14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 47:
 
 
<big>सम्प्रति '''अव्ययीभावः''' ( २.१.५) इति अधिकारे २.१.७ - २.१.२१ इति अन्तपर्यन्तम् यानि अव्ययीभावसम्बद्धसूत्राणि सन्ति, तानि अवलोकयाम | अस्मिन् क्रमे प्रथमं सूत्रम् अस्ति '''यथाऽसादृश्ये''' ( २.१.७) इति | एतावता अस्माभिः ज्ञातमेव यत् यथा इति अव्ययस्य चत्वारः अर्थाः सन्ति - योग्यता, वीप्सा, पदार्थानतिवृत्ति, सादृश्यञ्चेति | '''यथाऽसादृश्ये''' ( २.१.७) इति सूत्रे यथा इत्यस्य सादृश्यं विहाय अन्येषु अर्थेषु समास: |</big>
 
<font size="4"></font>
 
<big>2) सादृश्यार्थं विहाय अन्येषु अर्थेषु यथा इति अव्ययं सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति |</big>
 
 
Line 79:
<big>५) यथा हरिस्तथा हरः – हरेः उपमानत्वं यथाशब्दः द्योतयति | यथा शब्दः सादृश्यार्थं सूचयति| यथा हरिः अस्ति तथैव हरः अपि अस्ति |  यथा हरिस्तथा हरः इति वाक्ये यथा शब्दः सादृस्यार्थे अस्ति, अतः अव्ययीभावसमासः न भवति '''यथाऽसादृश्ये''' (२.१.७) इति सूत्रेण |</big>
 
<big>६) यथा देवदत्तः तथा यज्ञदत्तः | अस्मिन् वाक्ये यथा शब्दः सादृस्यार्थं सूचयति, अतः अव्ययीभावसमासः न भवति |</big>
 
 
Line 124:
 
 
<big>'''यावदवधारणे''' (२.१.८) = अवधारणार्थे यावत् इति अव्ययस्य समर्थेन सुबन्तेन सह समस्यते |  अवधारणं नाम निश्चयः (indication of a number) | इयत्तापरिच्छेदे गम्ये यावत् इति अव्ययं समस्यते, सोऽव्ययीभावः इत्यर्थः | यावद् अव्ययम्, अवधारणे सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति|  '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''   ( २.१.६) इत्यस्मात् सूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''अवधारणे यावत् अव्ययं सुप्  सुपा सह अव्ययीभावः समासः |'''</big>
 
 
Line 225:
 
 
<big>यदि सुप्, अव्ययं च अनयोः पदयोः अनुवृत्तिः अभविष्यत् प्रकृतसूत्रे तर्हि पदद्वयम् अपि प्रथमान्तं पदम् अभविष्यत् | अव्ययम् इत्यस्य प्रथमान्तम् इति कारणेन तस्य द्वारा निर्दिष्टस्य प्रति इति अव्ययस्य अपि प्रथमा अभविष्यत् | अनेन प्रति इति शब्दस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः अभविष्यत् |  अस्यां स्थितौ  अनुवृत्ति-सहित-सूत्रं भवति ‌— ''' मात्रार्थे प्रति अव्ययं सुप् सुपा सह अव्ययीभावः समासः |  '''अस्यां स्थित्यां प्रति इति अव्ययं शाकः इति सुबन्तेन सह समस्यते चेत् प्रतिशाकम् इति समासः सिद्धः भवति | परन्तु तन्नेष्यते यतोहि समासे प्रति इति अव्ययम् उत्तरपदे स्यात् | लोके तु  <u>शाकप्रति</u> इति एव समासः विद्यते यत्र अव्ययपदम् उत्तरपदे अस्ति न तु पूर्वपदे, अतः एतादृशसमासानां साधनार्थमेव प्रकृतसूत्रे सुप् इति पदं स्थापितम् अस्ति  पाणिनिना | अर्थात् पूर्वाभ्यां सूत्राभ्यां सुप्, अव्ययं च अनयोः पदयोः अनुवृत्तेः निवारणार्थं प्रकृतसूत्रे एव सुप् इति उक्तम् |</big>
 
