page_and_link_managers, Administrators
5,097
edits
No edit summary |
No edit summary |
||
Line 1,697:
<big>यदि समानाधिकरणे अपि षष्ठीसमासः जायते तर्हि पूर्वनिपातविषये अनियमः स्यात् | अर्थात् समानाधिकरणे पदद्वयमपि प्रथमानिर्दिष्टं स्यात् | एवञ्चेत् विशेषणविशेष्ययोः मध्ये किं पूर्वं स्यात् इत्यत्र व्यवस्था न शक्यते | कदाचित् विशेष्यं पूर्वं स्यात्, कदाचित् विशेषणं पूर्वं स्यात् | यदि '''षष्ठी''' ( २.२.८) इति सूत्रेण प्राप्तस्य समासस्य प्रतिषेधः स्यात् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण तर्हि '''विशेषणं विशेष्येण बहुलम्''' ( २.१.५७) इति सूत्रेण तु समासः भवत्येव | अस्यां स्थित्यां तु विशेषणस्य एव पूर्वनिपातः भवति नियमितरूपेण यतोहि '''विशेषणं विशेष्येण बहुलम्''' ( २.१.५७) इति सूत्रे विशेषणमेव प्रथमानिर्दिष्टं वर्तते | अतः विशेषणस्य एव उपसर्जनसंज्ञा पूर्वनिपातः च भवति |</big>
<big>काशिका, सिद्धान्तकौमुदी इत्यादिषु ग्रन्थेषु समानाधिकरणम् इत्यस्य ''पाणिनेः सूत्रकारस्य'' इत्यादीनि दीयन्ते परन्तु भाष्यकारेण उक्तं यत् एतानि उदाहरणानि समानाधिकरणम् इत्यस्य उदाहरणानि न भवितुम् अर्हन्ति |
<big>तर्हि समानाधिकरणः इत्यस्य उदाहरणं किं भवति ?</big>
Line 1,708:
===== '''<big>क्तेन च पूजायाम् (२.२.१२)</big>''' =====
<big>इच्छार्थे, पूजार्थे (सत्कारार्थे), बुद्ध्यर्थे च यः क्तप्रत्ययः विधीयते, तदन्तेन सुबन्तेन सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते | कृदन्तप्रकरणे पूजाद्यर्थे क्तप्रत्ययः विधीयते वर्तमानार्थे '''मतिबुद्धिपूजार्थेभ्यश्च''' ( ३.२.१८८) इत्यनेन सूत्रेण | प्रकृतसूत्रे पूजायाम् इति पदं क्तप्रत्ययस्य उपलक्षणम् अस्ति | अर्थात् '''मतिबुद्धिपूजार्थेभ्यश्च''' ( ३.२.१८८) इत्यनेन सूत्रेण यः क्तप्रत्ययः विधीयते इच्छार्थे, पूजार्थे, बुद्ध्यर्थे च तस्य सङ्केतः अस्ति प्रकृतसूत्रे | '''मतिबुद्धिपूजार्थेभ्यश्च''' ( ३.२.१८८) इति सूत्रेण क्तप्रत्ययः विधीयते कर्मार्थे अथवा भावार्थे | क्तेन तृतीयान्तं, चाव्ययं, पूजायां सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''पूजायां''' '''षष्ठी सुप् क्तेन सुपा सह न तत्पुरुषः समासः च |'''</big>
|