page_and_link_managers, Administrators
5,094
edits
No edit summary |
No edit summary |
||
(22 intermediate revisions by 4 users not shown) | |||
Line 1:
{{DISPLAYTITLE: 02A - स्वादिगणः}}
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि</big>
|-
|<big>'''2017 वर्गः'''</big>
|-
|[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/75_svAdigaNaH-1_samagra-cintanavidhiH---halanta-dhAtavaH_ajantadhAtavaH_ca_2017-04-26.mp3 <big>१) svAdigaNaH-1_samagra-cintanavidhiH---halanta-dhAtavaH_ajantadhAtavaH_ca_2017-04-26</big>]
|-
|[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/76_svAdigaNaH-2_halanta-ajanta-dhAtvoH-trayaH-bhedAH__laTi-shak-abhyAsaH_2017-05-03.mp3 <big>२) svAdigaNaH-2_halanta-ajanta-dhAtvoH-trayaH-bhedAH_+_laTi-shak-abhyAsaH_2017-05-03</big>]
|-
|[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/77_svAdigaNaH-3_shak--loT-lang-ling__ci--laT-loT-lang-ling_2017-05-10.mp3 <big>३) svAdigaNaH-3_shak--loT-lang-ling_+_ci--laT-loT-lang-ling_2017-05-10</big>]
|-
|[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/78_svAdigaNaH-4_sUtracintanam__ash__ci-Atmanepade--laT-loT-lang-ling_2017-05-17.mp3 <big>४) svAdigaNaH-4_sUtracintanam_+_ash_+_ci-Atmanepade--laT-loT-lang-ling_2017-05-17</big>]
|-
|<big>2015 वर्गः</big>
|-
|[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/48_svAdigaNaH-1_samagra-cintanavidhiH---halanta-dhAtavaH_ajantadhAtavaH_ca_2015-10-13.mp3 <big>१) svAdigaNaH-1_samagra-cintanavidhiH---halanta-dhAtavaH_ajantadhAtavaH_ca_2015-10-13</big>]
|-
|<big>[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/49_svAdigaNaH-2_halanta-ajanta-dhAtvoH-trayaH-bhedAH__ajAdyapitsu-kAryam---shaknuanti_cinuanti_2015-10-20.mp3 २) svAdigaNaH-2_halanta-ajanta-dhAtvoH-trayaH-bhedAH_+_ajAdyapitsu-kAryam---shaknu+anti_cinu+anti_2015-10-20]</big>
|-
|[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/50_svAdigaNaH-3_halanta-ajanta-dhAtvoH-dvitIyaH-bhedAH_cinuhi-luk_tRutIyaH-bhedaH--vikalpena-cinuvaHcinvaH__rUpAbhyAsaH_2015-10-27.mp3 <big>३) svAdigaNaH-3_halanta-ajanta-dhAtvoH-dvitIyaH-bhedAH_cinu+hi-luk_tRutIyaH-bhedaH--vikalpena-cinuvaH+cinvaH_+_rUpAbhyAsaH_2015-10-27</big>]
|-
|<big>'''2013 वर्गः'''</big>
|-
|[https://archive.org/download/Samskrita-Vyakaranam-2012-13_Paniniiya-Study-1-Sarvadhatukaprakaranam/29_sArvadhAtukalakArAH_svAdigaNaH_2013-06-19.mp3 <big>१) sArvadhAtukalakArAH_svAdigaNaH_2013-06-19</big>]
|-
|<big>[https://archive.org/download/Samskrita-Vyakaranam-2012-13_Paniniiya-Study-1-Sarvadhatukaprakaranam/30_sArvadhAtukalakArAH_svAdigaNaH_2_2013-06-24.mp3 २) sArvadhAtukalakArAH_svAdigaNaH_2_2013-06-24]</big>
