page_and_link_managers, Administrators
5,097
edits
No edit summary |
No edit summary |

Line 63:
२. द्वितीयगणसमूहः = अदादिः, जुहोत्यादिः, स्वादिः, रुधादिः, तनादिः, क्र्यादिः इति षट् गणाः
अङ्गान्ते भेदः एव विभजनस्य कारणम् | प्रथमगणसमूहे धातु-विकरणप्रत्यययोः मेलनेन निष्पन्नम् अङ्गम् अदन्तम् अस्ति सर्वत्र— अङ्गस्य अन्ते अकारः | यथा भू + शप् → भव, नश् + श्यन् → नश्य, लिख् + श → लिख, चुर् + णिच् + शप् → चोरय, इति एषु चतुर्षु धातुगणेषु अङ्गम् अदन्तम् |
Line 74 ⟶ 75:
प्रथमसोपानं तृतीयसोपानं चेत्यनयोः गणसम्बद्धा चर्चा भवतु, यतोहि गणम् अनुसृत्य सोपानद्वयं भिद्यते | अतः तत्तद्गणे अनयोः द्वयोः सोपानयोः अवलोकनं करिष्यते | परन्तु द्वितीयसोपानं—तिङ्संज्ञकप्रत्यय-सिद्धिः—सर्वेषाम् अनदन्ताङ्गानां कृते समाना | अतः एतत् कार्यम् अधुना परिशीलयाम |
प्रथमगणसमूहे द्वितीयगणसमूहे च सिद्ध-तिङ्प्रत्ययाः भिन्नाः
Line 85 ⟶ 87:
परस्मैपदिधातूनां मूल-तिङ्प्रत्ययाः

तिप् तस् झि
Line 91 ⟶ 94:
मिप् वस् मस्

आत्मनेपदिधातूनां मूल-तिङ्प्रत्ययाः

त आताम् झ
Line 102 ⟶ 107:
अदन्ते अनदन्ते च सिद्ध-तिङ्प्रत्ययानां पार्थक्यं कुत्र इति विषयः | वस्तुतः किञ्चिदेव भेदः अस्ति | अदन्तानां सिद्धप्रत्ययानां व्युत्पत्तिः पूर्वमेव प्रदर्शिता (पाठः [[05---sArvadhAtukaprakaraNam-adantam-aGgam/03---tiGpratyayAnAM-siddhiH|१]], [[05---sArvadhAtukaprakaraNam-adantam-aGgam/04---tiGpratyayAnAM-siddhiH---2|२]] च) अतः पुनः अत्र न क्रियते | सा पूर्वप्रदर्शिता व्युत्पत्तिः अधोभागस्य आधारः | अनदन्ताङ्गानां तिङ्-प्रत्ययाः यत्र अदन्ताङ्गानां तिङ्-प्रत्ययेभ्यः भिद्यन्ते, तत्र भेदस्य कारणं परिणामं च अधः प्रदर्शितम् |

अधः अनदन्ताङ्गानां तिङ्-प्रत्ययाः यत्र अदन्ताङ्गानां तिङ्-प्रत्ययेभ्यः भिद्यन्ते, तत्र प्रत्ययः स्थूलवर्णेन, ''तिर्यक्''-रूपेण लिखितः |
Line 112 ⟶ 118:

अतः अनदन्ताङ्गानां कृते लटि सिद्ध-प्रत्ययाः—

ति तः अन्ति*
Line 142 ⟶ 149:
तर्हि अङ्गम् अनदन्तं चेत्, हि इत्यस्य लोपः न भवति | (कुत्रचित् अपवादभूतेषु अनदन्तेषु हि-लोपः भवति; तत् तु पृथक् गणेषु पश्येम |)

अनदन्ताङ्गानां कृते लोटि सिद्ध-प्रत्ययाः—
तु, तात् ताम् अन्तु
Line 150 ⟶ 159:
आनि आव आम

