14---samAsaH/03C---tatpuruShasamAsaH---karmadhArayaH: Difference between revisions
14---samAsaH/03C---tatpuruShasamAsaH---karmadhArayaH (view source)
Revision as of 07:35, 18 July 2021
, 2 years agono edit summary
No edit summary |
No edit summary |

Line 1:
{{DISPLAYTITLE: 03C - तत्पुरुषसमासः - कर्मधारयः}}
=== 3) कर्मधारयसमासः ===
कर्मधारयसमासः तत्पुरुषसमासस्य एव एकः प्रकारः अस्ति। यत्र तत्पुरुषसमासे समानाधिकरण्यं वर्तते तत्र कर्मधारयः इति संज्ञा भवति तत्पुरुषसमासस्यैव।कर्मधारयसमासे पूर्वपदम् अपि प्रथमाविभक्तौ भवति, उत्तरपदम् अपि प्रथमाविभक्तौ एव भवति, पूर्वोत्तरपदयोः समानाधिकरण्यं भवति।

'''तत्पुरुषः समानाधिकरणः कर्मधारयः''' ( १.२.४२) = तत्पुरुषः इति समासविशेषस्य संज्ञां वक्ष्यति। सः तत्पुरुषः समानाधिकरणपदः कर्मधारयसंज्ञो भवति। समानाधिकरणः इति शब्दः समानविभक्तिकत्वं बोधयति । समासे यदि पूर्वपदस्य अपि च उत्तरपदस्य समानविभक्तिः भवति तर्हि सः समासः कर्मधारयसंज्ञां प्राप्नोति। तत्पुरुषः प्रथमान्तं, समानाधिकरणः प्रथमान्तं, कर्मधारयः प्रथमान्तं, त्रिपदमिदं सूत्रम्। '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः। '''विभाषा''' (२.१.११) इत्यस्य अधिकारः। '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः। अनुवृत्ति-सहित-सूत्रम्—समानाधिकरणःतत्परुषः समासः कर्मधारयः ।

<big
कडारादिगणे एते शब्दाः सन्ति -कडार, गडुल, काण, खञ्ज, कुण्ठ, खञ्जर, खलति, गौर, वृद्ध, भिक्षुक, पिङ्गल, तनु, वटर।
यथा –
कडारश्चासौ जैमिनिश्च = कडारजैमिनिः
<big

