14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,766:
 
 
----<big>५)    </big> षष्ठ्यन्तं समर्थं सुबन्तम् <big>अधिकरणार्थे विहितस्य क्त्प्रत्ययस्यक्तप्रत्ययस्य, तदन्तेन सुबन्तेन सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते |</big>
 
====== '''<big>अधिकरणवाचिना च (२.२.१३)</big>''' ======
 
<big>षष्ठ्यन्तं समर्थं सुबन्तम् अधिकरणार्थे विहितः क्तप्रत्ययः, तदन्तेन सुबन्तेन न समस्यते  | अधिकरणार्थे '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण क्तप्रत्ययः विधीयते  | तादृशस्य क्तप्रत्ययान्तस्य एव अधिकरणवाचिना इति शब्दस्य द्वारा ग्रहणं भवति | अधिकरणं वक्ति इति अधिकरणवाची, तेन | अधिकरणवाचिना तृतीयान्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''क्तेन च पूजायाम्''' (२.२.१२) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् अधिकरणवाचिना क्तेन सुपा सह  न तत्पुरुषः समासः च |'''</big>
 
<big>षष्ठ्यन्तं समर्थं सुबन्तम् अधिकरणार्थे विहितः क्तप्रत्ययः, तदन्तेन सुबन्तेन षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते  | अधिकरणार्थे '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण क्तप्रत्ययः विधीयते  | तादृशस्य क्तप्रत्ययान्तस्य एव अधिकरणवाचिना इति शब्दस्य द्वारा ग्रहणं भवति | अधिकरणं वक्ति इति अधिकरणवाची, तेन, अधिकरणवाचिना | अधिकरणवाचिना तृतीयान्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''क्तेन च पूजायाम्''' (२.२.१२) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् अधिकरणवाचिना क्तेन सुपा सह  न तत्पुरुषः समासः च |'''</big>
 
 
<big>यथा—</big>
 
 
<big>इदम् एषाम् आसितम् – आस् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, आसित इति प्रातिपदिकं निष्पन्नम् | अधिकरणार्थे आसितम् इति क्तप्रत्ययान्तशब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते '''अधिकरणवाचिना च''' (२.२.१३) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषाम् आसितम् |</big>
 
 
<big>अत्र प्रश्नः उदेति यत् आसितम् इति क्तप्रत्ययान्तस्य योगे षष्ठी विभक्तिः कथं प्राप्यते इति ?</big>
 
 
<big>'''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण कृद्योगे अनुक्तकर्तुः अनुक्तकर्मणः च षष्ठी विधीयते इति जानीमः | किन्तु '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इति ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति । '''क्तक्तवतू निष्ठा''' ( १.१.२६) इति सूत्रेण क्तश्च क्तवतुश्च प्रत्ययौ निष्ठासंज्ञौ भवतः । '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इति सूत्रे निष्ठा इत्यनेन क्तक्तवत्वोः ग्रहणं भवति । '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण क्तप्रत्ययस्य योगे अनुक्तकर्तुः अनुक्तकर्मणः च या षष्ठी प्राप्ता अस्ति तस्य निषेधः भवति '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इति सूत्रेण । अतः क्तप्रत्ययस्य योगे षष्ठी न प्राप्यते एव तर्हि कथं षष्ठीतत्पुरुषसमासः जायते ?</big>
 
 
<big>अत्र उच्यते यत् '''अधिकरणवाचिनश्च''' ( २.३.६८)</big> <big>इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति | अर्थात् अधिकरणार्थे क्तस्य योगे षष्ठी स्यात् | इदं सूत्रं '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इति निषेधस्य अपवादः | यथा इदम् एषाम् आसितम् | इदम् एषां शयितम् | इदम् अहेः सुप्तम् | इदं वनकपेः यातम् | इदम् एषां भुक्तम् | इदम् एषाम् अशितम् | इदम् एषां गतम् | '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण प्रतिषेधे प्राप्ते पुनः षष्ठी विधीयते '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रेण | '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रं '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रस्य अपवादः अस्ति |</big>
 
