14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,707:
<big>एवम् उपरि उक्तेषु अर्थेषु षष्ठीतत्पुरुषसमासः निषिध्यते  |</big>
|}
----<big>४)    </big><big>पूजार्थे, सत्कारार्थे, बुद्ध्यर्थे च यः क्तप्रत्ययः वर्तमानकालार्थे विधीयते, तदन्तेन सुबन्तेन सह षष्ठ्यन्तं सुबन्तं न समस्यते |</big>
----<big>४)    </big>
 
<big>पूजार्थे, सत्कारार्थे, बुद्ध्यर्थे च यः क्तप्रत्ययः वर्तमानकालार्थे विधीयते, तदन्तेन सुबन्तेन सह षष्ठ्यन्तं सुबन्तं न समस्यते |</big>
 
====== '''<big>क्तेन च पूजायाम् (२.२.१२)</big>''' ======
 
 
<big>इच्छार्थे, पूजार्थे (सत्कारार्थे), बुद्ध्यर्थे च यः क्तप्रत्ययः वर्तमानकालार्थे विधीयते, तदन्तेन सुबन्तेन सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते | कृदन्तप्रकरणे पूजाद्यर्थे क्तप्रत्ययः विधीयते वर्तमानार्थे '''मतिबुद्धिपूजार्थेभ्यश्च''' ( ३.२.१८८) इत्यनेन सूत्रेण | प्रकृतसूत्रे पूजायाम् इति पदं क्तप्रत्ययस्य उपलक्षणम् अस्ति | अर्थात् '''मतिबुद्धिपूजार्थेभ्यश्च''' ( ३.२.१८८) इत्यनेन सूत्रेण यः क्तप्रत्ययः विधीयते इच्छार्थे, पूजार्थे, बुद्ध्यर्थे च तस्य सङ्केतः अस्ति प्रकृतसूत्रे | '''मतिबुद्धिपूजार्थेभ्यश्च''' ( ३.२.१८८) इति सूत्रेण क्तप्रत्ययः विधीयते कर्मार्थे अथवा भावार्थे |</big><big>क्तेन तृतीयान्तं, चाव्ययं, पूजायां सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''पूजायां''' '''षष्ठी सुप् क्तेन सुपा सह न तत्पुरुषः समासः च |'''</big>
 
<big>क्तेन तृतीयान्तं, चाव्ययं, पूजायां सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''पूजायां''' '''षष्ठी सुप् क्तेन सुपा सह न तत्पुरुषः समासः च |'''</big>
 
<big>यथा—</big>
 
 
 
<big>१)</big> <big>राज्ञां मतः = मतः इति क्तप्रत्ययान्तः शब्दः इच्छार्थे अस्ति | मन् इति धातुतः क्तप्रत्ययस्य विधानं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण भवति, अतः मतः इति रूपं निष्पन्नं भवति | वाक्यमेवं भवति राज्ञां मतः (इष्टः) पुत्रः | मतः इति क्तान्तस्य योगे राजशब्दस्य षष्ठीविभक्तिः जायते '''क्तस्य च वर्तमाने''' ( २.३.६७) इति सूत्रेण | '''क्तस्य च वर्तमाने''' ( २.३.६७) इति सूत्रेण क्तस्य वर्तमानकालविहितस्य प्रयोगे षष्ठी विभक्तिर्भवति | मतः इति क्तप्रत्ययान्तः वर्तमानकाले विहितः इत्यतः राज्ञाम् इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति '''षष्ठी''' (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः क्रियते '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण | अतः राजमतः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – राज्ञां मतः इति |</big>
 
 
 
page_and_link_managers, Administrators
5,097

edits