३. परस्मैपदस्य लङ्-लकारे कोऽपि भेदः नास्ति |

अनदन्ताङ्गानां कृते लङि सिद्ध-प्रत्ययाः—
त् ताम् अन्
Line 160 ⟶ 172:
अम् व म

४. परस्मैपदस्य विधिलिङ्-लकारः सर्वत्र भिन्नः एव |
Line 165 ⟶ 178:
पूर्वम् उक्तं यत् विधिलिङि '''यासुट्''' आगमः भवति प्रत्ययात् प्राक् '''यासुट् 'परस्मैपदेषूदात्तो'''''<nowiki/>'<nowiki/>''''' ङिच्च''' (३.४.१०३) इत्यनेन | तत्र अनुबन्धलोपे सति "'''यास्'''" इति शिष्यते |
a) यदि अङ्गम् अदन्तं तर्हि तस्य यासुडागमस्य स्थाने '''इय्''' इति आदेशः | '''अतो येयः''' (७.२.८०) इत्यनेन यासः स्थाने इय् आदेशः | यथा पठ् + अ + यास् + त् → पठ् + अ + इय् + त् → पठ (इति अङ्गम्) + इत् (इति सिद्ध-तिङ्प्रत्ययः) → पठेत् |
b) अनदन्तेषु इय्-आदेशः न भवति | यथा चिनु + यास् + त् → चिनुयात्
Line 178 ⟶ 193:
'''लिङः सलोपोऽनन्तस्य''' (७.२.७९) = सार्वधातुकलिङि, अपदान्तस्य सकारस्य लोपो भवति | अन्ते भवः अन्त्यः, न अन्त्यः अनन्त्यः नञ्तत्पुरुषः, तस्य अनन्तस्य | लिङः षष्ठ्यन्तं, स लुप्तषष्ठीकं पदं, लोपः प्रथमान्तम्, अनन्तस्य षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | '''रुदादिभ्यः सार्वधातुके''' (७.२.७६) इत्यस्मात् '''सार्वधातुकस्य''' इत्यस्य अनुवृत्तिः विभक्तिपरिणामं कृत्वा | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गात् सार्वधातुकस्य लिङः अनन्तस्य सः लोपः''' |
Line 222 ⟶ 236:
'''तस्थस्थमिपां तान्तन्तामः''' (३.४.१०१) = "तस्, थस्, थ, मिप्" ङित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण "ताम्, तम्, त, अम्" एते आदेशाः | तश्च थश्च थश्च मिप् च तेषामितरेतरद्वन्द्वः तस्थस्थमिपः, तेषां तस्थस्थमिपाम् | ताम् च तम् च तश्च अम् च तेषामितरेतरद्वन्द्वः तान्तन्तामः | तस्थस्थमिपां षष्ठ्यन्तं, तान्तन्तामः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात् '''ङितः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ङितः लस्य तस्थस्थमिपां तान्तन्तामः''' |
'''नित्यं ङितः''' (३.४.९९) = ङितः लकारस्य सकारान्त-उत्तमपुरुष-प्रत्ययस्य अन्त्यसकार-लोपो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन सकारान्तः इत्यर्थः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य (सकारस्य) लोपः न तु पूर्णप्रत्ययस्य | नित्यं द्वितीयान्तं क्रियाविशेषणम्, ङितः षष्ठ्यन्तम्, द्विपदमिदं सूत्रम् | '''स उत्तमस्य''' (३.४.९८) इति सूत्रस्य पूर्णतया अनुवृत्तिः; '''इतश्च लोपः परस्मैपदेषु''' (३.४.९७) इत्यस्मात् '''लोपः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ङितः लस्य सः उत्तमस्य नित्यं लोपः''' |
अनदन्ताङ्गानां कृते विधिलिङि सिद्ध-प्रत्ययाः—
'''''यात् याताम् युः'''''
Line 232 ⟶ 249:
'''''याम् याव याम'''''

