14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 755:
 
----
 
=== <big>'''यस्य चायामः (२.१.१६)'''</big> ===
<big>अनु इति अव्ययं, दीर्घतां बोधयितुं यत् पदं प्रयुज्यते, तेन पदेन सह समस्यते, अव्ययीभावसमासः च भवति</big>|
 
 
<big>'''यस्य चायामः''' (२.१.१६) = यस्य दैर्घ्यसदृशदैर्घ्यम् अनुना द्योत्यते तेन लक्षणभूतेन अनुः समस्यते | यस्य आयामः (दीर्घता) अनु इति शब्दस्य द्वारा बोधितः भवति, तेन लक्षणवाचिना शब्देन सह अनु शब्दः विकल्पेन समस्यते, अव्ययीभावश्च समासो भवति | अनुर्यस्यायामवाची तेन लक्षणभूतेन सह विभाषा समस्यते, अव्ययीभावश्च समासो भवति | यस्य षष्ठ्यन्तं, चाव्ययम्, आयामः प्रथमान्तम् |  '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः| '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | '''लक्षणेनाभ्प्रती आभिमुख्ये''' (२.१.१४) इत्यस्मात् सूत्रात् लक्षणेन इत्यस्य अनुवृत्तिः | '''अनुर्यत्समया''' ( २.१.१५) इत्यस्मात् सूत्रात् अनुः इत्यस्य अनुवृत्तिः | अनुवृत्तौ अनु इति शब्दस्य आवृत्तिः भूत्वा एकः अनु इति शब्दः तृतीयान्तरूपेण विपरिणमितः भवति |   अनुवृत्ति-सहित-सूत्रम्‌— '''यस्य च आयामः अनुना,''' '''अनुः सुप् लक्षणेन सुपा सह अव्ययीभावःसमासः विभाषा |'''</big>
 
 
 
<big>सूत्रे आयामः इति शब्दस्य प्रयोगेण यः ज्ञापितः भवति यत् अनु इति शब्दद्वारा विस्तारस्य सूचना प्राप्यते चेत् एव समासः विधीयते इति | यदि अन्यः अर्थः अनु इति शब्दद्वारा सूचितः भवति तर्हि समासः न विधीयते | अतः निवेश्य गङ्गाम् अनु ( गङ्गायाः प्रवेशानन्तरम् इत्यर्थः) इति वाक्ये लक्ष्यलक्षणभावः द्योतितः अस्ति | विस्तारः इत्यर्थः अनु इति शब्दद्वारा न ज्ञायते इति कारेणेन अनुगङ्गम् इति समासः न सिद्धयति '''यस्य चायामः''' (२.१.१६) इति सूत्रेण |</big>
 
 
<big>यथा –</big>
 
<big>गङ्गायाः अनु = अनुगङ्गं वारणसी, गङ्गायाः अनु | गङ्गादैर्घ्यसदृशदैर्घ्यम् उपलक्षितम् इत्यर्थः  | गङ्गायाः विस्तारेण वारणस्याः विस्तारस्य बोधः जायते | वारणस्याः दैर्घ्यस्य ज्ञापकः अस्ति गङ्गा इति | वारणास्याः दीर्घता गङ्गायाः तीरे तीरे अस्ति |</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' गङ्गा+ ङस् + अनु | '''यस्य चायामः''' (२.१.१६)  इति सूत्रेण, समासः विकल्पेन भवति | अनु इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | अनुगङ्गा इति भवति | '''ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)''' इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति | अतः अनुगङ्ग इति भवति |</big>
 
<big>अधुना अनुगङ्ग इति प्रातिपदिकस्य अव्ययसंज्ञा भवति |  अग्रे प्रातिपदिकात् सुप् प्रत्ययस्य उत्पत्तिः भवति | सम्प्रति प्रक्रियायाम् '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''अनुगङ्गात्''' अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
<big>अनुगङ्ग+ अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''अनुगङ्गम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति| अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''अनुगङ्गम् /अनुगङ्गेन, अनुगङ्गम् / अनुगङ्गे |''' अन्यासु विभक्तिषु '''अनुगङ्गम्''' इति रूपं सिद्धं भवति |</big>
 
