6---sArvadhAtukaprakaraNam-anadantam-aGgam/01---anadantAGgAnAM-krute-siddha-tiGpratyayAH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(4 intermediate revisions by the same user not shown)
Line 462:
 
 
<big>आहत्य हलादिपितः - ६, अजादिपितः - ७, हलाद्यपितः - ३८, अजाद्यपितः - २३ | प्रत्ययानां वर्गचतुष्टेयंवर्गचतुष्टयं; प्रत्येकस्मिन्‌ वर्गे यत्‌ कार्यं भवति, तत्‌ कार्यं समानम्‌ अस्ति सर्वेषां वर्गसदस्यानां कृते | अयमेव द्वितीयगणसमूहस्य कार्यविधिः | अतः इमं जानीमः चेत्‌, द्वितीयगणसमूहस्य क्रियापदरूपाणि जानीमः हि |</big>
 
 
<big>अधुना अन्तिमः एकः विचारणीयः | उपरि उक्तम्‌ आसीत्‌ यत्‌ पित्त्वविषये यथा मूलप्रत्ययः तथैव सिद्धप्रत्ययः | मूलस्य पित्त्वं चेत्‌, सिद्धस्यापि पित्त्वम्‌ इति | किञ्च अत्र अपवादद्वयंअपवादत्रयं प्रतीयते |</big>
 
 
<big>१. लोट्‌-लकारस्य उत्तमपुरुषे '''आनि''', '''आव''', '''आम''','''ऐ''', '''आवहै''', '''आमहै''' | '''आनि''' मिपमिप् इत्यस्मात्‌ आगतः अतः तस्य पित्त्वम्‌ अस्ति | किन्तु अवशिष्टप्रत्ययाः मूले तु पितः न सन्ति | तेषां पित्त्वं कुतः आगतम्‌ ?</big>
 
 
Line 483:
 
 
<big>२. परस्मैपदे विधिलिङि यद्यपि मूलप्रत्येषुमूलप्रत्ययेषु तिप्‌, सिप्‌, मिप्‌ च पितः सन्ति, तथापि यात्‌, याः, याम्‌ इति सिद्धप्रत्ययानां पित्त्वं नास्ति | किमर्थम्‌ ?</big>
 
 
<big>परस्मैपदस्य विधिलिङि यासुट्‌-आगमः भवति, इति अस्माभिः दृष्टम्‌ | '''यासुट्‌ परस्मैपदेषूदात्तो ङिच्च''' (३.४.१०३) इत्यनेन लिङ्‌-लकारस्य परस्मैपदि-प्रत्ययानां यासु‌ट्‌-आगमो भवति; स च आगमो ङिद्वत्‌ | ङिद्वत्‌ अतः '''क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः | धातु-विकरणप्रत्यययोः मेलनेन यत्‌ अङ्गं निष्पन्नं, तेन अङ्गेन ङिद्वत्‌ यासु‌ट्‌-आगमः दृश्यते न तु तिप्‌, सिप्‌, मिप्‌ ये मूले पितः | मूल-प्रत्ययः पित्‌ भवतु नाम, परन्तु अङ्गेन इदं पित्त्वं न दृश्यते यतः मध्ये ङिद्वत्‌ यासुट्‌-आगमः अस्ति | मध्ये ङिद्वत्‌ यासुट्‌-आगमः, अतः अङ्गेन केवलं ङिद्वत्त्वं दृश्यते | तस्मात्‌ किमपि पित्‌-निमित्तकं कार्यं नार्हम्‌ | फलितार्थः एवं यत्‌ सिद्ध-प्रत्ययानां पित्त्वं नास्ति |</big>
 
३. <big>लोट्‌-लकारस्य मध्यपुरुषे '''हि''' | '''हि''' सिप् इत्यस्मात्‌ आगतः अतः तस्य पित्त्वं स्यात् | किन्तु तस्य अपित्त्वं कुतः आगतम्‌ ?</big>
 
<big><br />
लोटि परस्मैपदे मध्यपुरुषे सिप् प्रत्ययस्य स्थाने हि आदेशः भवति, अपिच्च भवति '''सेर्ह्यपिच्च''' ( ३.४. ८७) इत्यनेन सूत्रेण |</big>
 
 
 
Line 493 ⟶ 499:
 
<big>अस्मिन्‌ करपत्रे बहुकिमपि उक्तं— प्रत्ययानां व्युत्पत्तिः दत्ता यत्र अदन्ते अनदन्ते भेदः वर्तते | एषां व्युत्पत्तीनां च बोधनेन महान्‌ लाभः | तदा चतुर्विधाः सिद्ध-ति‌ङ्‌प्रत्ययाः प्रदर्शिताः; ते अस्माभिः सम्यक्तया बोध्याः यतोहि सर्वाणि द्वितीयगणसमूह-तिङन्तरूपाणि तेषु आधारितानि |</big>
 
<big>परिशिष्टम्‌</big>
 
<big>अत्र श्रीराममहोदयः अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या परस्मैपदि- अनदन्ताङ्गानां लट्, लोट्, लङ्‌‌, विधिलिङ्‌ ‌‌इत्येषामपितिङ्‌-सिद्धिः चित्रत्वेन निरूपितवान्‌ । ततः अधोभागे आत्मनेपदि-अदन्ताङ्गानां लट्, लोट्, लङ्‌‌, विधिलिङ्‌ ‌‌इत्येषामपि तिङ्‌-सिद्धिः चित्रत्वेन निरूपितवान्‌—</big>
 
 
[[File:Ting-pratyayaH.jpg-3 (1).jpg|border|center|frameless|641x641px|तिङ्-सिद्धिः लट्]]
 
[[File:Anadanta-parasmaipadi-lot.jpg|border|center|frameless|641x641px]]
 
 
 
[[File:Anadanta-parasmaipadi-lang.jpg|border|center|frameless|641x641px]]
[[File:Anadanta-parasmaipadi-vidhi-ling.jpg|border|center|frameless|641x641px]]
 
[[File:Anadanta-AtmanEpadi-lat.jpg|border|center|frameless|641x641px]]
[[File:Anadanta-AtmanEpadi-lot.jpg|border|center|frameless|641x641px]]
[[File:Anadanta-AtmanEpadi-lang.jpg|border|center|frameless|641x641px]]
 
[[File:Anadanta-AtmanEpadi-vidhi-ling (1).jpg|border|center|frameless|641x641px|Anadanta-AtmanEpadi-vidhi-ling (1)]]
 
 
page_and_link_managers, Administrators
5,097

edits