|}
<big>स्वादिगणे ३४ धातवः सन्ति | अयम् अस्माकं प्रथमः धातुगणः यत्र अङ्गम् अनदन्तम्; अत्र सिद्धान्तकौमुद्यां परम्परागत-पद्धत्या तिङन्तरूप-निष्पादनं अतीव भ्रमात्मकम् | परन्तु पुष्पामातुः पद्धतिम् अनुसृत्य—पाणिनेः वास्तविक-पद्धतिम् अनुसृत्य—अङ्गम् अनदन्तं चेदपि सर्वम् अत्यन्तं स्पष्टं तर्कपूर्णञ्च |</big>
Line 59:
<big>उकारान्तधातवः सु + नु = सुनु</big>
<big>ऋकारान्तधातवः
<big>हलन्तधातवः तिग् + नु = तिग्नु</big>
<big> तृप् + नु = तृप्नु</big>
<big> शक् + नु = शक्नु</big>
<big> आप् + नु = आप्नु</big>
Line 79:
<big>२. <u>तिङ्संज्ञकप्रत्यय-सिद्धिः</u></big>
Line 85:
<big> <u>परस्मैपदम्</u> <u>आत्मनेपदम्</u></big>
<big> <u>लट्-लकारः</u></big>
<big> '''ति''' तः अन्ति ते आते अते</big>
<big> '''सि''' थः थ से आथे ध्वे</big>
<big> '''मि''' वः मः ए वहे महे</big>
<big> <u>लोट्-लकारः</u></big>
<big> '''तु''', तात् ताम् अन्तु ताम् आताम् अताम्</big>
<big> हि, तात् तम् त स्व आथाम् ध्वम्</big>
<big> '''आनि आव आम ऐ आवहै आमहै'''</big>
<big>
<big>
<big> '''स्''' तम् त
<big> '''अम्''' व म इ वहि महि</big>
<big> <u>विधिलिङ्-लकारः</u></big>
<big> यात् याताम् युः ईत ईयाताम् ईरन्</big>
Line 118 ⟶ 124:
<big> याम् याव याम ईय ईवहि ईमहि</big>
<big>३. <u>तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्</u></big>
<big>स्वादिगणे इदं कार्यं मुख्यम् | अस्य सोपानस्य बोधनार्थं मातृभिः स्वादिगणीयधातवः भागद्वये विभक्ताः—अजन्तधातवः हलन्तधातवः च—यतः धातुः अजन्तो वा हलन्तो वा इत्यनेन तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं भिद्यते | तर्हि स्वादौ वर्गद्वयम् अस्ति— अजन्ताः चि-धातुरिव, अपि च हलन्ताः शक्-धातुरिव; अनेन वर्गद्वयेन अस्माकं सर्वं कार्यं प्रवर्तते |</big>
Line 130 ⟶ 134:
<big>स्वादिगणे प्रतिनिधि-
Line 183 ⟶ 187:
<big>अजाद्यपित्सु = '''हुश्नुवोः सार्वधातुके''' इत्यनेन यण्-आदेशः | चिनु + अन्ति → चिन् + व् + अन्ति → चिन्वन्ति</big>
<big>'''<u>किमर्थं स्थलत्रये हलन्तधातुरूपेभ्यः अजन्तधातुरूपाणि भिद्यन्ते ?</u>'''</big>
<big>सर्वेषामपि स्वादिगणीय-धातूनाम् अङ्गम् उकारान्तं भवति— शक् + नु → शक्नु; चि + नु → चिनु | तर्हि शक्नु, चिनु च अनयोः अङ्गयोः भेदः कः ? शक्नु इति अङ्गे उकारात् प्राक् संयोगः अस्ति | '''हलोऽनन्तराः संयोगः''' (१.१.७) इत्यनेन द्वयोः व्यञ्जनयोः मध्ये स्वरः नास्ति चेत्, तयोः संयोग-संज्ञा भवति | तर्हि शक्नु इति अङ्गे, ककारनकारयोः वर्णयोः संयोग-संज्ञा | स्वादिगणे धातुः हलन्तः चेत्, तस्य धातोः अङ्गे उकारात् प्राक् संयोगः भवति एव | धातुः हलन्तः, तस्मात् 'नु' संयुज्यते चेत् धातोः अन्तिमव्यञ्जनेन सह नकारस्य संयोगः सदा भवति | शक्नु इत्यस्मिन् 'क्न्'; आप्नु इत्यस्मिन् 'प्न्'; अश्नु इत्यस्मिन् 'श्न्' |</big>
