14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH: Difference between revisions

no edit summary
m (Protected "02B - अव्ययीभावसमासः, द्वितीयभागः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
 
(6 intermediate revisions by the same user not shown)
Line 1:
{{DISPLAYTITLE:<span style="color:#ff0000">02B - अव्ययीभावसमासः, द्वितीयभागः</span>}}
{| class="wikitable mw-collapsible mw-collapsed"
!<big>२०२१ ध्वनिमुद्रणानि</big>
Line 56:
 
=== <big>'''यथाऽसादृश्ये''' (२.१.७) [2]</big> ===
 
<big>'''यथाऽसादृश्ये''' (२.१.७) = सादृश्यम् इति अर्थं विहाय अपरेषु अर्थेषु "यथा" इति अव्ययं समर्थेन सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति | न सादृश्यम् असादृश्यं तस्मिन् आसादृश्ये | यथा अव्ययम्, असादृश्ये सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' ( २.१.६) इत्यस्मात् सूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''असादृष्ये यथा अव्ययं सुप् सुपा सह अव्ययीभावः समासः''' |</big>
 
<big>यथा इति अव्ययं <u>वीप्सार्थे</u>, <u>योग्याथार्थे</u> च सुबन्तेन सह समस्यते '''यथाऽसादृश्ये''' (२.१.७) इति सूत्रेण | पदार्थानतिवृत्तिः इत्यस्मिन् अर्थे यथा इत्यस्य समासः सिद्ध्यति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इत्यनेन एव, अतः '''यथाऽसादृश्ये''' (२.१.७) इति सूत्रस्य आवश्यकता नास्ति |</big>
 
 
<big>यथा इति अव्ययं <u>वीप्सार्थे</u>, <u>योग्याथार्थे</u> च सुबन्तेन सह समस्यते '''यथाऽसादृश्ये''' (२.१.७) इति सूत्रेण | पदार्थानतिवृत्तिः इत्यस्मिन् अर्थे यथा इत्यस्य समासः सिद्ध्यति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इत्यनेन एव, अतः '''यथाऽसादृश्ये''' (२.१.७) इति सूत्रस्य आवश्यकता नास्ति |</big>
 
 
Line 67 ⟶ 66:
<big>यथा—</big>
 
<big>१) ये ये वृद्धाः = यथावृद्धम् | अत्र यथा इति पदं सादृश्यर्थे नास्ति | ये ये वृद्धाः` इत्यत्र यथाशब्दः वीप्सायां वर्तते, अतः `यथावृद्धम्` इति समासः सिद्धः भवति |</big>
 
<big>वाक्यं = यथावृद्धं ब्राह्मणानाम्ब्राह्मणान् आमन्त्रयस्व | ये ये वृद्धब्राह्मणाः सन्ति तान् आह्वय इत्यर्थः |</big>
<big>२) ये ये अध्यापकाः = यथाध्यापकम् | अत्रापि यथाशब्दो वीप्सायां वर्तते |</big>
 
<big>२) ये ये अध्यापकाः = यथाध्यापकम् | अत्रापि यथाशब्दो वीप्सायां वर्तते |</big>
 
<big>३) ये ये छात्राः = यथाछात्रम् | अत्रापि यथाशब्दो वीप्सायां वर्तते |</big>
<big>४) रूपस्य योग्यं = यथारूपम् | अत्र यथाशब्दो योग्यतायां वर्तते |</big>
 
<big>४) रूपस्य योग्यं = यथारूपम् | अत्र यथाशब्दो योग्यतायां वर्तते |</big>
 
<big>५) यथा हरिस्तथा हरः – हरेः उपमानत्वं यथाशब्दः द्योतयति | यथा शब्दः सादृश्यार्थं सूचयति| यथा हरिः अस्ति तथैव हरः अपि अस्ति |  यथा हरिस्तथा हरः इति वाक्ये यथा शब्दः सादृस्यार्थे अस्ति, अतः अव्ययीभावसमासः न भवति '''यथाऽसादृश्ये''' (२.१.७) इति सूत्रेण |</big>
 
 
<big>६) यथा देवदत्तः तथा यज्ञदत्तः | अस्मिन् वाक्ये यथा शब्दः सादृस्यार्थं सूचयति, अतः अव्ययीभावसमासः न भवति |</big>
Line 86 ⟶ 82:
 
 
<big>प्रश्नः उदेति यत् यथा इति अव्ययस्य '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इति सूत्रेणैव अव्ययीभावसमासः सिद्धः, तर्हि किमर्थम् प्रकृतसूत्रे पुनः उक्तः ?</big>
 
 
<big>प्रश्नः उदेति यत् यथा इति अव्ययस्य '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इति सूत्रेणैव अव्ययीभावसमासः सिद्धः, तर्हि किमर्थम् प्रकृतसूत्रे पुनः उक्तः ?</big>
 
 
Line 100 ⟶ 95:
 
<big>काशिकायाम् उक्तम् अस्ति — यथार्थे यत् अव्ययं पूर्वेण एव सिद्धे समासे सूत्रम् इदं सादृश्यप्रतिषेधार्थम् इति | अर्थात् यथा इति अव्ययस्य समासः सिद्धः अस्ति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  ( २.१.६) इति सूत्रेणैव, तर्हि किमर्थं पाणिनिना पुनः '''यथाऽसादृश्ये''' (२.१.७) इति सूत्रं कृतम् इति चेत् सादृश्स्यार्थस्य निषेधार्थम् | यथा इति अव्ययस्य सादृश्यं विहाय अन्येषु अर्थेषु एव अत्र अव्ययीभावसमासः उच्यते |</big>
 
 
 
Line 107 ⟶ 103:
 
 
 
''<big>नियमसूत्रं नाम किम् ?</big>''
<big>''नियमसूत्रं नाम कि''म् ?</big>
 
<big>वस्तुतः प्रकृतसूत्रं केवलं वदति यत्‌ यथा इति अव्ययस्य अव्ययीभावसमासः भवति परन्तु सादृश्यार्थे न |</big>
Line 140 ⟶ 137:
<big>१) यावन्ति पत्राणि = यावत्पत्रम् | यावन्ति पत्राणि तावन्ति भोजनानि |  यावत् इति शब्दः अवधारणार्थे अस्ति यतो हि कति पत्राणि इति गणयितुं शक्यते |</big>
<big>२) यावन्तः श्लोकाः तावन्तः अच्युतप्रणामाः = यावच्छ्लोकम् | प्रेत्येकस्मिन् श्लोके ईश्वरस्य प्रणमनं भवति एव | यावत् इति शब्दः अवधारणार्थे अस्ति |</big>
 