 
<big>इदम् एषाम् आसितम् इत्यत्र आस् इति अकर्मकधातुः ध्रौव्यार्थे अस्ति इति कृत्वा '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण अधिकरणार्थे क्तप्रत्ययः विधीयते, अतः आसितम् इति रूपं लभ्यते | अत्र क्तप्रत्ययः अधिकरणार्थे विहितः इत्यतः अधिकरणम् उक्तं भवति येन अधिकरणस्य प्रथमाविभक्तिः एव जायते | इदम् इति अधिकरणवाचिशब्दः , आसितम् इति क्तान्तेन उक्तः इति कृत्वा इदम् इति प्रथमाविभक्तौ अस्ति | सामान्यतया अधिकरणस्य सप्तमीविभक्तिः जायते यदि अधिकरणं प्रत्ययेन अनुक्तं भवति | परन्तु अत्र क्तप्रत्ययेन अधिकरणम् उक्तम् इत्यतः अधिकरणस्य प्रथमा जायते | आसितम् इत्यनेन इदम् इति अधिकरणम् उक्तम् परन्तु इमे इति कर्तारः तु अनुक्ताः सन्ति | तर्हि आसितम् इति क्तप्रत्ययान्तस्य योगे इमे इति कर्तॄणां षष्ठी प्राप्ता अस्ति '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण | तस्याः षष्ठेः निषेधः क्रियते '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण | पुनः '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे कर्तुः षष्ठी विभक्तिर्भवति | आसितम् इति क्तान्तस्य योगे अनुक्तकर्तरि षष्ठी विभक्तिः जायते | अतः एषाम् इति षष्ठ्यन्तं जायते | वाक्यं भवति एषां इदम् आसितम् इति |</big>
 
 
<big>एवमेव अन्येषु उदाहरणेषु अपि द्रष्टव्यम् |</big>
 
 
<big>इदम् एषां गतं – गम् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, गत इति प्रातिपदिकं निष्पन्नम् | अधिकरणार्थे गतम् इति क्तप्रत्ययान्तस्य शब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्तः आसीत् तस्य निषेधः क्रियते '''अधिकरणवाचिना च''' (२.२.१३) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषां गतम् |</big>
 
 
<big>इदम् एषां भुक्तम् – भुज् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, भुक्त इति प्रातिपदिकं निष्पन्नम् | अधिकरणार्थे भुक्तम् इति क्तप्रत्ययान्तस्य शब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्त आसीत् तस्य निषेधः क्रियते '''अधिकरणवाचिना च''' (२.२.१३) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषां भुक्तम् |</big>
 
 
<big>'''एकस्मिन् वाक्ये कर्तुः कर्मणः च द्वयोः प्राप्तिः चेत्'''</big> -
 
 
<big><u>'''एकस्मिन् वाक्ये कर्तुः कर्मणः च द्वयोः प्राप्तिः चेत्'''</u></big> -
 
 
<big>यदि '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण अधिकरणार्थे क्तप्रत्ययः विहितः तर्हि एकस्मिन्नेव वाक्ये कर्तृकर्मणी द्वे अपि अनुक्ते भवितुम् अर्हतः | एवं चेत् '''अधिकरणवाचिनश्च''' ( २.३. ६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे अनुक्तकर्तुः षष्ठी विभक्तिर्भवति वा नो चेत् अनुक्तकर्मणः भवति वा नो चेत् द्वयोः अपि भवति वा ?</big>
 