'''B. आत्मनेपदस्य तिङ्-प्रत्ययाः — अदन्ते अनदन्ते च भेदः'''

१. आत्मनेपदस्य लटि, लोटि, लङि च समानेषु त्रिषु प्रत्ययेषु भेदः | अधः पश्यन्तु—

अनदन्ताङ्गानां कृते लटि सिद्ध-प्रत्ययाः—
ते ''''' आते अते'''''
Line 244 ⟶ 265:
ए वहे महे

अनदन्ताङ्गानां कृते लोटि सिद्ध-प्रत्ययाः—
ताम् ''''' आताम् अताम्'''''
Line 252 ⟶ 275:
ऐ आवहै आमहै

अनदन्ताङ्गानां कृते लङि सिद्ध-प्रत्ययाः—
त '''''आताम् अत'''''
Line 260 ⟶ 285:
इ वहि महि
त्रिषु लकारेषु भेदः भवति (१) प्रथमपुरुष-मध्यमपुरुषयोः द्विवचने (२) प्रथमपुरुषस्य बहुवचने
Line 265 ⟶ 291:
अतः उदाहरणार्थम्—
यत्र अङ्गम् अदन्तम् अस्ति, रूपाणि एवं भवन्ति लटि— प्रकाशते, प्रकाशेते, प्रकाशन्ते |
यत्र अङ्गम् अनदन्तम् अस्ति, रूपाणि एवं भवन्ति लटि— चिनुते, चिन्वाते, चिन्वते |
तथा किमर्थमिति अधः वीक्ष्यताम्—

(१) प्रथमपुरुष-मध्यमपुरुषयोः द्विवचने
पूर्वम् अस्माभिः दृष्टं यत् अङ्गम् अदन्तम् अस्ति चेत्, तर्हि तत्र आत्मनेपदसंज्ञकप्रत्ययेषु यः आकारः अस्ति, तस्य स्थाने इकारः भवति | द्विवचने मूलप्रत्ययौ 'आताम्' 'आथाम्' अनयोः स्थितस्य आकारस्य स्थाने 'इ' | '''आतो ङितः''' (७.२.८१) = अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वं स्यात् | तर्हि लटि इते, इथे; लोटि इताम्, इथाम्; लङि इताम्, इथाम् |

परन्तु अङ्गम् अनदन्तं चेत् आकारस्य स्थाने इ-आदेशः न भवत्येव | अनदन्ताङ्गेषु लटि आते, आथे इत्येव भवतः; लोटि आताम्, आथाम् इत्येव भवतः; लङि आताम्, आथाम् इत्येव भवतः |

(२) प्रथमपुरुषस्य बहुवचने

आत्मनेपदे अङ्गम् अदन्तं चेत्, तर्हि लटि, लोटि, लङि च '''झोऽन्तः''' (७.१.३) इत्यनेन झ्-स्थाने अन्त्-आदेशः भवति | अतः लटि अन्ते, लोटि अन्ताम्, लङि अन्त इति सिद्ध-प्रत्ययाः भवन्ति |

अदन्ताङ्गेषु—
'''झोऽन्तः''' (७.१.३) = प्रत्ययस्य झकार-अवयवस्य स्थाने अन्त्-आदेशः भवति | झः षष्ठ्यन्तम्, अन्तः प्रथमान्तम्, द्विपदमिदं सूत्रम् | झकारे अन्त्-अवयवे च अकारः संयोजितः उच्चारणार्थम् | '''आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्''' (७.१.२) इत्यस्मात् '''प्रत्ययस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य प्रत्ययस्य झः अन्तः''' |

अनदन्ताङ्गेषु झकारस्य स्थाने अन्त्-आदेशः न भवति, अपि तु अत्-आदेशः एव भवति | जुहोत्यादिगणे '''अदभ्यस्तात्''' (७.१.४) इति सूत्रेण; अपरेषु गणेषु '''आत्मनेपदेष्वनतः''' (७.१.५) इति सूत्रेण | इमे द्वे सूत्रे '''झोऽन्तः''' (७.१.३) इति सूत्रं प्रबाध्य झ्-स्थाने अत्-आदेशम् आनयतः |

