14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 379:
 
 
=== <big>'''विभाषाः''' (२.१.११) [6]</big> ===
 
 
Line 407:
 
 
=== <big>'''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) [76]</big> ===
<big>अप, परि, बहि, अञ्चु एते शब्दाः पञ्चम्यन्तेन सुबन्तेन सह समस्यन्ते, अव्ययीभावसमासः च भवति|</big>
 
Line 413:
<big>'''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२)</big>
 
<big>अप, परि, बहि इत्येते सुबन्ताः तथा अञ्चु इति धातुतः निष्पन्नाः सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति | अपश्च परिश्च बहिश्च अञ्चुश्च तेषामितरेतरयोगद्वन्द्वोऽपपरिबहिरञ्चवः| अपपरिबहिरञ्चवः प्रथमाबहुवचनान्तं पञ्चम्या तृतीयान्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२)''' इत्यस्मात् सूत्रात् सुप् इत्यस्य  वचनपरिमाणः इति कृत्वा बहुवचने अनुवृत्तिः भवति | '''सह सुपा (२.१.४)''' इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति |   '''प्राक्कडारात्समासः (२.१.३)''' इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः (२.१.१)''' इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः (२.१.५)''' इत्यस्य अधिकारः | '''विभाषा (२.१.११)''' इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''अपपरिबहिरञ्चवः सुपः पञ्चम्या सुपा सह अव्ययीभावःसमासः विभाषा''' |</big>
 
 
Line 421:
 
 
<big>कर्मप्रवचनीया इति काचित् संज्ञा वर्तते व्याकरणे | '''<u>कर्मप्रवचनीयाः नाम ये पूर्वं क्रियां प्रोक्तवन्तः किन्तु अधुना क्रियाकृतं विशेषसम्बन्धं कथयन्ति</u> |''' एकादश कर्मप्रवचनीयाः अष्टाध्यायां निर्दिष्टाः सन्ति - <u>अनु, उप, अप, परि, आङ्, प्रति,अभि, अधि, सु, अति, अपि | एतेषां प्रादीनां कर्मप्रवचनीयसंज्ञा भवति विशिष्टार्थेषु | तदर्थं सूत्राणि सन्ति अष्टाध्यायाम् | अप, परि अनयोः कर्मप्रवचनीयसंज्ञा भवति वर्जनार्थे '''अपपरी वर्जने''' ( १.४.८८) इति सूत्रेण |</u></big>
 
<big>१) अनु = लक्षणार्थे, तृतीयार्थे, हीनार्थे, इत्थंभूताख्यानार्थे, भागार्थे, वीप्सार्थे च कर्मप्रवचनीयसंज्ञा भवति |</big>
Line 427:
<big>२) उप = हीनार्थे, अधिकार्थे च कर्मप्रवचनीयसंज्ञा भवति |</big>
 
<big>३) अप =  <u>वर्जनार्थे</u> कर्मप्रवचनीयसंज्ञा भवति |</big>
 
<big>४) परि = लक्षणार्थे, इत्थंभूताख्यानार्थे, भागार्थे, वीप्सार्थे, <u>वर्जनार्थे</u>, अनर्थाकार्थे च कर्मप्रवचनीयसंज्ञा भवति |</big>
 
<big>५) आङ् = <u>मर्यादार्थे, अभिविध्यर्थे</u> च कर्मप्रवचनीयसंज्ञा भवति |</big>
 
<big>६) प्रति =  <u>लक्षणार्थे</u>, इत्थंभूताख्यानार्थे, भागार्थे, <u>वीप्सार्थे</u>  च कर्मप्रवचनीयसंज्ञा भवति |</big>
 
<big>७) अभि = <u>लक्षणार्थे</u>, इत्थंभूताख्यानार्थे, वीप्सार्थे च कर्मप्रवचनीयसंज्ञा भवति |</big>
 