=== पुंवद्भावः ===
<big
उत्तमा + बालिका → उत्तमबालिका
अस्मिन् उदाहरणे समान-विभक्तिकत्वम् अपि अस्ति, एकार्थबोधकत्वम् अपि अस्ति | नाम द्वौ अपि शब्दौ प्रथमान्तौ स्तः, अतः तयोः समान-विभक्तिकत्वम् | तथा च द्वयोः अपि अर्थः सा बालिका— अतः एकार्थबोधकत्वम् अपि अस्ति | समान-विभक्तिकत्वम् अपि अस्ति, एकार्थबोधकत्वम् अपि अस्ति— अतः सामानाधिकरण्यम् अस्ति | सामानाधिकरण्यम् अस्ति, अतः पुंवद्भावः सम्भवति | इति नियमः |
समासे यत्र सामानाधिकरण्यं, तत्र स्त्रीलिङ्गे पुंवद्भावः भवति इति साधारणनियमः |
तर्हि सामानाधिकरण्यं केषु समासेषु प्राप्यते? कर्मधारय-समासे बहुव्रीहि-समासे च | अन्यत्र न |
उदाहरणार्थं रामकृष्णौ इति द्वन्द्वसमासः | अत्र समान-विभक्तिकत्वम् अस्ति किल | रामः च कृष्णः च, रामकृष्णौ | रामः अपि प्रथमान्तः, कृष्णः अपि प्रथमान्तः | किन्तु रामः रामं बोधयति, कृष्णः कृष्णं बोधयति | सामानाधिकरण्यम् इत्युक्ते समान-विभक्तिकत्वम् एव न | एकार्थबोधकत्वम् अपि आवश्यकम् | रामकृष्णौ इति पदे एकार्थबोधकत्वं नास्ति | अतः सामानाधिकरण्यं नास्ति |
अतः स्त्रीयां द्वन्द्वसमासः अस्ति चेत्, समान-विभक्तिकत्वम् भवेत् किन्तु सामानाधिकरण्यं नास्ति अतः पुंवद्भावः न भवति | लीलासीते इति |
शुद्धभाषा इति पदे सामानाधिकरण्यम् अस्ति, अतः पुंवद्भावः |
अत्र प्रश्नः उदेति, कुत्र कुत्र पंवद्भावो भवति? यथा आम्रः इति वृक्षः 'आम्रवृक्षः' इति स्थले तादृशवृक्षविशेषः स्त्रीलिङ्गशब्दः अस्ति चेत्, पंवद्भावो भवति किम्? उत्तरत्वेन सामानाधिकरण्यम् इति तु अपेक्षितमेव; इदमपि संयोजनीयम् अस्ति यत् भाषितपुंस्कानामेव पंवद्भावो भवति | भाषितपुंस्कः नाम तादृशशब्दः यः पूर्वं पूलिङ्गे आश्रितः | तदा स्त्रीत्वविवक्षायां सत्यां स्त्रीप्रत्ययं योजयित्वा स्त्रीलिङ्गपदं कुर्मः | एतादृशशब्दाः एव भाषितपुंस्काः | भाषितः पुमान् येन सह, भाषितपुंस्कः |
यथा विद्या एव धनं, विद्याधनम् | विद्या-शब्दः भाषितपुंस्कः नास्ति | किमर्थमिति चेत्, यद्यपि विद्या इति शब्दे टाप् इति स्त्रीप्रत्ययः अस्ति (प्रमुखेषु स्त्रीप्रत्ययेषु टाप्-प्रत्ययः अन्यतमः), तथापि "पूर्वं विद्यः इति शब्दः आसीत्, ततः परं टाप्-प्रत्ययः योजितः", इति नास्ति | विद्या-शब्दस्य पुंलिङ्गरूपमेव न भवति; सदा टाप्-प्रत्ययान्तमेव भवति |
पुंलिङ्गे यस्य प्रयोगो भवति, तस्मात् शब्दात् स्त्रीप्रत्ययस्य योजनेन तस्य स्त्रीलिङ्गत्वं यदि सम्पादितं, तर्हि सः शब्दः भाषितपुंस्कः | 'माला’, 'नासिका’, एतादृशबहवः शब्दाः सन्ति ये नित्यस्त्रीलिङ्गशब्दाः; तेषां स्त्रीप्रत्ययः भवत्येव |
सुन्दरी इति शब्दः भाषितपुंस्कः यतोहि सन्दरः इत्येवं पुंलिङ्गे व्यवहारः अस्ति; स्त्रीलिङ्गविवक्षायां ङीप्-प्रत्ययः योज्यते, अनेन च सुदरी इति रूपं भवति | इदं विशेष्यनिघ्नपदमिति उच्यते |
त्रिषु लिङ्गेषु सम्भावना अस्ति यस्य, तादृशविशेषणं पूर्वपदमस्ति चेदेव पुंवद्भावो भवति | अतः विशेषणपूर्वपद-कर्मधारयसमासः अस्ति चेत् भवति | सुन्दरी नदी → सुन्दरनदी |
बहुव्रीहिसमासे अपि भवति | तत्र समानाधिकरणबहुवीहिसामासः इति कश्चन प्रमुकप्रकारकः बहुव्रीहिः | यथा विशाला नासिका यस्य सः, विशालनासिकः | अपि च विशाला नासिका यस्याः सा, विशालनासिका | विशाला इति शब्दः भाषितपुंस्कः | तर्हि तादृशबहुव्रीहिसमासः यः अपरस्मिन् सन्दर्भे, अपरस्मिन् अर्थे विशेषणपूर्वपद-कर्मधारयसमासः भवितुम् अर्हति स्म, तस्मिन्नपि पुंवद्भावो भवति | उभयत्र सामानाधिकरण्यम् अस्ति |
कर्मधारयसमासे विशेषणोत्तरपदः इत्यपि अस्ति; तत्र पुंवद्भावः न सम्भवति यतोहि पूर्वपदं विशेष्यं, नियतलिङ्गम् | विशेषणोभयपदे कर्मधारये पूर्वपदं भाषितपुंस्कम् अस्ति चेत्, पुंवद्भावो भवति | यथा शीतम् उष्णं, शीतोष्णम् | रोटिका पूर्णतया शीता अपि नास्ति, पूर्णतया उष्णा अपि नास्ति इति कृत्वा द्वयोः गुणयोः तस्यां समावेशः | शीता च सा उष्णा च, शीतोष्णा रोटिका |
आहत्य विशेषणपूर्वपद-कर्मधारयसमासः, विशेषणोभयपद-कर्मधारयसमासः, समानाधिकरणबहुवीहिसामासे च, एतेषु त्रिषु स्थलेषु पुंवद्भावो भवति |
अपरेषु स्थलेषु कर्मधारयसमासः भवति— मेघः इव श्यामः मेघश्यामः इति उपमानपूर्वपद-कर्मधारयसमसः, नरः व्याघ्रः इव नरव्याघ्रः इति उपमानोत्तरपद-कर्मधारयसमसः, किन्तु एषु प्रकारेषु पूर्वपदं विशेषणं नास्ति इति कारणतः पुंवद्भावः न सम्भवति |
अतः यत्र सामानाधिकरण्यम् अस्ति (अनेन एकार्थबोधकत्वम् अस्ति, समान-विभक्तिकत्वञ्च अस्ति),अपि च (१) पूर्वपदं विशेषणं अस्ति,(२) स च पूर्वपदं भाषितपुंस्कम् अस्ति, तत्र पुंवद्भावः |
कर्मधारयसमासे, बहुव्रीहौ च पुंवद्भावः भवति एतेन सूत्रेण -