<big>स्वादिगणे हलन्तधातूनाम् अङ्गे उकारात् प्राक् संयोगः अस्ति; अजन्तधातूनाम् अङ्गे उकारात् प्राक् संयोगः न कदापि भवति | चि + नु → चिनु; अत्र चि-धातुः अजन्तः (इकारान्तः) अतः नकारेण सह हल्-वर्णस्य संयोगः नास्ति | तथैव सर्वत्र अजन्तधातुषु | सु + नु → सुनु, वृ + नु → वृणु | अत्रैव हलन्त-अजन्तयोः भेदः—हलन्तेषु अङ्गस्य यः उकारः, सः <u>संयोगपूर्वः उकारः</u>; अजन्तेषु अङ्गस्य यः उकारः, सः <u>असंयोगपूर्वः उकारः</u> |</big>
<big>हलन्त-अजन्त-धात्वोः मध्ये, तिङन्तेषु स्थलत्रये भेदः वर्तते; तस्य कृते <u>सूत्रत्रयं</u>, प्रत्येकस्मिन् सूत्रे अनया एव रीत्या भेदः उक्तः यत्— अङ्गे उकारः असंयोगपूर्वः चेत्, कार्यं भिद्यते | असंयोगपूर्व-उकारः केवलम् अजन्तधातुषु भवति अतः यत्र सूत्रेषु 'असंयोगपूर्व' दृश्यते, तत्र अजन्तधातुः इति बोध्यम् |</big>
<big>a) '''<u>प्रथमभेदः</u>'''— अजाद्यपित्सु हलन्तधातूनाम् उवङ्, अजन्तधातूनां यण्</big>
Line 216 ⟶ 218:
<big>'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशो भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्, तस्मात् इत्यर्थः | य्वोः इति विशेषणं 'धातु' शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गं, भ्रू-प्रातिपदिकं च उकारान्तः एव अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम् | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात् इति अर्थः | श्नुश्च धातुश्च
Line 238 ⟶ 240:
<big>स्वादिगणे फलितार्थः एवं यत् अजाद्यपिति परे असंयोगपूर्वस्य उकारस्य स्थाने यण्-आदेशः भवति |</big>
<big>अजाद्यपित्सु, सर्वेषां स्वादिगणीय-धातूनां कृते '''इको यणचि''' (६.१.७७) इत्यनेन यण्-आदेशः प्रसक्तः; तदा तं प्रबाध्य '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन उवङ् विहितः सर्वेषां धातूनां प्रसङ्गे; तदा अजन्तधातूनां कृते उवङ्-आदेशं प्रबाध्य '''हुश्नुवोः सार्वधातुके''' (६.४.८७) इत्यनेन पुनः यण् आदिष्टः | '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यस्य अपि प्रसक्तिः अत्र इति स्मर्यतां, तदा अपित्त्वात् गुणनिषेधो भवति | आहत्य अजाद्यपित्सु सूत्रक्रमः एवं भवति— '''इको यणचि''' (६.१.७७) → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) → '''सार्वधातुकमपित्''' (१.२.४), '''क्क्ङिति च''' (१.१.५) → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) → '''हुश्नुवोः सार्वधातुके''' (६.४.८७) |</big>
Line 246 ⟶ 247:
<big>b) '''<u>द्वितीयभेदः</u>'''—परस्मैपदे लोटि मध्यमपुरुषैकवचने, '''सेर्ह्यपिच्च''' (३.४.८७) इत्यनेन सि-स्थाने हि-आदेशः | तदा सामान्यनियमः एवं यत् अङ्गम् अदन्तं चेत् '''अतो हेः''' (६.४.१०५) इत्यनेन हि-लोपः [वद + हि → वद], अङ्गम् अनदन्तं चेत् हि-लोपः न [शक्नु + हि → शक्नुहि] | परन्तु उकारान्ताङ्गं चेत्, अपि च अन्त्यः उकारः असंयोगपूर्वः चेत्, तर्हि तत्र अङ्गम् अनदन्तं सत्यपि हि-लोपः भवति | सारांशत्वेन हलन्तधातुभ्यः 'हि' तिष्ठति यथासामान्यम्; अपवादे अजन्तधातुभ्यः हि-लोपः [चिनु + हि → चिनु] |</big>