 
 
<big>२) यावन्तः श्लोकाः तावन्तः अच्युतप्रणामाः = यावच्छ्लोकम् | प्रेत्येकस्मिन् श्लोके ईश्वरस्य प्रणमनं भवति एव | यावत् इति शब्दः अवधारणार्थे अस्ति |</big>
Line 176 ⟶ 175:
|-
|
 
 
====<big>'''झलां जशोऽन्ते''' (८.२.३९)</big>====
 
Line 199 ⟶ 200:
==== <big>'''शश्छोऽटि''' (८.४.६३)</big> ====
<big>पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशो भवति अन्यतरस्याम्‌ | शः षष्ठ्यन्तं, छः प्रथमान्तम्‌, अटि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''झयो होऽन्यतरस्याम्‌''' (८.४.६२) इत्यस्मात्‌ झयः च अन्यतरस्त्याम्‌ चेत्यनयोः अनुवृत्तिः | '''वा पदान्तस्य''' (८.४.५९) इत्यस्मात्‌ पदान्तस्य इत्यस्य अनुवृत्तिः; विभक्तिपरिणामेन 'पदान्तात्‌' | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अट्‌ प्रत्याहारे सर्वे स्वराः, ह्‌, य्‌, व्‌, र् चान्तर्भूताः | अनुवृत्ति-सहितसूत्रं — '''पदान्तात्‌ झयः शः छः अटि संहितायम्‌ अन्यतरस्याम्‌''' |</big>
 
 
 
<big>'''छत्वममीति वाच्यम्‌''' इति वार्तिकेन इदं कार्यं न केवलम्‌ अटि परे अपि तु अमि परेऽपि |</big>
Line 229 ⟶ 232:
 
<big>अस्मिन् सूत्रे किमर्थं '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिम् निराकृत्य साक्षात् सूत्रे एव सुप् इति उक्तम् ?</big>
 
 
 
<big>अस्य समाधानम् एव यत् '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इत्यस्मात् सूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः मा भूत् इति कृत्वा सूत्रे एव सुप् इति साक्षात् उक्तम् |</big>
Line 235 ⟶ 240:
 
<big>यदि '''सुप् प्रतिना मात्रार्थे''' ( २.१.९)  इति सूत्रे सुप् इति नोक्तं तर्हि सुप् इत्यस्य अनुवृत्तिः भवति '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात्, तेन सह अव्ययम् इत्यस्य अपि अनुवृत्तिः भवति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  ( २.१.६) इत्यस्मात् सूत्रात् | एतादृशः अनुवृत्तिक्रमः आसीत् पूर्वसूत्रपर्यन्तम् | तर्हि अस्मिन् सूत्रे अपि तथैव भवति | परन्तु तथा भवति चेत् कः क्लेशः इति अग्रे उच्यते |</big>
 
 
 
Line 240 ⟶ 246:
 
 
<big>अन्यविषयः कः इति चेत् प्रकृतसूत्रे प्रति इति शब्दः तृतीयाविभक्तौ अस्ति | अतः कथं वा तस्य प्रथमायां परिवर्तनं भवति इत्यपि प्रश्नः उदेति | यदि चिन्तनार्थं वयं वदामः यत् प्रति इति अव्ययं तृतीयायामेव स्यात् तस्य परिवर्तनं मा भूत्, सुप्, अव्ययं च अनयोः पदयोः अनुवृत्तिः क्रियते प्रकृतसूत्रे | अस्यां स्थितौ किं भविष्यति?</big>
 
 
<big>अव्ययम् इति पदं प्रथमान्तं पदम् अभविष्यत्, सुप् इति पदस्य अपि प्रथमान्तमेव | परन्तु प्रति इति अव्ययं तु तृतीयायाम् अस्ति | अनेन मात्रार्थे अव्ययं सुप् प्रतिना सुपा सह समस्यते इति अर्थः निष्पद्यते |  अनुवृत्ति-सहित-सूत्रं भवति ‌— '''  मात्रार्थे अव्ययं सुप्  प्रतिना  सुपा सह अव्ययीभावः समासः |  '''एतादृशः अर्थः नेष्यते एव इत्यतः सुप्, अव्ययं च अनयोः पदयोः अनुवृत्तिः अपि निराकृता |</big>
 
 
Line 281 ⟶ 288:
 
<big>यदि वदामः वृक्षं वृक्षं प्रति = प्रतिवृक्षम् इति | प्रतिवृक्षम् इति समासे तु प्रति इति अव्ययं मात्रार्थे नास्ति इत्यतः प्रकृतसूत्रेण समासः न कार्यः | अस्मिन् उदाहरणे तु प्रति इति अव्ययं वीप्सार्थे अस्ति |</big>
 
 
{| class="wikitable mw-collapsible mw-collapsed"
Line 288 ⟶ 296:
====<big>'''ससजुषो रुः''' (८.२.६६)</big>====
<big>पदान्त-सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन न केवलं यत्‌ पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''ससजुषोः पदस्य रुः''' |</big>
 
|-
|
Line 296 ⟶ 305:
|
====<big>'''विसर्जनीयस्य सः''' (८.३.३४)</big>====
<big>विसर्जनीयस्य स्थाने सकारादेशो भवति खरि परे | विसर्जनीयस्य षष्ट्यन्तंषष्ठ्यन्तं, सः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्मात्‌ खरि इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''विसर्जनीयस्य सः खरि संहितायाम्‌''' |</big>
 
 
|-
Line 308 ⟶ 318:
 
