तमाने''' ( २.३. ६७), '''अधिकरणवाचिनश्च''' (२.३.६८), '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३. ६९) इति सूत्राणां मध्ये पठितं वर्तते इति कारणात् इदं सूत्रं केवलं '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति अव्यवहितं पूर्वसूत्रम् एव बाधते न तु पराणि सूत्राणि | अनया परिभाषया '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रं केवलं '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति पूर्वसूत्रस्य एव बाधकम् अस्ति न तु अन्येषां परसूत्राणाम् | अतः '''अधिकरणवाचिनश्च''' (२.३.६८) इति सूत्रेण कर्तृकर्मणोद्वयोरपि षष्ठी भवितुम् अर्हति न तु केवलं कर्तुः एव | अतः एव इदमेषां भुक्तमोदनस्य इति उदाहरणं सम्भवति |</big>
 
<big>सामान्यशास्त्रम् अस्ति '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रं, विशेषशास्त्रम् अस्ति '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति विशेषसूत्रं '''कर्तृकर्मणोः कृति''' ( २.३.६५)''',''' '''क्तस्य च वर्तमाने''' ( २.३. ६७), '''अधिकरणवाचिनश्च''' (२.३.६८), '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३. ६९) इति सूत्राणां मध्ये पठितं वर्तते इति कारणात् '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रं केवलं '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति अव्यवहितं पूर्वसूत्रम् एव बाधते न तु पराणि सूत्राणि | अनया परिभाषया '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रं केवलं '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति पूर्वसूत्रस्य एव बाधकम् अस्ति न तु अन्येषां परसूत्राणां '''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः बलेन | अतः '''अधिकरणवाचिनश्च''' (२.३.६८) इति सूत्रेण कर्तृकर्मणोद्वयोरपि षष्ठी भवितुम् अर्हति न तु केवलं कर्तुः एव | अतः एव इदमेषां भुक्तमोदनस्य इति उदाहरणं सम्भवति |</big>
 
<big>आहत्य यत्र कर्ता कर्म च द्वयमपि अनुक्तं एकस्मिन्नेव वाक्ये अपि च क्तप्रत्ययः अधिकरणार्थे विहितः तत्र द्वयोः षष्ठीविभक्तिः भवति '''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः बलेन अथवा '''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषायाः बलेन | कथञ्चित् अपि वयं समर्थयितुं शक्नुमः |</big>
 
<big>आहत्य यत्र कर्ता, कर्म च द्वयमपि अनुक्तं एकस्मिन्नेव वाक्ये अपि च क्तप्रत्ययः अधिकरणार्थे विहितः तत्र द्वयोः षष्ठीविभक्तिः भवति '''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः बलेन अथवा '''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषायाः बलेन | कथञ्चित् अपि वयं समर्थयितुं शक्नुमः |</big>
 
<big>अत्र अन्यापि परिभाषा वर्तते - '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्''' इति | अस्याः परिभाषायाः अर्थः एवमस्ति - सूत्रपाठक्रमे पूर्वपठितानि विशेषशास्त्राणि स्व-अव्यवहितानि सामान्यशास्त्राणि एव बाधन्ते न तु व्यवहितानि | यथा सूत्रपाठक्रमे '''एत्येधत्यूठसु''' ( ६.१.८९) इति विशेषशास्त्रं, तदव्यवहितसामान्यशास्त्रं '''एङि पररूपं''' ( ६.१.९४), अतः तदेव बाधते न तु व्यवहितम् '''ओमाङोश्च''' (६.१.९५) इति पररूपम् |</big>
 
 
<big>अत्र अन्यापि परिभाषा वर्तते - '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्''' इति | अस्याः परिभाषायाः अर्थः एवमस्ति - सूत्रपाठक्रमे पूर्वपठितानि विशेषशास्त्राणि स्व-अव्यवहितानि सामान्यशास्त्राणि एव बाधन्ते न तु व्यवहितानि | यथा सूत्रपाठक्रमे '''एत्येधत्यूठसु''' ( ६.१.८९) इति विशेषशास्त्रं, तदव्यवहितसामान्यशास्त्रं '''एङि पररूपं''' (६.१.९४) इति, अतः तदेव बाधते न तु व्यवहितम् '''ओमाङोश्च''' (६.१.९५) इति पररूपम् | एत्येधत्यूठ्सु इत्यनेन सूत्रेण विधीयमाना वृद्धिः पररूपगुणयोः अपवादः भवति | अत्र बाध्यविशेषचिन्तापक्षे पररूपविधायकसूत्रे द्वे स्तः – १) '''एङि पररूपम्''' (६-१ -९४), २) '''ओमाङोश्च''' ( ६ -१ -९५) इति | अनयोः द्वयोः मध्ये केन सूत्रेण विहितस्य पररूपस्य बाधकं भवति इति जिज्ञासायां '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्''' इति एषा परिभाषा आरब्धा |</big>
<big>तेन अव + एहि (आ + इहि ) इति स्थितिः | आ + इहि इत्यत्र आङ्-उपसर्गस्य 'इहि' इत्यस्य इकारेण सह गुणैकादेशे कृते '''आद्गुणः''' (६.१.८७) इत्यनेन सूत्रेण '''एहि''' इति रूपं प्राप्यते |अव + एहि इति स्थिते, '''वृद्धिरेचि''' (६.१.८८) इति सूत्रं बाधित्वा '''एत्येधत्यूठ्सु''' (६.१.८९) इत्यनेन वृद्ध्येकादेशः प्राप्तः अस्ति | परन्तु अत्र '''एत्येधत्यूठ्सु''' (६.१.८९) इति विशेषसूत्रम् '''एङि पररूपं''' ( ६.१.९४) इति अव्यवहितस्य सामान्यसूत्रस्य बाधां करोति न तु व्यवहितस्य '''ओमाङोश्च''' (६.१.९५) इति सूत्रस्य कार्यम् | '''पुर�तादपवादाः अनन्तरान् �विधीन् बाधन्ते नोत्तरान्''' इति पारिभाषायाः बलेन अत्र '''ओमाङोश्च''' (६.१.९५) इत्यनेन पररूपमेव भवति न तु वृद्धिः '''एत्येधत्यूठ्सु''' (६.१.८९) इति सूत्रेण | अतः अवेहि इति रूपं लभ्यते |</big>
 
