14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 357:
 
 
----
 
=== <big>'''विभाषाः (२.१.११)'''</big> ===
<big>एतद् अधिकारसूत्रम् अस्ति | एतस्य सूत्रस्य अधिकारः अस्मात् सूत्रात् आरभ्य '''चार्थे द्वन्द्वः''' (२.२.२९) इति सूत्रपर्यन्तं भवति |  एतस्मात् सूत्रात् समासविधिः विकल्पेन भवति | अर्थात् समस्तप्रयोगः अपि शक्यते व्यस्तप्रयोगः अपि शक्यते वाक्ये अस्माकं विवक्षानुगुणम् | अस्मिन् सूत्रे विभाषा इत्यस्य महाविभाषा इति उल्लेखः क्रियते यतः तस्य अनुवृत्तिः बहुषु सूत्रेषु भवति | एतस्य प्रसक्तिः सम्पूर्णसमासप्रकरणे अस्ति | विभाषा प्रथमान्तं एकपदमिदं सूत्रम् |  '''सूत्रं स्वयं सम्पूर्णम् |'''</big>
 
 
<big>यत्र विभाषा इत्यस्य सूत्रस्य अधिकारः अस्ति तत्र समासः विकल्पेन भवति | अतः सीतापतिः गच्छति इत्यपि वक्तुं शक्यते नो चेत् सीतायाः पतिः गच्छति इत्यपि वक्तुं शक्यते | यत्र समासः नित्यः तत्र '''विभाषा''' (२.१.११) इति सूत्रस्य प्रसक्तिः न भवति |  '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् प्राक् यानि सूत्राणि सन्ति तत्र समासः नित्यः भवति |  अव्ययीभावाधिकारे (२.१.५) इत्यस्मात् सूत्रात् आरभ्य (२.१.१०) इति सूत्रपर्यन्तं षट् सूत्राणि सन्ति यत्र '''विभाषा''' (२.१.११) इत्यस्य अधिकारः नास्ति | अतः एव तत्र सर्वत्र समासः विकल्पेन न भवति अपि तु नित्यं भवति | सामान्यतया यानि सूत्राणि '''विभाषा''' (२.१.११) इत्यस्य अधिकारे सन्ति तानि विकल्पेन प्रवर्तन्ते | परन्तु कुत्रचित् यद्यपि '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति तथापि समासः विकल्पेन न भवति, अपि तु नित्यरूपेण भवति | यथा उपपदसमासः यः तत्पुरुषसमासस्य प्रभेदः अस्ति, सः समासः नित्यरूपेण विधियते |</big>
 
 
 
<big>सारांशः  -</big>
 
<big>सामान्यतः समासः विकल्पेन भवति '''विभाषा''' (२.१.११) इत्यस्य अधिकारात् | अर्थात् व्यस्तप्रयोगः अपि कर्तुं शक्यते, समस्तप्रयोगः अपि कर्तुं शक्यते |  परन्तु स्मर्तव्यं यत् कुत्रचित् समासः विकल्पेन न भवति अपि तु नित्यरूपेण भवति | अग्रे सूत्रस्य पठनावसरे परिशीलयामः कुत्र समासः नित्यः इति |</big>