14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,810:
 
 
<big>अस्य प्रश्नस्य समाधानार्थं किञ्चित् सूत्रक्रमविषये चिन्तनीयं भवति | क्तप्रत्ययान्तशब्दः तु कृदन्तः वर्तते इति कारणेन '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण कृद्योगे अनुक्ते कर्तरि कर्मणि च षष्ठी स्यात् | किन्तु अस्य सूत्रस्य नियमनं क्रियते '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इत्यनेन | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रेण कर्तृकर्मणोः उभयोः प्राप्तिः यस्मिन् कृति वर्तते तत्र कर्मण्येव षष्ठी विभक्तिर्भवति, न तु कर्तरि | पुनः '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रेण '''कर्तृकर्मणोः कृति''' (२.३.६५) इति प्राप्तासूत्रेण षष्ठीप्राप्तायाः प्रतिषिध्यतेषष्ठ्याः प्रतिषेधः | अनेन ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति | पुनः '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति इत्युक्तम् | '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रं तु '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इत्यस्य अपवादः अस्ति |</big>
 
 
Line 1,830:
|'''<big>क्तस्य च वर्तमाने ( २.३. ६७)</big>'''
|<big>'''मतिबुद्धिपूजार्थेभ्यश्'''च ( ३.२.१८८) इत्यनेन वर्तमानार्थे विहितस्य क्तस्य योगे षष्ठी भवति कर्तुः</big>
|<big>अपवादसूत्रम्</big> <big>'''(न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३. ६९) इत्यस्य ''')'''</big>
|-
|'''<big>अधिकरणवाचिनश्च ( २.३.६८)</big>'''
Line 1,845:
 
 
<big>'''एषाम् इदं भुक्तम् ओदनस्य''' | अस्मिन् उदाहरणे भुज् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, भुक्त इति प्रातिपदिकं निष्पन्नम् | नपुंसकलिङ्गे भुक्तम् इति रूपं भवतिरूपम् | अधिकरणार्थे भुक्तम् इति क्तप्रत्ययान्तस्य योगे '''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रेण षष्ठी विभक्तिर्भवति इत्युक्तम् | अस्माकम् उदाहरणे तु कर्ता, कर्म च द्वयमपि अनुक्तम् |</big>
 
 
Line 1,851:
 
 
<big>'''अधिकरणवाचिनश्च''' ( २.३.६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे षष्ठी विभक्तिर्भवति इत्युक्तम् | सूत्रे कर्तुः भवति वा नो चेत् कर्मणः भवति वा इति नोक्तम् | परन्तु सूत्रक्रमम् आधारीकृत्य वयं पश्यामः चेत् आदौ '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रेणैव कर्तुः कर्मणः च कृद्योगे षष्ठी प्राप्ता आसीत् कर्तुः कर्मणः च, तस्य नियमनं क्रियते '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रेण | तर्हि यत्र उभयप्राप्तिः अस्ति एकस्मिन्नेव कृति तर्हितत्र कर्मणि एव षष्ठी स्यात् '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इत्यस्य आधारेण | अतः अस्माकं प्रकृतोदाहरणे कृद्योगे कर्मणः एव षष्ठी स्यात् न तु कर्तुः | अतः '''''एभिः इदं भुक्तम् ओदनस्य''' इति वाक्यं स्यात् |'' परन्तु '''एषाम् इदं भुक्तम् ओदनस्य''' इति वाक्यं दृश्यते व्याख्यानेषु, तर्हि तत् कथं सिद्धयति इति चिन्तनीयम् ''|''</big>
 
 
Line 1,879:
<big>आहत्य यत्र कर्ता कर्म च द्वयमपि अनुक्तं एकस्मिन्नेव वाक्ये अपि च क्तप्रत्ययः अधिकरणार्थे विहितः तत्र द्वयोः षष्ठीविभक्तिः भवति '''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः बलेन अथवा '''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषायाः बलेन | कथञ्चित् अपि वयं समर्थयितुं शक्नुमः |</big>
 
 
<big>अत्र अन्यापि परिभाषा वर्तते - '''पुर�तादपवादाः अनन्तरान् �विधीन् बाधन्ते नोत्तरान्''' इति | अस्याः परिभाषायाः अर्थः एवमस्ति - सूत्रपाठक्रमे पूर्वपठितानि विशेषशास्त्राणि स्व-अव्यवहितानि सामान्यशास्त्राणि एव बाधन्ते न तु व्यवहितानि | यथा सूत्रपाठक्रमे '''एत्येधत्यूठसु''' ( ६.१.८९) इति विशेषशास्त्रं, तदव्यवहितसामान्यशास्त्रं '''एङि पररूपं''' ( ६.१.९४), अतः तदेव बाधते न तु व्यवहितम् '''ओमाङोश्च''' (६.१.९५) इति पररूपम् |</big>
 
 
 