 
<big>अस्य प्रश्नस्य समाधानार्थं किञ्चित् सूत्रक्रमविषये चिन्तनीयं भवति | क्तप्रत्ययान्तशब्दः तु कृदन्तः वर्तते इति कारणेन '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण कृद्योगे अनुक्ते कर्तरि कर्मणि च षष्ठी स्यात् | किन्तु अस्य सूत्रस्य नियमनं क्रियते '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इत्यनेन | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रेण कर्तृकर्मणोः उभयोः प्राप्तिः यस्मिन् कृति वर्तते तत्र कर्मण्येव षष्ठी विभक्तिर्भवति, न तु कर्तरि | पुनः '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण '''कर्तृकर्मणोः कृति''' (२.३.६५) इति प्राप्ता षष्ठी प्रतिषिध्यते | अनेन ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति | पुनः '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति इत्युक्तम् | '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रं तु '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इत्यस्य अपवादः अस्ति |</big>
 
 
<big>अधो भागे कोष्ठके अष्टाध्य्यायाः आधारेण सूत्राणां क्रमः उच्यते -</big>
Line 1,820 ⟶ 1,837:
|'''<big>न लोकाव्ययनिष्ठाखलर्थतृनाम् ( २.३. ६९)</big>'''
|<big>'''कर्तृकर्मणोः कृति''' (२.३.६५) इति प्राप्ता षष्ठी प्रतिषिध्यते</big>
|<big>निषेधकसूत्रं</big> <big>('''(कर्तृकर्मणोः कृति''' ( २.३.६५) इत्यस्य )'''</big>
|}
 
 
<big>एतादृशक्रमं मनसि निधाय अग्रे उदाहरणं नीत्वा पश्यामः |</big>
 
 
<big>'''एषाम् इदं भुक्तम् ओदनस्य''' | अस्मिन् उदाहरणे भुज् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, भुक्त इति प्रातिपदिकं निष्पन्नम् | नपुंसकलिङ्गे भुक्तम् इति रूपं भवति | अधिकरणार्थे भुक्तम् इति क्तप्रत्ययान्तस्य योगे '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रेण षष्ठी विभक्तिर्भवति इत्युक्तम् | अस्माकम् उदाहरणे तु कर्ता, कर्म च द्वयमपि अनुक्तम् |</big>
 
 
<big>'''''एषाम् इदं भुक्तम् ओदनस्य''''' इति उदाहरणस्य लटि वाक्यमेवं सम्भवति - '''इमे अस्मिन् ओदनं भुञ्जते''' इति | अत्र ''कर्ता इमे'', ''कर्म ओदनम्, अधिकरणम् अस्मिन्, भुञ्जते इति क्रियापदम्'' | अस्मिन् वाक्ये कर्ता, कर्म च उल्लेखितं वर्तते |</big>
 
 
<big>'''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति इत्युक्तम् | सूत्रे कर्तुः भवति वा नो चेत् कर्मणः भवति वा इति नोक्तम् | परन्तु सूत्रक्रमम् आधारीकृत्य वयं पश्यामः चेत् आदौ '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रेणैव कृद्योगे षष्ठी प्राप्ता आसीत् कर्तुः कर्मणः च, तस्य नियमनं क्रियते '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रेण | तर्हि यत्र उभयप्राप्तिः अस्ति एकस्मिन्नेव कृति तर्हि कर्मणि एव षष्ठी स्यात् '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इत्यस्य आधारेण | अतः अस्माकं प्रकृतोदाहरणे कृद्योगे कर्मणः एव षष्ठी स्यात् न तु कर्तुः | अतः '''''एभिः इदं भुक्तम् ओदनस्य''' इति वाक्यं स्यात् |'' परन्तु '''एषाम् इदं भुक्तम् ओदनस्य''' इति वाक्यं दृश्यते व्याख्यानेषु, तर्हि तत् कथं सिद्धयति इति चिन्तनीयम् ''|''</big>
 
