14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 868:
<big>शी-प्रत्ययः वा नदी-प्रत्ययः परे अस्ति चेत्‌, अवर्णात्‌ अङ्गात्‌ शत्रन्ताङ्गस्य विकल्पेन नुम्‌ आगमः भवति | अनुवृत्ति-सहितसूत्रम्‌— '''आत्‌ अङ्गात्‌ शतुः वा नुम्‌ शीनद्योः''' |</big>
|}
 
 
----
 
==== '''<big>पारे मध्ये षष्ठ्या वा ( २.१. १८)</big>''' ====
<big>“पार” तथा “मध्य”, एतौ द्वौ शब्दौ, षष्ठ्यन्तेन सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति|</big>
 
 
<big>'''पारे मध्ये षष्ठ्या वा''' ( २.१. १८) = पार, मध्य इति शब्दौ षष्ठ्यन्तेन सह विभाषा समस्येते, अव्ययीभावश्च समासो भवति | प्रथमा, षष्ठी इत्यादि विभक्तिसंज्ञा सुप् प्रत्ययस्य भवति | अतः षष्ठ्या इत्यनेन विभक्तिप्रत्ययः इत्यर्थः |  षष्ठ्या इत्यनेन षष्ठ्यन्तं सुबन्तम् इति अर्थः निष्पन्नः भवति '''प्रत्ययग्रहणे तदन्तग्रहणम्''' इति परिभाषया |  अस्मिन् सूत्रे वा इति इत्यपि उक्तम्, '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अपि अस्ति | वा इति शब्दस्य द्वारा वैकल्पिकविधानं भवति येन यस्मिन् पक्षे अव्ययीभावसमासः न भवति तस्मिन् पक्षे षष्ठीतत्पुरुषसमासः भवति | इदं सूत्रं षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति | विभाषा इत्यस्य अधिकारात् यस्मिन् पक्षे षष्ठीतत्पुरुषसमासः न भवति, तस्मिन् पक्षे व्यस्तप्रयोगः अपि शक्यते | पारे इति लुप्तप्रथमान्तरूपं, मध्ये इति च लुप्तप्रथमान्तरूपं, षष्ठ्या तृतीयान्तं, चाव्ययम् |  '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः| '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''पारे मध्ये''' '''सुपौ षष्ठ्या  सुपा सह अव्ययीभावः समासः वा विभाषा |'''</big>
 
<big>'''एदन्तत्वं च अनयोर्निपात्यते |  '''अर्थात् प्रकृतसूत्रस्य द्वारा पार, मध्य इति शब्दयोः अन्त्यवर्णस्य स्थाने एदन्तत्वं नाम एकारादेशः निपात्यते अनेन सूत्रेण एव यतोहि उक्तयोः अविभक्तिकपदयोः ( पारे, मध्ये च) सूत्रकारेण एकारान्तयुक्तमेव पाठ्यते |</big>
 
<big>'''पक्षे षष्ठीतत्पुरुषः''' | अर्थात् प्रकृतसूत्रे वा इति उक्ततत्वात् अव्ययीभावसमासः न भवति चेत् षष्ठीतत्पुरुषसमासः भवति '''षष्ठी''' (२.२.८) इति सूत्रेण  | एवं प्रकृतसूत्रं षष्ठीतत्पुरुषस्य अपवादः अस्ति  | तात्पर्यम् एवं यत् -१) पारे मध्ये च इति शब्दयोः षष्ठ्यन्तेन सह अव्ययीभावसमासः भवति, २) पार, मध्य इत्यनयोः शब्दयोः षष्ठ्यन्तेन सह तत्पुरुषसमासः अपि भवति '''षष्ठी''' (२.२.८) इति सूत्रेण  | '''''''''षष्ठी''''''''' (२.२.८) इति सूत्रस्य विवरणम् अग्रे दीयते  |</big>
 
 
<big>'''षष्ठी''' (२.२.८) = षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति|षष्ठी प्रथमान्तम् एकपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति|'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः| '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः| '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''षष्ठी सुप् सुपा सह विभाषा तत्परुषः समासः|'''</big>
 
 
 
