14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 689:
----
 
=== <big>अनुर्यत्समया ( २.१.१५)</big> ===
 
 
<big>समीपार्थे अनु इति अव्ययं सुबन्तेन सह विकल्पेन समस्यते, अव्ययीभावसमासः च भवति|</big>
 
 
<big>'''अनुर्यत्समया''' ( २.१.१५)</big>
 
<big>यं पदार्थं समया( सामीप्यं) द्योत्यते तेन लक्षणभूतेन अनु इति अव्ययं समस्यते, सः अव्ययीभावश्च समासः भवति |   यस्य पदार्थस्य समीपे अनु इति पदम् अस्ति, तादृशलक्षणवाचिना सुबन्तेन सह अनु इति पदं विकल्पेन समस्यते, अव्ययीभावसमासः च भवति |  समया नाम समीपे इत्यर्थः | अनु इति अव्ययस्य अपि सामीप्यार्थः अस्ति |   '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | अनुः प्रथमान्तं, यत् इति द्वितीयैकवचनं, समया इत्यव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः |  '''लक्षणेनाभ्प्रती आभिमुख्ये''' (२.१.१४) इत्यस्मात् सूत्रात् लक्षणेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌—'''अनुः सुप् यत् समया लक्षणेन''' '''सुपा सह अव्ययीभावः समासः विभाषा |'''</big>
 
<big>अनु इति अव्ययस्य अस्माभिः एतेषु अर्थेषु प्रयोगः दृष्टः  - पश्चादर्थे, आनुपूर्व्यार्थे, योग्यतार्थे च | अनु इति अव्ययस्य अन्ये अपि अर्थाः सन्ति | यथा सामीप्यार्थे, आभिमुख्यार्थे, लक्षणार्थे, सादृश्यार्थे इत्यादयः | '''अनुर्यत्समया''' ( २.१.१५) इति सूत्रे अनु इत्यस्य सामीप्यम् इत्यस्मिन् अर्थे प्रयुक्तः अस्ति |</big>
 
<big>'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  '''( २.१.६) इति सूत्रेण सामीप्यर्थे अव्ययस्य सुबन्तेन सह नित्यसमासः भवति इति जानीमः | तर्हि '''अनुर्यत्समया''' ( २.१.१५) इति सूत्रे समया इति पुनः किमर्थम् उक्तम्?</big>
 
<big>अस्य समाधानम् एव यत् '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  '''(२.१.६) इति सूत्रेण समासः नित्यः परन्तु '''अनुर्यत्समया''' (२.१.१५) इति सूत्रेण समासः विकल्पेन सिद्ध्यति | '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' ( २.१.६) इत्येव सिद्धे पुनर्वचनं विभाषार्थम् |</big>
 
<big>यत्समया इति पदस्य कारणात् अनु इति शब्दः यस्य समीपवाची , तेन लक्षणवाचिना सुबन्तेन सह समासः भवति, अन्यथा न भवति | वृक्षम् अनु विद्योतते विद्युत् इत्यत्र अनु इति शब्दः समीपवाची नास्ति अपितु लक्ष्य-लक्षणभावस्य वाचकः अस्ति | अतः समासः न भवति अपितु अनु इत्यस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणार्थे '''अनुर्लक्षणे''' ( १.४.८४) इति सूत्रेण | कर्मप्रवचनीयसंज्ञकस्य योगे द्वितीया भवति  '''कर्मप्रवचनीययुक्ते द्वितीया''' (२.३.८) इत्यनेन |</big>
 
<big>प्रकृतसूत्रे अनु इति अव्ययस्य प्रयोगः नास्ति चेत् किं भवति?</big>
 
<big>प्रकृतसूत्रे अनु इति अव्ययस्य प्रयोगः नास्ति चेत्  सूत्रार्थः एवं भवति - समया इति अव्ययं यस्य शब्दस्य समीपे अस्ति, तेन लक्षणवाचिना सुबन्तेन सह समासः भवति अर्थः निष्पद्यते | समया इति अव्ययं सामीप्यं द्योतयति | वनं समया इति विग्रहे सति समयावनम् इति समासः सिद्धयति  |  तन्नेष्यते अतः अनु इति अव्ययस्य प्रयोगः कृतः | प्रकृतसूत्रे अनु इति शब्दस्य पाठनात् अनु इति शब्देन सह एव समासः भवति इति ज्ञातम् | अर्थात् अन्यसमीपवाचिशब्दैः सह समासः न भवति प्रकृतसूत्रेण | यथा वनं समया इत्यत्र समया इति अव्ययं सामीप्यार्थे अस्ति  तथापि समया इत्यस्य समयावनं इति समासः न भवति यतोहि प्रकृतसूत्रे अनु इति शब्दः प्रयुक्तः | वनं समया इति वाक्ये तु समया इति शब्दस्य योगे तु '''अभितः परितः समया निकषा हा प्रतियोगेऽपि''' इति वार्तिकेन द्वितीयाविभक्तिः भवति |</big>
 