'''पुंवत् कर्मधारयजातीयदेशीयेषु''' (६.३.४२) = कर्मधारये समासे, जातीय, देशीय च इत्येतयोश्च प्रत्यययोः, भाषितपुंस्कादनूङ् स्त्रियाः पुंवद् भवति। कर्मधारयश्च जातीश्च देशीयश्च तेषामितरेतरयोगद्वन्द्वः कर्मधारयजातीयदेशीयास्तेषु कर्मधारयजातीयदेशीयेषु। पुंवद् अव्ययं, कर्मधार्यजातीयदेशीयेषु सप्तम्यन्तम्। '''स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु''' ( ६.३.३४) इत्यस्मात् सूत्रात् स्त्रियाः, भाषितपुंस्कात् तथा अनूङ् इत्यस्य अनुवृत्तिः अस्ति। अनुवृत्ति-सहित-सूत्रम् — '''कर्मधारयजातीयदेशीयेषु स्त्रियाः भाषितपुंस्कात् अनूङ् पुंवत्'''।
यथा –
महती नवमी = महानवमी। अत्र '''सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः''' (२.१.६१) इत्यनेन कर्मधारयसमासः विधीयते। महती शब्दस्य '''पुंवद्भावः भूत्वा आन्महतः समानाधिकरणजातीययोः''' (६.३.४६) इति सूत्रेण महत् शब्दस्य तकारस्य आकारादेशः भवति । '''आन्महतः समानाधिकरणजातीययोः''' (६.३.४६) इति सूत्रं वदति समानाधिकरणे उत्तरपदे जातीये च प्रत्यये परे महतः शब्दस्य आकारादेशो भवति। महादेवः। महाब्राह्मणः। महाबाहुः। महाबलः। जातीये- महाजातीयः।
कृष्णा चतुर्दशी = कृष्णचतुर्दशी।
महती चासौ प्रिया = महाप्रिया।
पाचिका चासौ स्त्री = पाचकस्त्री।
दत्ता चासौ भार्या = दत्तभार्या।
पञ्चमी चासौ भार्या = पञ्चमीभार्या।
सुकेशी चासौ भार्या = सुकेशभार्या।
पाचिका जातीया = पाचिकजातीया।
पाचिका देशीया = पाचिकदेशीया।

सम्प्रति कर्मधारयसमाससम्बद्धसूत्राणि क्रमेण पठिष्यामः । कर्मधारयसमासस्य प्रभेदान् परिशीलयामः।
१) '''विशेषणपूर्वपदकर्मधारयसमासः''' - पूर्वकाल, एक, सर्व, जरत्, पुराण, नव, केवल इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति।

<big

अस्मिन् सूत्रे '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रण।
उदा-
एकश्चासौ नाथः – एकनाथः
सर्वे च ते याज्ञिकाः = सर्वयाज्ञिकाः
जरन्तश्च ते नैयायिकाः = जरन्नैयायिकाः (वृद्धनैयायिकाः) ।
पुराणाश्च ते मीमांसकाः च = पुराणमीमांसकाः
नवाश्च ते पाठकाः च = नवपाठकाः
केवलाश्च ते वैयाकरणाः च = केवलवैयाकरणाः