 
Line 314:
 
=== <big>'''अक्ष-शलाका-संख्याः परिणा''' (२.१.१०) [5]</big> ===
<big>अक्ष-शब्दः, शलाका-शब्दः, सङ्ख्यावाचकशब्दः च परि इति सुबन्तेन सह समस्यन्ते, अव्ययीभावसमासः च भवति | एतस्य समासस्य प्रयोगः केवलं द्यूतक्रीडायामेव भवति|</big>
 
<big>'''अक्ष-शलाका-संख्याः परिणा''' (२.१.१०) = अक्षशब्दः(dice), शलाकाशब्दः ( ivory piece used in gambling), सङ्ख्यावाचकशब्दश्च परिणा सह समस्यन्ते, अव्ययीभावश्च समासो भवति | द्यूतव्यवहारे पराजय एव अयं समासः | यदा द्यूतक्रीडायां पराजयस्य अर्थः प्रतीयमानः भवति तदानीं सूत्रोक्तानां शब्दानां समासः भवति परि इति अव्ययेन सह|  अक्षश्च शलाका च संख्या च तेषामितरेतरयोगद्वन्द्वः अक्षशलाकासङ्ख्याः| अक्षशलाकासङ्ख्याः प्रथमान्तं, परिणा तृतीयान्तम्| '''सुप् प्रतिना मात्रार्थे''' ( २.१.९) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | सुप् इत्यस्य वचनपरिणामं कृत्वा बहुवचने प्रयुक्तम् | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति| |  '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः| अनुवृत्ति-सहित-सूत्रम्‌— '''अक्षशलाकासङ्ख्याः सुपः परिणा सुपा सह अव्ययीभावः समासः |'''</big>
 
<big>यथा- अक्षपरि|  </big>
Line 353:
|
====<big>'''इदुदुपधस्य चाप्रत्ययस्य'''  (८.३.४१)  </big>====
<big>इकारोपधस्य उकारोपधस्य प्रत्ययावयवभिन्नस्य विसर्गस्य स्थाने ककारे,  खकारे, पकारे, फकारे परे षकारादेशः भवति | इकार-उकार-उपधस्य अप्रत्ययस्य विसर्गस्य षः स्यात् कुप्वोः|  ह्रस्व-इकारात्, ह्रस्व-उकारात् परः विद्यमानः विसर्गः यदि प्रत्यय-निर्मितः नास्ति, तर्हि तस्य स्थाने ककारे, खकारे, पकारे, फकारे परे षकारादेशः भवति | इत् च उत् च तयोरितरेतरयोगद्वन्द्वः  इदुदौ, तौ उपधे यस्य स इदुदुपधः तस्य इदुदुपधस्य | न प्रत्ययः, अप्रत्ययः , तस्य अप्रत्ययस्य, नञ्तत्पुरुषः | '''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) इत्यस्य बाधकं सूत्रम् अस्ति  इदं सूत्रम् |  इत् च उत्  तयोरितरेतरयोगद्वन्द्वः, इदुदौ, तौ  उपधे यस्य सः, इदुदुपधः,  तस्य इदुदुपधस्य | न प्रत्ययः अप्रत्ययः, तस्य अप्रत्ययस्य, नञ्तत्पुरुषः | '''विसर्जनीयस्य सः''' (८.३.३४)  इत्यस्मात् सूत्रात् विसर्जनीयस्य इत्यस्य अनुवृत्तिः | '''कुप्वोः ≍क≍पौ च''' ( ८.३.३७)  इत्यस्मात् सूत्रात् कुप्वोः इत्यस्य अनुवृत्तिः | '''इणः षः''' (८.३.३९) इत्यस्मात् सूत्रात्  षः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं — ''' इदुदुपधस्य च अप्रत्ययस्य विसर्जनीयस्य षः कुप्वोः‌ |'''</big>
 
