6---sArvadhAtukaprakaraNam-anadantam-aGgam/01---anadantAGgAnAM-krute-siddha-tiGpratyayAH: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/01---anadantAGgAnAM-krute-siddha-tiGpratyayAH (view source)
Revision as of 04:06, 12 June 2021
, 2 years agono edit summary
No edit summary |
No edit summary |
||
Line 19:
|<big>३) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/47_anadantAGgasya_siddha-tiGpratyayAH--3_adantAngasya-anadantAngasya-ca-tiGpratyaya-bhedAH__siddhatingpratyayAnAM_caturvidhatvam_2015-10-06.mp3 anadantAGgasya_siddha-tiGpratyayAH--3_adantAngasya-anadantAngasya-ca-tiGpratyaya-bhedAH_+]</big><big>[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/47_anadantAGgasya_siddha-tiGpratyayAH--3_adantAngasya-anadantAngasya-ca-tiGpratyaya-bhedAH__siddhatingpratyayAnAM_caturvidhatvam_2015-10-06.mp3 _siddhatingpratyayAnAM_caturvidhatvam_2015-10-06]</big>
|}
Line 75 ⟶ 73:
<big>प्रथमसोपानं तृतीयसोपानं चेत्यनयोः गणसम्बद्धा चर्चा भवतु, यतोहि गणम् अनुसृत्य सोपानद्वयं भिद्यते | अतः तत्तद्गणे अनयोः द्वयोः सोपानयोः अवलोकनं करिष्यते | परन्तु द्वितीयसोपानं—तिङ्संज्ञकप्रत्यय-सिद्धिः—सर्वेषाम् अनदन्ताङ्गानां कृते समाना | अतः एतत् कार्यम् अधुना परिशीलयाम |</big>
<u><big>प्रथमगणसमूहे द्वितीयगणसमूहे च सिद्ध-तिङ्प्रत्ययाः भिन्नाः</big></u>
Line 87 ⟶ 83:
▲<u><big>परस्मैपदिधातूनां मूल-तिङ्प्रत्ययाः</big></u>
<big><br />तिप् तस् झि</big>
Line 177 ⟶ 171:
<big>'''यासुट् '''परस्मैपदेषूदात्तो''' ङिच्च''' (३.४.१०३) = लिङ्-लकारस्य परस्मैपदि-प्रत्ययानां यासुट्-आगमो भवति; स च आगमो ङिद्वत् | विधिसूत्रम् अतिदेशसूत्रं च | '''लिङः''' '''सीयुट्''' (सामान्यसूत्रं किन्तु अनेन आत्मनेपदानां एव कृते) इत्यस्य अपवादः | '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन यासुट्, प्रत्ययात् प्राक् आयाति | यासुट् प्रथमान्तं, परस्मैपदेषु सप्तम्यन्तम्, उदात्तः प्रथमान्तं, ङित् प्रथमान्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | '''लिङः सीयुट्''' (३.४.१०२) इत्यस्मात् '''लिङः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''परस्मैपदानां''' '''लिङः लस्य उदात्तः यासुट् ङित् च''' |</big>
<big>यास्-आगमे, विधिलिङि सकारलोपः सर्वत्र भवति—</big>
<big>'''लिङः सलोपोऽनन्तस्य''' (७.२.७९) = सार्वधातुकलिङि, अपदान्तस्य सकारस्य लोपो भवति | अन्ते भवः अन्त्यः, न अन्त्यः अनन्त्यः नञ्तत्पुरुषः, तस्य अनन्तस्य | लिङः षष्ठ्यन्तं, स लुप्तषष्ठीकं पदं, लोपः प्रथमान्तम्, अनन्तस्य षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | '''रुदादिभ्यः सार्वधातुके''' (७.२.७६) इत्यस्मात् '''सार्वधातुकस्य''' इत्यस्य अनुवृत्तिः विभक्तिपरिणामं कृत्वा | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गात् सार्वधातुकस्य लिङः अनन्तस्य सः लोपः''' |
Line 212 ⟶ 209:
<big>मस् → म → यास् + म → सकारलोपः → याम</big>