'''अदभ्यस्तात्''' (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्-आदेशो भवति | अत् प्रथमान्तम्, अभ्यस्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''झोऽन्तः''' (७.१.३) इत्यस्मात् '''झः''' (षष्ठ्यन्तम्) इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्''' (७.१.२) इत्यस्मात्, वचनपरिणामं कृत्वा '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत्''' |

'''आत्मनेपदेष्वनतः''' (७.१.५) = आत्मनेपदेषु ह्रस्व-अकार-भिन्नवर्णात् परस्य झकार-अवयवस्य स्थाने अत्-आदेशो भवति | '''न विभक्तौ तुस्माः''' (१.३.४) इत्यस्य निषेधेन अत् इत्यस्य तकारस्य इत्-संज्ञा न भवति | न अत् अनत्, तस्मात् अनतः | आत्मनेपदेषु सप्तम्यन्तम्, अनतः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | आत्मनेपदेषु इत्यस्य षष्ठ्यर्थे सप्तमी; आत्मनेपदावयवस्य झकारस्य इति लभ्यते | '''झोऽन्तः''' (७.१.३) इत्यस्मात् '''झः''' इत्यस्य अनुवृत्तिः | '''अदभ्यस्तात्''' (७.१.४) '''अत्''' इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्''' (७.१.२) इत्यस्मात् '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अनतः अङ्गात् आत्मनेपदेषु प्रत्ययादेः झः अत्''' |

२. विधिलिङ्गि कोऽपि भेदः नास्ति |

विधिलिङि सिद्ध-प्रत्ययाः—

ईत ईयाताम् ईरन्
Line 301 ⟶ 343:
ईय ईवहि ईमहि

एतावता '''मूलशिक्षा इयम्''', अदन्ताङ्गस्य अनदन्ताङ्गस्य च सिद्धतिङ्प्रत्यय-तुलना—

