14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,700:
----<big>४)     षष्ठ्यन्तं सुबन्तं पूजार्थे, सत्कारार्थे, बुद्ध्यर्थे च यः क्तप्रत्ययः विधीयते, तदन्तेन सुबन्तेन सह न समस्यते |</big>
 
====== '''<big>क्तेन च पूजायाम् (२.२.१२)</big>''' ======
<big>इच्छार्थे, पूजार्थे (सत्कारार्थे), बुद्ध्यर्थे च यः क्तप्रत्ययः विधीयते, तदन्तेन सुबन्तेन सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते  | कृदन्तप्रकरणे पूजाद्यर्थे क्तप्रत्ययः विधीयते '''मतिबुद्धिपूजार्थेभ्यश्च''' ( ३.२.१८८) इत्यनेन सूत्रेण | प्रकृतसूत्रे पूजायाम् इति पदं क्तप्रत्ययस्य उपलक्षणम् अस्ति | अर्थात् '''मतिबुद्धिपूजार्थेभ्यश्च''' ( ३.२.१८८) इत्यनेन सूत्रेण यः क्तप्रत्ययः विधीयते इच्छार्थे, बुद्ध्यर्थेपूजार्थे, पूजार्थेबुद्ध्यर्थे च तस्य सङ्केतः अस्ति प्रकृतसूत्रे | '''मतिबुद्धिपूजार्थेभ्यश्च''' ( ३.२.१८८) इति सूत्रेण क्तप्रत्ययः विधीयते कर्मार्थे अथवा भावार्थे | क्तेन तृतीयान्तं, चाव्ययं, पूजायां सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''पूजायां''' '''षष्ठी सुप् क्तेन सुपा सह  न तत्पुरुषः समासः च |'''</big>
 
 
<big>यथा—</big>
 
<big>१)</big> <big>राज्ञां मतः = मतः इति क्तप्रत्ययान्तः शब्दः इच्छार्थे अस्ति | मन् इति धातुतः क्तप्रत्ययस्य विधानं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण भवति, अतः मतः इति रूपं निष्पन्नं भवति | वाक्यमेवं भवति राज्ञां मतः (इष्टः) धनस्यूतः | मतः इति क्तप्रत्ययान्तस्य राज्ञाम् इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति '''षष्ठी''' (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः क्रियते '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण | अतः राजमतः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – राज्ञां मतः इति |</big>
 
 
<big>अत्र प्रश्नः उदेति यत् मतः इति क्तप्रत्ययान्तस्य योगे षष्ठी विभक्तिः कथं प्राप्यते इति ?</big>
 
 
<big>'''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण कृद्योगे अनुक्तकर्तुः अनुक्तकर्मणः च षष्ठी विधीयते इति जानीमः | किन्तु '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इति ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति । '''क्तक्तवतू निष्ठा''' ( १.१.२६) इति सूत्रेण क्तश्च क्तवतुश्च प्रत्ययौ निष्ठासंज्ञौ भवतः । '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इति सूत्रे निष्ठा इत्यनेन क्तक्तवत्वोः ग्रहणं भवति । '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण क्तप्रत्ययस्य योगे अनुक्तकर्तुः अनुक्तकर्मणः च या षष्ठी प्राप्ता अस्ति तस्य निषेधः भवति '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इति सूत्रेण । अतः क्तप्रत्ययस्य योगे षष्ठी न प्राप्यते एव तर्हि कथं षष्ठीतत्पुरुषसमासः जायते ?</big>
 
 
<big>अत्र उच्यते यत् '''क्तस्य च वर्तमाने''' ( २.३.६७)</big> <big>इति सूत्रेण क्तस्य वर्तमानकालविहितस्य प्रयोगे षष्ठी विभक्तिर्भवति | अर्थात् वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात् | इदं सूत्रं '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इति निषेधस्य अपवादः | यथा राज्ञां मतः | राज्ञां बुद्धः | राज्ञां पूजितः | '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण प्रतिषेधे प्राप्ते पुनः षष्ठी विधीयते '''क्तस्य च वर्तमाने''' ( २.३.६७) इति सूत्रेण | '''क्तस्य च वर्तमाने''' ( २.३.६७) इति सूत्रं '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रस्य अपवादः अस्ति |</big>
 
 
<big>राज्ञां मतः इत्यत्र मन् इति इच्छार्थकधातुतः '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण वर्तमानार्थे क्तप्रत्ययः विधीयते, अतः मतः इति रूपं लभ्यते | मतः इति क्तप्रत्ययान्तस्य योगे राजा इति कर्तुः षष्ठी प्राप्ता अस्ति '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण | तस्याः षष्ठेः निषेधः क्रियते '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण | पुनः '''क्तस्य च वर्तमाने''' ( २.३.६७) इति सूत्रेण क्तस्य वर्तमानकालविहितस्य प्रयोगे षष्ठी विभक्तिर्भवति | मतः इति वर्तमानकालिकक्तान्तस्य योगे अनुक्तकर्तरि राजनि षष्ठी विभक्तिः जायते | अतः राज्ञाम् इति षष्ठ्यन्तं जायते |</big>
 