<big>सीतायाः पतिः इति विग्रहे, सीता इति षष्ठ्यन्तस्य उपसर्जनसंज्ञा भवति '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण | तदनन्तरम् '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण तस्य पूर्वनिपातः भवति | अतः एव समासे सीता इति पदस्य प्रयोगः पूर्वं भवति | षष्ठीतत्पुरुषसमासः सीतापतिः इति भवति  |</big>
 
 
'''<big>यथा  -</big>'''
 
'''<big>ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं</big>'''
 
'''<big>व्यासेन ग्रन्थितां पुरणमुनिना मध्येमहाभारतम् |</big>'''
 
<big>उपरितने श्लोके मध्येमहाभारतम् इति समस्तपदम् '''पारे मध्ये षष्ठ्या वा''' ( २.१. १८) इति सूत्रेण भवति |</big>
 
<big>१) महाभारतस्य मध्यम् = मध्येमहाभारतम् ( अव्ययीभावसमासः) , महाभारतमध्यम् (षष्ठीतत्पुरुषः) , महाभारतस्य मध्यम् ( व्यस्तप्रयोगः)| षष्ठीतत्पुरुषे एदन्तत्वस्य निपातनं नास्ति इत्यतः मध्ये इति न दृश्यते |</big>
 
<big>२) गङ्गायाः मध्यम् ( in or into the Ganges) = मध्येगङ्गम्, गङ्गामध्यम्, गङ्गायाः मध्यम् |</big>
 
<big>३) जलस्य मध्यम् = मध्येजलम्(in the middle of the water), जलमध्यम्, जलस्य मध्यम्</big>
 
<big>अस्मिन् सूत्रे एव वा इति पदम् अस्ति, '''विभाषा''' (२.१.११) इत्यस्मात् अधिकारसूत्रात् विभाषा इत्यस्य अनुवृत्तिः अपि अस्ति |  द्वौ विकल्पौ अस्मिन् सूत्रे प्रसक्तौ अतः त्रीणि रूपाणि सम्भवन्ति |  वा इत्यनेन वैकल्पिक-विधानं भवति | अनेन अव्ययिभावसमासः विकल्पेन भवति, पक्षे षष्ठी तत्पुरुषसमासः अपि भवति | महाविभाषा इत्यस्य अधिकारः अपि अस्ति इत्यतः एकस्मिन् पक्षे षष्ठीतत्पुरुषसमासस्यापि अभावः भवति | अतः समास-अभाव-रूपं वाक्यमेव भवति |</big>
 
 
 
<big>यथा—</big>
 
<big>अ) गङ्गायाः पारात् आनय = पारेगङ्गात् ( from the other side of the Ganga, beyond the Ganges) आनय / गङ्गापारात् आनय/ गङ्गायाः पारात् आनय | एकस्मिन् पक्षे पारेगङ्गात् इति अव्ययीभावसमासः विकल्पेन भवति '''पारे मध्ये षष्ठ्या वा''' ( २.१. १८) इति सूत्रेण | यस्मिन् पक्षे अव्ययीभावसमासः न भवति तस्मिन् पक्षे षष्ठीतत्पुरुषसमासः भूत्वा गङ्गापारात् इति | यस्मिन् पक्षे षष्ठीतत्पुरुषसमासः न भवति तस्मिन् पक्षे वाक्यं भवति गङ्गायाः पारात् आनय इति |</big>
 
 
<big>अलौकिकविग्रहवाक्यम् '''→''' गङ्गा + ङस् + पार + सु | '''पारे मध्ये षष्ठ्या वा''' ( २.१. १८) इति सूत्रेण विकल्पेन अव्ययीभावसमासः भवति | अनेन सूत्रेण एव पारशब्दस्य एकारान्तत्वनिपातनं अपि भवति | विभक्तेः लोपानन्तरं, गङ्गा +पारे इति भवति | पारे इत्यस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | पारेगङा इति भवति | '''ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)''' इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति | अतः पारेगङ्ग इति भवति |</big>
 
<big>अधुना पारेगङ्ग इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | सुप् प्रत्ययस्य उत्पत्तिः भवति | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''पारेगङ्गात्''' अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
<big>पारेगङ्ग+ अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''पारेगङ्गम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''पारेगङ्गम् / पारेगङ्गेन, पारेगङ्गम् / पारेगङ्गे |''' अन्यासु विभक्तिषु '''पारेगङ्गम्''' इति रूपं सिद्धं भवति |</big>
 
