14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,553:
<big>६) घटस्य रूपम् = घटरूपम् |</big>
 
----<big>'''गुणात्तरेण समासस्तरलोपश्चेति वक्तव्यम्''' | वार्तिकार्थः – गुणवाचि-तरबन्तेन सह षष्ठीसमासः तरप्प्रत्ययलोपश्च भवति | गुणवाचकाद्विहितो यस्तरप् तदन्तेन षष्ठी वा समस्यते, तरपो लोपश्चेत्यर्थः । अर्थात् गुणवाचिनः तरप्-प्रत्ययान्तस्य शब्दस्य षष्ठ्यन्तेन सुबन्तेन सह समासः विकल्पेन भवति तथा च तरप्-प्रत्ययस्य लोपः भवति  | '''सर्वशब्दे एवेदं वार्तिकम् अभिप्रेतम्''' | '''न निर्धारणे''' (२.२.१०), '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.१२) इति च निषेधस्य प्रतिप्रसवोऽयं वार्तिकम् | तात्पर्यं यत् '''षष्ठी''' (२.२.८)  इति सूत्रेण यत्र षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते  '''न निर्धारणे''' (२.२.१०), '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.१२) च इत्याभ्यां सूत्राभ्याम्  | प्रकृतवार्तिकम् अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्ठीसमासस्य विधानं तथा च तरप्-प्रत्ययस्य लोपं करोति  | अतः इदं कार्यं शास्त्रे प्रतिप्रसवः इति उच्यते  |</big><big>यथा - सर्वश्वेतः</big>
 
<big>सर्वश्वेतः इति | 'वकानां गुणः' इति शेषः । द्रव्यान्तरवृत्ति-श्वतेरूपापेक्षया सर्वेषां वकानां श्वेतगुणोऽयमधिकः इत्यर्थः | 'द्विवचनविभज्य' इति विभक्तव्योपपदे तरप् | अत्र सर्वेषामिति षष्ठन्तस्य श्वेततरशब्देन समासे तरपो लोपे सर्वश्वेत इति रूपम् |</big>
page_and_link_managers, Administrators
5,159

edits