<big>उदाहरणानि -</big>
Line 359:
<big>१) प्रत्यूहानां ( विघ्नानां) अभावः = निष्प्रत्यूहम् | ''' '''अलौकिकविग्रहः = प्रत्यूह+ आम् + निस् |</big>
 
<big>निस् + प्रत्यूह → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशो भवति | अतः निरु+प्रत्यूह इति भवति| रु इत्यत्र उकारः अनुनासिकः अतः तस्य इत्संज्ञा भूत्वा लोपः भवति | निर्+प्रत्यूह इति भवति |</big>
 
<big>निर् + प्रत्यूह ''' → खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे | अतः निःप्रत्यूह इति भवति | अस्य विसर्गस्य ककारे / खकारे / पकारे / फकारे परे षत्वम् भवति '''इदुदुपधस्य चाप्रत्ययस्य''' ( ८.३.४१) इति सूत्रेण | '''इदुदुपधस्य चाप्रत्ययस्य'''  (८.३.४१) इति सूत्रेण इकारोपधस्य उकारोपधस्य प्रत्ययावयवभिन्नस्य विसर्गस्य स्थाने ककारे / खकारे / पकारे / फकारे परे षकारादेशः भवति '''→ निष्प्रत्यूहम्''' इति अव्ययीभावसमासः |</big>
Line 409:
 
=== <big>'''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) [6]</big> ===
<big>अप, परि, बहि, अञ्चु एते शब्दाः पञ्चम्यन्तेन सुबन्तेन सह समस्यन्ते, अव्ययीभावसमासः च भवति |</big>
 
 
Line 419:
'''<big>अप, परि ,आङ् इत्यतेषां योगे पञ्चमी</big>'''
 
<big>अप, परि च एतौ द्वौ '''प्रदायः''' (१.४.५८) इति सूत्रेण निपातसंज्ञकौ भवतः | तत्पश्चात् '''स्वरादिनिपातमव्ययम्'''(१.१.३७) इति सूत्रेण तयोः अव्ययसंज्ञा अपि भवति | बहिस् इति शब्दः स्वरादिगणे अस्ति, अतः '''स्वरादिनिपातमव्ययम्'''(१.१.३७) इति सूत्रेण अव्ययसंज्ञकः भवति | अप, परि, बहि: इत्येते सुबन्ताः तथा अञ्चु इति धातुतः निष्पन्नाः सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते इति उपरितनसूत्रेण ज्ञायते | परन्तु एतेषां शब्दानां योगे कथं पञ्चमीविभक्तिः विधीयते इति अग्रे उच्यते | अञ्चुधातुतः निष्पन्नाः दिक्वाचकाः अव्ययानि भवन्ति '''तद्धितश्चासर्वविभक्तिः''' ( १.१.३८)  इति सूत्रेण | अतः एव प्राक्, प्रत्यच्, उदच् इत्येतानि अव्ययानि सन्ति |</big>
 
 
Line 460:
<big>'''आङ् मर्यादावचने''' ( १.४.८९) इति सूत्रेण आङ् इत्यस्य कर्मप्रवचनीयसंज्ञा भवति मर्यादार्थे, अभिविध्यर्थे च | मर्यादा नाम तेन विना इत्यर्थः | अभिविधिः नाम तेन सह इत्यर्थः | यदा आङ् इत्यस्य कर्मप्रवचनीयसंज्ञा भवति तदानीं तस्य योगे पञ्चमी भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण | तद्यथा -</big>
 
<big>१) आ समुद्रात् भारतदेशः इति वाक्ये, समुद्रं विहाय, समुद्रपर्यन्तं यः भूभागः वर्तते सः भारतदेशः इति अर्थः | समुद्रं विना या भूमिः वर्तते सा भूमिः भारतदेशः इति अर्थः लभ्यते | अत्र आङ् इति मर्यादार्थे अस्ति इत्यतः तस्य कर्मप्रवचनीयसंज्ञा भवति</big> <big>'''आङ् मर्यादावचने''' ( १.४.८९) इति सूत्रेण | तत्पश्चात् तस्य योगे पञ्चमी भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण | आङ् इत्यस्य समासः अग्रिमेण सूत्रेण वक्ष्यते |</big>
 