<big>८) अधि = अनर्थाकार्थे कर्मप्रवचनीयसंज्ञा भवति |</big>
Line 465:
<big>एतावता ज्ञातं यत् अप,परि अनयोः कर्मप्रवचनीयसंज्ञा भवति वर्जनार्थे '''अपपरी वर्जने''' (१.४.८८) इति सूत्रेण | तत्पश्चात् तयोः योगे पञ्चमी भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण |</big>
 
<big>'''<u>अञ्चु इति धातुतः निष्पन्नानां दिग्वाचकानां योगे पञ्चमी</u>'''</big>
 
 
Line 483:
<big>प्राच्यां दिशि / प्राच्याः दिशः / प्राची दिक्</big>
 
<big>प्राच्याम् / प्राच्याः / प्राची + अस्ताति → दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः देशवाचिभ्यः शब्देभ्यः, दिक्‌शब्देभ्यः, कालवाचिभ्यः शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो '''दिग्देशकालेष्वस्तातिः''' ( ५.३.२७)  इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्ययः विधीयते | परन्तु 'अञ्च्' धातुः यस्य अन्ते आगच्छति, तादृशात् <u>दिशावाचकशब्दात्</u> विहितस्य 'अस्ताति' प्रत्ययस्य '''अञ्चेर्लुक्''' ( ५.३.३०) इत्यनेन लुक् विधीयते | '''लुक् तद्धितलुकि''' ( १.२.४९)  इति स्त्रीप्रत्ययस्य अपि लुक्  भवति | स्त्रीप्रत्यस्य निवृत्तौ ङीप्-प्रत्ययविशिष्टमङगकार्यमपि निवर्तते, अतः 'प्र + अच्' इत्यवे अवशिष्यते | सवर्णदीर्घं कृत्वा 'प्राच्' इति सिद्ध्यति | अस्य '''तद्धितश्चासर्वविभक्तिः''' ( १.१.३८)  इति अव्ययसंज्ञा विधीयते | एवमेव प्रत्यच, उदच् इत्यत्रापि |</big>
 
<big>अप, परि, अञ्चु इति धातुतः निष्पन्नाः सुबन्ताः, इत्येतेषां पदानां योगे पञ्चमीविभक्तिः भवति इति वयं ज्ञातुं शक्नुमः | परन्तु बहिः इति शब्दस्य योगे पञ्चमी भवति इति कथं ज्ञातुं शक्नुमः यतोहि तादृशं सूत्रं नास्ति कारकप्रकरणे वा अन्यत्र अष्टाध्यायाम् |</big>
Line 579:
 
 
===<big>'''आङ् मर्यादाऽभिविध्योः''' (२.१.१३) [87]</big>===
<big>मर्यादार्थे वा अभिविध्यर्थे विद्यमानस्य आङ् इति अव्ययं पञ्चम्यन्तेन सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति |</big>
 
Line 609:
 
 
 
<big><u>अभिविध्यर्थे –</u></big>
 
<big>अभिविधिः नाम तेन सह इत्यर्थः | अत्र आङ् इति अव्ययं अभिविध्यर्थे अस्ति |</big>
Line 675 ⟶ 676:
 
 
===<big>'''लक्षणेनाभिप्रती आभिमुख्ये''' (२.१.१४) [98]</big>===
<big>सम्मुखता इत्यस्मिन् अर्थे अभि, प्रति च एतौ द्वौ शब्दौ चिह्नवाचिना सुबन्तेन सह विकल्पेन समस्येते, अव्ययीभावसमासः च भवति|</big>
 
Line 758 ⟶ 759:
 
 
===<big>'''अनुर्यत्समया''' ( २.१.१५)[109]</big>===
 
 
Line 779 ⟶ 780:
<big>प्रकृतसूत्रे अनु इति अव्ययस्य प्रयोगः नास्ति चेत् किं भवति?</big>
 