 
<big>'''एत्येधत्यूठसु''' (६.१.८९) = अवर्णात् इण्-धातोः एध्-धातोः च एच्-वर्णे परे तथा ऊठ्-शब्दे परे संहितायाम् पूर्वपरयोः एकः वृद्धि-आदेशः भवति |</big>
 
<big>बाधकशास्त्रस्य आकाङ्क्षा जायते , मम बाध्यम् किमति ?</big>
 
<big>तदा प्रथमोपस्थितत्वाद् अनन्तरं शास्त्रमन्वेति | अतः आकाङ्क्षा शान्ता | तदनन्तरं विद्यमानं शास्त्रं न बाधते आकाङ्क्षायाः अभावात् | किञ्च व्यवहितस्यापि बाधे विप्रतिषेधे परं कार्यम् इति शास्त्रस्य बाधकल्पना वक्तव्या यतोहि तेन सूत्रेण परशास्त्रस्य प्राबल्यं बोध्यते, अनेन बाधकशास्त्रस्य पूर्वशास्त्रस्य प्राबल्यबोधने विरोधः स्पष्टः एव |</big>
<big>'''एङि पररूपम्''' (६.१.९४) = अवर्णान्तात् उपसर्गात् एकारादि/ओकारादि-धातुरूपे परे पूर्वपरयोः एकः पररूपः आदेशः भवति |</big>
 
 
 
<big>'''ओमाङोश्च''' ( ६.१.९५) = अवर्णात् ओम्-शब्दे परे आङ्-शब्दे च परे संहितायाम् पूर्वपरयोः एकः पररूप-एकादेशः भवति |</big>
 
 
<big>तेन अव + एहि (आ + इहि ) इति स्थितिः | महाभाष्ये उक्तं उअत् धातूपसर्गयोः अन्तरङ्गत्वात्‌ आ + इहि इति प्रथमं कार्यम्‌ | आ + इहि इत्यत्र आङ्-उपसर्गस्य 'इहि' इत्यस्य इकारेण सह गुणैकादेशे कृते '''आद्गुणः''' (६.१.८७) इत्यनेन सूत्रेण '''एहि''' इति रूपं प्राप्यते |</big>
 
 
<big>अव + एहि इति स्थितौ बहूनि सूत्राणि प्रसक्तानि | अत्र सूत्रक्रमः एवमसति -</big>
{| class="wikitable"
|+
!<big>सूत्रक्रमः</big>
!<big>सूत्रार्थः</big>
!<big>सम्बन्धः</big>
|-
|<big>'''वृद्धिरेचि''' (६.१.८८)</big>
|<big>अवर्णात् एच्-वर्णे परे संहितायाम् पूर्वपरयोः एकः वृद्धि-एकादेशः भवति ।</big>
|<big>उत्सर्गसूत्रम्</big>
|-
|<big>'''एत्येधत्यूठ्सु''' (६.१.८९)</big>
|<big>अवर्णात् इण्-धातोः एध्-धातोः च एच्-वर्णे परे तथा ऊठ्-शब्दे परे संहितायाम् पूर्वपरयोः एकः वृद्धि-आदेशः भवति ।</big>
|<big>इदं सूत्रम् '''एङि पररूपं''' ( ६.१.९४) इत्यस्य अपवादः ।</big>
|-
|<big>'''एङि पररूपं''' ( ६.१.९४)</big>
|<big>अवर्णान्तात् उपसर्गात् एकारादि/ओकारादि-धातुरूपे परे पूर्वपरयोः एकः पररूपः आदेशः भवति ।</big>
|<big>इदं सूत्रं '''वृद्धिरेचि''' (६.१.८८) इत्यस्य अपवादः ।</big>
|-
|<big>'''ओमाङोश्च''' (६.१.९५)</big>
|<big>अवर्णात् ओम्-शब्दे परे आङ्-शब्दे च परे संहितायाम् पूर्वपरयोः एकः पररूप-एकादेशः भवति ।</big>
|<big>इदं सूत्रं '''वृद्धिरेचि''' (६.१.८८) इत्यस्य अपवादः ।</big>
|}
 