 
<big>एवमेव अन्येषु उदाहरणेषु अपि द्रष्टव्यं भवति |</big>
 
 
<big>२) राज्ञां बुद्धः, = बुद्धः इति क्तप्रत्ययान्तः शब्दः बुद्ध्यर्थे अस्ति | बुध् इति धातुतः क्तप्रत्ययस्य विधानं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण भवति,  बुद्धः इति रूपं निष्पन्नम् | बुद्धः इति क्तप्रत्ययान्तस्य राज्ञां इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति '''षष्ठी''' (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः भवति '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण | अतः राजबुद्धः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – राज्ञां बुद्धः इति |</big>
 
 
<big>३)</big> <big>राज्ञां पूजितः=  पूजितः इति क्तप्रत्ययान्तः शब्दः पूजार्थे अस्ति | पूज् इति धातुतः क्तप्रत्ययस्य विधानं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण भवति,  पूजितः इति रूपं निष्पन्नम् | पूजितः इति क्तप्रत्ययान्तस्य राज्ञाम् इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति '''षष्ठी''' (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः क्रियते '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण | अतः राजपूजितः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – राज्ञां पूजितः इति |</big>
 
 
<big>'''राजपूजितः''' इति तृतीयासमासः क्वचित् दृश्यते लोके, तस्य समर्थनं कथं करणीयम् ?</big>
 
<big>राजपूजितः इति समासः दृश्यते परन्तु अत्र पूजितः इति पदं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण वर्तमानार्थे न विहितम् अस्ति अपि तु  पूजितः इति क्तप्रत्ययान्तः शब्दः '''निष्ठा''' (३.२.१०२) इति सूत्रेण भूतार्थे विहितः वर्तते | अतः '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण समासस्य निषेधः इति विषयः एव नास्ति |</big>
 
 
<big>सामान्यतः क्तप्रत्ययान्तः शब्दः कर्मार्थे अथवा भावार्थे एव प्रयुक्तः भवति  | तथा च क्तप्रत्ययान्तस्य शब्दस्य योगे कर्ता तृतीयाविभक्तिं प्राप्नोति '''कर्तृकरणयोस्तृतीया''' (२.३.१८) इति सूत्रेण | अतः राज्ञा जनः पूजितः इति वाक्यं सम्भवति | '''कर्तृकरणयोस्तृतीया''' (२.३.१८) इति सूत्रेण कर्तरि करणे च कारके तृतीयाविभक्तिः भवति |</big>
 
 
<big>तत्पश्चात् राज्ञा पूजितः इति पदयोः तृतीयातत्पुरुषसमासः क्रियते '''कर्तृकरणे कृता बहुलम्‌''' ( २.१.३२) इति सूत्रेण | '''कर्तृकरणे कृता बहुलम्‌''' ( २.१.३२) इति सूत्रेण कर्तरि करणे च यत् तृतीयान्तं पदं, तत् पदं कृदन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति |</big>
 
 
 
<big>'''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) = मतिः इत्युक्ते इच्छा | बुद्धिः इत्युक्ते ज्ञानम् | पूजा इत्युक्ते सत्कारः | एतदर्थेभ्यः च धातुभ्यः वर्तमानार्थे क्तप्रत्ययः भवति | '''वर्तमाने लट्''' ( ३.२.१२३) इत्यस्मात् वर्तमाने इत्यस्य अनुवृत्तिः | '''धातोः''' ( ३.१.९१) इत्यस्य अधिकारः | '''ञीतः क्तः''' ( ३.२.१८७) इत्यस्मात् क्त इत्यस्य अनुवृत्तिः | '''कृदतिङ्''' ( ३.१.९३) इत्यस्य अधिकारः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''वर्तमाने''' '''मतिबुद्धिपूजार्थेभ्यः''' '''धातुभ्यः''' '''कृत्''' '''क्त प्रत्ययः परश्च''' '''|''' यथा – राज्ञां मतः | राज्ञाम् इष्टः | राज्ञां बुद्धः | राज्ञां ज्ञातः | राज्ञां पूजितः | राज्ञामर्चितः |</big>
 
 
<big>'''क्तस्य च वर्तमाने''' ( २.३. ६७) = क्तस्य वर्तमानकालविहितस्य प्रयोगे षष्ठी विभक्तिर्भवति | इदं सूत्रं '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रस्य अपवादः अस्ति | क्तस्य षष्ठ्यन्तं, चाव्ययं, वर्तमाने सप्तम्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् षष्ठी इत्यस्य अनुवृत्तिः | '''अनभिहिते''' ( २.३.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''वर्तमाने''' '''क्तस्य च षष्ठी अनभिहिते''' '''|''' यथा राज्ञां मतः | राज्ञां बुद्धः | राज्ञां पूजितः | राज्ञामिति कर्तरि षष्ठी | कर्म तु निष्ठयाभिहितम् | '''क्तस्य च वर्तमाने''' ( २.३.६७) इति सूत्रं '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रस्य अपवादः अस्ति |</big>
----<big>५)     षष्ठ्यन्तं समर्थं सुबन्तम् अधिकरणार्थे विहितस्य क्त्प्रत्ययस्य, तदन्तेन सुबन्तेन सह न समस्यते |</big>
 
page_and_link_managers, Administrators
5,155

edits