<big>'''उतश्च प्रत्ययादसंयोगपूर्वात्''' (६.४.१०६) = प्रत्ययावयव-उकारात् प्राक् संयोगः नास्ति चेत्, परस्य हि-प्रत्ययस्य लुक् (लोपः) भवति | न विद्यते पूर्वः संयोगः यस्मात्, सः असंयोगपूर्वः, बहुव्रीहिः; तस्मात् असंयोगपूर्वात् | उतः पञ्चम्यन्तं, च अव्ययपदं, प्रत्ययात् पञ्चम्यन्तम्, असंयोगपूर्वात् पञ्चम्यन्तम्, अनेकपदमिदं सूत्रेम् | '''चिणो लुक्''' (६.४.१०४) इत्यस्मात् '''लुक्''' इत्यस्य अनुवृत्तिः | '''अतो हेः''' (६.४.१०५) इत्यस्मात् '''हेः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''असंयोगपूर्वात् उतः प्रत्ययात् अङ्गात् च हेः लुक्''' |</big>
<big>c) '''<u>तृतीयभेदः</u>'''—हलाद्यपित्सु किमपि कार्यं नास्ति इति सामान्यनियमः | हलन्तधातूनां कृते अस्य नियमस्य पालनं सर्वत्र; अजन्तधातूनां कृते, हलाद्यपित् प्रत्ययः मकारादिः वकारादिः चेत्, विकल्पेन अङ्गान्तस्य उकारस्य लोपो भवति | चिनु + वः → चिन्वः/चिनुवः |</big>
<big>'''लोपश्चास्यान्यतरस्यां म्वोः''' (६.४.१०७) = असंयोगपूर्वस्य प्रत्ययावयव-उकारस्य विकल्पेन लोपो भवति वकारमकारादौ प्रत्यये परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्ते उकारस्य लोपः, न तु पूर्णाङ्गस्य | 'अस्य' इत्यनेन पूर्वतनसूत्रे स्थितस्य '''"असंयोगपूर्वस्य प्रत्ययस्य उतः"''' इत्यस्य उल्लेखः | म् च व् च तयोरितरेतरद्वन्द्वः म्वौ, तयोः म्वोः | लोपः प्रथमान्तं, च अव्ययपदम्, अन्यतरस्यां सप्तम्यन्तं, म्वोः सप्तम्यन्त्म्, अनेकपदमिदं सूत्रम् | '''उतश्च प्रत्ययादसंयोगपूर्वात्''' (६.४.१०६) इत्यस्य पूर्णतया अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अस्य
<big>सारांशः एवं यत् अङ्गम् उकारान्तम् अस्ति चेत्, अपि च उकारात् प्राक् संयोगः नास्ति चेत्, अपि च मकारादिः वकारादिः च प्रत्ययः परोऽस्ति चेत्, तर्हि उकारस्य लोपः भवति विकल्पेन |</big>
<big><u>'''चतूर्णां सार्वधातुकलकाराणां तिङन्तरूपाणि'''</u></big>
<big>सर्वप्रथमं धातुः अजन्तो वा हलन्तो वा इति जानातु | तदा सर्वत्र अस्माकं चिन्तनक्रमः एवम्—</big>
Line 265 ⟶ 269:
<big>२. तिङ्प्रत्ययः अजादिः वा हलादिः वा ?</big>
<big>तावत् एव अस्ति; अनयोः प्रश्नयोः उत्तरं जानीमः चेत्, सर्वाणि रूपाणि जानीमः | अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययान् पुरतः स्थापयित्वा (अथवा ज्ञात्वा) शक्, चि (परस्मैपदे), अश्, चि (आत्मनेपदे) इत्येषां तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारयतु |</big>
<big>A. <u>हलन्तधातुषु शक्-धातुः</u></big>
<big>शक् + श्नु → शक् + नु → शक्नु इत्यङ्गम् | अधः सर्वत्र शक्नु इत्यङ्गं स्वीकृत्य कार्याणि प्रवर्तनीयानि |</big>
<big>धेयं यत् अपित्सु अपि '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति | किमर्थम् ? सर्वे तिङ्-संज्ञकप्रत्ययाः '''तिङ्शित् सार्वधातुकम्''' (३.४.११३) इति सूत्रेण सार्वधातुकाः | परन्तु '''सार्वधातुकमपित्''' (१.२.४) इत्यनेन अपित् सार्वधातुकप्रत्ययाः ङिद्वत् भवन्ति | तदा '''क्क्ङिति च''' (१.१.५) इत्यनेन गुण-निषेधः |</big>
<big>शक्नु + सि इति स्थितौ, '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वं भवति—</big>
