14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 618:
<big>३) आ मथुरायाः/ आमथुरं कृष्णस्य अनुभूतिः भवति अद्यत्वेऽपि |</big>
 
 
----
 
=== <big>लक्षणेनाभिप्रती आभिमुख्ये (२.१.१४)</big> ===
<big>सम्मुखता इत्यस्मिन् अर्थे अभि, प्रति च एतौ द्वौ शब्दौ चिह्नवाचिना सुबन्तेन सह विकल्पेन समस्येते, अव्ययीभावसमासः च भवति|</big>
 
<big>'''लक्षणेनाभिप्रती आभिमुख्ये''' (२.१.१४) =  सम्मुखता (facing, direction)  इत्यस्मिन् अर्थे अभि, प्रति च, एतौ द्वौ शब्दौ  चिह्नवाचिना सुबन्तेन सह विकल्पेन समस्येते, अव्ययीभावश्च समासो भवति | लक्षणं चिह्नं, तद्वाचिना सुबन्तेन सह अभिप्रती शब्दौ आभिमुख्ये वर्तमानौ विभाषा समस्येते, अव्ययीभावश्च समासो भवति | लक्षणं नाम चिह्नं (sign), ज्ञापकम्( reminder), लक्षीकृत्य( goal)  इत्यर्थः | अभिश्च प्रतिश्च तयोरितरेतरयोगद्वन्द्वः अभिप्रती, अभिमुखस्य भावः अभिमुख्यं, तस्मिन् आभिमुख्ये | लक्षणेन तृतीयान्तम्, अभिप्रती प्रथमाद्विवचनान्तम्, आभिमुख्ये सप्तम्यन्तम् |  '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति |   '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌—  '''आभिमुख्ये अभिप्रती सुपौ लक्षणेन सुपा सह  अव्ययीभावःसमासः विभाषा |'''</big>
 
<big>सूत्रे लक्षणेन इति पदस्य कारणेन लक्षणवाचिपदेन सह एव समासः भवति न अन्यत्र | लक्ष्यते अनेन इति लक्षणम् | लक्ष्यं, चिह्नम् इत्यस्मिन् अर्थे लक्षणम् इति शब्दः प्रयुक्तः अस्ति अस्मिन् सूत्रे |</big>
 
<big>अभि इति अव्ययस्य बहवः अर्थाः सन्ति-  आभिमुख्ये, पूजायां, सादृश्ये, इच्छायाम् इत्यादयः  | प्रति इति अव्ययस्यापि बहवः अर्थाः सन्ति - वीप्सायां, प्रतिनिधौ, सादृश्ये, व्याप्तौ, आभिमुख्ये इत्यादयः | यदा अभिप्रती आभिमुख्यार्थे स्तः तदानीं तयोः चिह्नवाचिना सुबन्तेन सह अव्ययीभावसमासः भवति |</big>
 
<big>'''लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः''' ( १.४.९०) इति सूत्रेण लक्षण-इत्थम्भूताख्यान-भाग- वीप्सासु अर्थेषु विषयभूतेषु प्रति-परि-अनवः कर्मप्रवचनीयसंज्ञकाः भवन्ति | अर्थात् अनेन सूत्रेण प्रति इत्यस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणादिषु अर्थेषु द्योत्येषु | लक्षणं नाम ज्ञापकम् इत्यर्थः | अस्मिन् सूत्रे इत्थम्भूताख्यान-भाग इत्यपि उक्तं परन्तु तस्य चिन्तनम् अनावश्यकं समासप्रसाङ्गे | वीप्सायां तु प्रति इत्यस्य चर्चा पूर्वमेव जाता '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  ( २.१.६) इत्यत्र | यदा लक्षणार्थे प्रति इत्यस्य कर्मप्रवचनीयसंज्ञा भवति तदा तस्य योगे द्वितीया भवति '''कर्मप्रवचनीययुक्ते द्वितीया''' ( २.३.८) इति सूत्रेण | उदाहरणं=  वृक्षं प्रति विद्योतते( flash forth) विद्युत् | वृक्षस्य समीपे विद्युत् अस्ति | वृक्षं दृष्ट्वा तत्समीपस्थायाः विद्युतः ज्ञानं भवति इत्यर्थः |</big>
 
 
 
