6---sArvadhAtukaprakaraNam-anadantam-aGgam/02a---svAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(8 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE: 02A - स्वादिगणः}}
 
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि -</big>
|-
|<big>'''2017 वर्गः'''</big>
|-
|[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/75_svAdigaNaH-1_samagra-cintanavidhiH---halanta-dhAtavaH_ajantadhAtavaH_ca_2017-04-26.mp3 <big>१) svAdigaNaH-1_samagra-cintanavidhiH---halanta-dhAtavaH_ajantadhAtavaH_ca_2017-04-26</big>]
Line 21 ⟶ 22:
|[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/50_svAdigaNaH-3_halanta-ajanta-dhAtvoH-dvitIyaH-bhedAH_cinuhi-luk_tRutIyaH-bhedaH--vikalpena-cinuvaHcinvaH__rUpAbhyAsaH_2015-10-27.mp3 <big>३) svAdigaNaH-3_halanta-ajanta-dhAtvoH-dvitIyaH-bhedAH_cinu+hi-luk_tRutIyaH-bhedaH--vikalpena-cinuvaH+cinvaH_+_rUpAbhyAsaH_2015-10-27</big>]
|-
|<big>'''2013 वर्गः'''</big>
|-
|[https://archive.org/download/Samskrita-Vyakaranam-2012-13_Paniniiya-Study-1-Sarvadhatukaprakaranam/29_sArvadhAtukalakArAH_svAdigaNaH_2013-06-19.mp3 <big>१) sArvadhAtukalakArAH_svAdigaNaH_2013-06-19</big>]
Line 27 ⟶ 28:
|<big>[https://archive.org/download/Samskrita-Vyakaranam-2012-13_Paniniiya-Study-1-Sarvadhatukaprakaranam/30_sArvadhAtukalakArAH_svAdigaNaH_2_2013-06-24.mp3 २) sArvadhAtukalakArAH_svAdigaNaH_2_2013-06-24]</big>
|}
 
 
 
 
 
 
 
<big>स्वादिगणे ३४ धातवः सन्ति | अयम्‌ अस्माकं प्रथमः धातुगणः यत्र अङ्गम्‌ अनदन्तम्‌; अत्र सिद्धान्तकौमुद्यां परम्परागत-पद्धत्या तिङन्तरूप-निष्पादनं अतीव भ्रमात्मकम्‌ | परन्तु पुष्पामातुः पद्धतिम्‌ अनुसृत्य—पाणिनेः वास्तविक-पद्धतिम्‌ अनुसृत्य—अङ्गम्‌ अनदन्तं चेदपि सर्वम्‌ अत्यन्तं स्पष्टं तर्कपूर्णञ्च |</big>
Line 64 ⟶ 59:
<big>उकारान्तधातवः     सु + नु = सुनु</big>
 
<big>ऋकारान्तधातवः     वृ + नु = वृणु</big>
 
<big>हलन्तधातवः        तिग्‌ + नु = तिग्नु</big>
 
<big>                      तृप्‌ + नु = तृप्नु</big>
 
<big>                      शक्‌ + नु = शक्नु</big>
 
<big>                      आप्‌ + नु = आप्नु</big>
 
 
Line 129 ⟶ 124:
 
<big>                 याम्‌      याव       याम                                     ईय      ईवहि        ईमहि</big>
 
 
 
 
<big>३. <u>तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌</u></big>
 
 
 
<big>स्वादिगणे इदं कार्यं मुख्यम्‌ | अस्य सोपानस्य बोधनार्थं मातृभिः स्वादिगणीयधातवः भागद्वये विभक्ताः—अजन्तधातवः हलन्तधातवः च—यतः धातुः अजन्तो वा हलन्तो वा इत्यनेन तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं भिद्यते | तर्हि स्वादौ वर्गद्वयम्‌ अस्ति— अजन्ताः चि-धातुरिव, अपि च हलन्ताः शक्‌-धातुरिव; अनेन वर्गद्वयेन अस्माकं सर्वं कार्यं‌ प्रवर्तते |</big>
Line 143 ⟶ 134:
 