<big>'''आदेशप्रत्यययोः''' (८.३.५९) = इण्-प्रत्याहारात् कवर्गीयात् च आदेशरूपी अथवा प्रत्ययावयवः अपदान्तः सकारः अस्ति चेत्, तस्य सकारस्य स्थाने षकारादेशो भवति; नुम्, विसर्गः, शर्-प्रत्याहारस्थ-वर्णः च मध्ये सन्ति चेदपि कार्यं भवति | अस्य कार्यस्य नाम षत्वविधिः | इण्-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं '''स्थानेऽन्तरतमः''' इत्यनेन ट्, ठ्, ड्, ढ्, ण्, ष् इत्येषु मूर्धन्यवर्णेषु सकारेण षकारस्य नैकट्यम्, अतः षकारः एव आदिष्टः भवति | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम् एकपदमिदं सूत्रम् | '''सहे साडः सः''' (८.३.५६) इत्यस्मात् '''सः''' इत्यस्य अनुवृत्तिः | '''नुंविसर्जनीयशर्व्यवायेऽपि''' (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | '''इण्कोः''' (८.३.५७), '''अपदान्तस्य मूर्धन्यः''' (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि''' |</big>
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
<big><u>रूपाणि</u></big>
<big>लटि —</big>
Line 290 ⟶ 302:
<big>विधिलिङि—</big>
<big>B. <u>अजन्तधातुषु चि-धातुः</u> उभयपदी | अत्र परस्मैपदे |</big>
<big>चि + श्नु → चि + नु → गुणस्य प्रसक्तिः, तदा निषेधः → चिनु इत्यङ्गम् | अधः सर्वत्र चिनु इत्यङ्गं स्वीकृत्य कार्याणि प्रवर्तनीयानि |</big>
Line 296 ⟶ 310:
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
<big><u>रूपाणि</u></big>
<big>लटि —</big>
Line 306 ⟶ 321:
<big>विधिलिङि—</big>
<big>C. <u>हलन्तधातुषु अश्-धातुः</u> आत्मनेपदे | [अश्नु इति अङ्गम्] (अश् व्याप्तौ)</big>
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
<big><u>रूपाणि</u></big>
<big>लटि —</big>
Line 320 ⟶ 337:
<big>विधिलिङि—</big>
<big>D. <u>अजन्तधातुषु चि-धातुः</u> उभयपदी | अत्र आत्मनेपदे | [चिनु इति अङ्गम्]</big>
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
<big><u>रूपाणि</u></big>
<big>लटि —</big>
Line 333 ⟶ 352:
<big>विधिलिङि—</big>
<big>एतावता पद्धतिः अवगता स्यात् | सर्वप्रथमं धातुः अजन्तो वा हलन्तो वा इति जानातु | तदा सर्वत्र अस्माकं चिन्तनक्रमः एवम्—</big>
Line 339 ⟶ 359:
<big>२. तिङ्प्रत्ययः अजादिः वा हलादिः वा ?</big>
<big>अधुना अभ्यासः अपेक्षते | अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययान् पुरतः स्थापयित्वा एषां तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारयन्तु—</big>
<big><u>स्वादिगणीयाः धातवः</u></big>
<big>
<big><u>इकारान्ताः</u></big>
<big>चिञ् चयने → निरनुबन्ध-धातुः चि → अङ्गं चिनु → लटि चिनोति/चिनुते</big>
Line 352 ⟶ 375:
<big>षिञ् बन्धने → सि → सिनु → सिनोति/सिनुते</big>
<big>शिञ्
<big>डुमिञ् प्रक्षेपणे → मि → मिनु → मिनोति/मिनुते</big>
<big>
<big>रि हिंसायाम् → रि → रिणु → रिणोति</big>
Line 366 ⟶ 389:
<big>जिरि हिंसायाम् → जिरि → जिरिणु → जिरिणोति</big>
<big><u>उकारान्ताः</u></big>