<big>'''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) इत्यस्य कार्यं तदा एव भवति यदा विसर्गः आगतः | किन्तु अग्रे हश्‌-वर्णः अस्ति चेत्‌, '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्य प्रसक्तिरेव नास्ति अतः विसर्गः न भवति एव | तस्मात्‌ '''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) इत्यस्य अवसरः न उदेति एव | अर्थात्  '''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) इत्यस्य कार्यं तदा एव भवति यदा विसर्गस्य अनन्तरं ककारः,खकारः, पकारः, फकारः च एतेषु कश्चन भवति चेत् |  ककारः, खकारः च परः चेत् जिह्वामूलीयस्य आदेशः विकल्पेन भवति | पकारः, फकारः च परः चेत्  उपध्मानीयस्य आदेशः विकल्पेन भवति |  अन्यस्मिन् पक्षे उभयत्र विसर्गादेशो तिष्ठति |</big>
 
|}
 
Line 379 ⟶ 390:
 
<big>२) आविस् + कृतम् = आविष्कृतम् | अत्र समासः नास्ति |</big>
 
 
 
<big>३) दुस् + कृतम् = दुष्कृतम् | एवमेव बहिष्कृतम् |</big>
Line 430 ⟶ 443:
 
<big>अप, परि, बहि इत्येते सुबन्ताः तथा अञ्चु इति धातुतः निष्पन्नाः सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति | अपश्च परिश्च बहिश्च अञ्चुश्च तेषामितरेतरयोगद्वन्द्वोऽपपरिबहिरञ्चवः | अपपरिबहिरञ्चवः प्रथमाबहुवचनान्तं पञ्चम्या तृतीयान्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२)''' इत्यस्मात् सूत्रात् सुप् इत्यस्य  वचनपरिमाणः इति कृत्वा बहुवचने अनुवृत्तिः भवति | '''सह सुपा (२.१.४)''' इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति |   '''प्राक्कडारात्समासः (२.१.३)''' इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः (२.१.१)''' इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः (२.१.५)''' इत्यस्य अधिकारः | '''विभाषा (२.१.११)''' इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''अपपरिबहिरञ्चवः सुपः पञ्चम्या सुपा सह अव्ययीभावःसमासः विभाषा''' |</big>
 
 
 
 
 
Line 437 ⟶ 453:
 
 
 
<big>कर्मप्रवचनीया इति काचित् संज्ञा वर्तते व्याकरणे | '''<u>कर्मप्रवचनीयाः नाम ये पूर्वं क्रियां प्रोक्तवन्तः किन्तु अधुना क्रियाकृतं विशेषसम्बन्धं कथयन्ति</u> |''' एकादश कर्मप्रवचनीयाः अष्टाध्यायां निर्दिष्टाः सन्ति - <u>अनु, उप, अप, परि, आङ्, प्रति,अभि, अधि, सु, अति, अपि | एतेषां प्रादीनां कर्मप्रवचनीयसंज्ञा भवति विशिष्टार्थेषु | तदर्थं सूत्राणि सन्ति अष्टाध्यायाम् | अप, परि अनयोः कर्मप्रवचनीयसंज्ञा भवति वर्जनार्थे '''अपपरी वर्जने''' ( १.४.८८) इति सूत्रेण |</u></big>
 
 
<big>कर्मप्रवचनीया इति काचित् संज्ञा वर्तते व्याकरणे | '''<u>कर्मप्रवचनीयाः नाम ये पूर्वं क्रियां प्रोक्तवन्तः किन्तु अधुना क्रियाकृतं विशेषसम्बन्धं कथयन्ति</u> |''' एकादश कर्मप्रवचनीयाः अष्टाध्याय्यां निर्दिष्टाः सन्ति - <u>अनु, उप, अप, परि, आङ्, प्रति,अभि, अधि, सु, अति, अपि | एतेषां प्रादीनां कर्मप्रवचनीयसंज्ञा भवति विशिष्टार्थेषु | तदर्थं सूत्राणि सन्ति अष्टाध्याय्याम् | अप, परि अनयोः कर्मप्रवचनीयसंज्ञा भवति वर्जनार्थे '''अपपरी वर्जने''' ( १.४.८८) इति सूत्रेण |</u></big>
 
<big>१) अनु = लक्षणार्थे, तृतीयार्थे, हीनार्थे, इत्थंभूताख्यानार्थे, भागार्थे, वीप्सार्थे च कर्मप्रवचनीयसंज्ञा भवति |</big>
Line 464 ⟶ 483:
 
<big>'''अपपरी वर्जने''' (१.४.८८) इति सूत्रेण अप, परि अनयोः शब्दयोः वर्जनार्थे कर्मप्रवचनीयसंज्ञा भवति | वर्जनार्थं नाम विहाय, त्यागः, अतिरिच्य इत्यर्थाः |</big>
 
<big>उदाहरणम् -</big>
 
 
<big>उदाहरणम् -</big>
Line 471 ⟶ 491:
 
<big>एवमेव '''परि''' त्रिगर्तेभ्यो वृष्टो देवः इति उदाहरणम् | परि इति वर्जनार्थे अस्ति इत्यतः '''अपपरी वर्जने''' (१.४.८८) इति सूत्रेण परि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति | वाक्यस्य अर्थः अस्ति - त्रिगर्तः इति देशं विहाय अन्यत्र वृष्टिः कृता देवेन | परि इति कर्मप्रवचनीयसंज्ञकस्य योगे त्रिगर्त इति शब्दतात् पञ्चमीविभक्तिः विधीयते '''पञ्चम्यपाङ्परिभिः  '''(२.३.१०) इति सूत्रेण |</big>
 
Line 478 ⟶ 499:
<big>'''आङ् मर्यादावचने''' ( १.४.८९) इति सूत्रेण आङ् इत्यस्य कर्मप्रवचनीयसंज्ञा भवति मर्यादार्थे, अभिविध्यर्थे च | मर्यादा नाम तेन विना इत्यर्थः | अभिविधिः नाम तेन सह इत्यर्थः | यदा आङ् इत्यस्य कर्मप्रवचनीयसंज्ञा भवति तदानीं तस्य योगे पञ्चमी भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण | तद्यथा -</big>
<big>१) आ समुद्रात् भारतदेशः इति वाक्ये, समुद्रं विहाय, समुद्रपर्यन्तं यः भूभागः वर्तते सः भारतदेशः इति अर्थः | समुद्रं विना या भूमिः वर्तते सा भूमिः भारतदेशः इति अर्थः लभ्यते | अत्र आङ् इति मर्यादार्थे अस्ति इत्यतः तस्य कर्मप्रवचनीयसंज्ञा भवति</big> <big>'''आङ् मर्यादावचने''' ( १.४.८९) इति सूत्रेण | तत्पश्चात् तस्य योगे पञ्चमी भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण | आङ् इत्यस्य समासः अग्रिमेण सूत्रेण वक्ष्यते |</big>
 