<big>प्रकृतसूत्रे अनु इति अव्ययस्य प्रयोगः नास्ति चेत्  सूत्रार्थः एवं भवति - समया इति अव्ययं यस्य शब्दस्य समीपे अस्ति, तेन लक्षणवाचिना सुबन्तेन सह समासः भवति अर्थः निष्पद्यते | समया इति अव्ययं सामीप्यं द्योतयति | वनं समया इति विग्रहे सति समयावनम् इति समासः सिद्धयति  |  तन्नेष्यते अतः अनु इति अव्ययस्य प्रयोगः कृतः | प्रकृतसूत्रे अनु इति शब्दस्य पाठनात् अनु इति शब्देन सह एव समासः भवति इति ज्ञातम् | अर्थात् अन्यसमीपवाचिशब्दैः सह समासः न भवति प्रकृतसूत्रेण | यथा <u>वनं समया</u> इत्यत्र समया इति अव्ययं सामीप्यार्थे अस्ति  तथापि समया इत्यस्य समयावनं इति समासः न भवति यतोहि प्रकृतसूत्रे अनु इति शब्दः प्रयुक्तः | वनं समया इति वाक्ये तु समया इति शब्दस्य योगे तु '''अभितः परितः समया निकषा हा प्रतियोगेऽपि''' इति वार्तिकेन द्वितीयाविभक्तिः भवति |</big>
 
<big>अस्मिन् सूत्रे किमर्थं समया इति पदस्य प्रयोगः कृतः? समया इत्यस्य स्थाने समीपम् इति प्रदं प्रयुङ्क्ते चेत् किं भवति?</big>
Line 789 ⟶ 790:
<big>समासः विकल्पेन भवति इत्यतः यदि समासस्य विग्रहः वृक्षस्य समीपम् इति अस्ति तर्हि  का गतिः?</big>
 
<big>समीपम् इति पदस्य योगे तु षष्ठ्यन्तं सिद्धयति इति जानीमः |  वृक्षस्य समीपम् इति लौकिकविग्रहे सति उपवृक्षम् अथवा अनुवृक्षम् इति समासद्वयं सम्भवति | उपवृक्षम् इति समासः सिद्धः अस्ति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  '''(२.१.६) इति सूत्रेण  | '''अनुर्यत्समया''' ( २.१.१५) इति सूत्रस्य प्रयोगेण अनुवृक्षम् इति समासः सिद्धयति एव । तर्हि वृक्षस्य समीपम् इति विग्रहे सति उपवृक्षम् अथवा अनुवृक्षम् उभयथा समासः भवति | अनयोः भेदः कः इति चेत् उपवृक्षम् इति नित्यसमासः अस्ति परन्तु अनुवृक्षम् इति समासः विकल्पेन भवति | तर्हि विकल्पं साधयितुमेव पाणिनिना '''अनुर्यत्समया''' ( २.१.१५) इति सूत्रं कृतम् | तर्हि '''अनुर्यत्समया''' ( २.१.१५) इति सूत्रे समीपम् इति उच्यते चेदपि समासविकल्पं सिद्ध्यति | तर्हि इदानीमपि प्रश्नः अस्ति यत् किमर्थं समया इति प्रकृतसूत्रे उक्तम् ?</big>
 
 
Line 797 ⟶ 798:
 
 
<big>'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  '''(२.१.६) इति सूत्रे समीपम् इति उक्तं तर्हि समया इति पदस्य समासः भवति वा एतेन सूत्रेण ?</big>
 