 
<big>स्वादिगणे प्रतिनिधि-चतुष्टेयं‌चतुष्टयं‌ स्वीक्रियताम्‌—</big>
 
 
Line 195 ⟶ 186:
 
<big>अजाद्यपित्सु = '''हुश्नुवोः सार्वधातुके''' इत्यनेन यण्‌‌-आदेशः | चिनु + अन्ति → चिन्‌ + व्‌ + अन्ति → चिन्वन्ति</big>
 
 
 
<big>'''<u>किमर्थं स्थलत्रये हलन्तधातुरूपेभ्यः अजन्तधातुरूपाणि भिद्यन्ते ?</u>'''</big>
 
 
 
<big>सर्वेषामपि स्वादिगणीय-धातूनाम्‌ अङ्गम्‌ उकारान्तं भवति— शक्‌ + नु → शक्नु; चि + नु → चिनु | तर्हि शक्नु, चिनु च अनयोः अङ्गयोः भेदः कः ? शक्नु इति अङ्गे उकारात्‌ प्राक्‌ संयोगः अस्ति | '''हलोऽनन्तराः संयोगः''' (१.१.७) इत्यनेन द्वयोः व्यञ्जनयोः मध्ये स्वरः नास्ति चेत्‌, तयोः संयोग-संज्ञा भवति | तर्हि शक्नु इति अङ्गे, ककारनकारयोः वर्णयोः संयोग-संज्ञा | स्वादिगणे धातुः हलन्तः चेत्‌, तस्य धातोः अङ्गे उकारात्‌ प्राक्‌ संयोगः भवति एव | धातुः हलन्तः, तस्मात्‌ 'नु' संयुज्यते चेत्‌ धातोः अन्तिमव्यञ्जनेन सह नकारस्य संयोगः सदा भवति | शक्नु इत्यस्मिन्‌ 'क्न्‌'; आप्नु इत्यस्मिन्‌ 'प्न्‌'; अश्नु इत्यस्मिन्‌ 'श्न्‌' |</big>
Line 231 ⟶ 218:
 
 
<big>'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम्‌ इकारस्य उकारस्य स्थाने क्रमेण इयङ्‌ उवङ्‌ च आदेशो भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्‌, तस्मात्‌ इत्यर्थः | य्वोः इति विशेषणं 'धातु' शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गं, भ्रू-प्रातिपदिकं च उकारान्तः एव अतः तत्र इयङ्‌ इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात्‌ इति अर्थः | श्नुश्च धातुश्च भ्रुश्चभ्रूश्च तेषाम्‌ इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम्‌ | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ्‌ च उवङ्‌ च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्‌, इयङुवङौ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानाम्‌ इयङुवङौ अचि''' |</big>
 
 
Line 253 ⟶ 240:
 
<big>स्वादिगणे फलितार्थः एवं यत् अजाद्यपिति परे असंयोगपूर्वस्य उकारस्य स्थाने यण्‌-आदेशः भवति |</big>
 
 
 
<big>अजाद्यपित्सु, सर्वेषां स्वादिगणीय-धातूनां कृते '''इको यणचि''' (६.१.७७) इत्यनेन यण्‌-आदेशः प्रसक्तः; तदा तं प्रबाध्य '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन उवङ्‌ विहितः सर्वेषां धातूनां प्रसङ्गे; तदा अजन्तधातूनां कृते उवङ्‌-आदेशं प्रबाध्य '''हुश्नुवोः सार्वधातुके''' (६.४.८७) इत्यनेन पुनः यण्‌ आदिष्टः | '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यस्य अपि प्रसक्तिः अत्र इति स्मर्यतां, तदा अपित्त्वात्‌ गुणनिषेधो भवति | आहत्य अजाद्यपित्सु सूत्रक्रमः एवं भवति— '''इको यणचि''' (६.१.७७) → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) → '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) → '''हुश्नुवोः सार्वधातुके''' (६.४.८७) |</big>
Line 263 ⟶ 248:
 