 
<big>'''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रस्य न्यासव्याख्यायामेवम्</big> <big>उक्तं यत् यत्र कर्ता एव संभवति तत्र कर्तरि</big> <big>षष्ठी</big> <big>भवति, यथा – इदम् एषाम् आसितमिति | अत्र आसेः (आस्-धातोः) अकर्मकत्वात् कर्ता एव सम्भवति, न कर्म | यत्र तु कर्म कर्ता द्वयमपि सम्भवति तत्र उभयत्रापि षष्ठी भवति, यथा – इदम् एषां भुक्तम् ओदनस्य इति | भुजेः ( भुज्-धातोः) सकर्मकत्वात् कर्म अपि अस्ति एव ओदनः | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति नियमः कस्मात् न भवति? '''कर्त्तृकर्मणोः कृति''' ( २.३.६५ ) इत्यस्याः षष्ठ्याः प्राप्तेः एव नियमो विज्ञायते | `'''अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या।प।१९) इति, `मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्`''' (व्या।प।१०) इति वा |</big>
 
<big>'''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रस्य न्यासव्याख्यायामेवम्</big> <big>उक्तं यत् यत्र कर्ता एव संभवति तत्र कर्तरि</big> <big>षष्ठी</big> <big>भवति, यथा – इदम् एषाम् आसितमिति | अस्य एव लटि वाक्यम् अस्ति - अस्मिन् इमे आसते | अत्र आसेः (आस्-धातोः) अकर्मकत्वात् कर्ता एव सम्भवति, न कर्म | यत्र तु कर्म, कर्ता द्वयमपि सम्भवति तत्र उभयत्रापि षष्ठी भवति, यथा – इदम् एषां भुक्तम् ओदनस्य इति | भुजेः ( भुज्-धातोः) सकर्मकत्वात् कर्म अपि अस्ति एव ओदनः | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति नियमः कस्मात् न भवति? '''कर्त्तृकर्मणोःकर्तृकर्मणोः कृति''' ( २.३.६५ ) इत्यस्याः षष्ठ्याः प्राप्तेः एव नियमो विज्ञायते | `'''अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या।प।१९) इति, `मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्`''' (व्या।प।१०) इति वा |</big>
 
 
<big>बालमनोरमायामेवम् उक्तम् - इदमेषां भुक्तमोदनस्य इत्यत्र तु कर्तृकर्मणोद्वयोरपि षष्ठी इति | 'उभयप्राप्तौ' इति नियमस्तु न प्रवर्तते, '''मध्येऽपवादन्यायेन''' कर्तृकर्मणोः कृति इति षष्ठ्या एव तत् नियमाभ्युपगमात् |</big>
 
 
<big>एतत् कथं वा सिद्धयति इति ज्ञातुं '''१)`अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा, २) मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषाद्वयं ज्ञातव्यम् | एकया परिभाषया एव कार्यं सिद्धयति तथापि द्वयोः पठनं वयं कुर्मः |</big>
 
१) <big>'''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषा | विधिः वा प्रतिषेधः वा अनन्तरस्यैव अव्यवहितस्यैव भवति न तु व्यवहितस्य इति परिभाषार्थः | अस्यां परिभाषायां वा इति शब्दः '''च''' इत्यस्मिन् अर्थे प्रयुक्तः अस्ति |</big>
 
१) <big>'''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषा | विधिः वा प्रतिषेधः वा अनन्तरस्यैव अव्यवहितस्यैव भवति न तु व्यवहितस्य इति परिभाषार्थः | अस्यां परिभाषायां वा इति शब्दः '''<u></u>''' इत्यस्मिन् अर्थे प्रयुक्तः अस्ति |</big>
<big>'''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रे उक्तं यत् उभयप्राप्तिः यस्मिन् कृति तत्र कर्मणि एव षष्ठी स्यात् | अस्मिन् सूत्रे कर्तुः षष्ठी न स्यात् इति यः प्रतिषेधः वर्तते, सः प्रतिषेधः अनन्तरस्यैव अव्यवहितस्यैव भवति न तु व्यवहितस्य इति | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रस्य साक्षात् परं '''क्तस्य च वर्तमाने''' ( २.३. ६७) इति सूत्रम् अस्ति | अतः यदि '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रेण उक्तस्य प्रतिषेधस्य कार्यम् अनन्तरस्य अव्यवहितस्य '''क्तस्य च वर्तमाने''' ( २.३. ६७) इति सूत्रे एव भवितुम् अर्हति अस्याः परिभाषायाः आधारेण तर्हि अस्य सूत्रस्य निषेधः न भवति '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रे |</big>
 
