14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 385:
 
<big>अप, परि च एतौ द्वौ '''प्रदायः''' (१.४.५८) इति सूत्रेण निपातसंज्ञकौ भवतः | तत्पश्चात् '''स्वरादिनिपातमव्ययम्'''(१.१.३७) इति सूत्रेण तयोः अव्ययसंज्ञा अपि भवति | बहिस् इति शब्दः स्वरादिगणे अस्ति, अतः '''स्वरादिनिपातमव्ययम्'''(१.१.३७) इति सूत्रेण अव्ययसंज्ञकः भवति | अप, परि, बहि: इत्येते सुबन्ताः तथा अञ्चु इति धातुतः निष्पन्नाः सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते इति उपरितनसूत्रेण ज्ञायते | परन्तु एतेषां शब्दानां योगे कथं पञ्चमीविभक्तिः विधीयते इति अग्रे उच्यते | अञ्चुधातुतः निष्पन्नाः दिक्वाचकाः अव्ययानि भवन्ति '''तद्धितश्चासर्वविभक्तिः''' ( १.१.३८)  इति सूत्रेण| अतः एव प्राक्, प्रत्यच्, उदच् इत्येतानि अव्ययानि सन्ति|</big>
 
 
<big>कर्मप्रवचनीया इति काचित् संज्ञा वर्तते व्याकरणे | '''कर्मप्रवचनीयाः नाम ये पूर्वं क्रियां प्रोक्तवन्तः किन्तु अधुना क्रियाकृतं विशेषसम्बन्धं कथयन्ति |''' एकादश कर्मप्रवचनीयाः अष्टाध्यायां निर्दिष्टाः सन्ति - अनु, उप, अप, परि, आङ्, प्रति,अभि, अधि, सु, अति, अपि | एतेषां प्रादीनां कर्मप्रवचनीयसंज्ञा भवति विशिष्टार्थेषु | तदर्थं सूत्राणि सन्ति अष्टाध्यायाम् | अप, परि अनयोः कर्मप्रवचनीयसंज्ञा भवति वर्जनार्थे '''अपपरी वर्जने''' ( १.४.८८) इति सूत्रेण |</big>
Line 409 ⟶ 410:
 
<big>१२) अपि = पदार्थे, सम्भावनार्थे, अन्वसर्गार्थे, गर्हार्थे, समुच्च्यार्थे च कर्मप्रवचनीयसंज्ञा भवति |</big>
 
 
 
<big>'''अपपरी वर्जने''' (१.४.८८) इति सूत्रेण अप, परि अनयोः शब्दयोः वर्जनार्थे कर्मप्रवचनीयसंज्ञा भवति | वर्जनार्थं नाम विहाय, त्यागः, अतिरिच्य इत्यर्थाः |</big>
Line 429 ⟶ 432:
 
<big>'''अञ्चु इति धातुतः निष्पन्नानां दिग्वाचकानां योगे पञ्चमी'''</big>
 
 
 
<big>'''अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते''' (२.३.२९) इति सूत्रेण अञ्चु इति धातुतः निष्पन्नानां दिग्वाचकानां योगे अपि पञ्चमीविभक्तिः भवति | अञ्चु गतिपूजनयोः इति भ्वादिगणीयः धातुः अस्ति | दिक् इत्यस्मिन् अर्थे प्रयुक्तः अस्ति | प्राक्(च्), प्रत्यक्(च्), उदच् इत्येते क्विन्प्रत्ययान्ताः शब्दाः अञ्चुधातुं प्रयुज्य निष्पन्नाः | प्राच्, प्रत्यच्, उदच् इत्येते शब्दाः देशस्य कालस्य वा विशेषणरूप्रेण प्रयुज्यन्ते तत्र 'ङीप्' इति प्रत्ययः न भवति, यतः 'देश' उत 'काल' एतौ शब्दौ स्त्रीवाचिनौ न स्तः | यथा - प्राङ् देशः, प्राङ् कालः, प्रत्यङ् देशः, प्रत्यङ् कालः, उदङ् देशः, उदङ् कालः इति |</big>
Line 447 ⟶ 452:
 
<big>अप, परि, अञ्चु इति धातुतः निष्पन्नाः सुबन्ताः, इत्येतेषां पदानां योगे पञ्चमीविभक्तिः भवति इति वयं ज्ञातुं शक्नुमः | परन्तु बहिः इति शब्दस्य योगे पञ्चमी भवति इति कथं ज्ञातुं शक्नुमः यतोहि तादृशं सूत्रं नास्ति कारकप्रकरणे वा अन्यत्र अष्टाध्यायाम् |</big>
 
 
 