<big>न भवति इति अस्माभिः चर्चितं पूर्वम् |  समया, निकषा, आराद् इत्यादीनि यद्यपि समीपार्थक-अव्ययानि सन्ति तथापि अव्ययीभावसमासः न भवति यतोहि समया, निकषा इत्यनयोः शब्दयोः योगे तु सामान्यतया द्वितीयाविभक्तिः भवति; अपि च आरात् इति शब्दस्य योगे तु पञ्चमीविभक्तिः भवति '''अन्यारादितरर्तेदिक्शब्दाञ्चूतरपदाजाहियुक्ते''' ( २.३.२९) इत्यनेन | अतः द्वितीयाविभक्तेः, पञ्चमीविभक्तेः च विधानसामर्थ्यात् समया ग्रामम्, निकषा लङ्काम्, आराद् वनात् इत्यादिषु उदाहरणेषु अव्ययीभावसमासः न भवति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  '''(२.१.६) इति सूत्रेण | समीपार्थे केवलम् उप इति अव्ययस्य एव अव्ययीभावसमासः सम्भवति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  '''(२.१.६) इति सूत्रेण, अन्येषाम् अव्ययानां न |</big>
Line 837 ⟶ 838:
 
 
===<big>'''यस्य चायामः''' (२.१.१६) [1110 ]</big>===
<big>अनु इति अव्ययं, दीर्घतां बोधयितुं यत् पदं प्रयुज्यते, तेन पदेन सह समस्यते, अव्ययीभावसमासः च भवति</big>|
 
Line 845 ⟶ 846:
 
 
<big>सूत्रे आयामः इति शब्दस्य प्रयोगेण यः ज्ञापितः भवति यत् अनु इति शब्दद्वारा विस्तारस्य सूचना प्राप्यते चेत् एव समासः विधीयते इति | यदि अन्यः अर्थः अनु इति शब्दद्वारा सूचितः भवति तर्हि समासः न विधीयते | अतः <u>निवेश्य गङ्गाम् अनु</u> ( गङ्गायाः प्रवेशानन्तरम् इत्यर्थः) इति वाक्ये लक्ष्यलक्षणभावः द्योतितः अस्ति | विस्तारः इत्यर्थः अनु इति शब्दद्वारा न ज्ञायते इति कारेणेन अनुगङ्गम् इति समासः न सिद्धयति '''यस्य चायामः''' (२.१.१६) इति सूत्रेण |</big>
 
 
Line 877 ⟶ 878:
 
 
=== <big>'''तिष्ठद्गुप्रभृतीनि च''' ( २.१. १७) [1211 ]</big> ===
 
 
Line 919 ⟶ 920:
 
 
{| class="wikitable mw-collapsible mw-collapsed"
!<big>'''अतो गुणे''' (६.१.९६), '''शप्‌श्यनोर्नित्यम्‌''' (७.१.८१), '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४), '''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८),'''एच इग्घ्रस्वादेशे''' ( १.१.४८), '''आच्छीनद्योर्नुम्‌''' (७.१.८०)</big>
|-
Line 973 ⟶ 974:
 
 
=== <big>'''पारे मध्ये षष्ठ्या वा''' ( २.१. १८) [1312 ]</big> ===
<big>“पार” तथा “मध्य”, एतौ द्वौ शब्दौ, षष्ठ्यन्तेन सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति|</big>
 
 
<big>'''पारे मध्ये षष्ठ्या वा''' ( २.१. १८) = पार, मध्य इति शब्दौ षष्ठ्यन्तेन सह विभाषा समस्येते, अव्ययीभावश्च समासो भवति | प्रथमा, षष्ठी इत्यादि विभक्तिसंज्ञा सुप् प्रत्ययस्य भवति | अतः षष्ठ्या इत्यनेन विभक्तिप्रत्ययः इत्यर्थः |  षष्ठ्या इत्यनेन षष्ठ्यन्तं सुबन्तम् इति अर्थः निष्पन्नः भवति '''प्रत्ययग्रहणे तदन्तग्रहणम्''' इति परिभाषया |  अस्मिन् सूत्रे वा इति इत्यपि उक्तम्, '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अपि अस्ति | वा इति शब्दस्य द्वारा वैकल्पिकविधानं भवति येन यस्मिन् पक्षे अव्ययीभावसमासः न भवति तस्मिन् पक्षे षष्ठीतत्पुरुषसमासः भवति | <u>इदं सूत्रं षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति</u> | विभाषा इत्यस्य अधिकारात् यस्मिन् पक्षे षष्ठीतत्पुरुषसमासः न भवति, तस्मिन् पक्षे व्यस्तप्रयोगः अपि शक्यते | पारे इति लुप्तप्रथमान्तरूपं, मध्ये इति च लुप्तप्रथमान्तरूपं, षष्ठ्या तृतीयान्तं, चाव्ययम् |  '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः| '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''पारे मध्ये''' '''सुपौ षष्ठ्या  सुपा सह अव्ययीभावः समासः वा विभाषा |'''</big>
 