 
<big>'''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रे उक्तं यत् उभयप्राप्तिः यस्मिन् कृति तत्र कर्मणि एव षष्ठी स्यात् | अस्मिन् सूत्रे कर्तुः षष्ठी न स्यात् इति यः प्रतिषेधः वर्तते, सः प्रतिषेधः अनन्तरस्यैव अव्यवहितस्यैव भवति न तु व्यवहितस्य इति | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रस्य साक्षात् परं '''क्तस्य च वर्तमाने''' ( २.३. ६७) इति सूत्रम् अस्ति | अतः यदि '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रेण उक्तस्य प्रतिषेधस्य कार्यम् अनन्तरस्य अव्यवहितस्य '''क्तस्य च वर्तमाने''' ( २.३. ६७) इति सूत्रे एव भवितुम् अर्हति अस्याः परिभाषायाः आधारेण, तर्हि अस्य'''उभयप्राप्तौ सूत्रस्यकर्मणि''' निषेधः( २.३.६६) भवतिइति सूत्रेण '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रेसूत्रं न निषिध्यते |</big>
 
 
२) <big>'''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषा | अनया परिभाषया सूत्रपाठे सामान्यशास्त्रमध्ये पठितानि विशेषसूत्राणि (अपवादसूत्राणि) स्वापेक्षया पूर्वाणि एव तानि बाधन्ते न तु पराणि इति परिभाषार्थः । मध्ये पठिता: अपवादाः पूवस्यैव विधेः बाधकाः भवन्ति, उत्तरस्य विधेः बाधकाः न भवन्ति इत्यर्थः |</big>
 
 
<big>सामान्यशास्त्रम् अस्ति '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रं, विशेषशास्त्रम् अस्ति '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति विशेषसूत्रं '''कर्तृकर्मणोः कृति''' ( २.३.६५)''',''' '''क्तस्य च वर्तमाने''' ( २.३. ६७), '''अधिकरणवाचिनश्च''' (२.३.६८), '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३. ६९) इति सूत्राणां मध्ये पठितं वर्तते इति कारणात् इदं सूत्रं केवलं '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति अव्यवहितं पूर्वसूत्रम् एव बाधते न तु पराणि सूत्राणि | अनया परिभाषया '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रं केवलं '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति पूर्वसूत्रस्य एव बाधकम् अस्ति न तु अन्येषां परसूत्राणाम् | अतः '''अधिकरणवाचिनश्च''' (२.३.६८) इति सूत्रेण कर्तृकर्मणोद्वयोरपि षष्ठी भवितुम् अर्हति न तु केवलं कर्तुः एव | अतः एव इदमेषां भुक्तमोदनस्य इति उदाहरणं सम्भवति |</big>
 
 
 
<big>आहत्य यत्र कर्ता कर्म च द्वयमपि अनुक्तं एकस्मिन्नेव वाक्ये अपि च क्तप्रत्ययः अधिकरणार्थे विहितः तत्र द्वयोः षष्ठीविभक्तिः भवति '''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः बलेन अथवा '''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषायाः बलेन | कथञ्चित् अपि वयं समर्थयितुं शक्नुमः |</big>
 