<big>यस्मिन् पक्षे अव्ययीभावसमासः न भवति तस्मिन् पक्षे षष्ठीतत्पुरुषसमासः भूत्वा गङ्गापारात् इति | गङ्गायाः पारः इति लौकिकविग्रहः भवति | अलौकिकविग्रहवाक्यम् '''→''' गङ्गा+ङस् + पार+ सु | समासप्रक्रिया भूत्वा गङापार इति प्रातिपदिकं भवति | सुप् प्रत्ययस्य उत्पत्तिः भवति | गङ्गापारः इति रूपं भवति प्रथमाविभक्तौ एकवचने | गङ्गापारात् इति रूपं भवति पञ्चमी विभक्तौ |</big>
 
<big>यस्मिन् पक्षे षष्ठीतत्पुरुषसमासः न भवति तस्मिन् पक्षे वाक्यं भवति गङ्गायाः पारात्  आनय इति |</big>
 
 
 
<big>आ)  गङ्गायाः मध्यात् =मध्येगङ्गात्/ गङ्गामध्यात्/ गङ्गायाः मध्यात् | एकस्मिन् पक्षे मध्येगङ्गात् इति अव्ययीभावसमासः भवति | यस्मिन् पक्षे अव्ययीभावसमासः न भवति तस्मिन् पक्षे षष्ठीतत्पुरुषसमासः भूत्वा गङ्गामध्यात् इति भवति | यस्मिन् पक्षे षष्ठीतत्पुरुषसमासः न भवति तस्मिन् पक्षे वाक्यं भवति गङ्गायाः मध्यात् आनय इति | प्रक्रिया यथा उपरि प्रदर्शिता अस्ति तथैव भवति |</big>
 
<big>इ) मार्गस्य मध्यम् =  मध्येमार्गम्, मार्गमध्यम्, मार्गस्य मध्यम् |</big>
 
<big>ई) सभायाः मध्यम्  = मध्येसभम्, सभामध्यम्, सभायाः मध्यम् |</big>
 
<big>उ) समुद्रस्य पारम् = पारेसमुद्रम्, समुद्रपारम्, समुद्रस्य पारम्  |</big>
 
<big>ऊ) जलस्य मध्यम् = मध्येजलम्, जलमध्यम्, जलस्य मध्यम् |</big>
 
----
 
=== <big>'''संख्या वंश्येन (२.१.१९)'''</big> ===
<big>संख्यावाची शब्दः वंश्यवाचिना सुबन्तेन सह विकल्पेन समस्यते, अव्ययीभावसमासः च भवति |</big>
 
 
<big>'''संख्या वंश्येन''' (२.१.१९) = सङ्ख्यावाची शब्दः वंश्यवाचिना शब्देन सह विकल्पेन समस्यते, अव्ययीभावश्च समासो भवति | '''वंशः द्विविधः- विद्यया, जन्मना च, तत्र भवः वंश्यः''' | वंशः नाम सन्ततिः इत्यर्थः | वंशस्य प्रतिनिधित्वं द्वे रूपे भवतः- विद्यावंशः, जन्मवंशः च  | विद्यावंशे गुरु-शिष्यानां परम्परा भवति, अतः सः विद्यावंशः इत्युच्यते | जन्मवंशे पिता-पुत्राणां परम्परा भवति, अतः सः जन्मवंशः इत्युच्यते | यः वंशे उत्पन्नः सः वंश्यः भवति | वंशः इति शब्दात् '''दिगादिभ्यो यत्''' (४.३.५४) इति सूत्रेण यत्-प्रत्ययः विहितः भवति, तस्मात् वंश्यः इति शब्दः निष्पन्नः भवति  | सङ्ख्या प्रथमान्तं, वंश्येन तृतीयान्तम् |  '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''संख्या सुप् वंश्येन सुपा सह अव्ययीभावः समासः विभाषा |'''</big>
 
<big>''''''दिगादिभ्यो यत्'''''' (४.३.५४) इति सूत्रेण दिगादिभ्यः प्रातिपदिकेभ्यः यत् इति तद्धितप्रत्ययो भवति, तत्र भवः इत्येतस्मिन् विषये यथा दिशि भवम् = दिश्यम्, वर्गे भवम् = वर्ग्यम् |  एवम् एव वंशे भवम् = वश्यम् |</big>
 