<big>'''आङ् मर्यादावचने''' ( १.४.८९) इति सूत्रेण | तत्पश्चात् तस्य योगे पञ्चमी भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण | आङ् इत्यस्य समासः अग्रिमेण सूत्रेण वक्ष्यते |</big>
 
<big>एतावता ज्ञातं यत् अप,परि अनयोः कर्मप्रवचनीयसंज्ञा भवति वर्जनार्थे '''अपपरी वर्जने''' (१.४.८८) इति सूत्रेण | तत्पश्चात् तयोः योगे पञ्चमी भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण |</big>
Line 585 ⟶ 583:
 
 
<big>'''आङ् मर्यादाऽभिविध्योः''' (२.१.१३) = मर्यादार्थे वा अभिविध्यर्थे विद्यमानस्य आङ् इति अव्ययस्य पञ्चम्यन्तेन समर्थेन सुबन्तेन सह विकल्पेन समासः भवति |  मर्यादा च अभिविधिश्च तयोः इतरेतरयोगद्वन्द्वः मर्यादाभिविधी तयोर्मयादाभिविद्योः |  आङ् प्रथमान्तं, मर्यादाभिविध्योः सप्तम्यन्तम् |  '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति |   '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः| '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इत्यस्मात् सूत्रात् पञ्चम्या इत्यस्य अनुवृत्तिः| अनुवृत्ति-सहित-सूत्रम्‌—'''मर्यादा-अभिविध्योः आङ् सुप् पञ्चम्या सुपा सह अव्ययीभावः समासः विभाषा |'''</big>
 
<big>यद्यपि आङ् इत्यस्य चत्वारः अर्थाः सन्ति, तथापि समासार्थम् आङ् इति अव्ययस्य अर्थद्वयं स्वीक्रियते – मर्यादा, अभिविधिः च | वाक्येषु आङ् इत्यस्य  कस्मिन् अवसरे प्रयोगः कृतः इति दृष्ट्वा मर्यादार्थः वा अभिविध्यर्थः वा इति निर्णयः कर्तव्यः |</big>
Line 619 ⟶ 617:
<big>१) आहिमालयम्/ आ हिमालयात् भारतदेशः इति वदामः चेत् हिमालयः अपि भारतदेशे अन्तर्भवति इत्यर्थः | तेन सह नाम आरभ्य इत्यर्थः |</big>
 
<big>२) आकुमारम्/ आ कुमारेभ्यः यशः पाणिनेः | अर्थात् पाणिनेः यशः बालकेषु मध्ये अपि प्रसारितः अस्ति |  </big>
 
<big>३) आभानुवासरम्/ आ भानुवसरात् पाठयति इत्यस्य भानुवासरे अपि पाठयति इत्यर्थः | तेन सह = भानुवासरमपि पाठः प्रचलति इत्यर्थः |</big>
Line 638 ⟶ 636:
'''<big>प्रकृतसूत्रे मर्यादाभिविधिग्रहणं किमर्थम्?</big>'''
 
<big>यावता पञ्चमीत्यनुवर्तते, आङा च कर्मप्रवचनीयेनैव योगे पञ्चमी विधीयते एतयोरेवार्थयोः | नान्यत्र; तत्रान्तरेणापि मर्यादाविधिग्रहणं तयोरेवार्थयो समासो भविष्यति, नान्यत्रेति| सत्यमेतत्; तथापि मन्दधियां सुखावबोधनार्थं मर्यादाभिविधिग्रहणं कृतं पाणिनिना |</big>
 