<big>समासापक्षे वाक्यं भवति गङ्गायाः अनु इति |</big>
 
<big>२) यमुनायाः अनु = अनुयमुनं, यमुनायाः अनु | अनुयमुनं मथुरा | यमुनायाः आयामेन मथुराया आयामः लक्ष्यते | आयामः नाम दैर्घ्यम् |</big>
 
<big>३) गङ्गायाः अनु = अनुगङ्गं हस्तिनापुरम् |</big>
 
<big>४) शोनस्य अनु = अनुशोनम् पाटलिपुत्रम्   |</big>
 
----
 
=== <big>'''तिष्ठद्गुप्रभृतीनि च''' ( २.१. १७)</big> ===
 
 
<big>तिष्ठद्गुगणे पठिताः शब्दाः सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति|</big>
 
 
<big>'''तिष्ठद्गुप्रभृतीनि च''' ( २.१. १७) = तिष्ठद्गुगणे पठितानां शब्दानां निपातनं क्रियते, तेषाम् अव्ययीभावसंज्ञा भवति | एतानि निपात्यन्ते | निपातनं नाम अस्मिन् गणे ये शब्दाः उक्ताः, ते साधुशब्दाः तेषाम् अव्ययीभावसंज्ञा भवति |  यानि समस्तपदानि साक्षात् सूत्रेण उच्यन्ते प्रक्रियां विना, तानि निपातनानि|  अर्थात् ये शब्दाः अन्यसमासेषु न प्रयुज्यन्ते | अस्मिन् गणे बहवः शब्दाः सन्ति | अस्मिन् गणे ये शब्दाः सन्ति तेषां निपातनं क्रियते, अव्ययीभावसमासः च भवति | सूत्रस्थः च  इति शब्दः एव इति अर्थे प्रयुक्तः अस्ति | तिष्ठन्ति गावः यस्मिन् काले सः तिष्ठद्गु दोहनकालः| तिष्ठद् प्रभृतिः आदिर्येषां तानि तिष्ठद्गुप्रभृतीनि, बहिव्रीहिः | तिष्ठद्गुप्रभृतीनि प्रथमाबहुवचनान्तं, चाव्ययम् | '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः |  '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''तिष्ठद्गुप्रभृतीनि च सुपः सुपा सह अव्ययीभावः समासः विभाषा |'''</big>
 
 
<big>तिष्ठद्गुगणे बहवः शब्दाः सन्ति | केचन शब्दाः अत्र दीयन्ते – तिष्ठद्गु (when the cows stand to be milked), बहद्गु (वहन्ति गावो यस्मिन् काले सः), आयतीगवं (at the time when the cows come home), खलेबुसम् ( at the time when the chaff is on the threshing-floor), पूतयवम्, पूतमानयवम्  (at the time of winnowing barley), संहृतबुसम् (after the chaff has been got in), संहृतयवम् (after the barley has been got in), परमतिष्ठद्गु, लूनयवम् (after barley-harvest), लूयमानयवम्, संहूतयवम्, संह्रियमाणयवम् ( while the barley is being got in), संहतबुसम्, संह्रयमाणबुसम् | एते कालवाचकशब्दाः सन्ति | अन्यशब्दाः - समभूमि( even ground), समपदाति( foot soldiers right lines), सुषमम्( very even), विषमम् (  unfairly), निष्षमम्, दुष्षमम्, अपरसमम्, आयतीसमम्( when the cows come home), प्राह्णम् (in the morning) , प्ररथम् ( when the chariots move), सम्प्रति ( now, at present) , असम्प्रति( not according to the moment) , प्रमृगम्, प्रदक्षिणम् (from left to right), अपरदक्षिणम् ( south west), पापसमम्( evil year), पुण्यसमम् ( good year) | '''इच् कर्मव्यतिहारे''' गणसूत्रात् इच्प्रत्ययान्तः अस्ति इति कारणेनन दण्डादण्डि, मुसलामुसलि इत्यादि शब्दाः अपि अन्तर्भूताः  |</big>
 
 
<big>सम्प्रति=  सम् च प्रति च द्वयोः समाहारः | सम्प्रति इत्यस्य एते अर्थाः सन्ति - अस्मिन् काले, इदानीम्, अधुना, एतर्हि, सांप्रतम् इति |</big>
 