परस्मैपदे लटि = न कोऽपि भेदः
Line 311 ⟶ 355:
परस्मैपदे विधिलिङि = इय्-यासुट्-भेदात् सर्वत्र भेदः
आत्मनेपदे लटि = त्रिषु स्थलेषु भेदः— प्रथमपुरुष-मध्यमपुरुषयोः द्विवचने, प्रथमपुरुषस्य बहुवचने
Line 319 ⟶ 364:
आत्मनेपदे विधिलिङि = न कोऽपि भेदः
'''C. अनदन्ताङ्गानां सिद्ध-तिङ्प्रत्ययानां पित्त्वम् अपित्त्वं च'''
मूलतिङ्प्रत्ययान् आधारीकृत्य सिद्ध-तिङ्प्रत्ययाः पितः अपितः च भवन्ति | मूलप्रत्ययः पित् अस्ति चेत्, सिद्ध-प्रत्ययः अपि तथा | यथा तिप् पित् अस्ति, अतः लटि ति, लोटि तु, लङि त् इत्येषामपि पित्त्वं भवति | अयं बिन्दुः महत्त्वपूर्णः, यतः प्रत्ययः पित् अस्ति चेत्, तिङन्तपदस्य निर्माणार्थं, तृतीयसोपाने (तिङ्संज्ञकप्रत्यय-निमित्तकम् अङ्गकार्यम् इत्यस्मिन्) गुणकार्यं भविष्यति यत्र प्रसक्तिः अस्ति | धेयं यत् अङ्गं यत्र अदन्तम् अस्ति, तत्र तिङ्प्रत्ययम् अधिकृत्य गुणकार्यं न कुत्रापि सम्भवति अतः एतावता तिङ्प्रत्यायानां पित्त्वापित्त्व-विषये अस्माकम् अवधानं नासीत् | किन्तु इतः अग्रे अङ्गम् अनदन्तम्; अस्य च प्रसङ्गे गुणकार्यं बहुत्र अतः तिङ्प्रत्यायानां पित्त्वापित्त्व -विषये अवधातव्यम् | यथा स्वादिगणे चि-धातुः, श्नु प्रत्ययः, तयोः मेलनेन चिनु इति अङ्गम् | चिनु + ति → ति पित् अस्ति अतः '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः → चिनो + ति → चिनोति |
Line 326 ⟶ 373:
पित्-प्रत्ययाः पुनः द्विविधाः; अपित्-प्रत्ययाः अपि द्विविधाः | प्रत्ययस्य आदौ अच्-वर्णः अस्ति चेत्, प्रत्ययः अजादिः | प्रत्ययस्य आदौ हल्-वर्णः अस्ति चेत्, प्रत्ययः हलादिः | पित्सु अजादि-प्रत्ययाः, हलादि-प्रत्ययाः च सन्ति; अपित्सु अपि अजादि-प्रत्ययाः, हलादि-प्रत्ययाः च सन्ति | तर्हि आहत्य प्रत्ययाः चतुर्विधाः—हलादिपित्सार्वधातुकप्रत्ययाः, अजादिपित्सार्वधातुकप्रत्ययाः, हलाद्यपित्सार्वधातुकप्रत्ययाः, अजाद्यपित्सार्वधातुकप्रत्ययाः चेति | एतदनुसृत्य कार्यमपि भिन्नं भवति |
यथा, प्रत्ययः पित् अस्ति चेत्, गुणकार्यस्य प्रसक्तिः; अपित् अस्ति चेत् गुणः नार्हति | प्रत्ययः अजादिः अस्ति चेत् स्वरसन्धिः अर्हति; हलादिः अस्ति चेत् नार्हति | एवं च चतुर्षु प्रत्ययप्रकारेषु भिन्नरीत्या कार्यं भवति | इमां विविधताम् अग्रिमे करपत्रे द्रक्ष्यामः | अधुना कः कः प्रत्ययः कीदृशः इति अवलोकयाम |

ये प्रत्ययाः स्थूलाक्षरैः लिखिताः, ते पितः इति धेयम् |
Line 344 ⟶ 390:
'''मि''' वः मः ए वहे महे

हलादिपित्सार्वधातुकप्रत्ययाः— '''ति''', '''सि''', '''मि'''
Line 352 ⟶ 399:
अजाद्यपित्सार्वधातुकप्रत्ययाः— अन्ति, आते, अते, आथे, ए

लोट्-लकारः
Line 360 ⟶ 408:
''' आनि आव आम''' '''ऐ आवहै आमहै'''

हलादिपित्सार्वधातुकप्रत्ययाः— '''तु'''
Line 368 ⟶ 417:
अजाद्यपित्सार्वधातुकप्रत्ययाः— अन्तु, आताम्, अताम्, आथाम्

लङ्-लकारः
Line 376 ⟶ 426:
''' अम्''' व म इ वहि महि

हलादिपित्सार्वधातुकप्रत्ययाः— '''त्''', '''स्'''
Line 394 ⟶ 445:
याम् याव याम ईय ईवहि ईमहि

हलादिपित्सार्वधातुकप्रत्ययाः— ०
Line 405 ⟶ 457:
आहत्य हलादिपितः - ६, अजादिपितः - ७, हलाद्यपितः - ३८, अजाद्यपितः - २३ | प्रत्ययानां वर्गचतुष्टेयं; प्रत्येकस्मिन् वर्गे यत् कार्यं भवति, तत् कार्यं समानम् अस्ति सर्वेषां वर्गसदस्यानां कृते | अयमेव द्वितीयगणसमूहस्य कार्यविधिः | अतः इमं जानीमः चेत्, द्वितीयगणसमूहस्य क्रियापदरूपाणि जानीमः हि |