<big>प्रकृतसूत्रे सङ्ख्यावाचक: प्रथमान्तः इत्यतः तस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति | सङ्ख्यावाचकाः इत्यनेन एकं, द्वे, त्रीणि इत्यादीनां सङ्ख्यावाचकानां ग्रहणं भवति |</big>
 
 
 
<big>यथा –</big>
 
<big>द्वौ मुनी वंश्यौ = द्विमुनि, द्वौ मुनी वंश्यौ | यस्मिन् वंशे द्वौ मुनी स्तः | एतत् विद्यावंशस्य उदाहरणम् अस्ति | द्वौ च तौ मुनी चेति विग्रहे '''`विशेषणं विशेष्येण बहुलम्''' ( २.१.५७)'इत्यनेन कर्मधारयं बाधित्वाऽव्ययीभावः भवति  |</big>
 
<big>अलौकिकविग्रहवाक्यं '''→''' द्वि+ औ+ मुनि+ औ | अत्र  द्वि इति सङ्ख्यावाचकशब्दः, मुनिः इति वंश्यवाचकेन सह समस्यते '''संख्या वंश्येन''' (२.१.१९) इति सूत्रेण, अव्ययीभावसमासश्च विकल्पेन भवति | प्रातिपदिकसंज्ञा भूत्वा सुप् प्रत्यययोः लोपः जायते | सङ्ख्यावाचकस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति, अतः द्विमुनि इति प्रातिपदिकं निष्पन्नं भवति |</big>
 
<big>द्विमुनि+ सु '''→''' अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण अव्ययात् परस्य सु प्रत्ययस्य लोपः भवति | '''अव्ययीभावश्च''' (१.१.४१) इत्यनेन सूत्रेण द्विमुनि इत्यस्य अव्ययसंज्ञा भवति | अतः द्विमुनि इत्यस्मात् सु प्रत्ययस्य लोपः भवति '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण | '''द्विमुनि''' इति समस्तपदं निष्पन्नम् | व्याकरणस्य त्रिमुनि इत्यर्थः | व्याकरणे त्रयः मुनयः आसन् - पाणिनिः, कात्यायनः, पतञ्चलिश्च | अतः त्रिमुनि व्याकरणम् इति वदामः |</big>
 
 
<big>त्रयो मुनयः वंश्याः  = त्रिमुनि, त्रयो मुनयः वंश्याः  | व्याकरणस्य त्रिमुनि | एतदपि विद्यावंशस्य उदाहरणम् अस्ति |</big>
 
<big>अलौकिकविग्रहवाक्यं '''→''' त्रि + जस् + मुनि + जस् | प्रक्रिया यथा उपरि प्रदर्शिता |</big>
 
<big>त्रिमुनि व्याकरणम् इति प्रयोगः दृश्यते लोके | त्रिमुनि व्याकरणम् इति प्रयोगः साधुः उत न इति प्रश्नः उदेति यतोहि अत्र विशेषण-विशेष्यभावः प्रदर्शितः  | त्रिमुनि एव व्याकरणं, व्याकरणमेव त्रिमुनि इत्यर्थः इङ्गितः | त्रिमुनि इति पदम् अपि प्रथमाविभक्तौ अस्ति, व्याकरणम् इति पदम् अपि प्रथमाविभक्तौ अस्ति  | अनयोः पदयोः समानविभक्तिकत्वं युज्यते वा?  वस्तुतः  द्वौ मुनी व्याकरणस्य , द्विमुनि व्याकरणस्य, त्रिमुनि व्याकरणस्य इति वक्तव्यं भवति  | व्याकरणस्य इति सम्बन्धे षष्ठी स्यात् परन्तु उदाहरणेषु द्विमुनि व्याकरणम् इत्युक्तं यत्र द्विमुनि इति पदम् अपि प्रथमायाम् अस्ति, व्याकरणम् इत्यपि प्रथमायाम् एव अस्ति  |  एतादृशप्रयोगस्य साधुत्वं कथम् इति विषये अग्रे उच्यते |</big>
 