<big>तेन अव + एहि (आ + इहि ) इति स्थितिः | आ + इहि इत्यत्र आङ्-उपसर्गस्य 'इहि' इत्यस्य इकारेण सह गुणैकादेशे कृते '''आद्गुणः''' (६.१.८७) इत्यनेन सूत्रेण '''एहि''' इति रूपं प्राप्यते | अव + एहि इति स्थिते, '''वृद्धिरेचि''' (६.१.८८) इति सूत्रं बाधित्वा '''एत्येधत्यूठ्सु''' (६.१.८९) इत्यनेन वृद्ध्येकादेशः प्राप्तः अस्ति | परन्तु अत्र '''एत्येधत्यूठ्सु''' (६.१.८९) इति विशेषसूत्रम् '''एङि पररूपं''' ( ६.१.९४) इति अव्यवहितस्य सामान्यसूत्रस्य बाधां करोति न तु व्यवहितस्य '''ओमाङोश्च''' (६.१.९५) इति सूत्रस्य कार्यम् | '''पुर�तादपवादाः अनन्तरान् �विधीन् बाधन्ते नोत्तरान्''' इति पारिभाषायाः बलेन अत्र '''ओमाङोश्च''' (६.१.९५) इत्यनेन पररूपमेव भवति न तु वृद्धिः '''एत्येधत्यूठ्सु''' (६.१.८९) इति सूत्रेण | अतः अवेहि इति रूपं लभ्यते |</big>
 
 
<big>'''एत्येधत्यूठसु''' (६.१.८९) = अवर्णात् इण्-धातोः एध्-धातोः च एच्-वर्णे परे तथा ऊठ्-शब्दे परे संहितायाम् पूर्वपरयोः एकः वृद्धि-आदेशः भवति |</big>
 
 
<big>'''एङि पररूपम्''' (६.१.९४) = अवर्णान्तात् उपसर्गात् एकारादि/ओकारादि-धातुरूपे परे पूर्वपरयोः एकः पररूपः आदेशः भवति |</big>
 
 
<big>'''ओमाङोश्च''' ( ६.१.९५) = अवर्णात् ओम्-शब्दे परे आङ्-शब्दे च परे संहितायाम् पूर्वपरयोः एकः पररूप-एकादेशः भवति |</big>
 
 
 
<big>प्रकृतस्थितौ</big> '''<big>पुर�तादपवादाः अनन्तरान् �विधीन् बाधन्ते नोत्तरान्</big>''' <big>इति पारिभाषायाः बलेन '''क्तस्य च वर्तमाने''' ( २.३.६७), '''अधिकरणवाचिनश्च''' ( २.३.६८) चेति द्वे विशेषसूत्रे (अपवादसूत्रे) तयोः अनन्तरं विद्यमानस्य सामान्यसूत्रस्य '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रस्य बाधां करोति |</big>
 
 
<big>'''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) =  ध्रौव्यागतिप्रत्यवसानार्थेभ्यः यः क्तो विहितः सः अधिकरणे भवति | ध्रौव्यार्थकेभ्यः ( स्थिरतावाचकेभ्यः) , गत्यर्थकेभ्यः, प्रत्यवसानार्थकेभ्यः( भोजनार्थकेभ्यः) च धातुभ्यः अधिकरणर्थे क्तप्रत्ययः विधीयते | '''चाद्यथाप्राप्तम्''' - अस्मिन् सूत्रे अधिकरणार्थे क्तप्रत्ययः विधीयते इत्यतः कर्मार्थे, भावार्थे तस्य निषेधः न स्यात्, एतदर्थं सूत्रे चकारग्रहणम् अस्ति | अतः यथाप्राप्तं कर्त्रर्थे, कर्मार्थे, भावार्थे च क्तप्रत्ययस्य समुच्चयः क्रियते | सूत्रे चकारग्रहणेन यथाप्राप्तं कर्त्रर्थे, कर्मार्थे ,भावार्थे च क्तप्रत्ययः विधीयते | ध्रौव्यार्थाः अकर्मकाः, प्रत्यवसानार्थाः अभ्यवहारार्थाः ( food) इति स्वनिकायप्रसिद्धिः |  निकाय इत्युक्ते विषयः इत्यर्थः | ध्रौव्यं नाम स्थैर्यम्, स्थिरता | सूत्रे ध्रौव्यशब्देन स्थिरता इत्यस्मिन् अर्थे ये धातवः सन्ति तेषां सर्वेषां ग्रहणं भवति | एवमेव गत्यर्थकानां प्रत्यवसानार्थकानां च ग्रहणं भवति | ध्रौव्यं च गतिश्च प्रत्यवसानं च तेषाम् इतरेतरयोगद्वन्द्वः ध्रौव्यगतिप्रत्यवसानानि, तानि अर्थः येषां ते ध्रौव्यगतिप्रत्यवसानार्थाः, तेभ्यः ध्रौव्यगतिप्रत्यवसानार्तेभ्यः '''|''' क्त प्रथमान्तम् अधिकरणे सप्तम्यन्तं, चाव्ययं, ध्रौव्यगतिप्रत्यवसानार्तेभ्यः पञ्चम्यन्तम् '''|''' '''कृदतिङ्''' ( ३.१.९३) इत्यस्य अधिकारः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अधिकरणे ध्रौव्यगतिप्रत्यवसानार्थेभ्यः कृत् क्त च |'''</big>
page_and_link_managers, Administrators
5,097

edits