 
<big>असम्प्रति = अयोग्ये काले, अनुपस्थितकाले च |</big>
 
 
<big>यथा—</big>
 
<big>तिष्ठन्त्यः गावः (दोहनाय) यस्मिन् काले सः = तिष्ठद्गु गोदोहनकालः | नाम यस्मिन् काले धेनवः स्थिररूपेण तिष्ठन्ति दुहनार्थं, सः कालः एव तिष्ठद्गु, गोदोहनकालः | स्था इति धातुः अव्ययं नास्ति तथापि अव्ययीभावसमासः सिद्ध्यति अनेन सूत्रेण | एवमेव अन्यत्रापि |</big>
 
<big>तिष्ठद्गु इति समासस्य साधनार्थं प्रक्रियायाः अपेक्षा न वर्तते तथापि प्रक्रिया कथम् अस्ति इति वयम् ऊहां कर्तुं शक्नुमः | अधो भागे प्रदर्शिता -</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' स्था +शतृ+ङीप् + गो | अत्र गोपूर्वकः स्थाधातुतः शतृप्रत्ययस्य निपातनं कृत्वा तिष्ठद् इति शब्दः निष्पन्नः भवति |  स्त्रीत्वविवक्षायां ङीप् इति प्रत्ययः भूत्वा तिष्ठन्ती इति शब्दः भवति | स्था स्थाने तिष्ठ इति आदेशः भवति '''पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः''' (७.३.७८) इति सूत्रेण| तिष्ठ +शतृ+ङीप् + गो |  तिष्ठ+अत् +ई '''→ अतो गुणे''' (६.१.९६) इत्यनेन अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | तिष्ठत्+ई |</big>
 
<big>अधुना नुमागमः भवति  '''शप्‌श्यनोर्नित्यम्‌''' (७.१.८१) इत्यनेन सूत्रेण | अतः तिष्ठन्ती इति प्रातिपदिकं निष्पन्नं स्त्रीत्वविवक्षायाम् |  तिष्ठन्ती +गो इति समासस्य प्रातिपदिकं भवति | तिष्ठन्ती इति स्त्रीलिङ्गपदस्य पुंवद्भावः निपात्यते इति कृत्वा ङीप् इति प्रत्ययस्य, नुमागमस्य च निष्कासनं भवति | अतः तिष्ठद् +गो इति भवति | '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) इति सूत्रेण गो इति नियतलिङ्गशब्दस्य उपसर्जनसंज्ञा भवति , अपि च '''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) इति सूत्रेण गो इति स्त्रिलिङ्गशब्दस्य ह्रस्वत्वं भवति |गो इत्यस्य अन्ते ओकारः वर्तते | सः ओकारः दीर्घसंज्ञक:, तस्य ह्रस्वत्वम् उकारः भवति '''एच इग्घ्रस्वादेशे''' ( १.१.४८) इति सूत्रस्य साहाय्येन |  तिष्ठद्गु इति भवति |</big>
 
 
<big>अन्यत् उदाहरणम् -</big>
 
<big>आयत्यः गावः यस्मिन् काले सः  = आयतीगवम् | वने चरन्त्यः गावः दोहनार्थं यस्मिन् काले गोशालां प्रत्यागच्छन्ति, सः कालः आयतीगवम् |</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' आ+या + शतृ+ङीप् + गो| आ+या + अत्+ङीप् | आया+अत् +ई '''→''' आयत्+ई | आयती +गो इति समासस्य प्रातिपदिकं भवति |</big>
 
<big>आयती+गो | अत्र टच् इति प्रत्ययः निपात्यते, अतः आयती+ गो+ टच् इति भवति | आयती+गो+अ | यान्तावान्तदेशसन्धिं कृत्वा आयतीगव इति प्रातिपदिकं भवति |  </big>
 
<big>अधुना आयतीगव इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | सुप् प्रत्ययस्य उत्पत्तिः भवति| अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''आयतीगवात्''' अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
<big>आयतीगव+ अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''आयतीगवम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''आयतीगवम् / आयतीगवेन आयतीगवम् / आयतीगवे |''' अन्यासु विभक्तिषु '''आयतीगवम्''' इति रूपं सिद्धं भवति |</big>
 