<big>'''अभिरभागे''' (१.४.९१) इति सूत्रेण लक्षण-इत्थम्भूताख्यान-वीप्सासु अर्थेषु विषयभूतेषु अभि कर्मप्रवचनीयसंज्ञकः भवति | अर्थात् अनेन सूत्रेण अभि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणादिषु अर्थेषु द्योत्येषु | लक्षणं नाम ज्ञापकम् इत्यर्थः | अस्मिन् सूत्रे इत्थम्भूताख्यानम् इत्यपि उक्तं परन्तु तस्य चिन्तनम् अनावश्यकं समासप्रसाङ्गे | वीप्सार्थे अभि इत्यस्य समासः न विधीयते '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इत्यनेन यतोहि तादृशप्रयोगः न दृश्यते लोके | अभि इत्यस्य प्रयोगः वीप्सार्थे द्योत्ये भवति केवलं व्यस्तप्रयोगे | यथा - देवं देवम् अभि सिञ्चति | यदा अभि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति तदा तस्य योगे द्वितीया भवति '''कर्मप्रवचनीययुक्ते द्वितीया''' ( २.३.८) इति सूत्रेण | उदाहरणम् = वृक्षम् अभि विद्योतते विद्युत् | वृक्षस्य समीपे विद्युत् अस्ति | वृक्षं दृष्ट्वा तत्समीपस्थायाः विद्युतः ज्ञानं भवति इत्यर्थः |</big>
 
<big>'''लक्षणेनाभिप्रती आभिमुख्ये''' (२.१.१४) इत्यस्य उदाहरणानि —</big>
 
<big>१) अग्निम् अभि = अभ्यग्नि शलभाः पतन्ति, अग्निम् अभि शलभाः पतन्ति( The moth falls in the direction of the fire) | शलभः नाम कीटः इति | कीटाः अग्नेः दिशि पतन्ति |  अग्निं लक्ष्यीकृत्य अभिमुखं पतन्ति इत्यर्थः | अग्निः ज्ञापकः येन अग्नेः आभिमुख्ये शलभपतनं इति अर्थः ज्ञाप्यः भवति |</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' अग्नि + अम् + अभि | '''लक्षणेनाभिप्रती आभिमुख्ये''' (२.१.१४) इति सूत्रेण आभिमुख्यर्थे अभि इति अव्ययम् अग्नि इति चिह्नवाचिना सुबन्तेन  विकल्पेन समस्यते | अग्नि+अम् +अभि | अभि इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | यण्-सन्धिं कृत्वा अभ्यग्नि इति प्रातिपदिकं सिद्ध्यति | अभ्यग्नि इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अग्रे '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण सुप् प्रत्ययस्य लोपः भवति → अभ्यग्नि इति समस्तपदं निष्पन्नं भवति | समासापक्षे वाक्यं भवति अग्निम् अभि शलभाः पतन्ति इति |</big>
 
 
 
<big>२) अग्निं प्रति = प्रत्यग्नि शलभाः पतन्ति, अग्निं प्रति शलभाः पतन्ति |</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' अग्नि+अम् + प्रति | '''लक्षणेनाभिप्रती आभिमुख्ये''' (२.१.१४) इति सूत्रेण आभिमुख्यर्थे प्रति इति अव्ययम् अग्नि इति चिह्नवाचिना सुबन्तेन विकल्पेन समस्यते | अग्नि + अम् + प्रति | प्रति इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | यण् -सन्धिं कृत्वा प्रत्यग्नि इति प्रातिपदिकं सिद्ध्यति | प्रत्यग्नि इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः| अग्रे '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण सुप् प्रत्ययस्य लोपः भवति → प्रत्यग्नि इति समस्तपदं निष्पन्नं भवति | समासापक्षे वाक्यं भवति अग्निम् प्रति शलभाः पतन्ति इति |</big>
 
<big>उपर्युक्ते उदाहरणे प्रति इत्यस्य '''लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः''' (१.४.९०) इति सूत्रेण कर्मप्रवचनीयसंज्ञा भवति लक्षणार्थे द्योत्ये | एवमेव अभि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति '''अभिरभागे''' ( १.४.९१) इति सूत्रेण लक्षणार्थे द्योत्ये | तत्पश्चात् '''कर्मप्रवचनीया द्वितीया''' (२.३.८) इति सूत्रेण कर्मप्रवचनीययुक्ते द्वितीयाविभक्तिः भवति, अतः अग्नि इति शब्दस्य द्वितीयाविभक्तिः भवति |  एषः नियमः तु वाक्यस्तरे अपि भवति यथा – १) अग्निम् अभि शलभाः पतन्ति, २) अग्निं प्रति शलभाः पतन्ति इति | अभि, प्रति, अनयोः कर्मप्रवचनीयसंज्ञकयोः योगे तु द्वितीयाविभक्तिः भवति |</big>
 
<big>३) अक्षिणी प्रति = प्रत्यक्षम् ( facing towards or in front of the eyes)| अक्षि इति प्रातिपदिकं नपुंसकलिङ्गे अस्ति |</big>
 