<big>b) '''<u>द्वितीयभेदः</u>'''—परस्मैपदे लोटि मध्यमपुरुषैकवचने, '''सेर्ह्यपिच्च''' (३.४.८७) इत्यनेन सि-स्थाने हि-आदेशः | तदा सामान्यनियमः एवं यत्‌ अङ्गम्‌ अदन्तं चेत्‌ '''अतो हेः''' (६.४.१०५) इत्यनेन हि-लोपः [वद + हि → वद], अङ्गम्‌ अनदन्तं चेत्‌ हि-लोपः न [शक्नु + हि → शक्नुहि] | परन्तु उकारान्ताङ्गं चेत्‌, अपि च अन्त्यः उकारः असंयोगपूर्वः चेत्, तर्हि तत्र अङ्गम्‌ अनदन्तं सत्यपि हि-लोपः भवति | सारांशत्वेन हलन्तधातुभ्यः 'हि' तिष्ठति यथासामान्यम्‌; अपवादे अजन्तधातुभ्यः हि-लोपः [चिनु + हि → चिनु] |</big>
 
 
 
<big>'''उतश्च प्रत्ययादसंयोगपूर्वात्''' (६.४.१०६) = प्रत्ययावयव-उकारात्‌ प्राक्‌ संयोगः नास्ति चेत्‌, परस्य हि-प्रत्ययस्य लुक्‌ (लोपः) भवति | न विद्यते पूर्वः संयोगः यस्मात्‌, सः असंयोगपूर्वः, बहुव्रीहिः; तस्मात्‌ असंयोगपूर्वात्‌ | उतः पञ्चम्यन्तं, च अव्ययपदं, प्रत्ययात्‌ पञ्चम्यन्तम्‌, असंयोगपूर्वात्‌ पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रेम् | '''चिणो लुक्‌''' (६.४.१०४) इत्यस्मात्‌ '''लुक्‌''' इत्यस्य अनुवृत्तिः | '''अतो हेः''' (६.४.१०५) इत्यस्मात्‌ '''हेः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''असंयोगपूर्वात्‌ उतः प्रत्ययात्‌ अङ्गात्‌ च हेः लुक्‌''' |</big>
Line 272 ⟶ 255:
 
 
<big>'''लोपश्चास्यान्यतरस्यां म्वोः''' (६.४.१०७) = असंयोगपूर्वस्य प्रत्ययावयव-उकारस्य विकल्पेन लोपो भवति वकारमकारादौ प्रत्यये परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते उकारः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्ते उकारस्य लोपः, न तु पूर्णाङ्गस्य | 'अस्य' इत्यनेन पूर्वतनसूत्रे स्थितस्य '''"असंयोगपूर्वस्य प्रत्ययस्य उतः"''' इत्यस्य उल्लेखः | म्‌ च व्‌ च तयोरितरेतरद्वन्द्वः म्वौ, तयोः म्वोः | लोपः प्रथमान्तं, च अव्ययपदम्‌, अन्यतरस्यां सप्तम्यन्तं, म्वोः सप्तम्यन्त्म्‌, अनेकपदमिदं सूत्रम्‌ | '''उतश्च प्रत्ययादसंयोगपूर्वात्''' (६.४.१०६) इत्यस्य पूर्णतया अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अस्य असंयोगपूवस्यअसंयोगपूर्वस्य प्रत्ययस्य उतः अङ्गस्य लोपः च म्वोः अन्यतरस्याम्‌''' |</big>
 
 
Line 292 ⟶ 275:
 
<big>A. <u>हलन्तधातुषु शक्‌-धातुः</u></big>
 
 
 
<big>शक् + श्नु → शक् + नु → शक्नु इत्यङ्गम्‌ | अधः सर्वत्र शक्नु इत्यङ्गं स्वीकृत्य कार्याणि प्रवर्तनीयानि |</big>
Line 326 ⟶ 307:
 
