14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,659:
<big>तव्यप्रत्ययस्य योगे षष्ठी कथं प्राप्ता अस्ति ?</big>
 
<big>तव्य/तव्यत् इति प्रत्ययौ तु सामान्यतया कर्मार्थे अथवा भावार्थे एव विहितौ भवतः | यथा रामेण भोजनं खादितव्यम् इति वाक्ये खादितव्यम् इत्यत्र यः तव्यप्रत्ययः अस्ति सः कर्मार्थे विहितः इत्यतः भोजनम् इति कर्म उक्तं भवति, कर्ता रामः अनुक्तः इति कारणेन तस्य तृतीयाविभक्तिः भवति '''कर्तृकरणयोस्तृतीया''' ( २.३.१८) इति सूत्रेण स्यात् | तर्हिपरन्तु कर्तुः,'''कर्तृकर्मणोः कर्मणःकृति''' उभयत्र( षष्ठी२.३.६५) एवइत्यनेन कृद्योगे प्राप्ता अस्ति, तर्हि कथं षष्ठीतत्पुरुषसमासः अत्र सम्भवति इतितृतीयां प्रश्नःबाधित्वा उदेतिषष्ठीविभक्तिः स्यात् |</big>
 
 
<big>'''कर्तृकर्मणोः कृति''' (२.३.६५) इति नित्यं षष्ठी प्राप्ता, '''कृत्यानां कर्तरि वा''' ( २.३.७१) इति सूत्रेण कर्तरि विकल्प्यते | कृत्यानां प्रयोगे कर्तरि वा षष्ठी विभक्तिर्भवति, न कर्मणि | अर्थात् कृत्यप्रत्ययानां योगे कर्तुः विकल्पेन षष्ठी स्यात् '''कृत्यानां कर्तरि वा''' ( २.३.७१) इति सूत्रेण | अपक्षे '''कर्तृकरणयोस्तृतीया''' ( २.३.१८) इति सूत्रेण तृतीया अपि स्यात् | यथा भवता कटः कर्तव्यः अथवा भवतः कटः कर्तव्यः |</big>
 
 
<big>तव्य, तव्यत्, अनीयर्, ण्यत्, यत्, क्यप्, केलिमर् इति आहत्य सप्त कृत्यप्रत्ययाः सन्ति | एतेषां योगे कर्तुः विकल्पेन षष्ठी स्यात् |</big>
 
<big>अस्य समाधानमेवं यत् - '''कृत्यानां कर्तरि वा''' ( २.३.७१) इति सूत्रेण '''कर्तृकर्मणोः कृति''' २.३.६५ इति नित्यं षष्ठी प्राप्ता कर्तरि विकल्प्यते | कृत्यानां प्रयोगे कर्तरि वा षष्ठी विभक्तिर्भवति, न कर्मणि | अर्थात् कृत्यप्रत्ययानां योगे कर्तुः विकल्पेन षष्ठी स्यात् | यथा भवता कटः कर्तव्यः अथवा भवतः कटः कर्तव्यः | भवतः इति कर्तुः विकल्पेन षष्ठी प्राप्ता अस्ति '''कृत्यानां कर्तरि वा''' ( २.३.७१) इति सूत्रेण | तव्य, तव्यत्, अनीयर्, ण्यत्, यत्, क्यप्, केलिमर् इति आहत्य सप्त कृत्यप्रत्ययाः सन्ति | एतेषां योगे कर्तुः विकल्पेन षष्ठी स्यात् |</big>
 
<big>ब्राह्मणस्य कर्तव्यम् | '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः ब्राह्मणकर्तव्यम् इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – ब्राह्मणस्य कर्तव्यम् इति |</big>
 
 
<big>प्रकृतसूत्रे केवलं तव्यप्रत्ययान्तशब्दस्य एव निषेधः कृतः न तु तव्यत्प्रत्ययान्तस्य  | अतः तव्यत्प्रत्ययान्तेन शब्देन सहः षष्ठीतत्पुरुषसमासस्य निषेधः नास्ति |</big>
 
 
<big>स्वस्य कर्तव्यम् = स्वकर्तव्यम्  | '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः नास्ति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण यतोहि कर्तव्यम् इति पदं तव्यत्प्रत्ययान्तः अस्ति  | यद्यपि तव्य, तव्यत्, द्वयोः समानरूपं भवति तथापि स्वरभेदः अवश्यम् अस्ति  |</big>
page_and_link_managers, Administrators
5,097

edits