14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,889:
 
 
<big>अत्र अन्यापि परिभाषा वर्तते - '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्''' इति | अस्याः परिभाषायाः अर्थः एवमस्ति - सूत्रपाठक्रमे पूर्वपठितानि विशेषशास्त्राणि स्व-अव्यवहितानि सामान्यशास्त्राणि एव बाधन्ते न तु व्यवहितानि | यथा सूत्रपाठक्रमे '''एत्येधत्यूठसु''' ( ६.१.८९) इति विशेषशास्त्रं, तदव्यवहितसामान्यशास्त्रं '''एङि पररूपं''' ( ६.१.९४) इति, अतः तदेव बाधते न तु व्यवहितम् '''ओमाङोश्च''' (६.१.९५) इति पररूपम् | एत्येधत्यूठ्सु इत्यनेन सूत्रेण विधीयमाना वृद्धिः पररूपगुणयोः अपवादः भवति | अत्र बाध्यविशेषचिन्तापक्षे पररूपविधायकसूत्रे द्वे स्तः – १) '''एङि पररूपम्''' (६-१ -९४), २) '''ओमाङोश्च''' ( ६ -१ -९५) इति | अनयोः द्वयोः मध्ये केन सूत्रेण विहितस्य पररूपस्य बाधकं भवति इति जिज्ञासायां '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्''' इति एषा परिभाषा आरब्धा |</big>
 
 
 
<big>बाधकशास्त्रस्य आकाङ्क्षा जायते , मम बाध्यम् किमति ?</big>
 
<big>तदा प्रथमोपस्थितत्वाद् अनन्तरं शास्त्रमन्वेति | अतः आकाङ्क्षा शान्ता | तदनन्तरं विद्यमानं शास्त्रं न बाधते आकाङ्क्षायाः अभावात् | किञ्च व्यवहितस्यापि बाधे विप्रतिषेधे परं कार्यम् इति शास्त्रस्य बाधकल्पना वक्तव्या यतोहि तेन सूत्रेण परशास्त्रस्य प्राबल्यं बोध्यते, अनेन बाधकशास्त्रस्य पूर्वशास्त्रस्य प्राबल्यबोधने विरोधः स्पष्टः एव |</big>
 
 
 
 
 
page_and_link_managers, Administrators
5,097

edits