<big>चि + श्नु → चि + नु → गुणस्य प्रसक्तिः, तदा निषेधः → चिनु इत्यङ्गम्‌ | अधः सर्वत्र चिनु इत्यङ्गं स्वीकृत्य कार्याणि प्रवर्तनीयानि |</big>
 
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
Line 347 ⟶ 326:
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
 
<big><u>रूपाणि</u></big>
Line 365 ⟶ 342:
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
 
<big><u>रूपाणि</u></big>
Line 387 ⟶ 362:
 
<big>अधुना अभ्यासः अपेक्षते | अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययान्‌ पुरतः स्थापयित्वा एषां तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारयन्तु—</big>
 
 
 
<big><u>स्वादिगणीयाः धातवः</u></big>
Line 402 ⟶ 375:
<big>षिञ्‌ बन्धने → सि → सिनु → सिनोति/सिनुते</big>
 
<big>शि‍ञ्‌ निधानेनिशाने → शि → शिनु → शिनोति/शिनुते</big>
 
<big>डुमिञ्‌ प्रक्षेपणे → मि → मिनु → मिनोति/मिनुते</big>
 
<big>हिञ्‌हि गतौ वृद्धौ → हि → हिनु → हिनोति/हिनुते</big>
 
<big>रि हिंसायाम्‌ → रि → रिणु → रिणोति</big>
Line 468 ⟶ 441:
<big>ञिधृषा प्रागल्भ्ये → धृष्‌ → धृष्णु → धृष्णोति</big>
 
<big>राध संस्क्द्धौसंसिद्धौ → राध्‌ → राध्नु → राध्नोति</big>
 
<big>साध संस्क्द्धौसंसिद्धौ → साध्‌ → साध्नु → साध्नोति</big>
 
<big>आपॢ व्याप्तौ (व्याप्तः भवति, प्राप्तः भवति) → आप्‌ → आप्नु → आप्नोति</big>
Line 476 ⟶ 449:
<big>दम्भु दम्भने (हिंसायाम्‌) → दम्भ्‌ → दभ्नु → दभ्नोति | दम्भु अनिदित्‌ धातुः '''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) इत्यनेन किति ङिति प्रत्यये परे नकारलोपः | श्नु-प्रत्ययः ङिद्वत्‌ |</big>
 
<big>दाशृदाश हिंसायाम्‌ → दाश्‌ → दाश्नु → दाश्नोति</big>
 
 
<big>'''*क्षुभ्नादिषु च''' (८.४.३९) = क्षुभ्नादिगणे पठितानां शब्दानां नकारस्य स्थाने णकारादेशो न भवति | क्षुभ्ना आदिर्येषां ते क्षुभ्नादयः, तेषु क्षुभ्नादिषु | क्षुभ्नादिषु सप्तम्यम्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''रषाभ्यां नो णः समानपदे''' (८.४.१) इत्यस्मात्‌ '''नः''', '''णः''' इत्यनयोः अनुवृत्तिः | '''न''' '''भाभूपूकमिगमिप्यायीवेपाम्‌''' (८.४.३४) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''क्षुभ्नादिषु च नः णः न संहितायाम्‌''' |</big>
 
 
<big>श्रु श्रवणे → श्रु → शृणु → शृणोति</big>
 
 
 
<big>श्रु-धातुः भ्वादिगणे स्थापितः धातुपाठे, किञ्च व्यावहारिकत्वेन स्वादीगणीयः एव | कर्त्रर्थे सार्वधातुके परे, श्रु-धातोः शृ इति धात्वादेशो भवति |</big>
Line 496 ⟶ 467:
 
 
<big>Swarup – June 2013 (updated October 2015, April 2017)</big>
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/b1/b115/%E0%A5%A8_-_%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A4%83_%28c%2983.pdf २ - स्वादिगणः (c)]
 
 
 
 
<big>Swarup – June 2013 (updated October 2015, April 2017)</big>
page_and_link_managers, Administrators
5,094

edits