 
 
<big>१) आ समुद्रात् भारतदेशः इति वाक्ये, समुद्रं विहाय, समुद्रपर्यन्तं यः भूभागः वर्तते सः भारतदेशः इति अर्थः | समुद्रं विना या भूमिः वर्तते सा भूमिः भारतदेशः इति अर्थः लभ्यते | अत्र आङ् इति मर्यादार्थे अस्ति इत्यतः तस्य कर्मप्रवचनीयसंज्ञा भवति</big> <big>'''आङ् मर्यादावचने''' ( १.४.८९) इति सूत्रेण | तत्पश्चात् तस्य योगे पञ्चमी भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण | आङ् इत्यस्य समासः अग्रिमेण सूत्रेण वक्ष्यते |</big>
Line 510 ⟶ 533:
<big>प्राच्याम् / प्राच्याः / प्राची + अस्ताति → 'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः देशवाचिभ्यः शब्देभ्यः, दिक्‌शब्देभ्यः, कालवाचिभ्यः शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो '''दिग्देशकालेष्वस्तातिः''' (५.३.२७)  इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्ययः विधीयते | परन्तु 'अञ्च्' धातुः यस्य अन्ते आगच्छति, तादृशात् <u>दिशावाचकशब्दात्</u> विहितस्य 'अस्ताति' प्रत्ययस्य '''अञ्चेर्लुक्''' (५.३.३०) इत्यनेन लुक् विधीयते | '''लुक् तद्धितलुकि''' (१.२.४९)  इति स्त्रीप्रत्ययस्य अपि लुक्  भवति | स्त्रीप्रत्यस्य निवृत्तौ ङीप्-प्रत्ययविशिष्टमङगकार्यमपि निवर्तते, अतः 'प्र + अच्' इत्यवे अवशिष्यते | सवर्णदीर्घं कृत्वा 'प्राच्' इति सिद्ध्यति | अस्य '''तद्धितश्चासर्वविभक्तिः''' (१.१.३८)  इति अव्ययसंज्ञा विधीयते | एवमेव प्रत्यच, उदच् इत्यत्रापि |</big>
 
<big>अप, परि, अञ्चु इति धातुतः निष्पन्नाः सुबन्ताः, इत्येतेषां पदानां योगे पञ्चमीविभक्तिः भवति इति वयं ज्ञातुं शक्नुमः | परन्तु बहिः इति शब्दस्य योगे पञ्चमी भवति इति कथं ज्ञातुं शक्नुमः यतोहि तादृशं सूत्रं नास्ति कारकप्रकरणे वा अन्यत्र अष्टाध्यायाम्अष्टाध्याय्याम् |</big>
 
 
 
<big>'''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति सूत्रं  समासप्रकरणे अस्ति, तत् सूत्रं वदति बहिः इति सुबन्तं पञ्चम्यन्तेन सुबन्तेन सह समस्यते इति | व्यस्तप्रयोगे ग्रामात् बहिः इति वदामः चेत् तत्र बहिः इति पदस्य योगे पञ्चमी प्रयोगः दृश्यते | यद्यपि तदर्थं कारकप्रकरणे सूत्रं नास्ति तथापि बहिः इति पदस्य योगे तु समासं कर्तुं सूत्रम् अस्ति '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति | एतत् सूत्रमेव ज्ञापकं यत् बहिः इति पदस्य योगे पञ्चमी भवति इति | तदर्थमेव '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति सूत्रे पञ्चम्या इति पदस्य प्रयोगः दृश्यते | अनेन ज्ञायते यत् बहिः इति पदस्य योगे पञ्चमीविभक्तिः भवति इति |</big>
<big>अष्टाध्यायांअष्टाध्याय्यां समासप्रकरणं, कारकप्रकरणं च अनयोः परस्परं सन्निवेशत्वं वर्तते, अतः एव कारकप्रकरणं पठित्वा एव समासप्रकरणस्य अध्ययनं भवति स्म सामान्यतया |</big>
 
 
 
<big>अष्टाध्याय्यां समासप्रकरणं, कारकप्रकरणं च अनयोः परस्परं सन्निवेशत्वं वर्तते, अतः एव कारकप्रकरणं पठित्वा एव समासप्रकरणस्य अध्ययनं भवति स्म सामान्यतया |</big>
 
 
<big>अष्टाध्यायां समासप्रकरणं, कारकप्रकरणं च अनयोः परस्परं सन्निवेशत्वं वर्तते, अतः एव कारकप्रकरणं पठित्वा एव समासप्रकरणस्य अध्ययनं भवति स्म सामान्यतया |</big>
 
<big>आहत्य अप, परि, बहिः, अञ्चु इति धातुतः निष्पन्नाः सुबन्ताः च, इत्येतेषां योगे पञ्चमीविभक्तिः विधीयते इति ज्ञातवन्तः | अधुना तेषां शब्दानां सुबन्तेन सह समासः विकल्पेन  विधीयते '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२)  इत्यनेन सूत्रेण |</big>
Line 528 ⟶ 555:
 
<big>यथा -</big>
<big>१) अप विष्णोः संसारः = अपविष्णु / अप विष्णोः संसारः| नाम विष्णुं विहाय संसारः अस्ति | अप इति शब्दः वर्जनार्थकः अस्ति| समासः विकल्पेन भवति इत्यतः एकस्मिन् पक्षे अपविष्णु इति समासः भवति, अपरस्मिन् पक्षे व्यस्तप्रयोगः अप विष्णोः संसारः इत्यपि भवति |</big>
 
<big>१) अप विष्णोः संसारः = अपविष्णु / अप विष्णोः संसारः | नाम विष्णुं विहाय संसारः अस्ति | अप इति शब्दः वर्जनार्थकः अस्ति | समासः विकल्पेन भवति इत्यतः एकस्मिन् पक्षे अपविष्णु इति समासः भवति, अपरस्मिन् पक्षे व्यस्तप्रयोगः अप विष्णोः संसारः इत्यपि भवति |</big>
 