 
<big>अन्यानि उदाहरणानि –</big>
 
<big>१) आ मुक्तेः संसारः = आमुक्ति संसारः / आ मुक्तेः संसारः | मुक्तिः पर्यन्तम् एव संसारः अस्ति |</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' आ + मुक्ति + ङसि | '''आङ् मर्यादाऽभिविध्योः''' (२.१.१३) इति सूत्रेण समासः विकल्पेन विधीयते | आ इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | आमुक्ति इति प्रातिपदिकं सिद्ध्यति | आमुक्ति इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण सुब्लुक् भवति → आमुक्ति इति समासः | समासापक्षे वाक्यं भवति आ मुक्तेः | अत्र '''आङ् मर्यादावचने'''( १.४.८९) इति सूत्रेण आङ् -शब्दस्य कर्मप्रवचनीयसंज्ञा भूत्वा तस्य योगे पञ्चमी विभक्तिः भवति '''पञ्चमी अपाङ्परिभिः''' (२.३.१०) इति सूत्रेण |  अतः वाक्यं भवति आ मुक्तेः संसारः इति |</big>
Line 678 ⟶ 676:
 
===<big>'''लक्षणेनाभिप्रती आभिमुख्ये''' (२.१.१४) [8]</big>===
<big>सम्मुखता इत्यस्मिन् अर्थे अभि, प्रति च एतौ द्वौ शब्दौ चिह्नवाचिना सुबन्तेन सह विकल्पेन समस्येते, अव्ययीभावसमासः च भवति |</big>
 
 
Line 724 ⟶ 722:
<big>अक्षि +औट् +प्रति +सु इति अलौकिकविग्रहवाक्यम् | '''लक्षणेनाभिप्रती आभिमुख्ये''' ( २.१.१४) इति सूत्रेण समासः विधीयते यतोहि प्रति इति आभिमुख्यार्थे, अक्षि इति  चिह्नवाचिना सुबन्तेन सह विकल्पेन समस्येते, अव्ययीभावश्च समासो भवति |</big>
 
<big>प्रत्यक्षि इति प्रातिपदिकात् टच् इति प्रत्ययः विधीयते  '''प्रतिपरसमनुभ्योक्षणः''' इति गणसूत्रेण | '''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) इति सूत्रस्य अन्तर्गते ''' प्रतिपरसमनुभ्योऽक्ष्णः''' इति गणसूत्रं वर्तते इति पूर्वमेव सूचितम् | गणसूत्रार्थः = प्रति, पर, सम् तथा अनु, एतेषु कश्चन शब्दः पूर्वपदे विद्यते चेत् अपि च उत्तरपदे अक्षि इति शब्दः चेत्, तदन्तात् अव्ययीभावसमासात् टच् इति समासान्तप्रत्ययः विधीयते | अनेन प्रत्यक्षम्, परोक्षम्, समक्षम्, अन्वक्षम् इत्यादीनि समस्तपदानि सिद्ध्यन्ति | अत्र अस्माकं विषयः प्रति इति आभिमुख्यार्थे अक्षि इति लक्षणवाचिना सुबन्तेन सह भवति '''लक्षणेनाभिप्रती आभिमुख्ये''' ( २.१.१४) इति सूत्रेण |</big>
 
<big>प्रत्यक्षि + टच् → प्रत्यक्षि + अ |</big>
 
<big>प्रत्यक्षि +अ → '''यस्येति च''' (६.४.१४८) इति भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | अतः प्रत्यक्ष् + अ → प्रत्यक्ष इति प्रातिपदिकं निष्पन्नं भवति | इदानीं सुबुत्पत्तिः भवति | तत्पश्चात्  '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमीविभक्तौ अम् आदेशः न भवति, तत्र तु  यथासामान्यं सुबन्तप्रक्रियानन्तरं रूपं भवति '''प्रत्यक्षात्''' | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम्-आदेशः भवति |</big>
Line 763 ⟶ 761:
 
 
<big>समीपार्थे अनु इति अव्ययं सुबन्तेन सह विकल्पेन समस्यते, अव्ययीभावसमासः च भवति |</big>
 