 
<big>'''विद्या-तद्वताम् अभेदविवक्षायां त्रिमुनि व्याकरणम्'''  इति उक्तं सिद्धान्तकौमुद्याम् | यदा तु विद्यया तद्वताम् अभेदविवक्षा तदा सामानाधिकरण्यं भवति | व्याकरणं विद्या चेत्, मुनिः विद्यावान् भवति | विद्यावान् नाम यस्मिन् विद्या अस्ति | यद्यपि विद्या भिन्ना, विद्यावान् च भिन्नः, परन्तु अत्र अनयोः समानाधिकरणं विवक्षितम् अस्ति, अभेदः विवक्षितः | अतः विद्या तथा विद्यावान् अनयोः पदयोः अभेदं मत्वा द्वयोः पदयोः समानविभक्तिकत्वं युज्यते इति स्वीक्रियते | तदनुसृत्य द्विमुनि व्याकरणम् ( द्वाभ्यां मुनिभ्यां व्याकरणम् अभिन्नम् अस्ति ), त्रिमुनि व्याकरणम् ( त्रिभिः मुनिभिः व्याकरणम् अभिन्नम् अस्ति) इत्यादिषु प्रयोगेषु साधुत्वं स्वीक्रियते | अतः द्विमुनि व्याकरणम्, त्रिमुनि व्याकरणम् इत्यादीनि साधुवाक्यानि सिद्ध्यन्ति |</big>
 
 
 
<big>'''संख्या वंश्येन''' (२.१.१९) इति सूत्रेण यः अव्ययीभावसमासः विहितः, तस्मिन् स्वपदार्थस्य एव प्राधान्यम् अस्ति  |  यदा अन्यपदार्थस्य प्राधान्यं विवक्षितं तदा बहुव्रीहिसमासः क्रियते , यथा त्रयः मुनयः वंश्याः यस्य तत् = त्रिमुनि व्याकरणम् इति | बहुव्रीहिसमामस्य यः अर्थः, सः एव अर्थः सिद्धः अव्ययीभावसमासेन अपि, तर्हि अनयोः भेदः कः इति चेत् बहुव्रीहिसमासे स्वरभेदः भवति, अपि च प्रथमाविभक्तिं विहाय अन्यासु विभक्तिषु रूपभेदः अपि जायते | त्रिमुनिम्, त्रिमुनिना, त्रिमुनेः, त्रिमुनौ इत्यादीनि रूपाणि सिद्धयन्ति बहुव्रीहौ  | परन्तु अव्ययीभावसमासे त्रिमुनि इति एकमेव रूपं सिद्ध्यति |</big>
 
 
<big>एकविंशतिः भारद्वाजाः वंश्याः = एकविंशतिभारद्वाजम्, एकविंशतिः भारद्वाजाः | एतत् जन्मवंशस्य उदाहरणम् अस्ति  |</big>
 
<big>अलौकिकविग्रहवाक्यं '''→''' एकविंशति + सु + भारद्वाज + जस् | एकविंशतिभारद्वाज इति प्रातिपदिकं भवति |</big>
 
<big>अधुना एकविंशतिभारद्वाज  इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | सुप् प्रत्ययस्य उत्पत्तिः भवति | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''एकविंशतिभारद्वाजात्''' अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
<big>एकविंशतिभारद्वाज + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''एकविंशतिभारद्वाजम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति| अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''एकविंशतिभारद्वाजम् / एकविंशतिभारद्वाजेन, एकविंशतिभारद्वाजम् / एकविंशतिभारद्वाजे |''' अन्यासु विभक्तिषु '''एकविंशतिभारद्वाजम्''' इति रूपं सिद्धं भवति |</big>
 
 
 
 
Line 874 ⟶ 987:
=== '''<big>नदीभिश्च (२.१.२०)</big>''' <big>[14]</big>===
<big>संख्यावाची शब्दः नदीवचनैः सुबन्तैः सह समस्यते, अव्ययीभावसमासः च भवति |</big>
 
 
<br />
Line 919 ⟶ 1,032:
===<big>'''अन्यपदार्थे च संज्ञायाम्''' ( २.१. २१) [15]</big>===
 
<big>अन्यपदार्थे विद्यमानं सुबन्तं नदीभिः सह नित्यं समस्यते संज्ञायाम्, अव्ययीभावसमासः च भवति |</big>
 
 
<big>अन्यपदार्थे विद्यमानं सुबन्तं नदीभिः सह नित्यं समस्यते संज्ञायाम्, अव्ययीभावसमासः च भवति |</big>