 
 
<big>अलौकिकविग्रहवाक्यम् '''→''' अप + विष्णु + ङसि |  अत्र अप इति शब्दः वर्जनार्थे अस्ति | '''अपपरी वर्जने''' (१.४.८८) इति सूत्रेण अप, परि अनयोः शब्दयोः वर्जनार्थे कर्मप्रवचनीयसंज्ञा भवति |  तस्य योगे पञ्चमी विभक्तिः भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण |  '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति सूत्रेण अप, परि, बहि, अञ्चु इति धातुतः निष्पन्नानां सुबन्ताः च पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति | अतः अपविष्णु इति अव्ययीभावसमासः विकल्पेन भवति | पक्षे अप विष्णोः संसारः इति व्यस्तप्रयोगः अपि शक्यते |</big>
Line 565 ⟶ 594:
<big>प्राग्वन इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''प्राग्वनात्''' | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
<big>प्राग्वन + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''प्राग्वनम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''प्राग्वनं / प्राग्वनेन, प्राग्वनं / प्राग्वने |''' अन्यासु विभक्तिषु '''प्राग्वनम्''' इति रूपं सिद्धं भवति |</big>
 
 
 
<big>प्राग्वन + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''प्राग्वनम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''प्राग्वनं / प्राग्वनेन, प्राग्वनं / प्राग्वने |''' अन्यासु विभक्तिषु '''प्राग्वनम्''' इति रूपं सिद्धं भवति |</big>
 
 
 
<big>प्राग्वनम् इति समासे नकारस्य णत्वं न भवति '''प्रातिपदिकान्तनुम्‌विभक्तिषु च''' (८.४.११)  इत्यनेन यतोहि प्रातिपदिकान्तः नकारः नास्ति, नुम्‌-सम्बद्ध-नकारः नास्ति, विभक्तिसम्बन्धी नकारः अपि नास्ति |</big>
Line 583 ⟶ 616:
 
<big>प्राग्ग्रामात् = प्राग्ग्रामम्, प्राग्ग्रामात् | अञ्चु इति धातुतः निष्पन्नः शब्दः प्राक् इति  |</big>
 
 
{| class="wikitable mw-collapsible mw-collapsed"
Line 619 ⟶ 653:
 
===<big>'''आङ् मर्यादाऽभिविध्योः''' (२.१.१३) [7]</big>===
<big>मर्यादार्थे वा अभिविध्यर्थे विद्यमानस्य आङ् इति अव्ययं पञ्चम्यन्तेन सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति |</big>
 
 
 
<big>'''आङ् मर्यादाऽभिविध्योः''' (२.१.१३) = मर्यादार्थे वा अभिविध्यर्थे विद्यमानस्य आङ् इति अव्ययस्य पञ्चम्यन्तेन समर्थेन सुबन्तेन सह विकल्पेन समासः भवति |  मर्यादा च अभिविधिश्च तयोः इतरेतरयोगद्वन्द्वः मर्यादाभिविधी तयोर्मयादाभिविद्योः |  आङ् प्रथमान्तं, मर्यादाभिविध्योः सप्तम्यन्तम् |  '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इत्यस्मात् सूत्रात् पञ्चम्या इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌—'''मर्यादा-अभिविध्योः आङ् सुप् पञ्चम्या सुपा सह अव्ययीभावः समासः विभाषा |'''</big>
 
 
 
 
 
Line 680 ⟶ 717:
 
<big>एतेषु उदाहरणेषु आङ् इति अभिविध्यर्थे अस्ति इत्यतः तस्य कर्मप्रवचनीयसंज्ञा भवति '''आङ् मर्यादावचने''' (१.४.८९) इति सूत्रेण | '''आङ् मर्यादावचने''' (१.४.८९) इति सूत्रे वचनग्रहणात् अभिविधिः इति अर्थः अपि गृह्यते | अर्थात् आङ् इत्यस्य अभिविध्यर्थे अपि कर्मप्रवचनीयसंज्ञा भवति, तत्पश्चात् तस्य योगे पञ्चमी भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण |</big>
 
 
 
Line 699 ⟶ 737:
<big>अलौकिकविग्रहवाक्यम् '''→''' आ + बाल + भ्यस् | '''आङ् मर्यादाऽभिविध्योः''' (२.१.१३) इति सूत्रेण समासः विकल्पेन विधीयते | आ इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | आबाल इति प्रातिपदिकं सिद्ध्यति | आबाल इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''आबालात्''' | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
<big>आबाल+ अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्| पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''आबालम्''' इति रूपं सिद्धं भवति| '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति| अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''आबालम् /आबालेन, आबालम् / आबाले |''' अन्यासु विभक्तिषु '''आबालम्''' इति रूपं सिद्धं भवति |</big>
 
 
 
<big>आबाल + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''आबालम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''आबालम् / आबालेन, आबालम् / आबाले |''' अन्यासु विभक्तिषु '''आबालम्''' इति रूपं सिद्धं भवति |</big>
 
 
 
<big>समासापक्षे वाक्यं भवति आ बालेभ्यः | अत्र '''आङ् मर्यादावचने''' (१.४.८९) इति सूत्रेण आङ् -शब्दस्य कर्मप्रवचनीयसंज्ञा भूत्वा तस्य योगे पञ्चमी विभक्तिः भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण | अतः वाक्यं भवति '''आ बालेभ्यः''' हरिभक्तिः इति |</big>
Line 737 ⟶ 779:
 
<big>सूत्रे लक्षणेन इति पदस्य कारणेन लक्षणवाचिपदेन सह एव समासः भवति न अन्यत्र | लक्ष्यते अनेन इति लक्षणम् | लक्ष्यं, चिह्नम् इत्यस्मिन् अर्थे लक्षणम् इति शब्दः प्रयुक्तः अस्ति अस्मिन् सूत्रे |</big>
 
 
 