<big><nowiki>*</nowiki> '''ससजुषो रुः''' (८.२.६६)</big>
Line 226 ⟶ 221:
<big>'''तस्थस्थमिपां तान्तन्तामः''' (३.४.१०१) = "तस्, थस्, थ, मिप्" ङित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण "ताम्, तम्, त, अम्" एते आदेशाः | तश्च थश्च थश्च मिप् च तेषामितरेतरद्वन्द्वः तस्थस्थमिपः, तेषां तस्थस्थमिपाम् | ताम् च तम् च तश्च अम् च तेषामितरेतरद्वन्द्वः तान्तन्तामः | तस्थस्थमिपां षष्ठ्यन्तं, तान्तन्तामः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात् '''ङितः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ङितः लस्य तस्थस्थमिपां तान्तन्तामः''' |</big>
<big>'''नित्यं ङितः''' (३.४.९९) = ङितः लकारस्य सकारान्त-उत्तमपुरुष-प्रत्ययस्य अन्त्यसकार-लोपो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन सकारान्तः इत्यर्थः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य (सकारस्य) लोपः न तु पूर्णप्रत्ययस्य | नित्यं द्वितीयान्तं क्रियाविशेषणम्, ङितः षष्ठ्यन्तम्, द्विपदमिदं सूत्रम् | '''स उत्तमस्य''' (३.४.९८) इति सूत्रस्य पूर्णतया अनुवृत्तिः; '''इतश्च लोपः परस्मैपदेषु''' (३.४.९७) इत्यस्मात् '''लोपः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ङितः लस्य सः उत्तमस्य नित्यं लोपः''' |</big>
<big>अनदन्ताङ्गानां कृते विधिलिङि सिद्ध-प्रत्ययाः—</big>
Line 269 ⟶ 260:
<big>इ वहि महि</big>
<big>त्रिषु लकारेषु भेदः भवति (१) प्रथमपुरुष-मध्यमपुरुषयोः द्विवचने (२) प्रथमपुरुषस्य बहुवचने</big>▼
▲<big>त्रिषु लकारेषु भेदः भवति (१) प्रथमपुरुष-मध्यमपुरुषयोः द्विवचने (२) प्रथमपुरुषस्य बहुवचने</big>
<big>अतः उदाहरणार्थम्—</big>
Line 278 ⟶ 268:
<big>यत्र अङ्गम् अनदन्तम् अस्ति, रूपाणि एवं भवन्ति लटि— चिनुते, चिन्वाते, चिन्वते |</big>
<big>तथा किमर्थमिति अधः वीक्ष्यताम्—</big>
<big><br />(१) प्रथमपुरुष-मध्यमपुरुषयोः द्विवचने</big>
<big>पूर्वम् अस्माभिः दृष्टं यत् अङ्गम् अदन्तम् अस्ति चेत्, तर्हि तत्र आत्मनेपदसंज्ञकप्रत्ययेषु यः आकारः अस्ति, तस्य स्थाने इकारः भवति | द्विवचने मूलप्रत्ययौ 'आताम्' 'आथाम्' अनयोः स्थितस्य आकारस्य स्थाने 'इ' | '''आतो ङितः''' (७.२.८१) = अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वं स्यात् | तर्हि लटि इते, इथे; लोटि इताम्, इथाम्; लङि इताम्, इथाम् |</big>
Line 332 ⟶ 318:
<big>आत्मनेपदे विधिलिङि = न कोऽपि भेदः</big>
<big>'''C. <u>अनदन्ताङ्गानां सिद्ध-तिङ्प्रत्ययानां पित्त्वम् अपित्त्वं च</u>'''</big>
<big>मूलतिङ्प्रत्ययान् आधारीकृत्य सिद्ध-तिङ्प्रत्ययाः पितः अपितः च भवन्ति | मूलप्रत्ययः पित् अस्ति चेत्, सिद्ध-प्रत्ययः अपि तथा | यथा तिप् पित् अस्ति, अतः लटि ति, लोटि तु, लङि त् इत्येषामपि पित्त्वं भवति | अयं बिन्दुः महत्त्वपूर्णः, यतः प्रत्ययः पित् अस्ति चेत्, तिङन्तपदस्य निर्माणार्थं, तृतीयसोपाने (तिङ्संज्ञकप्रत्यय-निमित्तकम् अङ्गकार्यम् इत्यस्मिन्) गुणकार्यं भविष्यति यत्र प्रसक्तिः अस्ति | धेयं यत् अङ्गं यत्र अदन्तम् अस्ति, तत्र तिङ्प्रत्ययम् अधिकृत्य गुणकार्यं न कुत्रापि सम्भवति अतः एतावता तिङ्प्रत्यायानां पित्त्वापित्त्व-विषये अस्माकम् अवधानं नासीत् | किन्तु इतः अग्रे अङ्गम् अनदन्तम्; अस्य च प्रसङ्गे गुणकार्यं बहुत्र अतः तिङ्प्रत्यायानां पित्त्वापित्त्व -विषये अवधातव्यम् | यथा स्वादिगणे चि-धातुः, श्नु प्रत्ययः, तयोः मेलनेन चिनु इति अङ्गम् | चिनु + ति → ति पित् अस्ति अतः '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः → चिनो + ति → चिनोति |</big>▼
