6---sArvadhAtukaprakaraNam-anadantam-aGgam/01---anadantAGgAnAM-krute-siddha-tiGpratyayAH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 130:
 
 
<big>'''अदभ्यस्तात्''' (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्‌-आदेशो भवति | अत्‌ प्रथमान्तम्‌, अभ्यस्तात्‌ पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''झोऽन्तः''' (७.१.३) इत्यस्मात्‌ '''झः''' (षष्ठ्यन्तम्‌) इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछगांफढखच्छगां प्रत्ययादीनाम्‌''' (७.१.२) इत्यस्मात्‌, वचनपरिणामं कृत्वा '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अभ्यस्तात्‌ अङ्गात्‌ प्रत्ययादेः झः अत्‌''' |</big>
 
 
Line 320:
 
 
<big>'''झोऽन्तः''' (७.१.३) = प्रत्ययस्य झकार-अवयवस्य स्थाने अन्त्‌-आदेशः भवति | झः षष्ठ्यन्तम्‌, अन्तः प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | झकारे अन्त्‌-अवयवे च अकारः संयोजितः उच्चारणार्थम्‌ | '''आयनेयीनीयियः फढखछघांफढखच्छघां प्रत्ययादीनाम्‌''' (७.१.२) इत्यस्मात्‌ '''प्रत्ययस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य प्रत्ययस्य झः अन्तः''' |</big>
 
 
Line 329:
 
 
<big><br />'''आत्मनेपदेष्वनतः''' (७.१.५) = आत्मनेपदेषु ह्रस्व-अकार-भिन्नवर्णात्‌ परस्य झकार-अवयवस्य स्थाने अत्‌-आदेशो भवति | '''न विभक्तौ तुस्माः''' (१.३.४) इत्यस्य निषेधेन अत्‌ इत्यस्य तकारस्य इत्‌-संज्ञा न भवति | न अत्‌ अनत्‌, तस्मात्‌ अनतः | आत्मनेपदेषु सप्तम्यन्तम्‌, अनतः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | आत्मनेपदेषु इत्यस्य षष्ठ्यर्थे सप्तमी; आत्मनेपदावयवस्य झकारस्य इति लभ्यते | '''झोऽन्तः''' (७.१.३) इत्यस्मात्‌ '''झः''' इत्यस्य अनुवृत्तिः | '''अदभ्यस्तात्''' (७.१.४) '''अत्‌''' इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछघांफढखच्छघां प्रत्ययादीनाम्‌''' (७.१.२) इत्यस्मात्‌ '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अनतः अङ्गात्‌‍ आत्मनेपदेषु प्रत्ययादेः झः अत्‌''' |</big>
 
 
page_and_link_managers, Administrators
5,159

edits