<big>अस्मिन् सूत्रे किमर्थं समया इति पदस्य प्रयोगः कृतः? समया इत्यस्य स्थाने समीपम् इति प्रदं प्रयुङ्क्ते चेत् किं भवति?</big>
 
<big>व्याख्यानेषु अस्मिन् विषये नोक्तं तथापि वयम् अनुमिनुमः अस्य प्रश्नस्य समाधानं किम् इति |</big>
 
<big>समाधानमेवं यत्  - '''अनुर्यत्समीपम्''' इति सूत्रे सति, अनु इति अव्ययस्य समीपार्थे  समासः विकल्पेन भवति | लौकिकविग्रहवाक्यम् एवं भवति - वृक्षस्य अनु इति | अनु इति अव्ययं समीपार्थे इष्यते, अतः अनु इत्यस्य कर्मप्रवचनीयसंज्ञा न सिद्धयति | अनु इत्यस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणार्थे '''अनुर्लक्षणे''' '''(१.४.८४)''' इति सूत्रेण |  यदा अनु इति अव्ययं लक्षणं न द्योतयति तदा तस्य कर्मप्रवचनीयसंज्ञा न भवति | तर्हि अनु इत्यस्य योगे तु द्वितीया अपि न सिद्ध्यति | तर्हि अनु इत्यस्य योगे का विभक्तिः इति पृष्टे षष्ठी एव स्वीकरणीया भवति यतोहि '''षष्ठी शेषे''' ( २.३.५०) इति सूत्रस्य विधानसमार्थ्यात् शेषार्थे षष्ठी भवति इति | अतः  समासस्य लौकिकवग्रहं तु वृक्षस्य अनु इति  भवति | आहात्य वृक्षस्य अनु इति विग्रहे सति अनुवृक्षम् इति समासः सिद्धयति |</big>
 
<big>समासः विकल्पेन भवति इत्यतः यदि समासस्य विग्रहः वृक्षस्य समीपम् इति अस्ति तर्हि  का गतिः?</big>
 
<big>समीपम् इति पदस्य योगे तु षष्ठ्यन्तं सिद्धयति इति जानीमः |  वृक्षस्य समीपम् इति लौकिकविग्रहे सति उपवृक्षम् अथवा अनुवृक्षम् इति समासद्वयं सम्भवति | उपवृक्षम् इति समासः सिद्धः अस्ति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  '''(२.१.६) इति सूत्रेण  | '''अनुर्यत्समया''' ( २.१.१५) इति सूत्रस्य प्रयोगेण अनुवृक्षम् इति समासः सिद्धयति एव । तर्हि वृक्षस्य समीपम् इति विग्रहे सति उपवृक्षम् अथवा अनुवृक्षम् उभयथा समासः भवति | अनयोः भेदः कः इति चेत् उपवृक्षम् इति नित्यसमासः अस्ति परन्तु अनुवृक्षम् इति समासः विकल्पेन भवति | तर्हि विकल्पं साधयितुमेव पाणिनिना '''अनुर्यत्समया''' ( २.१.१५) इति सूत्रं कृतम् | तर्हि '''अनुर्यत्समया''' ( २.१.१५) इति सूत्रे समीपम् इति उच्यते चेदपि समासविकल्पं सिद्ध्यति | तर्हि इदानीमपि प्रश्नः अस्ति यत् किमर्थं समया इति प्रकृतसूत्रे उक्तम् ?</big>
 
 
<big>प्रकृतसूत्रे समया इति उक्तं यतोहि वृक्षं समया इति विग्रहवाक्ये सत्यपि अनुवृक्षम् इति समासः जायते एव | कथं जानीमः इति चेत्, तस्य प्रमाणं किम् इति चेत् '''द्वीपादनुसमुद्रं यञ्''' ( ४.३.१०) इति सूत्रमेव तस्य प्रमाणम्  | अस्य सूत्रस्य व्याख्यानेषु दृश्यते यत् समुद्रं समया इति विग्रहे सत्यपि अनुसमुद्रम् इति समासः जायते '''अनुर्यत्समया''' ( २.१.१५) इति सूत्रेण इति | यदि अस्माकं प्रकृतसूत्रं अनुर्यत्समीपम् इति अस्ति तर्हि समुद्रं समया इति विग्रहे सति समासः न जायते यथा अस्माभिः चर्चितम् '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  '''(२.१.६) इति सूत्रस्य सन्दर्भे | एवं सति अस्माकं प्रकृतसूत्रे अपि तथा एव स्यात् | अर्थात् समुद्रं समया इति विग्रहे सति अनुसमुद्रम् इति समासः न स्यात् | परन्तु अस्माकं प्रकृतसूत्रं तु अनुर्यत्समया इति अस्ति | तदेव ज्ञापकं यत् समुद्रं समया इति विग्रहे सत्यपि अनुसमुद्रम् इति समासः जायते एव |  </big>
 