<big>अभि इति अव्ययस्य बहवः अर्थाः सन्ति-  आभिमुख्ये, पूजायां, सादृश्ये, इच्छायाम् इत्यादयः  | प्रति इति अव्ययस्यापि बहवः अर्थाः सन्ति - वीप्सायां, प्रतिनिधौ, सादृश्ये, व्याप्तौ, आभिमुख्ये इत्यादयः | यदा अभिप्रती आभिमुख्यार्थे स्तः तदानीं तयोः चिह्नवाचिना सुबन्तेन सह अव्ययीभावसमासः भवति |</big>
Line 742 ⟶ 786:
 
<big>'''लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः''' (१.४.९०) इति सूत्रेण लक्षण-इत्थम्भूताख्यान-भाग-वीप्सासु अर्थेषु विषयभूतेषु प्रति-परि-अनवः कर्मप्रवचनीयसंज्ञकाः भवन्ति | अर्थात् अनेन सूत्रेण प्रति इत्यस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणादिषु अर्थेषु द्योत्येषु | लक्षणं नाम ज्ञापकम् इत्यर्थः | अस्मिन् सूत्रे इत्थम्भूताख्यान-भाग इत्यपि उक्तं परन्तु तस्य चिन्तनम् अनावश्यकं समासप्रसाङ्गे | वीप्सायां तु प्रति इत्यस्य चर्चा पूर्वमेव जाता '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इत्यत्र | यदा लक्षणार्थे प्रति इत्यस्य कर्मप्रवचनीयसंज्ञा भवति तदा तस्य योगे द्वितीया भवति '''कर्मप्रवचनीययुक्ते द्वितीया''' (२.३.८) इति सूत्रेण | उदाहरणं =  वृक्षं प्रति विद्योतते (flash forth) विद्युत् | वृक्षस्य समीपे विद्युत् अस्ति | वृक्षं दृष्ट्वा तत्समीपस्थायाः विद्युतः ज्ञानं भवति इत्यर्थः |</big>
 
 
 
Line 764 ⟶ 809:
 
<big>अलौकिकविग्रहवाक्यम् '''→''' अग्नि + अम् + प्रति | '''लक्षणेनाभिप्रती आभिमुख्ये''' (२.१.१४) इति सूत्रेण आभिमुख्यर्थे प्रति इति अव्ययम् अग्नि इति चिह्नवाचिना सुबन्तेन विकल्पेन समस्यते | अग्नि + अम् + प्रति | प्रति इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | यण्-सन्धिं कृत्वा प्रत्यग्नि इति प्रातिपदिकं सिद्ध्यति | प्रत्यग्नि इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अग्रे '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण सुप् प्रत्ययस्य लोपः भवति → प्रत्यग्नि इति समस्तपदं निष्पन्नं भवति | समासापक्षे वाक्यं भवति अग्निम् प्रति शलभाः पतन्ति इति |</big>
 
 
 
<big>उपर्युक्ते उदाहरणे प्रति इत्यस्य '''लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः''' (१.४.९०) इति सूत्रेण कर्मप्रवचनीयसंज्ञा भवति लक्षणार्थे द्योत्ये | एवमेव अभि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति '''अभिरभागे''' ( १.४.९१) इति सूत्रेण लक्षणार्थे द्योत्ये | तत्पश्चात् '''कर्मप्रवचनीया द्वितीया''' (२.३.८) इति सूत्रेण कर्मप्रवचनीययुक्ते द्वितीयाविभक्तिः भवति, अतः अग्नि इति शब्दस्य द्वितीयाविभक्तिः भवति |  एषः नियमः तु वाक्यस्तरे अपि भवति यथा – १) अग्निम् अभि शलभाः पतन्ति, २) अग्निं प्रति शलभाः पतन्ति इति | अभि, प्रति, अनयोः कर्मप्रवचनीयसंज्ञकयोः योगे तु द्वितीयाविभक्तिः भवति |</big>
 
 
 
Line 771 ⟶ 819:
<big>'''लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः''' (१.४.९०) इति सूत्रेण प्रति इत्यस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणार्थे द्योत्ये |</big>
 
<big>'''लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः''' (१.४.९०) इति सूत्रेण प्रति इत्यस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणार्थे द्योत्ये |</big>
 
<big>तत्पश्चात् '''कर्मप्रवचनीययुक्ते द्वितीया''' (२.३.८) इति सूत्रेण कर्मप्रवचनीययुक्ते द्वितीयाविभक्तिः भवति, अतः अक्षि इति शब्दस्य द्वितीयाविभक्तिः भवति अक्षिणी इति |</big>
<big>अक्षि +औट् +प्रति +सु इति अलौकिकविग्रहवाक्यम् | '''लक्षणेनाभिप्रती आभिमुख्ये''' ( २.१.१४) इति सूत्रेण समासः विधीयते यतोहि प्रति इति आभिमुख्यार्थे, अक्षि इति  चिह्नवाचिना सुबन्तेन सह विकल्पेन समस्येते, अव्ययीभावश्च समासो भवति |</big>
 
<big>अक्षि + औट् + प्रति + सु इति अलौकिकविग्रहवाक्यम् | '''लक्षणेनाभिप्रती आभिमुख्ये''' ( २.१.१४) इति सूत्रेण समासः विधीयते यतोहि प्रति इति आभिमुख्यार्थे, अक्षि इति  चिह्नवाचिना सुबन्तेन सह विकल्पेन समस्येते, अव्ययीभावश्च समासो भवति |</big>
 
 
<big>प्रत्यक्षि इति प्रातिपदिकात् टच् इति प्रत्ययः विधीयते  '''प्रतिपरसमनुभ्योक्षणः''' इति गणसूत्रेण | '''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) इति सूत्रस्य अन्तर्गते ''' प्रतिपरसमनुभ्योऽक्ष्णः''' इति गणसूत्रं वर्तते इति पूर्वमेव सूचितम् | गणसूत्रार्थः = प्रति, पर, सम् तथा अनु, एतेषु कश्चन शब्दः पूर्वपदे विद्यते चेत् अपि च उत्तरपदे अक्षि इति शब्दः चेत्, तदन्तात् अव्ययीभावसमासात् टच् इति समासान्तप्रत्ययः विधीयते | अनेन प्रत्यक्षम्, परोक्षम्, समक्षम्, अन्वक्षम् इत्यादीनि समस्तपदानि सिद्ध्यन्ति | अत्र अस्माकं विषयः प्रति इति आभिमुख्यार्थे अक्षि इति लक्षणवाचिना सुबन्तेन सह भवति '''लक्षणेनाभिप्रती आभिमुख्ये''' ( २.१.१४) इति सूत्रेण |</big>
Line 833 ⟶ 882:
 