<big>'''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति सूत्रं  समासप्रकरणे अस्ति, तत् सूत्रं वदति बहिः इति सुबन्तं पञ्चम्यन्तेन सुबन्तेन सह समस्यते इति | व्यस्तप्रयोगे ग्रामात् बहिः इति वदामः चेत् तत्र बहिः इति पदस्य योगे पञ्चमी प्रयोगः दृश्यते | यद्यपि तदर्थं कारकप्रकरणे सूत्रं नास्ति तथापि बहिः इति पदस्य योगे तु समासं कर्तुं सूत्रम् अस्ति '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति | एतत् सूत्रमेव ज्ञापकं यत् बहिः इति पदस्य योगे पञ्चमी भवति इति | तदर्थमेव '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति सूत्रे पञ्चम्या इति पदस्य प्रयोगः दृश्यते | अनेन ज्ञायते यत् बहिः इति पदस्य योगे पञ्चमीविभक्तिः भवति इति |</big>
Line 453 ⟶ 460:
 
<big>आहत्य अप, परि, बहिः, अञ्चु इति धातुतः निष्पन्नाः सुबन्ताः च, इत्येतेषां योगे पञ्चमीविभक्तिः विधीयते इति ज्ञातवन्तः | अधुना तेषां शब्दानां सुबन्तेन सह समासः विकल्पेन  विधीयते '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२)  इत्यनेन सूत्रेण |</big>
 
 
 
<big>'''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति सूत्रस्य उदाहरणानि -</big>
Line 501 ⟶ 510:
 
<big>प्राग्ग्रामात् = प्राग्ग्रामम्, प्राग्ग्रामात् | अञ्चु इति धातुतः निष्पन्नः शब्दः प्राक् इति  |</big>
 
{| class="wikitable"
|+
|
==== <big>'''ससजुषो रुः''' (८.२.६६)</big> ====
 
 
<big>पदान्ते सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन न केवलं यत्‌ पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''ससजुषोः पदस्य रुः''' |</big>
|-
|
==== <big>'''झलां जशोऽन्ते''' (८.२.३९)</big> ====
 
 
<big>इत्यनेन पदान्ते झलः स्थाने जशादेशः |</big>
|-
|
==== <big>'''प्रातिपदिकान्तनुम्‌विभक्तिषु च''' (८.४.११)</big> ====
 
 
<big>पूर्वपदस्य निमित्तात्‌ परस्य एषु स्थितस्य नस्य णो वा स्यात्‌ | अत्र धेयं यत्‌ समासस्य प्रसङ्गोऽयम्‌ | सामान्यतया समासे णत्वं न भवति, परन्तु अत्र भवति विकल्पेन यदि नकारान्तप्रातिपदिकं (माष + वापिन्‌ ‌ + औ → माषवापिणौ, माषवापिनौ), नुम्‌-सम्बद्ध-नकारः ('''नपुंसकस्य झलचः''' इति सूत्रेण प्रथमा-द्वितीया-बहुवचने नुम्‌ भवति यथा माष + वापा + न्‌ + इ → माषवापाणि, माषावापानि), विभक्तिसम्बन्धी नकारः (तृतीया षष्ठी वा यथा हर्षभावेण, हर्षभावेन, वारिवाहाणाम्‌, वारिवाहानाम्) इत्येषु त्रिषु कश्चन उपस्थितोऽस्ति | भ्रमः उदेति यत्‌ किमर्थम्‌ अस्मिन्‌ प्रसङ्गे अस्माभिः चिन्तनीयं यत्‌ के के वर्णाः मध्ये सन्ति यतः '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' इति सूत्रे '''रषाभ्यां नो णः समानपदे''' इति सूत्रस्य पूर्णतया अनुवृत्तिः—नाम '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' केवलं समानपदे कार्यं करोति | परन्तु '''प्रातिपदिकान्तनुम्‌विभक्तिषु च''' इत्यस्मिन्‌ इमानि पदानि अनुवृत्तानि—'''वा''', '''पूर्वपदात्‌''', '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''', '''रषाभ्यां नो णः''', '''संहितायाम्‌''' इति | अत्र '''समानपदे''' इत्यस्य अनुवृत्तिर्नास्ति | अनुवृत्ति-सहितसूत्रम्‌— '''पूर्वपदात् रषाभ्याम्'''  '''प्रातिपदिकान्त-नुम्‌-विभक्तिषु च  नो णः वा''' '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि संहितायाम्  |'''</big>
|}
 
----
 
=== <big>'''आङ् मर्यादाऽभिविध्योः''' '''(२.१.१३)'''</big> ===
<big>मर्यादार्थे वा अभिविध्यर्थे विद्यमानस्य आङ् इति अव्ययं पञ्चम्यन्तेन सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति |</big>
 