 
<big>'''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) =  ध्रौव्यागतिप्रत्यवसानार्थेभ्यः यः क्तो विहितः सः अधिकरणे भवति | ध्रौव्यार्थकेभ्यः ( स्थिरतावाचकेभ्यः) , गत्यर्थकेभ्यः, प्रत्यवसानार्थकेभ्यः( भोजनार्थकेभ्यः) च धातुभ्यः अधिकरणर्थे क्तप्रत्ययः विधीयते | '''चाद्यथाप्राप्तम्''' - अस्मिन् सूत्रे अधिकरणार्थे क्तप्रत्ययः विधीयते इत्यतः कर्मार्थे, भावार्थे तस्य निषेधः न स्यात्, एतदर्थं सूत्रे चकारग्रहणम् अस्ति | अतः यथाप्राप्तं कर्त्रर्थे, कर्मार्थे, भावार्थे च क्तप्रत्ययस्य समुच्चयः क्रियते | सूत्रे चकारग्रहणेन यथाप्राप्तं कर्त्रर्थे, कर्मार्थे ,भावार्थे च क्तप्रत्ययः विधीयते | ध्रौव्यार्थाः अकर्मकाः, प्रत्यवसानार्थाः अभ्यवहारार्थाः ( food) इति स्वनिकायप्रसिद्धिः |  निकाय इत्युक्ते विषयः इत्यर्थः | ध्रौव्यं नाम स्थैर्यम्, स्थिरता | सूत्रे ध्रौव्यशब्देन स्थिरता इत्यस्मिन् अर्थे ये धातवः सन्ति तेषां सर्वेषां ग्रहणं भवति | एवमेव गत्यर्थकानां प्रत्यवसानार्थकानां च ग्रहणं भवति | ध्रौव्यं च गतिश्च प्रत्यवसानं च तेषाम् इतरेतरयोगद्वन्द्वः ध्रौव्यगतिप्रत्यवसानानि, तानि अर्थः येषां ते ध्रौव्यगतिप्रत्यवसानार्थाः, तेभ्यः ध्रौव्यगतिप्रत्यवसानार्तेभ्यः '''|''' क्त प्रथमान्तम् अधिकरणे सप्तम्यन्तं, चाव्ययं, ध्रौव्यगतिप्रत्यवसानार्तेभ्यः पञ्चम्यन्तम् '''|''' '''कृदतिङ्''' ( ३.१.९३) इत्यस्य अधिकारः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अधिकरणे ध्रौव्यगतिप्रत्यवसानार्थेभ्यः कृत् क्त च |'''</big>
 
 
<big>अस्मिन् पद्ये अस्य सूत्रस्य उदाहरणं लभ्यते -</big>
 
 
'''<big>मुकुन्दस्यासितमिदमिदं यातं रमापतेः |</big>'''
 
'''<big>भुक्तम् एतद् अनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः |</big>'''
 
 
<big>श्लोकार्थः = श्रीकृष्णं द्रष्टुम् अभिलाषिण्यः गोप्यः उक्तवत्यः - इदं मुकुन्दस्य उपवेशनस्थानम् इति | एतत् मुकुन्दस्य गमनागमनमार्गः इति | एतत् मुकुन्दस्य भोजनस्थानम् इति |</big>
 
 
<big>'''मुकुन्दस्यासितमिति इदम्''' - एतत् श्रीकृष्णस्य उपवेशनस्थानम् | आसितम् = आस्यते अस्मिन् इति आसनस्थानम् इत्यर्थः | ध्रौव्योदाहरणमिदम् | आस उपवेशने इति ध्रौव्यर्थकधातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण | आस इति धातुः सेट् इति कृत्वा इडागमः भूत्वा आसितम् इति रूपं लभ्यते | पक्षे आसेः अकर्मकत्वात् कर्तरि भावे च अपि क्तप्रत्ययान्तं रूपं लभ्यते | '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रे चकारग्रहणात् कर्त्रर्थे कर्मार्थे भावार्थे च क्तप्रत्ययः विधीयते | आस इति धातुः अकर्मकः इति कारणेन क्तप्रत्ययः कर्त्रर्थे भावार्थे च भवति | '''गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च''' ( ३.४.७२) इति सूत्रेण गत्यर्थकेभ्यः अकर्मकेभ्यः च धातुभ्यः क्तप्रत्ययः कर्त्रर्थे भवति | '''तयोरेव कृत्यक्तखलर्थाः''' ( ३.४.७०) इति सूत्रेण क्तप्रत्ययः कर्मार्थे भावार्थे च भवति | कर्तरि प्रयोगे वाक्यं भवति मुकुन्दः आसितः इति | भावे प्रयोगे वाक्यं भवति तेन आसितम् इति |</big>
 