<big>'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  '''( २.१.६) इति सूत्रेण सामीप्यर्थे अव्ययस्य सुबन्तेन सह नित्यसमासः भवति इति जानीमः | तर्हि '''अनुर्यत्समया''' ( २.१.१५) इति सूत्रे समया इति पुनः किमर्थम् उक्तम् ?</big>
 
 
 
<big>अस्य समाधानम् एव यत् '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  '''(२.१.६) इति सूत्रेण समासः नित्यः परन्तु '''अनुर्यत्समया''' (२.१.१५) इति सूत्रेण समासः विकल्पेन सिद्ध्यति | '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' ( २.१.६) इत्येव सिद्धे पुनर्वचनं विभाषार्थम् |</big>
Line 878 ⟶ 929:
<big>वनस्य समीपम्  = अनुवनम्, वनस्य अनु, वनस्य समीपं, वनं समया | अनुवनम् अशनिः ( thunderbolt) गतः | वनस्य समीपम् इत्यर्थः |  समया इत्यस्य  सामीप्यम् इति अर्थः, तस्य बोधः जायते अनु इति शब्दद्वारा |</big>
<big>अलौकिकविग्रहवाक्यम् '''→''' वन + ङस् + अनु | अस्मिन् विग्रहे वन इति शब्दस्य षष्ठीविभक्तिः कथम् इति प्रश्ने सति, तस्य उत्तरं यत् अत्र विशिष्टविभक्तिविधानार्थं सूत्रं नास्ति अतः '''षष्ठी शेषे''' ( २.३.५०) इति सूत्रेण षष्ठिविभक्तिविधानम् |</big>
 
 
 
<big>अलौकिकविग्रहवाक्यम् '''→''' वन + ङस् + अनु | अस्मिन् विग्रहे वन इति शब्दस्य षष्ठीविभक्तिः कथम् इति प्रश्ने सति, तस्य उत्तरं यत् अत्र विशिष्टविभक्तिविधानार्थं सूत्रं नास्ति अतः '''षष्ठी शेषे''' ( २.३.५०) इति सूत्रेण षष्ठिविभक्तिविधानम् |</big>
 
 
 
<big>समया शब्दद्वारा द्योत्यः अर्थः सामीप्ये इति, तस्य बोधः भवति अनु इति शब्दद्वारा यतोहि अनु इति अव्ययं सामीप्यर्थे अस्ति |  सामीप्यस्य लक्षकः वनम् अस्ति | तात्पर्यं यत् अनु इत्यनेन वनम् एव लक्षितः अस्ति | वननिरूपितं सामीप्यं अनु इति शब्दद्वारा ज्ञायते | अतः तादृशलक्षणेन वनशब्देन सह अनु इति शब्दः समस्यते '''अनुर्यत्समया''' ( २.१.१५) इति सूत्रेण, अव्ययीभावसमासः विकल्पेन भवति |</big>
 
 
 
Line 930 ⟶ 986:
<big>अलौकिकविग्रहवाक्यम् '''→''' गङ्गा + ङस् + अनु | '''यस्य चायामः''' (२.१.१६)  इति सूत्रेण, समासः विकल्पेन भवति | अनु इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | अनुगङ्गा इति भवति | '''ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)''' इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति | अतः अनुगङ्ग इति भवति |</big>
 
<big>अधुना अनुगङ्ग इति प्रातिपदिकस्य अव्ययसंज्ञा भवति |  अग्रे प्रातिपदिकात् सुप् प्रत्ययस्य उत्पत्तिः भवति | सम्प्रति प्रक्रियायाम् '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''अनुगङ्गात्''' अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
<big>'''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''अनुगङ्गात्''' अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
<big>अनुगङ्ग+ अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''अनुगङ्गम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति| अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''अनुगङ्गम् /अनुगङ्गेन, अनुगङ्गम् / अनुगङ्गे |''' अन्यासु विभक्तिषु '''अनुगङ्गम्''' इति रूपं सिद्धं भवति |</big>
 
 
 
<big>अनुगङ्ग + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''अनुगङ्गम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति - '''अनुगङ्गम् /अनुगङ्गेन, अनुगङ्गम् / अनुगङ्गे |''' अन्यासु विभक्तिषु '''अनुगङ्गम्''' इति रूपं सिद्धं भवति |</big>
Line 1,076 ⟶ 1,136:
 
<big>२) पार, मध्य इत्यनयोः शब्दयोः षष्ठ्यन्तेन सह तत्पुरुषसमासः अपि भवति '''षष्ठी''' (२.२.८) इति सूत्रेण  | '''षष्ठी'''(२.२.८) इति सूत्रस्य विवरणम् अग्रे दीयते  |</big>
 
 
 
 
 
Line 1,192 ⟶ 1,255:
 
<big>'''संख्या वंश्येन''' (२.१.१९) इति सूत्रेण यः अव्ययीभावसमासः विहितः, तस्मिन् स्वपदार्थस्य एव प्राधान्यम् अस्ति  |  यदा अन्यपदार्थस्य प्राधान्यं विवक्षितं तदा बहुव्रीहिसमासः क्रियते , यथा त्रयः मुनयः वंश्याः यस्य तत् = त्रिमुनि व्याकरणम् इति | बहुव्रीहिसमामस्य यः अर्थः, सः एव अर्थः सिद्धः अव्ययीभावसमासेन अपि, तर्हि अनयोः भेदः कः इति चेत् बहुव्रीहिसमासे स्वरभेदः भवति, अपि च प्रथमाविभक्तिं विहाय अन्यासु विभक्तिषु रूपभेदः अपि जायते | त्रिमुनिम्, त्रिमुनिना, त्रिमुनेः, त्रिमुनौ इत्यादीनि रूपाणि सिद्धयन्ति बहुव्रीहौ  | परन्तु अव्ययीभावसमासे त्रिमुनि इति एकमेव रूपं सिद्ध्यति |</big>
 