<big>पित्-प्रत्ययाः पुनः द्विविधाः; अपित्-प्रत्ययाः अपि द्विविधाः | प्रत्ययस्य आदौ अच्-वर्णः अस्ति चेत्, प्रत्ययः अजादिः | प्रत्ययस्य आदौ हल्-वर्णः अस्ति चेत्, प्रत्ययः हलादिः | पित्सु अजादि-प्रत्ययाः, हलादि-प्रत्ययाः च सन्ति; अपित्सु अपि अजादि-प्रत्ययाः, हलादि-प्रत्ययाः च सन्ति | तर्हि आहत्य प्रत्ययाः चतुर्विधाः—हलादिपित्सार्वधातुकप्रत्ययाः, अजादिपित्सार्वधातुकप्रत्ययाः, हलाद्यपित्सार्वधातुकप्रत्ययाः, अजाद्यपित्सार्वधातुकप्रत्ययाः चेति | एतदनुसृत्य कार्यमपि भिन्नं भवति |</big>▼
▲<big>मूलतिङ्प्रत्ययान् आधारीकृत्य सिद्ध-तिङ्प्रत्ययाः पितः अपितः च भवन्ति | मूलप्रत्ययः पित् अस्ति चेत्, सिद्ध-प्रत्ययः अपि तथा | यथा तिप् पित् अस्ति, अतः लटि ति, लोटि तु, लङि त् इत्येषामपि पित्त्वं भवति | अयं बिन्दुः महत्त्वपूर्णः, यतः प्रत्ययः पित् अस्ति चेत्, तिङन्तपदस्य निर्माणार्थं, तृतीयसोपाने (तिङ्संज्ञकप्रत्यय-निमित्तकम् अङ्गकार्यम् इत्यस्मिन्) गुणकार्यं भविष्यति यत्र प्रसक्तिः अस्ति | धेयं यत् अङ्गं यत्र अदन्तम् अस्ति, तत्र तिङ्प्रत्ययम् अधिकृत्य गुणकार्यं न कुत्रापि सम्भवति अतः एतावता तिङ्प्रत्यायानां पित्त्वापित्त्व-विषये अस्माकम् अवधानं नासीत् | किन्तु इतः अग्रे अङ्गम् अनदन्तम्; अस्य च प्रसङ्गे गुणकार्यं बहुत्र अतः तिङ्प्रत्यायानां पित्त्वापित्त्व -विषये अवधातव्यम् | यथा स्वादिगणे चि-धातुः, श्नु प्रत्ययः, तयोः मेलनेन चिनु इति अङ्गम् | चिनु + ति → ति पित् अस्ति अतः '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः → चिनो + ति → चिनोति |</big>
▲<big>पित्-प्रत्ययाः पुनः द्विविधाः; अपित्-प्रत्ययाः अपि द्विविधाः | प्रत्ययस्य आदौ अच्-वर्णः अस्ति चेत्, प्रत्ययः अजादिः | प्रत्ययस्य आदौ हल्-वर्णः अस्ति चेत्, प्रत्ययः हलादिः | पित्सु अजादि-प्रत्ययाः, हलादि-प्रत्ययाः च सन्ति; अपित्सु अपि अजादि-प्रत्ययाः, हलादि-प्रत्ययाः च सन्ति | तर्हि आहत्य प्रत्ययाः चतुर्विधाः—हलादिपित्सार्वधातुकप्रत्ययाः, अजादिपित्सार्वधातुकप्रत्ययाः, हलाद्यपित्सार्वधातुकप्रत्ययाः, अजाद्यपित्सार्वधातुकप्रत्ययाः चेति | एतदनुसृत्य कार्यमपि भिन्नं भवति |</big>
Line 417 ⟶ 401:
<big>अजाद्यपित्सार्वधातुकप्रत्ययाः— नव (सर्वे) ईकारादयः आत्मनेपदिनः</big>
<big>आहत्य हलादिपितः - ६, अजादिपितः - ७, हलाद्यपितः - ३८, अजाद्यपितः - २३ | प्रत्ययानां वर्गचतुष्टेयं; प्रत्येकस्मिन् वर्गे यत् कार्यं भवति, तत् कार्यं समानम् अस्ति सर्वेषां वर्गसदस्यानां कृते | अयमेव द्वितीयगणसमूहस्य कार्यविधिः | अतः इमं जानीमः चेत्, द्वितीयगणसमूहस्य क्रियापदरूपाणि जानीमः हि |</big>
|