<big>'''एदन्तत्वं च अनयोर्निपात्यते |  '''अर्थात् प्रकृतसूत्रस्य द्वारा पार, मध्य इति शब्दयोः अन्त्यवर्णस्य स्थाने एदन्तत्वं नाम एकारादेशः निपात्यते अनेन सूत्रेण एव यतोहि उक्तयोः अविभक्तिकपदयोः ( पारे, मध्ये च) सूत्रकारेण एकारान्तयुक्तमेव पाठ्यते |</big>
 
<big>'''पक्षे षष्ठीतत्पुरुषः''' | अर्थात् प्रकृतसूत्रे वा इति उक्ततत्वात् अव्ययीभावसमासः न भवति चेत् षष्ठीतत्पुरुषसमासः भवति '''षष्ठी''' (२.२.८) इति सूत्रेण  | एवं प्रकृतसूत्रं षष्ठीतत्पुरुषस्य अपवादः अस्ति  | तात्पर्यम् एवं यत् -१) पारे मध्ये च इति शब्दयोः षष्ठ्यन्तेन सह अव्ययीभावसमासः भवति, २) पार, मध्य इत्यनयोः शब्दयोः षष्ठ्यन्तेन सह तत्पुरुषसमासः अपि भवति '''षष्ठी''' (२.२.८) इति सूत्रेण  | '''''''''षष्ठी''''''''' (२.२.८) इति सूत्रस्य विवरणम् अग्रे दीयते  |</big>
 
 
Line 995 ⟶ 996:
'''<big>ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं</big>'''
 
'''<big>व्यासेन ग्रन्थितां पुरणमुनिना <u>मध्येमहाभारतम्</u> |</big>'''
 
<big>उपरितने श्लोके मध्येमहाभारतम् इति समस्तपदम् '''पारे मध्ये षष्ठ्या वा''' ( २.१. १८) इति सूत्रेण भवति |</big>
Line 1,014 ⟶ 1,015:
 
 
<big>अलौकिकविग्रहवाक्यम् '''→''' गङ्गा + ङस् + पार + सु | '''पारे मध्ये षष्ठ्या वा''' ( २.१. १८) इति सूत्रेण विकल्पेन अव्ययीभावसमासः भवति | अनेन सूत्रेण एव पारशब्दस्य एकारान्तत्वनिपातनं अपि भवति | विभक्तेः लोपानन्तरं, गङ्गा +पारे इति भवति | पारे इत्यस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | पारेगङा इति भवति | '''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७)''' इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति | अतः पारेगङ्ग इति भवति |</big>
 
<big>अधुना पारेगङ्ग इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | सुप् प्रत्ययस्य उत्पत्तिः भवति | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''पारेगङ्गात्''' अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
Line 1,047 ⟶ 1,048:
 
 
===<big>'''संख्या वंश्येन''' (२.१.१९) [1413 ]</big>===
<big>संख्यावाची शब्दः वंश्यवाचिना सुबन्तेन सह विकल्पेन समस्यते, अव्ययीभावसमासः च भवति |</big>
 
Line 1,054 ⟶ 1,055:
 
 
 