 
 
<big>अव + एहि इति स्थितौ '''वृद्धिरेचि''' (६.१.८८) इति सूत्रम् आदौ प्रसक्तम् अस्ति किन्तु तत्सूत्रं प्रबाध्य '''एङि पररूपं''' (६.१.९४) इत्यनेन पररूपादेशः प्राप्तः अस्ति | किन्तु '''एङि पररूपं''' (६.१.९४) इति सूत्रं बाधित्वा '''एत्येधत्यूठ्सु''' (६.१.८९) इत्यनेन वृद्ध्येकादेशः प्राप्तः अस्ति | अधुना '''ओमाङोश्च''' (६.१.९५) इत्यनेन पररूपादेशः अपि प्राप्तः अस्ति यतोहि '''अन्तादिवच्च''' (६.१.८४) इत्यनेन एहि इत्यत्र यः एकारः 'आ + इ' इत्यनयोः प्रतिनिधिः, तस्माच्च आङ्त्वं स्वीक्रियते | '''अन्तादिवच्च''' (६.१.८४) इत्यनेन 'एकः पूर्वपरयोः' अस्मिन् अधिकारे उक्तः एकादेशः पूर्वशब्दस्य अन्तिमवर्णवत्, तथा परशब्दस्य आदिवर्णवत् भवति | '''एत्येधत्यूठ्सु''' (६.१.८९) इति सूत्रं यथा '''एङि पररूपं''' (६.१.९४) इति सूत्रस्य अपवादः तथा '''ओमाङोश्च''' (६.१.९५) इत्यस्यापि अपवादः अस्ति वा?</big>
 
 
 
<big>'''एत्येधत्यूठ्सु''' (६.१.८९) इति विशेषसूत्रम् '''एङि पररूपं''' (६.१.९४) इति सामान्यशास्त्रम् अस्ति | अतः '''एत्येधत्यूठ्सु''' (६.१.८९) इति विशेषसूत्रम् स्वस्मात् अव्यवहितस्य परस्य '''एङि पररूपं''' (६.१.९४) इति सामान्यसूत्रस्य बाधां करोति न तु व्यवहितस्य '''ओमाङोश्च''' (६.१.९५) इति सूत्रस्य कार्यम् | '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्''' इति पारिभाषायाः बलेन अतः अत्र '''ओमाङोश्च''' (६.१.९५) इत्यनेन पररूपमेव भवति न तु वृद्धिः '''एत्येधत्यूठ्सु''' (६.१.८९) इति सूत्रेण | अतः अवेहि इति रूपं लभ्यते |</big>
 
 
<big>प्रकृतस्थितौ</big> '''<big>पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्</big>''' <big>इति पारिभाषायाः बलेन '''क्तस्य च वर्तमाने''' ( २.३.६७), '''अधिकरणवाचिनश्च''' ( २.३.६८) चेति द्वे विशेषसूत्रे (अपवादसूत्रे) तयोः अनन्तरं विद्यमानस्य सामान्यसूत्रस्य '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रस्य बाधां करोति |</big>
 
 
 
Line 1,926 ⟶ 1,964:
 
<big>'''एतत् अनन्तस्य भुक्तम्''' = एतत् श्रीकृष्णस्य भोजनस्थानम् इत्यर्थः | भुक्तं = भुज्यते अस्मिन् इति भुक्तम् | प्रत्यवसानोदहरणमिदम् | भुज पालनाभ्यवहारयोः इति प्रत्यवसानार्थकधातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण | '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रे चकारग्रहणात् कर्त्रर्थे, कर्मार्थे, भावार्थे च क्तप्रत्ययः विधीयते | भुज् इति धातुः प्रत्यवसानार्थकः, अतः भावार्थे अपि क्तप्रत्ययः विधीयते, अतः वाक्यं भवति तेन अस्मिन् भुक्तम् इति |</big>
 
 
 
Line 1,935 ⟶ 1,974:
 
 
----
----<big>६)     ''' '''कृद्योगे कर्मणि या षष्ठी प्राप्ता, तादृशस्य षष्ठ्यन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह समासः न भवति |</big>
 
====== <big>६)     ''' '''</big>'''<big>कर्मणि च (२.२.१४)</big>''' ======
 
 
 
====== '''<big>कर्मणि च (२.२.१४)</big>''' ======
<big>'''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रस्य द्वारा कर्मार्थे विहितं षष्ठ्यन्तं समर्थेन सुबन्तेन सह न समस्यते | अर्थात् कर्मणि च या षष्ठी सा न समस्यते | कर्मणि सप्तम्यन्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''कर्मणि षष्ठी सुप्  सुपा सह न तत्पुरुषः समासः च |'''</big>
 
Line 1,951 ⟶ 1,993:
 