<big>तर्हि किं ज्ञायते '''अनुर्यत्समया''' ( २.१.१५) इति सूत्रेण अनुसमुद्रम् इति समासः विकल्पेन भवति यदा विग्रहवाक्यं एतेषु किञ्चित् अस्ति - समुद्रस्य अनु, समुद्रस्य समीपम् अथवा समुद्रं समया | एतेषु त्रिषु विग्रहेषु अन्यतमः चेत् अनु इत्यस्य समासः भवति समुद्रम् इति सुबन्तेन | समया इति शब्दस्य योगे तु द्वितीया एव लभ्यते '''अभितः परितः समया निकषा हा प्रतियोगेऽपि इति वार्तिकेन |''' अतः समुद्रं समया इति  विग्रहवाक्ये समुद्रं इति द्वितीयान्तं पदं दृश्यते समया इति पदस्य योगे | '''अनुर्यत्समया''' ( २.१.१५) इति सूत्रे समया इति उक्तत्वात् समुद्रं समया इति विग्रहे अपि अनुसमुद्रम् इति समासः जायते यतोहि समासः विकल्पेन भवति | तर्हि व्यस्तप्रयोगे अस्माकं वाक्यम् एतेषु अन्यतमवाक्यं भवितुम् अर्हति - समुद्रस्य अनु, समुद्रस्य समीपं, समुद्रं समया इति |</big>
 
 
<big>'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  '''(२.१.६) इति सूत्रे समीपम् इति उक्तं तर्हि समया इति पदस्य समासः भवति वा एतेन सूत्रेण ?</big>
 
<big>न भवति इति अस्माभिः चर्चितं पूर्वम् |  समया, निकषा, आराद् इत्यादीनि यद्यपि समीपार्थक-अव्ययानि सन्ति तथापि अव्ययीभावसमासः न भवति यतोहि समया, निकषा इत्यनयोः शब्दयोः योगे तु सामान्यतया द्वितीयाविभक्तिः भवति; अपि च आरात् इति शब्दस्य योगे तु पञ्चमीविभक्तिः भवति '''अन्यारादितरर्तेदिक्शब्दाञ्चूतरपदाजाहियुक्ते''' ( २.३.२९) इत्यनेन | अतः द्वितीयाविभक्तेः, पञ्चमीविभक्तेः च विधानसामर्थ्यात् समया ग्रामम्, निकषा लङ्काम्, आराद् वनात् इत्यादिषु उदाहरणेषु अव्ययीभावसमासः न भवति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  '''(२.१.६) इति सूत्रेण | समीपार्थे केवलम् उप इति अव्ययस्य एव अव्ययीभावसमासः सम्भवति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  '''(२.१.६) इति सूत्रेण, अन्येषाम् अव्ययानां न |</big>
 
 
 
<big>यथा –</big>
 
<big>वनस्य समीपम्  = अनुवनम्, वनस्य अनु, वनस्य समीपं, वनं समया | अनुवनम् अशनिः ( thunderbolt) गतः | वनस्य समीपम् इत्यर्थः |  समया इत्यस्य  सामीप्यम् इति अर्थः, तस्य बोधः जायते अनु इति शब्दद्वारा |</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' वन + ङस् + अनु | अस्मिन् विग्रहे वन इति शब्दस्य षष्ठीविभक्तिः कथम् इति प्रश्ने सति, तस्य उत्तरं यत् अत्र विशिष्टविभक्तिविधानार्थं सूत्रं नास्ति अतः '''षष्ठी शेषे''' ( २.३.५०) इति सूत्रेण षष्ठिविभक्तिविधानम् |</big>
 
<big>समया शब्दद्वारा द्योत्यः अर्थः सामीप्ये इति, तस्य बोधः भवति अनु इति शब्दद्वारा यतोहि अनु इति अव्ययं सामीप्यर्थे अस्ति |  सामीप्यस्य लक्षकः वनम् अस्ति | तात्पर्यं यत् अनु इत्यनेन वनम् एव लक्षितः अस्ति | वननिरूपितं सामीप्यं अनु इति शब्दद्वारा ज्ञायते | अतः तादृशलक्षणेन वनशब्देन सह अनु इति शब्दः समस्यते '''अनुर्यत्समया''' ( २.१.१५) इति सूत्रेण, अव्ययीभावसमासः विकल्पेन भवति |</big>
 
 
<big>अनु इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | अनुवन इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते |  '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति अनुवनात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
<big>अनुवन+ अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''अनुवनम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति| अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''अनुवनम् /अनुवनेन, अनुवनम् / अनुवने |''' अन्यासु विभक्तिषु '''अनुवनम्''' इति रूपं सिद्धं भवति |</big>
 
<big>समासापक्षे वाक्यं भवति वनस्य अनु इति अथवा वनस्य समीपम् इति |</big>
 
 
 
<big>२) गृहस्य अनु, गृहस्य समीपं, गृहं समया  = अनुगृहम्/ गृहस्य अनु/ गृहस्य समीपं, गृहं समया |</big>
 
<big>३) ग्रामस्य अनु, ग्रामस्य समीपं, ग्रामं समया  = अनुग्रामम्/ ग्रामस्य अनु, ग्रामस्य समीपं, ग्रामं समया |</big>
 
----
 
----
 
 
 
----
 
=== '''<big>नदीभिश्च (२.१.२०)</big>''' <big>[14]</big>===