<big>''''''दिगादिभ्यो यत्'''''' (४.३.५४) इति सूत्रेण दिगादिभ्यः प्रातिपदिकेभ्यः यत् इति तद्धितप्रत्ययो भवति, तत्र भवः इत्येतस्मिन् विषये यथा दिशि भवम् = दिश्यम्, वर्गे भवम् = वर्ग्यम् |  एवम् एव वंशे भवम् = वश्यम् |</big>
 
<big>प्रकृतसूत्रे सङ्ख्यावाचक: प्रथमान्तः इत्यतः तस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति | सङ्ख्यावाचकाः इत्यनेन एकं, द्वे, त्रीणि इत्यादीनां सङ्ख्यावाचकानां ग्रहणं भवति |</big>
Line 1,100 ⟶ 1,102:
----
 
=== '''<big>नदीभिश्च (२.१.२०)</big>''' <big>[1514 ]</big>===
<big>संख्यावाची शब्दः नदीवचनैः सुबन्तैः सह समस्यते, अव्ययीभावसमासः च भवति |</big>
Line 1,107 ⟶ 1,109:
<big>'''नदीभिश्च''' (२.१.२०) = सङ्ख्यावाचकशब्दः नदीवाचकैः शब्दैः सह विकल्पेन समस्यते, अव्ययीभावश्च समासश्च भवति | नदी इति शब्दस्य त्रयः अर्थाः सन्ति- नदीशब्दः, नदीवाचकशब्दः, नदीसंज्ञकः शब्दः च | व्याकरणे नदी इति काचित संज्ञा अपि वर्तते | परन्तु अस्मिन् सूत्रे नदीभिः इति बहुवचनान्तनिर्देशेन ज्ञायते यत् नदीवाचिना शब्देन सह एव समासः भवति न तु स्वरूपात्मकेन नदीशब्देन सह इति  | नदी इति शब्दस्य द्वारा प्रसिद्धाः नदीविशेषवाचकाः यथा गङ्गा, यमुना, गोधावरी, गण्डकी, नर्मदा इत्यदीनां ग्रहणं भवति |  नदीभिः तृतीयान्तं, चाव्यायम् |   '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | '''संख्या वंश्येन''' (२.१.१९) इत्यस्मात् सूत्रात् संख्या इत्यस्य अनुवृत्तिः |  अनुवृत्ति-सहित-सूत्रं— '''संख्या सुप् नदीभिश्च सुब्भिः सह अव्ययीभावः समासः विभाषा |'''</big>
 
<big>'''समाहारे च अयम् इष्यते''' इति वार्तिकम् अस्ति | वार्तिकार्थः अस्ति - प्रकृतसूत्रे विधीयमानः समासः समाहारार्थे एव भवति | अस्मिन् वार्तिके च इति शब्दः <u>एव</u> इति अर्थः सूच्यते | सामान्यतया समाहारार्थे द्विगुसमासः एव विधीयते | द्विगुसमासे पूर्वपदं सङ्ख्यावाचकं पदं एव भवति  | किन्तु सङ्ख्यापूर्वः सर्वेऽपि द्विगुः न  | द्विगुसमासः त्रिविधः- १) समाहारद्विगुः, २) तद्धितद्विगुः ३) उत्तरपदद्विगुः चेति | '''तद्धितार्थोत्तरपदसमाहारे च''' (२.१.५१) '''संख्यापूर्वो द्विगुः''' (२.१.५२) च द्वाभ्यां सूत्राभ्यां द्विगुसमासः विधीयते | द्विगुसमासस्य प्रसङ्गे इतोऽपि अग्रे पठिष्यामः |  '''नदीभिश्च''' (२.१.२०) इति सूत्रम् द्विगुसमासस्य अपवादभूतसूत्रम् अस्ति यतः समाहारार्थे एव अयं समासः विहितः भवति | यत्र समूहार्थस्य विवक्षा अस्ति तत्र समाहारार्थे समासः विधीयते इति सामान्यनियमः | '''नदीभिश्च''' (२.१.२०) इति सूत्रं सर्वदा समाहारार्थे एव विधीयते  |</big>
 