<big>दुह् प्रपूरणे इति धातुतः घञ् इति प्रत्ययः क्रियते चेत् दोहः इति कृत्प्रत्ययान्तः शब्दः निष्पन्नः भवति | वाक्यं भवति आश्चर्यः अगोपेन गवां दोहः इति | दोहः इति पदस्य कर्म अस्ति गाः इति पदम्  | सामान्यतया अनुक्तकर्मणि द्वितीयाविभक्तिः भवति इति जानीमः, परन्तु कृत्प्रत्ययस्य योगे अनुक्ते कर्मणि द्वितीया न भवति अपि तु षष्ठी भवति '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रेण | गाः इति कर्मणः कृत्योगे '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रेण षष्ठीविभक्तिः प्राप्यते येन गवाम् इति रूपं सिद्धं भवति  | अगोपः इति अनुक्तकर्तुः '''कर्तृकरणयोस्तृतीया''' ( २.३.१८) इति सूत्रेण तृतीया एव जायते | गवां इति षष्ठ्यन्तस्य पदस्य  दोहः इति कृदन्त-शब्देन सह यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण,  तस्य निषेधः क्रियते '''कर्मणि च''' (२.२.१४) इति सूत्रेण, अतः षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – आश्चर्यः गवां दोहः अगोपेन  इति |</big>
----
----<big>७)   कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः  | कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह न समस्यते |</big>
 
====== <big>७)  </big> '''<big>तृजकाभ्यां कर्तरि (२.२.१५)</big>''' ======
 
 
 
====== '''<big>तृजकाभ्यां कर्तरि (२.२.१५)</big>''' ======
<big>कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा न समस्यते | कृद्योगे कर्मणि या षष्ठी प्राप्ता '''कर्तृकर्मणोः कृति''' (२.४.६५) इत्यनेन, तदन्तस्य सुबन्तस्य कर्त्रर्थे तृच्प्रत्ययान्तेन, अकशब्दान्तेन च सह न समस्यते | अक-शब्देन ण्वुल्-प्रत्ययस्य ग्रहणं भवति  | '''ण्वुल्तृचौ''' (३.१.१३३) इति सूत्रेण ण्वुल्-प्रत्ययः विधीयते, अनुबन्धलोपानन्तरं वु इति अवशिष्यते | '''युवोरनाकौ''' ( ७.१.१) इति सूत्रेण वु इत्यस्य स्थाने अक इति आदेशः भवति | अतः '''तृजकाभ्यां कर्तरि''' (२.२.१५)  इति सूत्रे अक इति शब्दस्य द्वारा ण्वुल्-प्रत्ययान्तस्य एव ग्रहणं भवति  | कर्तरि इति पदं तृजाकाभ्याम् इति पदस्य विशेषणम् | अर्थात् तृच्-प्रत्ययः अथवा अक-प्रत्ययः कर्त्रर्थे विहितः इत्यर्थः | तृच् -प्रत्ययः, ण्वुल् -प्रत्ययः च कृत्प्रत्ययौ स्तः  | '''कर्तृकर्मणोः कृति''' (२.४.६५) इति सूत्रेण कृत्प्रयोगे कर्तरि कर्मणि च षष्ठीविभक्तिः भवति | तृच् च अकश्च तयोरितरेतरयोगद्वन्द्वः तृजकौ, ताभ्यां तृजकाभ्याम् | तृजकाभ्यां तृतीयान्तं, कर्तरि सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् कर्तरि तृजकाभ्यां सुब्भ्यां सह न तत्पुरुषः समासः''' |</big>
 
Line 1,982 ⟶ 2,027:
 
<big>५)</big> <big>त्रिभुवनस्य विधाता = त्रिभुवनविधाता, त्रिभुवनस्य विधाता | अत्र समासः कथं सिद्ध्यति ?</big>
 
 
 
<big>विधाता इति तृजन्तः शब्दः अस्ति, तस्य योगे कर्मणः या षष्ठी प्राप्ता सा न समस्यते यतोहि '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण षष्ठीसमासः निषिध्यते खलु ?</big>
 
<big>तस्य समाधानं काशिकायां दीयते यत् विधातृ इति वस्तुतः तृच्प्रत्ययान्तः शब्दः एव नास्ति अपि तु तृन्प्रत्ययान्तः | '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण केवलं तृजन्तस्य पदस्य एव समासः निषिध्यते न तु तृन्-प्रत्ययान्तस्य  | अत्र तु विधातृ इति प्रातिपदिकं तु तृन्प्रत्ययं योजयित्वा निर्मितम् अस्ति, अतः '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति  सूत्रेण निषेधः प्रवृत्तः न भवति  | अतः त्रिभुवनविधाता इति षष्ठीसमासः सिद्ध्यति  | त्रिभुवनम् इति पदम् अपि समस्तपदमेव | तस्य विग्रहः अस्ति त्रयाणां भुवनानां समाहारः इति  | अयं द्विगुसमासः अस्ति | तस्य विवरणम् अग्रे करिष्यते  |</big>
 
 
 
