14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,432:
 
====== <big>३)    </big>'''<big>पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२.२.११)</big>''' ======
<big>पूरणाद्यर्थैः सदादिभिश्च षष्ठी न समस्यते  | पूरणप्रत्ययान्तशब्दः, गुणवाचिशब्दः, तृप्तिवाचिशब्दः, सत्- संज्ञकप्रत्ययान्तशब्दः, कृदव्ययं, तव्य-प्रत्ययान्तशब्दः अपि च समानाधिकरणवाचि शब्दः, इत्येतैः शब्दैः सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते | सूत्रे अर्थः इति शब्दस्य पूरण, गुण, तृप्ति च इत्येतैः शब्दैः सह योगात् पूरणार्थकशब्दानां, गुणार्थकशब्दानां, तृप्यर्थकशब्दानां च ग्रहणं भवति | अस्मिन् सूत्रे पूरण इति शब्देन पूरणार्थकप्रत्ययस्य ग्रहणं भवति  | सुहित इति शब्दस्य तृप्तिः इत्यर्थः | सत्-शब्दस्य द्वारा लट्लकारः, लृट्लकारः इत्यनयोः लकारयोः स्थाने आदेशरूपेण विधीयमानयोः सत्-संज्ञक-प्रत्यययोः ग्रहणं भवति  | '''तौ सत्''' (३.२.१२७) इति सूत्रेण शतृशानचौ सत्संज्ञौ भवतः | अतः सत्- शब्दः इत्युक्ते शत्रन्तशब्दः, शानजन्तशब्दः, तयोः ग्रहणं भवति | अस्मिन् सूत्रे सत् इति कृत्प्रत्ययान्तस्य अनन्तरम् अव्ययम् इति पदं प्रयुक्तम्, अपि अव्ययम् इति पदस्य अनन्तरं तव्य इति कृत्प्रत्ययान्तस्य प्रयोगः कृतः इत्यतः अव्ययम् अपि कृत्प्रत्ययान्तमेव स्वीकर्तव्यम् | अनेन सूत्रेण कृत्प्रत्ययान्तम् अव्ययं एवअव्ययमेव स्वीक्रियते | समानाधिकरणं नाम समानाश्रयः ययोः पदार्थयोः, तौ इत्यर्थः | आश्रयः नाम समानविभक्तिः इत्यर्थः  | अर्थात् ययोः शब्दयोः समानविभक्तिः वर्तते, तयोः समानाधिकरणं वर्तते | अतः समानाधिकरणवाचिनः शब्दस्य ग्रहणं भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन सुपा सह न तत्पुरुषः समासः |'''</big>
 
{| class="wikitable"
page_and_link_managers, Administrators
5,155

edits