 
Line 1,151 ⟶ 1,153:
 
 
===<big>'''अन्यपदार्थे च संज्ञायाम्''' ( २.१. २१) [1615 ]</big>===
 
<big>अन्यपदार्थे विद्यमानं सुबन्तं नदीभिः सह नित्यं समस्यते संज्ञायाम्, अव्ययीभावसमासः च भवति |</big>
Line 1,199 ⟶ 1,201:
 
 
<big>भाषितपुस्कात् परः ऊङः अभावः यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्य एव रूपं स्यात् समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे परे न तु पूरण्यां प्रियादौ च परतः | अर्थात् भाषितपुंस्कशब्दात् ऊङ्प्रत्ययः न विहितः चेत्, तदा तादृशस्य स्त्रीवाचकशब्दस्य पुंवाचकं रूपं भवति समानाधिकरणे स्त्रीलिङ्गशब्दे उत्तरपदे परे , परन्तु <u>समानाधिकरणे  पूरणार्थकप्रत्ययान्ते स्त्रीलिङ्ग-उत्तरपदे परे अथवा प्रियादिगणे पठिते स्त्रीलिङ्ग-उत्तरपदे परे न भवति</u> | भाषितपुंस्कः नाम तादृशशब्दः यः पूर्वं पूलिङ्गे आश्रितः, तत्पश्चात् स्त्रीत्वविवक्षायां सत्यां स्त्रीप्रत्ययं योजयित्वा स्त्रीलिङ्गपदं कुर्मः | एतादृशशब्दाः एव भाषितपुंस्काः | अर्थात्  यः शब्दः स्त्रीलिङ्गे, पुंलिङ्गे च प्रयुक्तः अस्ति, तथा च तयोः अनन्तरम् ऊङ् प्रत्ययः न विहितः चेत्, तदा स्त्रीलिङ्गवाचकशब्दः पूर्वपदे चेत्  पुंलिङ्गवत् भवति | किन्तु उत्तरपदे पूरणिसंख्यावाचकः स्त्रीलिङ्गशब्दः अथवा प्रियादिगणे पठितः स्त्रीलिङ्गशब्दः अस्ति चेत् पुंवद्भावः न भवति |   पुंसि इति पुंवत् | भाषितः पुमान् येन स भाषितपुंस्कः बहुव्रीहिः| तस्मात् भाषितपुंस्काद् | न ऊङ् ऊङोऽभावः अनूङ् | भाषितपुंस्काद् अनूङ् यस्यां सा भाषितपुंस्कादनूङ् तस्य | अत्र समासः भाषितपुस्कानूङ् इति स्यात् परन्तु भाषितपुंस्कादनूङ् इति अस्ति, अतः भाषितपुंस्काद् इत्यत्र पञ्चमीविभक्तेः अलुक्त्वं निपात्यते, अतः सूत्रे पञ्चमी दृश्यते  | निपातनात् पञ्चमी इत्यस्य अलुक्;  अपि च षष्ठी इत्यस्य लुक् भवति | भाषितपुस्तकादनूङ् इत्यस्य षष्ठी भाषितपुंस्कादनूङः इति स्यात्   | परन्तु सूत्रे भाषितपुंस्कादनूङ् इत्युक्तम्  | अत्र षष्ठीविभक्तेः लुक् निपात्यते  | अतः भाषितपुंस्कादनूङ् लुप्तषष्ठीकं पदम् | स्त्रियाः षष्ठ्यन्तं, पुंवद् अव्ययपदं, भाषितपुंस्कादनूङ् लुप्तषष्ठ्यन्तं, समानाधिकरणे सप्तम्यन्तं, स्त्रियाः षष्ठ्यन्तं, पूरणीप्रियादिषु सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | '''अलुगुत्तरपदे''' ( ६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रम्‌— '''पुंवद्भाषितपुंस्कादनूङ्  स्त्रियाः समानाधिकरणे उत्तरपदे स्त्रियाम् अपूरणीप्रियाऽऽदिषु'''  '''|'''</big>
 