 
<big>'''अनुर्यत्समया''' ( २.१.१५)</big>
 
<big>यं पदार्थं समया( सामीप्यं) द्योत्यते तेन लक्षणभूतेन अनु इति अव्ययं समस्यते, सः अव्ययीभावश्च समासः भवति |   यस्य पदार्थस्य समीपे अनु इति पदम् अस्ति, तादृशलक्षणवाचिना सुबन्तेन सह अनु इति पदं विकल्पेन समस्यते, अव्ययीभावसमासः च भवति |  समया नाम समीपे इत्यर्थः | अनु इति अव्ययस्य अपि सामीप्यार्थः अस्ति |   '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | अनुः प्रथमान्तं, यत् इति द्वितीयैकवचनं, समया इत्यव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः |  '''लक्षणेनाभ्प्रती आभिमुख्ये''' (२.१.१४) इत्यस्मात् सूत्रात् लक्षणेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌—'''अनुः सुप् यत् समया लक्षणेन''' '''सुपा सह अव्ययीभावः समासः विभाषा |'''</big>
 
<big>अनु इति अव्ययस्य अस्माभिः एतेषु अर्थेषु प्रयोगः दृष्टः  - पश्चादर्थे, आनुपूर्व्यार्थे, योग्यतार्थे च | अनु इति अव्ययस्य अन्ये अपि अर्थाः सन्ति | यथा सामीप्यार्थे, आभिमुख्यार्थे, लक्षणार्थे, सादृश्यार्थे इत्यादयः | '''अनुर्यत्समया''' ( २.१.१५) इति सूत्रे अनु इत्यस्य सामीप्यम् इत्यस्मिन् अर्थे प्रयुक्तः अस्ति |</big>
Line 840 ⟶ 838:
 
===<big>'''यस्य चायामः''' (२.१.१६) [10 ]</big>===
<big>अनु इति अव्ययं, दीर्घतां बोधयितुं यत् पदं प्रयुज्यते, तेन पदेन सह समस्यते, अव्ययीभावसमासः च भवति</big> |
 
 
Line 882 ⟶ 880:
 
 
<big>तिष्ठद्गुगणे पठिताः शब्दाः सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति |</big>
 
 
<big>'''तिष्ठद्गुप्रभृतीनि च''' ( २.१. १७) = तिष्ठद्गुगणे पठितानां शब्दानां निपातनं क्रियते, तेषाम् अव्ययीभावसंज्ञा भवति | एतानि निपात्यन्ते | निपातनं नाम अस्मिन् गणे ये शब्दाः उक्ताः, ते साधुशब्दाः तेषाम् अव्ययीभावसंज्ञा भवति |  यानि समस्तपदानि साक्षात् सूत्रेण उच्यन्ते प्रक्रियां विना, तानि निपातनानि|  अर्थात् ये शब्दाः अन्यसमासेषु न प्रयुज्यन्ते | अस्मिन् गणे बहवः शब्दाः सन्ति | अस्मिन् गणे ये शब्दाः सन्ति तेषां निपातनं क्रियते, अव्ययीभावसमासः च भवति | सूत्रस्थः च  इति शब्दः एव इति अर्थे प्रयुक्तः अस्ति | तिष्ठन्ति गावः यस्मिन् काले सः तिष्ठद्गु दोहनकालः | तिष्ठद् प्रभृतिः आदिर्येषां तानि तिष्ठद्गुप्रभृतीनि, बहिव्रीहिः | तिष्ठद्गुप्रभृतीनि प्रथमाबहुवचनान्तं, चाव्ययम् | '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः |  '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''तिष्ठद्गुप्रभृतीनि च सुपः सुपा सह अव्ययीभावः समासः विभाषा |'''</big>
 