<big>त्रिभुवनविधाता इत्यत्र समासं प्राप्तुम् अन्यमार्गः अपि अस्ति  | विधाता इति तृजन्तः इत्येव मत्त्वा अन्यमार्गेण समासं प्राप्तुं शक्यते | यथा – त्रिभुवनम् इति कर्मणः अविवक्षां कृत्वा, शेषत्वस्य विवक्षां कृत्वा षष्ठी विभक्तिः यदा जायते '''षष्ठी शेषे''' ( २.३.५०) इति सूत्रेण तदा तु षष्ठीसमासः भवितुम् अर्हति '''षष्ठी''' ( २.२.८) इति सूत्रेण | सम्बन्धार्थे षष्ठी यदा विधीयते तदा तु '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण निषेधं कर्तुं सामार्थ्यं न भवति यतोहि विधाता इति तृजन्तस्य कर्म न भवति त्रिभुवनम्, अतः समासः तु सिद्ध्यति एव  | शेषषष्ठ्या सिद्धयति समासः इति कैयटेन उक्तम् |</big>
 
 
<big>एवमेव घटानां निर्माता इत्यत्रापि चिन्तनीयम्</big> <big>|</big>
----
----<big>८)     कर्त्रर्थे षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः न भवति | कर्तरि षष्ठ्या अकेन न समासः |</big>
 
====== <big>८)    </big> '''<big>कर्तरि च (२.२.१६)</big>''' ======
 
 
 
====== '''<big>कर्तरि च (२.२.१६)</big>''' ======
<big>कर्तरि षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः न भवति | कर्तरि षष्ठ्या अकेन न समासः  | अक इति स्वयं प्रत्ययः नास्ति परन्तु ण्वुल्-प्रत्ययस्य स्थाने अक इति आदेशः भवति | कर्तरि सप्तम्यन्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तृजकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् अक इत्यस्य अनुवृत्तिः भूत्वा तस्य विभक्तेः परिवर्तनं कृत्वा अकेन इति तृतीयान्तं पदं भवति  | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''कर्तरि''' '''षष्ठी सुप् अकेन सुपा सह विभाषा न तत्पुरुषः समासः च |'''</big>
 
<big>यथा—</big>
 
 
<big>भवतः शायिका = शीङ् स्वप्ने इति धातुतः ण्वुल् प्रत्ययं योजयित्वा शायिका इति स्त्रीलिङ्गपदं निष्पन्नम् | भवतः इति शब्दे कर्तरि षष्ठीविभक्तिः अस्ति | भवतः शायिका, अनयोः पदयोः योगे यः षष्ठीसमासः प्राप्तः, तस्य निषेधः भवति '''कर्तरि च''' (२.२.१६) इति सूत्रेण | अतः भवत्शायिका इति समासः न भवति |</big>
 
<big>'''तृजकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् केवलम् अक इत्यस्य अनुवृत्तिः भवति '''कर्तरि च''' (२.२.१६) इति सूत्रे | अत्र  तृच् इत्यस्य अनुवर्तनं न भवति यतो हि तृच् प्रत्ययः '''कर्तरि कृत्''' ( ३.४.६७) इति सूत्रस्य आधारेण कर्त्रर्थे एव विधीयते | फलितार्थः एवं यत् यदि प्रत्ययः कर्त्रर्थे अस्ति तर्हि कर्ता उक्तः भवति तेनैव प्रत्ययेन | कर्ता उक्तः इति कारणेन कर्तुः प्रथमा एव भवति, अतः कर्त्रर्थे षष्ठी न भवत्येव | यदा कर्त्रर्थे षष्ठी एव न सम्भवति तर्हि तया सह समासस्य प्रसङ्गः अपि न सम्भवति | यदि प्राप्तिः एव नास्ति तर्हि तस्य निषेधः कथं वा स्यात् | अतः '''कर्तरि च''' (२.२.१६) इति सूत्रे '''तृजकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् केवलम् अक इत्यस्य अनुवृत्तिः भवति न तु तृच् इत्यस्य |</big>
 
 
 
<big>'''ण्वुल्तृचौ''' (३.१.१३३) इति सूत्रेण सर्वेभ्यः धातुभ्यः ण्वुल्‌, तृच्‌ च विहितौ भवतः | '''कर्तरि कृत्‌''' (३.४.६७) इत्यनेन कर्त्रर्थे एतौ प्रत्ययौ भवतः | ण्वुल् प्रत्ययस्य स्थाने अक इति आदेशः भवति '''युवोरनाकौ''' (७.१.१) इति सूत्रेण | ण्वुल् इति प्रत्ययः अपि सामान्यतया कर्त्रर्थे एव भवति तर्हि कर्तुः कथं षष्ठी प्राप्यते ?</big>
 
 
 
<big>किन्तु '''धात्वर्थनिर्देशे ण्वुल्''' इति वार्तिकेन ण्वुल्प्रत्ययः धात्वर्थे भवति | धात्वर्थः नाम भावार्थः इति | अयं ण्वुल्प्रत्ययान्तः शब्दः स्त्रीलिङ्गे भवति | अतः ण्वुल्प्रत्ययान्तस्य योगे अनुक्तकर्तुः षष्ठी भवति '''कर्तृकर्मणोः कृति''' (२.४.६५) इति सूत्रेण | एतादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन षष्ठीसमासः प्राप्तः अस्ति '''षष्ठी''' ( २.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''कर्तरि च''' (२.२.१६) इति सूत्रेण |</big>
 