 
Line 1,209 ⟶ 1,211:
<big>स्त्रीप्रत्ययाः - एते स्त्रीत्वबोधकप्रत्ययाः सन्ति |</big>
 
<big>१)आकारान्ताः = टाप्, डाप्, चाप् | यथा अजा, सीमा, सूर्या |</big>
 
Line 1,240 ⟶ 1,241:
==='''<big>अव्ययीभावसमासे नियमाः</big>'''===
 
====<big>'''<u>अव्ययीभावसमासस्य नियमाः यत्र उत्तरपदम् अजन्तम्</u>'''  </big>====
<big>१)  '''ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)''' इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति |</big>
 
Line 1,252 ⟶ 1,253:
 
 
====<big>'''<u>अव्ययीभावसमासस्य नियमाः यत्र उत्तरपदम् हलन्तम्</u>'''</big>====
 
 
<big>१) उत्तरपदम् अन्नन्तं चेत् -</big>
 
 
<big>अ) पुंलिङ्गे, स्त्रीलिङ्गे च '''अनश्च''' (५.४.१०८)इति सूत्रे टच् इति समासान्तप्रत्ययः विधीयते येन अदन्तत्वं सिद्ध्यति | अदन्तम् अङ्गम् अस्ति चेत्, '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते | अदन्तम् अङ्गं चेत् तृतीयाविभक्तौ, सप्तमीविभक्तौ च अमादेशः विकल्पेन भवति '''तृतीयासप्तम्योर्बहुलम्'''‌ (२.४.८४) इति सूत्रेण |</big>
 
<big>आ) नपुंसकलिङ्गे च '''नपुंसकादन्यतरस्याम्''' ( ५.४.१०९) इति सूत्रेण विकल्पेन टच् इति समासान्तप्रत्ययः विधीयते | यस्मिन् पक्षे टच् भवति तस्मिन् पक्षे अदन्तत्वं सिद्ध्यति इत्यतः '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते | यस्मिन् पक्षे टच् न भवति तस्मिन् पक्षे समासस्य अन्तिमनकारस्य लोपः भवति '''न लोपः प्रातिपदिकान्तस्य''' ( ८.२.७) इत्यनेन</big>
<big>२) उत्तदपदं शरदादिगणे अस्ति चेत्, '''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) इत्यनेन शरदादिगणे विद्यमानेभ्यः शब्देभ्यः अव्ययीभावसमासे "टच्" इति समासान्तप्रत्ययः विधीयते येन अदन्तत्वं सिद्ध्यति | तत्पश्चात् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते |</big>
 
<big>२) उत्तदपदं शरदादिगणे अस्ति चेत्, '''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) इत्यनेन शरदादिगणे विद्यमानेभ्यः शब्देभ्यः अव्ययीभावसमासे "टच्" इति समासान्तप्रत्ययः विधीयते येन अदन्तत्वं सिद्ध्यति | तत्पश्चात् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते |</big>
Line 1,319 ⟶ 1,321:
<big>'''दिशोः अन्तरालम् = अपदिशम्|''' अधः सर्वासु विभक्तिषु अव्ययपदस्य रूपाणि पश्यामः |</big>
 
{| class="wikitable mw-collapsible mw-collapsed"
 
{| class="wikitable"
|+
!<big>विभक्ति</big>
!<big>एकवचनं</big>
Line 1,382:
<big>एतावता वयम् '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इति सूत्रे अव्ययस्य विभिन्नान् अर्थान् परिशीलितवन्तः| सम्प्रति अन्यानि अव्ययीभावसमास-सम्बद्धसूत्राणि अधीयते|</big>
 
Vidhya   March 2020
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
|+
deletepagepermission, page_and_link_managers, teachers
2,632

edits