 
<big>'''इदं यातं रमापतेः''' = इदं रमापतेः गमनागमनस्य मार्गः इत्यर्थः | यातम् = गम्यते अत्र इति यातं, मार्गः इत्यर्थः | गत्यर्थोदाहरणमिदम् | या गतिप्रापणयोः इति गत्यर्थकधातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण | '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रे चकारग्रहणात् कर्त्रर्थे कर्मार्थे भावार्थे च क्तप्रत्ययः विधीयते यथाप्राप्तम् | गत्यर्थकेभ्यः धातुभ्यः क्तप्रत्ययः कर्त्रर्थे भावार्थे च भवति | कर्त्रर्थे '''गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च''' ( ३.४.७२) इति सूत्रेण क्तप्रत्ययः विधीयते अतः वाक्यं भवति रमापतिः इदं यातः | कमार्थे क्तप्रत्ययः विधीयते '''तयोरेव कृत्यक्तखलर्थाः''' ( ३.४.७०) इति सूत्रेण, अतः वाक्यं भवति तेन इदं यातम् इति |</big>
 
 
<big>'''एतत् अनन्तस्य भुक्तम्''' = एतत् श्रीकृष्णस्य भोजनस्थानम् इत्यर्थः | भुक्तं = भुज्यते अस्मिन् इति भुक्तम् | प्रत्यवसानोदहरणमिदम् | भुज पालनाभ्यवहारयोः इति प्रत्यवसानार्थकधातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण | '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रे चकारग्रहणात् कर्त्रर्थे कर्मार्थे भावार्थे च क्तप्रत्ययः विधीयते | भुज् इति धातुः प्रत्यवसानार्थकः अतः कर्मार्थे अपि क्तप्रत्ययः विधीयते, अतः वाक्यं भवति तेन इदं भुक्तम् इति |</big>
 
 
<big>'''इति गोप्यः दिदृक्षवः ऊचुः''' = एवं दर्शनाभिलाषिण्यः गोप्यः उक्तवत्यः | ऊचुः इति लिट्लकारे प्रथमपुरुषे बहुवचनान्तं रूपम् | ऊचुः नाम उक्तम् इत्यर्थः |</big>
 
 
<big>'''अधिकरणवाचिनश्च''' ( २.३. ६८) = अधिकरणवाचिनः क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति | '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण अधिकरणार्थे यः क्तप्रत्ययः विधीयते तस्य ग्रहणं भवति प्रकृतसूत्रे | क्तप्रत्ययः निष्ठासंज्ञकः इति कृत्वा तस्य योगे कर्तुः कर्मणः षष्ठी न भवति '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण | प्रकृतसूत्रं '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रस्य अपवादः अस्ति | अधिकरणं वक्ति इति अधिकरणवाची, तस्य अधिकरणवाचिनः | अधिकरणवाचिनः षष्ठ्यन्तं, चाव्ययम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् षष्ठी इत्यस्य अनुवृत्तिः | '''क्तस्य च वर्तमाने''' ( २.३.६७) इति सूत्रात् क्तस्य इत्यस्य अनुवृत्तिः | '''अनभिहिते''' ( २.३.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अधिकरणवाचिनः''' '''क्तस्य च षष्ठी अनभिहिते''' '''|''' यथा इदम् एषाम् आसितम् | इदम् एषां शयितम् | इदम् अहेः सुप्तम् | इदं वनकपेः यातम् | इदम् एषां भुक्तम् | इदम् एषाम् अशितम् | इदम् एषां गतम् |</big>
 
 
----<big>६)     ''' '''कृद्योगे कर्मणि या षष्ठी प्राप्ता, तादृशस्य षष्ठ्यन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह समासः न भवति |</big>
 
page_and_link_managers, Administrators
5,155

edits