 
<big>तिष्ठद्गुगणे बहवः शब्दाः सन्ति | केचन शब्दाः अत्र दीयन्ते – तिष्ठद्गु (when the cows stand to be milked), बहद्गु (वहन्ति गावो यस्मिन् काले सः), आयतीगवं (at the time when the cows come home), खलेबुसम् ( at the time when the chaff is on the threshing-floor), पूतयवम्, पूतमानयवम्  (at the time of winnowing barley), संहृतबुसम् (after the chaff has been got in), संहृतयवम् (after the barley has been got in), परमतिष्ठद्गु, लूनयवम् (after barley-harvest), लूयमानयवम्, संहूतयवम्, संह्रियमाणयवम् ( while the barley is being got in), संहतबुसम्, संह्रयमाणबुसम् | एते कालवाचकशब्दाः सन्ति | अन्यशब्दाः - समभूमि( even ground), समपदाति( foot soldiers right lines), सुषमम्( very even), विषमम् (  unfairly), निष्षमम्, दुष्षमम्, अपरसमम्, आयतीसमम्( when the cows come home), प्राह्णम् (in the morning) , प्ररथम् ( when the chariots move), सम्प्रति ( now, at present) , असम्प्रति( not according to the moment) , प्रमृगम्, प्रदक्षिणम् (from left to right), अपरदक्षिणम् ( south west), पापसमम्( evil year), पुण्यसमम् ( good year) | '''इच् कर्मव्यतिहारे''' गणसूत्रात् इच्प्रत्ययान्तः अस्ति इति कारणेनन दण्डादण्डि, मुसलामुसलि इत्यादि शब्दाः अपि अन्तर्भूताः  |</big>
 
 
Line 940 ⟶ 938:
 
 
<big>विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति | समासे विधीयमाने यत् नियतविभक्तिकं , द्वितीये सम्बन्धिनि बहुभिः विभक्तिभिः युज्यमाने अपि एकयैव विभक्त्या तत् उपसर्जनसंज्ञं भवति अपूर्वनिपाते, पूर्वनिपाताख्यम् उपसर्जनकार्यं वर्जयित्वा | एका विभक्तिर्यस्य तद् एकविभक्ति, बहुव्रीहिः | पूर्वश्चासौ निपातश्चेति पूर्वनिपातः, कर्मधारयः | न पूर्वनिपातः अपूर्वनिपातः, तस्मिन्, अपूर्वनिपाते, नञ्तत्पुरुषः| एकविभक्ति प्रथमान्तं, चाव्ययम्, अपूर्वनिपाते सप्तम्यन्तम्| प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यस्मात् सूत्रात् समासः तथा उपसर्जनम् इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम् |'''</big>
 
|-
Line 986 ⟶ 984:
 
 
<big>'''षष्ठी''' (२.२.८) = षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति|षष्ठी प्रथमान्तम् एकपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति|'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः| '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः| '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति। अनुवृत्ति-सहित-सूत्रं— '''षष्ठी सुप् सुपा सह विभाषा तत्परुषः समासः|'''</big>
 
 
Line 1,268 ⟶ 1,266:
<big>३) उत्तरपदं झयन्तम् अस्ति चेत् '''झयः''' (५.४.१११) इति सूत्रेण अव्ययीभावसमासस्य अन्तिमवर्णः झय्-प्रत्याहारस्य वर्णः अस्ति चेत् तस्मात् विकल्पेन "टच्" इति समासान्तप्रत्ययः भवति येन अदन्तत्वं सिद्ध्यति | तत्पश्चात् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते | यस्मिन् पक्षे टच् न भवति तस्मिन् पक्षे समासानन्तरं सन्धिकार्याणि भवन्ति |</big>
 
<big>इत्यनेन अव्ययीभावसमासः इति विषयः समाप्तः |</big>
 
 
Line 1,371 ⟶ 1,369:
 
 
<big>'''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) = विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पुर्वनिपातः न भवति | विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यात् न तु तस्य पूर्वनिपातः | एका विभ्क्तिर्यस्य तद् एकविभक्तिः, बहुव्रीहिः | पर्वश्चासौ निपातश्चेति पूर्वनिपातः, कर्मधारयः  | न पूर्वनिपातोऽपूर्वनिपातस्तस्मिन्नपुर्वनिपाते, नञ्तत्पुरुषः | एकविभक्ति प्रथमान्तं, चाव्ययम्, अपूर्वनिपाते सप्तम्यन्तम् |प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यस्मात् सूत्रात् समासः तथा उपसर्जनम् इत्यनयोः अनुवृत्तिः  | अनुवृत्ति-सहित-सूत्रम्‌— '''एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम् |'''</big>
 
page_and_link_managers, Administrators
5,094

edits