{| class="wikitable mw-collapsible"
|+
|
==== <big>'''अतो गुणे''' (६.१.९६)</big> ====
 
 
<big>अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | गुणः इत्युक्तौ अ, ए, ओ | इदं सूत्रं वृद्धिरेचि (६.१.८७), अकः सवर्णे दीर्घः (६.१.१०१) इत्यनयोः अपवादसूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''अपदान्तात्‌ अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम्‌''' |</big>
|-
|
==== <big>'''शप्‌श्यनोर्नित्यम्‌''' (७.१.८१)</big> ====
 
 
<big>शप्श्यन्‌-प्रत्यययोः अवर्णात्‌ अङ्गात्‌ शत्रन्ताङ्गस्य नित्यं नुम्‌ आगमो भवति शी-प्रत्यये नदी-प्रत्यये च परे | अनुवृत्ति-सहितसूत्रम्‌— '''शप्श्यनोः आत्‌ शतुः अङ्गस्य नित्यं नुम्‌ शीनद्योः''' |</big>
|-
|
==== <big>'''एकविभक्ति चापूर्वनिपाते''' (१.२.४४)</big> ====
 
 
<big>विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति | समासे विधीयमाने यत् नियतविभक्तिकं , द्वितीये सम्बन्धिनि बहुभिः विभक्तिभिः युज्यमाने अपि एकयैव विभक्त्या तत् उपसर्जनसंज्ञं भवति अपूर्वनिपाते, पूर्वनिपाताख्यम् उपसर्जनकार्यं वर्जयित्वा | एका विभक्तिर्यस्य तद् एकविभक्ति, बहुव्रीहिः| पूर्वश्चासौ निपातश्चेति पूर्वनिपातः, कर्मधारयः | न पूर्वनिपातः अपूर्वनिपातः, तस्मिन्, अपूर्वनिपाते, नञ्तत्पुरुषः| एकविभक्ति प्रथमान्तं, चाव्ययम्, अपूर्वनिपाते सप्तम्यन्तम्| प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यस्मात् सूत्रात् समासः तथा उपसर्जनम् इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम् |'''</big>
 
 
|-
|
==== <big>'''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८)</big> ====
 
 
<big>उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति | गोश्च स्त्री च तयोरितरेतयोगद्वन्द्वौ गोस्त्रियौ, तयोः गोस्त्रियोः| गोस्त्रियोः षष्ठ्यन्तम्, उपसर्जनस्य षष्ठ्यन्तम् द्विपदमिदं सूत्रम् | '''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७) इति सूत्रात् प्रातिपदिकस्य, ह्रस्वः च अनयोः पदयोः अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''गोस्त्रियोः उपसर्जनस्य प्रातिपदिकस्य ह्रस्वः |'''</big>
|-
|<big>'''एच इग्घ्रस्वादेशे''' ( १.१.४८)</big>
 
 
<big>एच्-वर्णस्य ह्रस्वादेशः क्रियते चेत्, एच्-वर्णस्य स्थाने इक्-वर्णः विधीयते | उच्चारणसाम्यवशात् एकारस्य, ऐकारस्य च स्थाने इकारः भवति, ओकारस्य औकारस्य च स्थाने उकारः भवति|इदं परिभाषासूत्रम् अस्ति | एचः षष्ठ्यन्तम् , इक् प्रथमान्तं , ह्रस्व-आदेशे सप्तम्यन्तम् | सूत्रं स्वयं सम्पूर्णम्  — '''एचः इक् ह्रस्वादेशे''' |</big>
 
 
|-
|'''आच्छीनद्योर्नुम्‌''' (७.१.८०)
 
 
<big>शी-प्रत्ययः वा नदी-प्रत्ययः परे अस्ति चेत्‌, अवर्णात्‌ अङ्गात्‌ शत्रन्ताङ्गस्य विकल्पेन नुम्‌ आगमः भवति | अनुवृत्ति-सहितसूत्रम्‌— '''आत्‌ अङ्गात्‌ शतुः वा नुम्‌ शीनद्योः''' |</big>
|}