<big>'''लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः''' (१.४.९०) इति सूत्रेण प्रति इत्यस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणार्थे द्योत्ये |</big>
 
<big>तत्पश्चात् '''कर्मप्रवचनीययुक्ते द्वितीया''' (२.३.८) इति सूत्रेण कर्मप्रवचनीययुक्ते द्वितीयाविभक्तिः भवति, अतः अक्षि इति शब्दस्य द्वितीयाविभक्तिः भवति अक्षिणी इति |</big>
 
<big>अक्षि +औट् +प्रति +सु इति अलौकिकविग्रहवाक्यम् | '''लक्षणेनाभिप्रती आभिमुख्ये''' ( २.१.१४) इति सूत्रेण समासः विधीयते यतोहि प्रति इति आभिमुख्यार्थे, अक्षि इति  चिह्नवाचिना सुबन्तेन सह विकल्पेन समस्येते, अव्ययीभावश्च समासो भवति |</big>
 
<big>प्रत्यक्षि इति प्रातिपदिकात् टच् इति प्रत्ययः विधीयते  '''प्रतिपरसमनुभ्योक्षणः''' इति गणसूत्रेण | '''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) इति सूत्रस्य अन्तर्गते ''' प्रतिपरसमनुभ्योऽक्ष्णः''' इति गणसूत्रं वर्तते इति पूर्वमेव सूचितम् | गणसूत्रार्थः = प्रति, पर, सम् तथा अनु, एतेषु कश्चन शब्दः पूर्वपदे विद्यते चेत् अपि च उत्तरपदे अक्षि इति शब्दः चेत्, तदन्तात् अव्ययीभावसमासात् टच् इति समासान्तप्रत्ययः विधीयते | अनेन प्रत्यक्षम्, परोक्षम्, समक्षम्, अन्वक्षम् इत्यादीनि समस्तपदानि सिद्ध्यन्ति |अत्र अस्माकं विषयः प्रति इति आभिमुख्यार्थे अक्षि इति लक्षणवाचिना सुबन्तेन सह भवति '''लक्षणेनाभिप्रती आभिमुख्ये''' ( २.१.१४) इति सूत्रेण |</big>
 
<big>प्रत्यक्षि + टच् → प्रत्यक्षि + अ|</big>
 
<big>प्रत्यक्षि +अ → '''यस्येति च''' (६.४.१४८) इति भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | अतः प्रत्यक्ष् + अ → प्रत्यक्ष इति प्रातिपदिकं निष्पन्नं भवति | इदानीं सुबुत्पत्तिः भवति | तत्पश्चात्  '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमीविभक्तौ अम् आदेशः न भवति, तत्र तु  यथासामान्यं सुबन्तप्रक्रियानन्तरं रूपं भवति '''प्रत्यक्षात्''' | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम्-आदेशः भवति |</big>
 
<big>प्रत्यक्ष+ अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी-विभक्तिं विहाय अपरासु विभक्तिषु '''प्रत्यक्षम्''' इति रूपं सिद्धं भवति | अधुना '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीयाविभक्तौ अपि च सप्तमीविभक्तौ रूपद्वयं सम्भवति- '''प्रत्यक्षं/ प्रत्यक्षेण, प्रत्यक्षं/ प्रत्यक् षे|'''</big>
 
<big>४) विपाशं (नदीं)  प्रति = प्रतिविपाशम् | '''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) इति सूत्रेण टच् इति तद्धितप्रत्ययः विधीयते यतोहो विपाश् इति शब्दः शरादिगणे पठितः |</big>
 
<big>५) सूर्यं प्रति = प्रतिसूर्यम् | ऋषिः प्रतिसूर्यम् अर्घ्यं समर्पयति |</big>
 
<big>६) ईश्वरं प्रति = प्रतीश्वरम् | योगिनः प्रतीश्वरं सुव्रतं, सुतपः च कुर्वन्ति |</big>
 
<big>लक्षणे इति किम्?</big>
 
<big>मथुरां प्रति गतः इति वाक्यम् अस्ति | अत्र दिग्भ्रमवशात् मथुरां प्रति गतः इत्यर्थः विवक्षितः इति कारणेन मथुरा इति शब्दः लक्षणवाचिशब्दः नास्ति, अतः अव्ययीभावसमासः न भवति '''लक्षणेनाभिप्रती आभिमुख्ये''' (२.१.१४)  इत्यनेन सूत्रेण | मथुरा इति पदं लक्षणार्थे नास्ति अस्मिन् वाक्ये | अनेन अवगम्यते यत् अत्र केवलं व्यस्तप्रयोगः एव सम्भवति न तु अव्ययीभावसमासः |</big>
 
----