 
 
<big>'''आङ् मर्यादाऽभिविध्योः''' (२.१.१३) = मर्यादार्थे वा अभिविध्यर्थे विद्यमानस्य आङ् इति अव्ययस्य पञ्चम्यन्तेन समर्थेन सुबन्तेन सह विकल्पेन समासः भवति |  मर्यादा च अभिविधिश्च तयोः इतरेतरयोगद्वन्द्वः मर्यादाभिविधी तयोर्मयादाभिविद्योः |  आङ् प्रथमान्तं, मर्यादाभिविध्योः सप्तम्यन्तम् |  '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति |   '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः| '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इत्यस्मात् सूत्रात् पञ्चम्या इत्यस्य अनुवृत्तिः| अनुवृत्ति-सहित-सूत्रम्‌—'''मर्यादा-अभिविध्योः आङ् सुप् पञ्चम्या सुपा सह अव्ययीभावः समासः विभाषा |'''</big>
 
<big>यद्यपि आङ् इत्यस्य चत्वारः अर्थाः सन्ति, तथापि समासार्थम् आङ् इति अव्ययस्य अर्थद्वयं स्वीक्रियते – मर्यादा, अभिविधिः च | वाक्येषु आङ् इत्यस्य  कस्मिन् अवसरे प्रयोगः कृतः इति दृष्ट्वा मर्यादार्थः वा अभिविध्यर्थः वा इति निर्णयः कर्तव्यः |</big>
 
 
 
<big><u>मर्यादार्थे –</u></big>
 
<big>मर्यादा नाम तेन विना इत्यर्थः |</big>
 
<big>तद्यथा -  १) आसमुद्रं भारतदेशः इति वाक्ये, समुद्रं विहाय, समुद्रपर्यन्तं यः भूभागः वर्तते सः भारतदेशः इति | समुद्रं विना या भूमिः वर्तते सा भूमिः भारतदेशः इति अर्थः लभ्यते |</big>
 
<big>२) आभानुवासरं पाठयति इत्यस्य भानुवासरं विहाय पाठयति इत्यर्थः | तेन विना = भानुवासरेण विना पाठः प्रचलति | भानुवासरपर्यन्तम् इत्यर्थः |</big>
 
<big>३)  आपाटलिपुत्रं वृष्टो देवः, आ पाटलिपुत्रात् |  अर्थात् पाटलुपुत्रं विहाय वृष्टिः अभवत् |</big>
 
<big>४) आमरणं/ आ मरणात् शङ्काराचार्येण धर्मस्य संरक्षणार्थं विचेष्टितम् |</big>
 
<big>५) आमुक्ति / आ मुक्तेः संसारः अस्ति | मुक्तिपर्यन्तं संसारः अस्ति |</big>
 
<big>६) सः पुरुषः आदिनं/ आ दिनात् कार्यं करोति |</big>
 
<big>एतेषु उदाहरणेषु आङ् इति मर्यादार्थे अस्ति इत्यतः तस्य कर्मप्रवचनीयसंज्ञा भवति '''आङ् मर्यादावचने''' ( १.४.८९) इति सूत्रेण | तत्पश्चात् तस्य योगे पञ्चमी भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण | आङ् इत्यस्य प्रयोगः सर्वदा पञ्चम्यन्तेन सह भवति | आङ् इत्यस्य समासः विकल्पेन भवति पञ्चम्यन्तेन सुबन्तेन सह भवति '''आङ् मर्यादाऽभिविध्योः''' (२.१.१३) इत्यनेन सूत्रेण |</big>
 
 
<big><u>अभिविध्यर्थे –</u></big>
 
<big>अभिविधिः नाम तेन सह इत्यर्थः | अत्र आङ् इति अव्ययं अभिविध्यर्थे अस्ति |</big>
 
<big>तद्यथा</big>
 
<big>१) आहिमालयम्/ आ हिमालयात् भारतदेशः इति वदामः चेत् हिमालयः अपि भारतदेशे अन्तर्भवति इत्यर्थः | तेन सह नाम आरभ्य इत्यर्थः |</big>
 
<big>२) आकुमारम्/ आ कुमारेभ्यः यशः पाणिनेः| अर्थात् पाणिनेः यशः बालकेषु मध्ये अपि प्रसारितः अस्ति |  </big>
 
<big>३) आभानुवासरम्/ आ भानुवसरात् पाठयति इत्यस्य भानुवासरे अपि पाठयति इत्यर्थः | तेन सह = भानुवासरमपि पाठः प्रचलति इत्यर्थः |</big>
 