 
<big>'''पर्यायार्हर्णोत्पत्तिषु ण्वुच् ( ३.३.१११)''' =एतेष्वर्थेषु धातोः ण्वुच् प्रत्ययो भावार्थे स्त्रीलिङ्गे च भवति | पर्यायः परिपाटी (क्रमः) | अर्हणम् अर्हः, योग्यता | ऋणं तत् यत् परस्य धार्यते | उत्पत्तिः जन्म |</big>
 
 
<big>ण्वुच्प्रत्ययान्तस्य योगे अनुक्तकर्तुः षष्ठी भवति '''कर्तृकर्मणोः कृति''' (२.४.६५) इति सूत्रेण | एतादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन षष्ठीसमासः प्राप्तः अस्ति '''षष्ठी''' ( २.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''कर्तरि च''' (२.२.१६) इति सूत्रेण |</big>
Line 2,016 ⟶ 2,076:
 
<big>३) भवतः आसिका -</big> <big>भवतः उपवेशनस्य क्रमः |</big>
 
 
<big>ण्वुच्प्रत्ययस्य ण्वुल्प्रत्ययस्य रूपेषु भेदः नास्ति केवलं स्वरे एव भेदः भवति |</big>
 
 
<big>षष्ठीसमासनिषेधकप्रकरणं समाप्तम् | अग्रे एकं सूत्रम् अस्ति षष्ठीसमासस्य विषये | अधुना पर्यन्तं समाससूत्रेषु '''विभाषा''' (२.१.११) इति सूत्रस्य अधिकारः इत्यनेन कारणेन समासस्य विधिः विकल्पेन भवति स्म | अग्रेमे सूत्रे समासः नित्यं भवति | तदनन्तरं पुनः समासः विकल्पेन भवति |</big>
----
----<big>८)</big> <big>क्रिडार्थे, जीविकार्थे च यः अकप्रत्ययान्तः, तदन्तेन सुबन्तेन सह षष्ठ्यन्तस्य सुबन्तस्य समासः नित्यः, तत्पुरुषश्च समासो भवति |</big>
 
====== <big>८)</big> '''<big>नित्यं क्रीडाजीविकयोः (२.२.१७)</big>''' ======
 
 
====== '''<big>नित्यं क्रीडाजीविकयोः (२.२.१७)</big>''' ======
<big>क्रिडार्थे, जीविकार्थे च यः अकप्रत्ययान्तः, तदन्तेन सुबन्तेन सह षष्ठ्यन्तस्य सुबन्तस्य समासः नित्यः, तत्पुरुषश्च समासो भवति | तृच्-प्रत्ययः तु क्रिडार्थे, जीविकार्थे च न भवति इति कारणेन अत्र केवलम् ण्वुल्प्रत्ययस्य (अकप्रत्ययस्य) ग्रहणं भवति | '''संज्ञायाम्''' ( ३.३.१०९) इति सूत्रेण संज्ञायां ण्वुल्प्रत्ययः ( अक) भावार्थे विधीयते | नित्यम् इति पदस्य ग्रहणेन आगम्यमाना विभाषा इति अधिकारस्य निवृत्तिः भवति | समासस्य नित्यता इति कारणेन पक्षे विग्रहवाक्यं न भवति | क्रीडा च जीविका च तयोरितरेतरयोगद्वन्द्वः क्रीडाजीविके, तयोः क्रीडाजीविकयोः | नित्यमिति क्रियाविशेषणं द्वितीयान्तं, क्रीडाजीविकयोः सप्तम्यन्तम्  | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''तृजकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् अक इत्यस्य अनुवृत्तिः भूत्वा तस्य विभक्तेः परिवर्तनं कृत्वा अकेन इति तृतीयान्तं पदं भवति  | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् क्रीडाजीविकयोः अकेन सुपा सह नित्यं तत्पुरुषः समासः |'''</big>
 
 
<big>'''संज्ञायाम्''' ( ३.३.१०९) = संज्ञायां विषये धातोः ण्वुल् प्रत्ययो भावार्थे भवति | भावार्थे ण्वुल्प्रत्ययस्य विधानात् कर्ता कर्म च अनुक्तं भवति | यत्र उभयप्राप्तिः अस्ति, तत्र '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रेण अनुक्तकर्मणः षष्ठी भवति | एतादृशस्य कर्मणः षष्ठीसमासः न भवति '''कर्मणि च''' ( २.२.१४) इति सूत्रेण | परन्तु '''नित्यं क्रीडाजीविकयोः''' (२.२.१७) इति सूत्रेण समासनिषेधस्य प्रतिषेधः क्रियते | अर्थात् पुनः समासविधानं क्रियते '''नित्यं क्रीडाजीविकयोः''' (२.२.१७) इति सूत्रेण | '''नित्यं क्रीडाजीविकयोः''' (२.२.१७) इति सूत्रं '''विभाषा''' ( २.१.११) इत्यस्मात् अधिकारसूत्रात् विभाषा इति पदस्य अनुवृत्तेः निषेधं कृत्वा षष्ठीसमासस्य नित्यविधानं करोति |</big>
 