२) '''दिग्वाचिनः शब्दाः, सङ्ख्यावाची शब्दः च समानाधिकरणेन सुबन्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति संज्ञायां विषये'''।
'''दिक्संख्ये संज्ञायाम्''' (२.१.५०) = दिग्वाचिनः शब्दाः, सङ्ख्या च समानाधिकरणेन सुबन्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति संज्ञायां विषये। दिक् च सङ्ख्या च तयोरितरेतरद्वन्द्वो दिक्सङ्ख्ये। दिकसङ्खये प्रथमान्तं, संज्ञायां सप्तम्यन्तं, द्विपदमिदम् सूत्रम्। '''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः।समानाधिकरणेन इत्यस्य अधिकारः द्वितीयाध्यायस्य प्रथमपादस्य अन्तपर्यन्तम् अस्ति। '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। '''विभाषा''' (२.१.११) इत्यस्य अधिकारः। '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः। '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अत्र सुप् इति शब्दस्य विभक्तिपरिमाणः इति कृत्वा प्रथमाविभक्तौ द्विवचने भवति । अनुवृत्ति-सहित-सूत्रम्— संज्ञायां दिक्सङ्ख्ये सुपि समानाधिकरणेन सुपा सह विभाषा तत्परुषःसमासः, ।
वस्तुतः इदं सूत्रं केवलं वदति यत् दिगवाचकं, सङ्ख्यावाचकं सुबन्तं पदं च समानाधिकरणेन सुबन्तेन सह द्विगुतत्पुरुषसमासः भवति केवलं संज्ञायां विषये एव। अयं च समासः '''विशेषणं विशेष्येण बहुलम्''' (२.१.५७) इत्यनेन एव सिद्धः खलु | तर्हि पुनः संज्ञायाम् इति कथनस्य का आवश्यकता? '''सिद्धे सति आरभ्यमाणो विधिर्नियमाय भवति''' | अयं समासः पुनः उक्तः यतोहि अनेन नियमयति; इदं सूत्रं नियमसूत्रम् | संज्ञायाः इत्यस्य पुनः कथनेन केवलं संज्ञायाम् एव दिग्वाचकं सुबन्तम् अपि च संङ्ख्यावाचि सुबन्तं, तयोः समासः भवति समानाधिकरणेन सुबन्तेन सह, न अन्यत्र इति फलितार्थः |
दिग्वाचकपदेन सह समासस्य उदाहरणम्
पूर्वा + इषुकामशमी = पूर्वेषुकामशमी (पूर्वा इति दिग्वाचकः शब्दः अस्ति। समासानन्तरं पूर्वेषुकामशमी इति ग्रामवाचकं पदं भूत्वा संज्ञार्थम् अपि सूचयति। अर्थात् पूर्वेषुकामशमी इति एकः प्राचीनः ग्रामः।
सङ्ख्यावाचिपदेन सह समासस्य उदाहरणम्
सप्त च ते ऋषयः च = सप्तर्षयः सप्तानाम् ऋषिनां समूहः इति कारणेन सप्तर्षयः पदं संज्ञार्थे अस्ति। सप्त इति पदं संङ्ख़्यावाचकं पदम् अस्ति। अलौकिकविग्रहः – सप्तन् + जस् + ऋषि + जस्। अत्र '''दिक्संख्ये संज्ञायाम्''' (२.१.५०) इति सूत्रेण कर्मधारयसमासः भवति।
उत्तराः वृक्षाः, अत्र उत्तरवृक्षाः इति समासः न भवति '''दिक्संख्ये संज्ञायाम्''' (२.१.५०) इति सूत्रेण यतः उत्तरवृक्षाः इति संज्ञापदं नास्ति।एवमेव पञ्चब्राह्मणाः इति समासः अपि न भवति '''दिक्संख्ये संज्ञायाम्''' (२.१.५०) इति सूत्रेण।

'''३) विशेषणोत्तरपदकर्मधारयः''' - निन्दवाचकस्य सुबन्तस्य समानाधिकरणेन निन्द्यबोधकेन सुबन्तेन सह विकल्पेन समासः भवति, तत्पुरुषश्च भवति।
'''कुत्सितानि कृत्सनैः''' (२.१.५३) = निन्दवाचकस्य सुबन्तस्य समानाधिकरणेन निन्द्यबोधकेन सुबन्तेन सह विकल्पेन समासः भवति, तत्पुरुषश्च भवति। कुत्सितवाचीनि सुबन्तानि कुत्सनवचनैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति। कुत्सितः इति पदस्य अर्थः – निन्दितः इति, कुत्सनम् इति पदस्य अर्थः – निन्दायाः हेतुः इति ।कुत्सितानि प्रथमान्तं, कुत्सनैः तृतीयान्तम्। '''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः। '''विभाषा''' (२.१.११) इत्यस्य अधिकारः। '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति-सहित-सूत्रम् — '''कुत्सितानि सुपः कुत्सनैः समानाधिकरणैः सुब्भिः सह विभाषा तत्परुषःसमासः''' ।
अस्मिन् सूत्रे '''कुत्सितानि''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्'''रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं '''कुत्सितानि''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रण।
यथा—
वैयाकरणश्चासौ खसूचिश्च = वैयाकरणखसूचिः।
<big