 
 
Line 1,197 ⟶ 1,261:
<big>अलौकिकविग्रहवाक्यं '''→''' एकविंशति + सु + भारद्वाज + जस् | एकविंशतिभारद्वाज इति प्रातिपदिकं भवति |</big>
 
 
<big>अलौकिकविग्रहवाक्यं '''→''' एकविंशति + सु + भारद्वाज + जस् | एकविंशतिभारद्वाज इति प्रातिपदिकं भवति |</big>
 
<big>अधुना एकविंशतिभारद्वाज  इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | सुप् प्रत्ययस्य उत्पत्तिः भवति | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''एकविंशतिभारद्वाजात्''' अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
Line 1,236 ⟶ 1,300:
 
<big>सप्तगङ्ग+ अम् '''→ अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्-सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''सप्तगङ्गम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''सप्तगङ्गम् / सप्तगङ्गेन, सप्तगङ्गम् / सप्तगङ्गे |''' अन्यासु विभक्तिषु '''सप्तगङ्गम्''' इति रूपं सिद्धं भवति | यस्मिन् पक्षे समासः न भवति तस्मिन् पक्षे सप्तानां गङ्गानां समाहार इति वाक्यं भवति |</big>
 
 
 
<big>द्वयोः यमुनयोः समाहारः = द्वियमुनम् | अयं समासः अव्ययीभावसमासः न तु समाहारद्विगुसमासः |</big>
Line 1,270 ⟶ 1,336:
 
<big>अन्यपदार्थे विद्यमानं सुबन्तं नदीभिः सह नित्यं समस्यते संज्ञायाम्, अव्ययीभावसमासः च भवति |</big>
 
 
==== <big>'''अन्यपदार्थे च संज्ञायाम्''' ( २.१. २१)</big> ====
Line 1,371 ⟶ 1,438:
====<big>'''<u>अव्ययीभावसमासस्य नियमाः यत्र उत्तरपदम् हलन्तम्</u>'''</big>====
 
<big>१) उत्तरपदम् अन्नन्तंअनन्तं चेत् -</big>
 
 
Line 1,401 ⟶ 1,468:
 
<big>'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इति सूत्रे अव्ययस्य षोडश अर्थाः दृष्टाः | अव्ययानाम् इतोऽपि अधिकाः अर्थाः अपि भवितुम् अर्हन्ति | तेषाम् अर्थानां समर्थनार्थं सूत्रस्य योगविभागः कृतः प्राचीनकाले  | अव्ययीभावसमासस्य विषये ये प्रयोगाः कृताः शिष्टैः, तेषां प्रयोगाणां समर्थनं शक्यते एव | प्राचीनप्रयोगाणां समर्थनं कथञ्चित् करणीयम् –  योगविभागेन वा नो चेत् '''सह सुपा''' ( २.१.४) इति सूत्रेण वा | तादृशसमासान् कर्तुं  वयं न अर्हामः | वयं तु केवलं षोडशेषु अर्थेषु एव समासं कर्तुं शक्नुमः |</big>
 
 
 
<big>दृष्टान्तः</big>
 
<big>दिशयोः मध्ये = अपदिशम् (द्वयोः दिशयोः अन्तरालम् (interval) इत्यर्थः)</big>
 
 
 
<big>अलौकिकविग्रहवाक्यं '''→'''</big>
Line 1,411 ⟶ 1,482:
 
<big>दिशा + ओस् + अप '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण |</big>
 
 
 
<big>दिशा + ओस् + अप '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | अतः दिशा + ओस् + अप '''→''' इत्यस्मिन्‌ ओस् इत्यस्य लुक्‌ → दिशा + अप इति |</big>
Line 1,418 ⟶ 1,491:
<big>दिशा + अप '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति| अत्र अप इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |</big>
 
<big>पुनः अत्र '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) इति सूत्रेण दिशा इति शब्दस्य उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति '''→''' अत्र अपदिशा इति भवति'''→ अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | अपदिशा इत्यस्य अव्ययसंज्ञा भवति |</big>
 
 
<big>पुनः अत्र '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) इति सूत्रेण दिशा इति शब्दस्य उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति '''→''' अत्र अपदिशा इति भवति'''→ अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | अपदिशा इत्यस्य अव्ययसंज्ञा भवति |</big>
<big>अपदिशा '''→  '''अत्र '''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) इति सूत्रेण उपसर्जनस्त्रीप्रत्ययान्तस्य प्रातिपदिकस्य ह्रस्वो भवति | दिशा इति स्त्रीप्रत्ययान्तशब्दस्य ह्रस्वत्वं भवति → अपदिश इति भवति</big>
 
<big>अपदिशा '''→  '''अत्र '''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) इति सूत्रेण उपसर्जनस्त्रीप्रत्ययान्तस्य प्रातिपदिकस्य ह्रस्वो भवति | दिशा इति स्त्रीप्रत्ययान्तशब्दस्य ह्रस्वत्वं भवति → अपदिश इति भवति |</big>
 
<big>अपदिश '''→''' इदानीं लिङ्गस्य निर्णयः भवति | '''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् |अतः अपदिश इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |</big>
 
 
 
<big>अपदिश + सु '''→''' अपदिश इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''अपदिशात्''' | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
 
 
<big>अपदिश + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्| पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''अपदिशम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति-</big> <big>अपदिशम् /</big> <big>अपदिशेन, अपदिशम् / अपदिशे | अन्यासु विभक्तिषु अपदिशम् इति रूपं सिद्धं भवति |</big>
 
 
 
<big>तृतीयाविभक्तौ -अपदिशम् / अपदिशेन</big>
Line 1,433 ⟶ 1,515:
 
<big>अन्यासु विभक्तिषु पञ्चमीविभक्तिं विहाय अपदिशम् इति रूपं सिद्धं भवति| पञ्चमीविभक्तौ अपदिशात् इति रूपं भवति |</big>
 
 
 
<big>'''दिशोः अन्तरालम् = अपदिशम् |''' अधः सर्वासु विभक्तिषु अव्ययपदस्य रूपाणि पश्यामः |</big>
 
 
{| class="wikitable mw-collapsible mw-collapsed"
page_and_link_managers, Administrators
5,094

edits