 
<big>'''संज्ञायाम्''' ( ३.३.१०९) इति सूत्रस्य उदहरणानि -</big>
 
 
<big>यथा - उद्दालकपुष्पभञ्जिका ( breaking uddalaka flowers) | वारणपुष्पप्रचायिका ( gathering of varana flowers) | अभ्यूषखादिका ( eating of अभ्यूष-grains)| आचोषखादिका | शालभञ्जिका ( kind of game played in the east of India) | तालभञ्जिका |</big>
 
<big>प्रकृतसूत्रे क्रीडार्थे इत्यस्य उदाहरणानि –</big>
 
 
१) <big>उद्दालकपुष्पाणां भञ्जनम् = उद्दालकपुष्पभञ्जिका (उद्दालकानां पुष्पाणि भज्यन्ते यत्र क्रीडायां - a sort of game played by the people in which Uddālaka flowers are broken or crushed). | उद्दालकपुष्पभञ्जिका इति नित्यसमासः भवति '''नित्यं क्रीडाजीविकयोः''' (२.२.१७) इति सूत्रेण  |</big>
 
 
<big>उद्दालकस्य पुष्पाणि इति षष्ठीसमासः भूत्वा तदनन्तरम् उद्दालकपुष्पाणां भञ्जनम् इति उद्दालकपुष्पभञ्जिका इति समासः भवति | भञ्ज् इति धातुतः '''संज्ञायाम्''' (३.३.१०९) इति सूत्रेण भावार्थे ण्वुल्प्रत्ययः विधीयते | अलौकिकविग्रहः –</big>
 
 
<big>उद्दालकपुष्प + आम् + भञ्जिका +सु  | '''नित्यं क्रीडा जीविकयोः''' (२.२.१७) इत्यनेन सूत्रेण षष्ठीसमासः विधीयते नित्यरूपेण | समाससंज्ञानन्तरं समासस्य प्रातिपदिकसंज्ञा भवति, सुब्लुक् भवति, उद्दालकपुष्प इत्यस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति  | अतः उद्दालकपुष्पभञ्जिका इति समासः निष्पद्यते  | अत्र समासः नित्यः इत्यतः स्वपदविग्रहवाक्यं न भवति अपि तु अस्वपदविग्रहवाक्यमेव भवति |</big>
 
 
<big>२) वारणपुष्पाणां प्रचायिका = वारणप्रचायिका ( वारणपुष्पाणां चयनस्य क्रीडा) | वारणप्रचायिका इति नित्यसमासः भवति '''नित्यं क्रीडाजीविकयोः''' (२.२.१७) इति सूत्रेण  |</big>
 
 
<big>३) अभ्यूषाणां ( खाद्यपदार्थः) खादिका = अभ्यूषखादिका ( खाद्यपदार्थस्य खादनस्य क्रीडा ) |</big>
 
 
<big>४) ओचोषाणां खादिका = ओचोषखादिका ( ( खाद्यपदार्थस्य खादनस्य क्रीडा ) |</big>
 
<big>एवमेव शालभञ्जिका, तालभञ्जिका |</big>
 
 
<big>एतानि सर्वाणि उदाहरणानि क्रीडायाः संज्ञा अस्ति | व्यस्तप्रयोगे संज्ञायाः ज्ञानं न भवति इत्यतः समासः नित्यः | यथा वयं जानीमः नित्यसमासः अविग्रहः अथवा अस्वपदविग्रहः भवति | उद्दालकपुष्पाणां भञ्जनं , वारणपुष्पाणां प्रचयनम् इति एवं रीत्या अस्वपदविग्रहं कृत्वा एतेषाम् अर्थः अवगन्तव्यः | किन्तु एतेषाम् अलौकिकविग्रहवाक्यं तु न सम्भवति |</big>
 
 
 
<big>'''जीविकार्थे उदाहरणानि''' –</big>
 
<big>दन्तानां लेखकः = दन्तलेखकः | दन्तानां कला-विशेषेण यः जीविकां चालयति अथवा लोकप्रचलितानां दन्तकथानां लेखकः दन्तलेखकः इति उच्यते | यः तादृशीं कथां लिखित्वा जीवनं चालयति सः इत्यर्थः | दन्तानां लेखनेन जीवति इति अस्वपद-विग्रहवाक्यम् | अत्र लिख् इति धातुतः ण्वुल् प्रत्ययं योजयित्वा, अकादेशं कृत्वा लेखकः इति रूपं सिद्धम् | अत्र '''ण्वुल्तृचौ''' ( ३.१.१३३) इति सूत्रेण कर्त्रर्थे ण्वुल्प्रत्ययः विहितः अस्ति | ण्वुल्प्रत्ययः कर्त्रर्थे अस्ति इति कृत्वा कर्ता उक्तः, कर्म च अनुक्तं भवति | अनुक्तकर्मणः षष्ठी भवति कृद्योगे '''कर्तृकर्मणोः कृति''' ( २.३.६५) इत्यनेन सूत्रेण | तादृशस्य षष्ठ्यन्तस्य षष्ठीसमासः प्राप्तः अस्ति '''षष्ठी''' ( २.२.८) इति सूत्रेण | पुनः '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण तादृशस्य षष्ठीसमासस्य निषेधः प्राप्तः आसीत् | अधुना '''नित्यं क्रीडाजीविकयोः''' (२.२.१७) इति सूत्रेण तस्य निषेधस्य प्रतिप्रसवः क्रियते, येन पुनः नित्यसमासः भवति | अतः दन्तलेखकः इति समासः निष्पद्यते |</big>
 
