14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,179:
 
====== २) <big>'''अर्धं नपुंसकम्''' (२.२.२)</big> ======
<big>'''अर्धं नपुंसकम्''' (२.२.२) = अर्धम् इत्येतद् नपुंसकम् एकदेशिनैकाधिकरणेन सह समस्यते, तत्पुरुषश्च समासो भवति | एतद् सूत्रं षष्ठीसमासापवादः अस्ति | अर्धम् इति शब्दः समांशवाचकः, नित्यं नपुंसकलिङ्गे भवति | तादृशः अर्धशब्दः एकत्वसङ्ख्यायुक्तेन अवयविवाचकेन सुबन्तेन सह विकल्पेन समस्यते | असमांशवाची चेत् अर्ध इति शब्दः विशेष्यनिघ्नः भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''अर्धं नपुंसकं सुप् एकदेशिना सुपा सह एकाधिकरणे विभाषा तत्पुरुषः समासः |'''</big>
 
<big>अस्मिन् सूत्रे नित्यं नपुंसकलिङ्गे यः अर्ध-शब्दः अस्ति, तस्य एकत्वसंख्याविशिष्टेन अवयविना सुबन्तेन सह विकल्पेन तत्पुरुषसमासः भवति | "अर्ध” इति शब्दः समांशवाची, अंशसामन्यवाची च इति द्विधा भवति | समे</big> <big>तु</big> <big>अंशे</big> <big>अर्धशब्दः नपुंसकलिङ्गे एव भवति | अंशसामन्यवाची तु पुंलिङ्गे,</big> <big>नपुंसकलिङ्गे च भवति | अत्र अमरकोशः एव प्रमाणम् | यदा किमपि वस्तु छिद्यते, कर्त्यते तदा भागद्वयं भवति | उभौ अपि भागौ समानाकारकौ यदा भवतः तदा अर्धम् इति नपुंसकलिङ्गविशिष्टस्य प्रयोगः भवति | यदा भागयोः समता नास्ति तदा अर्धः इति पुंलिङ्गप्रयोगः | नपुंसकलिङगवाची अर्ध-शब्दः (अर्धम् इत्येतत् )</big> <big>एकदेशितत्पुरुषसमासं प्राप्नोति '''अर्धं नपुंसकम्''' (२.२.२) इत्यनेन सूत्रेण | यथा ''अर्धफलम्'' इति प्रयोगे, अर्धशब्दः समांशवाची एव स्यात् इति स्मर्तव्यम् | यदि अर्धशब्दः समांशवाची न तहि फलस्य अर्धः, ''फलार्धः'' इति षष्ठीतत्पुरुषसमासः भवति | षष्ठीतत्पुरुषस्थले अर्धशब्दः असमांशवाची, न तु समांशवाची |</big>
page_and_link_managers, Administrators
5,097

edits