<big>४) आजन्म/आजन्मनः कृतात् पापात् ईश्वरः मुच्यते | आजन्म नाम जन्म आरभ्य इत्यर्थः |</big>
 
<big>५) ईश्वरः आजन्मनि कृतं पापं दूरीकरोति |</big>
 
<big>६) आबहुभ्यः वर्षेभ्यः एतत् गृहं तस्य एव आसीत् |</big>
 
<big>७) आबहुभ्यः दिनेभ्यः छात्राणां दर्शनम् एव नास्ति |</big>
 
 
 
<big>एतेषु उदाहरणेषु आङ् इति अभिविध्यर्थे अस्ति इत्यतः तस्य कर्मप्रवचनीयसंज्ञा भवति '''आङ् मर्यादावचने''' ( १.४.८९) इति सूत्रेण | '''आङ् मर्यादावचने''' ( १.४.८९) इति सूत्रे वचनग्रहणात् अभिविधिः इति अर्थः अपि गृह्यते | अर्थात् आङ् इत्यस्य अभिविध्यर्थे अपि कर्मप्रवचनीयसंज्ञा भवति, तत्पश्चात् तस्य योगे पञ्चमी भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण |</big>
 
 
'''<big>प्रकृतसूत्रे मर्यादाभिविधिग्रहणं किमर्थम्?</big>'''
 
<big>यावता पञ्चमीत्यनुवर्तते, आङा च कर्मप्रवचनीयेनैव योगे पञ्चमी विधीयते एतयोरेवार्थयोः| नान्यत्र; तत्रान्तरेणापि मर्यादाविधिग्रहणं तयोरेवार्थयो समासो भविष्यति, नान्यत्रेति| सत्यमेतत्; तथापि मन्दधियां सुखावबोधनार्थं मर्यादाभिविधिग्रहणं कृतं पाणिनिना |</big>
 
 
<big>अन्यानि उदाहरणानि –</big>
 
<big>१) आ मुक्तेः संसारः = आमुक्ति संसारः / आ मुक्तेः संसारः | मुक्तिः पर्यन्तम् एव संसारः अस्ति|</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' आ + मुक्ति + ङसि | '''आङ् मर्यादाऽभिविध्योः''' (२.१.१३) इति सूत्रेण समासः विकल्पेन विधीयते | आ इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | आमुक्ति इति प्रातिपदिकं सिद्ध्यति | आमुक्ति इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण सुब्लुक् भवति → आमुक्ति इति समासः | समासापक्षे वाक्यं भवति आ मुक्तेः | अत्र '''आङ् मर्यादावचने'''( १.४.८९) इति सूत्रेण आङ् -शब्दस्य कर्मप्रवचनीयसंज्ञा भूत्वा तस्य योगे पञ्चमी विभक्तिः भवति '''पञ्चमी अपाङ्परिभिः''' (२.३.१०) इति सूत्रेण |  अतः वाक्यं भवति आ मुक्तेः संसारः इति |</big>
 
<big>२) आ बालेभ्यः हरिभक्तिः = आबालं हरिभक्तिः/ आ बालेभ्यः हरिभक्तिः |</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' आ + बाल + भ्यस् | '''आङ् मर्यादाऽभिविध्योः''' (२.१.१३) इति सूत्रेण समासः विकल्पेन विधीयते | आ इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | आबाल इति प्रातिपदिकं सिद्ध्यति | आबाल इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''आबालात्''' | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
<big>आबाल+ अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्| पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''आबालम्''' इति रूपं सिद्धं भवति| '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति| अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''आबालम् /आबालेन, आबालम् / आबाले |''' अन्यासु विभक्तिषु '''आबालम्''' इति रूपं सिद्धं भवति |</big>
 
<big>समासापक्षे वाक्यं भवति आ बालेभ्यः | अत्र '''आङ् मर्यादावचने''' (१.४.८९) इति सूत्रेण आङ् -शब्दस्य कर्मप्रवचनीयसंज्ञा भूत्वा तस्य योगे पञ्चमी विभक्तिः भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण | अतः वाक्यं भवति '''आ बालेभ्यः''' हरिभक्तिः इति |</big>
 
 
 
<big>एवमेव -</big>
 
<big>१) आ पाटलिपुत्राद्/ आपाटलिपुत्रम् वृष्टो देवः |</big>
 
<big>२) आ कुमारेभ्यः/ आकुमारं यशः पाणिनेः |</big>
 
<big>३) आ मथुरायाः/ आमथुरं कृष्णस्य अनुभूतिः भवति अद्यत्वेऽपि |</big>