<big>धुञ् कम्पने → धु → धुनु → धुनोति/धुनुते</big>
Line 374 ⟶ 398:
<big>षुञ् अभिषवे → सु → सुनु → सुनोति/सुनुते</big>
<big><u>ऋकारान्ताः</u></big>
<big>कृञ् हिंसायाम् → कृ → कृणु → कृणोति/कृणुते</big>
Line 388 ⟶ 413:
<big>वृञ् वरणे → वृ → वृणु → वृणोति/वृणुते</big>
<big><u>हलन्तधातवः</u></big>
<big>शक्लृ शक्तौ → शक् → शक्नु → शक्नोति</big>
Line 414 ⟶ 441:
<big>ञिधृषा प्रागल्भ्ये → धृष् → धृष्णु → धृष्णोति</big>
<big>राध
<big>साध
<big>आपॢ व्याप्तौ (व्याप्तः भवति, प्राप्तः भवति) → आप् → आप्नु → आप्नोति</big>
<big>दम्भु दम्भने (हिंसायाम्) → दम्भ् → दभ्नु → दभ्नोति | दम्भु अनिदित् धातुः '''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) इत्यनेन किति ङिति प्रत्यये परे नकारलोपः | श्नु-प्रत्ययः ङिद्वत् |</big>
<big>
<big>'''*क्षुभ्नादिषु च''' (८.४.३९) = क्षुभ्नादिगणे पठितानां शब्दानां नकारस्य स्थाने णकारादेशो न भवति | क्षुभ्ना आदिर्येषां ते क्षुभ्नादयः, तेषु क्षुभ्नादिषु | क्षुभ्नादिषु सप्तम्यम्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''रषाभ्यां नो णः समानपदे''' (८.४.१) इत्यस्मात् '''नः''', '''णः''' इत्यनयोः अनुवृत्तिः | '''न''' '''भाभूपूकमिगमिप्यायीवेपाम्''' (८.४.३४) इत्यस्मात् '''न''' इत्यस्य अनुवृत्तिः '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''क्षुभ्नादिषु च नः णः न संहितायाम्''' |</big>
<big>श्रु श्रवणे → श्रु → शृणु → शृणोति</big>
Line 430 ⟶ 459:
<big>श्रु-धातुः भ्वादिगणे स्थापितः धातुपाठे, किञ्च व्यावहारिकत्वेन स्वादीगणीयः एव | कर्त्रर्थे सार्वधातुके परे, श्रु-धातोः शृ इति धात्वादेशो भवति |</big>
<big>'''श्रुवः शृ च''' (३.१.७४) = कर्त्रर्थक-सार्वधातुकप्रत्यये परे श्रु-धातोः शृ इति धात्वादेशश्च, श्नु-प्रत्ययः धातुतः विहितश्च | श्रुवः पञ्चम्यन्तं, शृ लुप्तप्रथमाकं पदं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | '''स्वादिभ्यः श्नुः''' (३.१.७३) इत्यस्मात् '''श्नुः''' इत्यस्य अनुवृत्तिः | '''कर्तरि शप्''' (३.१.६८) इत्यस्मात् '''कर्तरि''' इत्यस्य अनुवृत्तिः; '''सार्वधातुके यक्''' (३.१.६७) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः; '''धातोरनेकाचो हलादेः क्रियासमभिहारे यङ्''' (३.१.२२) इत्यस्मात् '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''श्रुवः धातोः शृ च श्नुः प्रत्ययः परश्च कर्तरि सार्वधातुके''' |</big>
<big>इति स्वादिगणे समग्रं तिङ्-सम्बद्धं सार्वधातुकप्रकरण-चिन्तनं समाप्तम् | परस्मैपदे केवलं धातुद्वयं ज्ञातव्यम्— अजन्तधातुः चि, हलन्तधातुः शक्; आत्मनेपदे अजन्तधातुः चि, हलन्तधातुः अश् | अनेन सर्वेषां चतुस्त्रिंशतः धातूनां सार्वधातुकलकाररूपाणि ज्ञातानि |</big>
[https://static.miraheze.org/samskritavyakaranamwiki/1/15/%E0%A5%A8_-_%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A4%83.pdf २ - स्वादिगणः (c)]
<big>Swarup – June 2013 (updated October 2015, April 2017)</big>
|