 
 
<big>प्रकृतसूत्रे '''क्रीडाजीविकयोः''' इति पदस्य प्रयोजनं किम् ?</big>
 
 
<big>'''ओदनस्य भोजकः''' इत्यत्र क्रीडार्थः अपि नास्ति, जीविकार्थः अपि नास्ति इत्यतः</big> <big>'''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण षष्ठीसमासस्य निषेधः क्रियते |</big> <big>'''ओदनस्य भोजकः''' इत्यत्र षष्ठीसमासः नास्ति यतोहि क्रीडा अथवा जीविका इत्यस्मिन् अर्थे नास्ति ण्वुल्प्रत्ययः |</big> <big>क्रीडार्थे अथवा जीविकार्थे अस्ति चेत् '''नित्यं क्रीडा जीविकयोः''' (२.२.१७) इति सूत्रेण षष्ठीसमासः नित्यरूपेण जायते |</big>
----
----<big>१०)</big> <big>ईषत् इति अव्ययम् अकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति |</big>
 
'''<big>ईषदकृता (२.२.७)</big>'''
 
====== <big>१०)</big> '''<big>ईषदकृता (२.२.७)</big>''' ======
<big>ईषत् इति अव्ययम् अकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति | न कृत् अकृत्, तेन अकृता | ईषद् अव्ययम्, अकृता तृतीयान्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''ईषद् सुप्  अकृता सुपा सह विभाषा तत्पुरुषः समासः |'''</big>
 
 
<big>अस्मिन् सूत्रे '''ईषद्''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरम् ईषद् इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |</big>
Line 2,068 ⟶ 2,147:
<big>ईषत् पिङ्गलः = ईषत्पिङ्गलः  | किञ्चित् पीतः इत्यर्थः  | पिङ्गल इति शब्दः अव्युत्पन्नः अतः अकृदन्तं पदम् अस्ति |</big>
 
<big>ईषत् रक्तम् = ईषद्रक्तम्  | किञ्चित् रक्तवर्णीयम् इत्यर्थः | अत्र रक्तम् इति कृदन्तं क्तान्तम् अस्ति इति कृत्वा '''ईषदकृता''' (२.२.७) इत्यनेन तु समासः न भवति  | तर्हि अत्र समासः कथं जातः ?</big>
 
 
<big>तर्हि अत्र समासः कथं जातः ?</big>
 
<big>'''ईषद् गुणवचनेनेति वक्तव्यम्''' इति वार्तिकेन ईषद् इति शब्दः गुणवाचिना सुबन्तेन सह समस्यते | प्रकृतसूत्रे अकृता इति पदं निष्कास्य गुणवचनेन इति वक्तव्यम् आसीत् | अनेन उन्नतः, रक्तं, पीतम् इत्यादिभिः गुणवचनैः सह ईषत् इति पदस्य समासः स्यात् | अतः ईषत्कडारः ( 'a somewhat proud) , ईषत्पिङ्गलः ( a little brownish) , ईषत्विकटः ( a little hideous), ईषदुन्नतः ( a little raised), ईषत्पीतम् ( a little yellow.), ईषद्रक्तम् ( a little red) इत्यादयः समासाः भवन्ति ।</big>
 
 
<big>'''ईषद् गुणवचनेनेति''' '''वक्तव्यम्''' इति वार्तिकेन रक्तम् इति गुणवाचिना कृदन्तपदेन सह अपि ईषत् इति शब्दस्य समासः भवति इत्युक्तम्  | अतः ईषद्रक्तम् इति समासः जातः |</big>
 
 
 
<big>ईषद् गार्ग्यः = अत्र समासः न भवति | गार्ग्यः इति पदं गुणवाचि नास्ति अतः '''ईषद् गुणवचनेनेति वक्तव्यम्''' इत्यनेन वार्तिकेन समासः न भवति  | गार्ग्यः इति पदं यद्यपि अकृदन्तं तथापि '''ईषदकृता''' (२.२.७) इत्यनेन अपि समासः न भवति यतोहि अत्र समासः अनभीष्टः अस्ति |</big>
 
 
 
<big>प्रश्नः उदेति यत् ईषत् इति अव्ययस्य योगे किमर्थं समासः क्रियते इति ? केवलम् ईषत् इति पदस्य अन्येन सुबन्तेन योजयामः चेत् रूपं लभ्यते खलु?</big>
page_and_link_managers, Administrators
5,097

edits