6---sArvadhAtukaprakaraNam-anadantam-aGgam/02a---svAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 400:
<big>षुञ्‌ अभिषवे → सु → सुनु → सुनोति/सुनुते</big>
 
 
<big><u>ऋकारान्ताः</u></big>
 
<big>कृञ्‌ हिंसायाम्‌ → कृ → कृणु → कृणोति/कृणुते</big>
Line 414 ⟶ 415:
<big>वृञ्‌ वरणे → वृ → वृणु → वृणोति/वृणुते</big>
 
 
<big><u>हलन्तधातवः</u></big>
 
<big>शक्लृ शक्तौ → शक्‌ → शक्नु → शक्नोति</big>
Line 446 ⟶ 448:
<big>आपॢ व्याप्तौ (व्याप्तः भवति, प्राप्तः भवति) → आप्‌ → आप्नु → आप्नोति</big>
 
<big>दम्भु दम्भने (हिंसायाम्‌) → दम्भ्‌ → दभ्नु → दभ्नोति | दम्भु अनिदित्‌ धातुः '''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) इत्यनेन किति ङिति प्रत्यये परे नकारलोपः | श्नु-प्रत्ययः ङिद्वत्‌ |</big>
 
<big>दाशृ हिंसायाम्‌ → दाश्‌ → दाश्नु → दाश्नोति</big>
 
 
<big>'''*क्षुभ्नादिषु च''' (८.४.३९) = क्षुभ्नादिगणे पठितानां शब्दानां नकारस्य स्थाने णकारादेशो न भवति | क्षुभ्ना आदिर्येषां ते क्षुभ्नादयः, तेषु क्षुभ्नादिषु | क्षुभ्नादिषु सप्तम्यम्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''रषाभ्यां नो णः समानपदे''' (८.४.१) इत्यस्मात्‌ '''नः''', '''णः''' इत्यनयोः अनुवृत्तिः | '''भाभूपूकमिगमिप्यायीवेपाम्‌''' (८.४.३४) इत्यस्मात्‌ '''''' इत्यस्य अनुवृत्तिः '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''क्षुभ्नादिषु च नः णः न संहितायाम्‌''' |</big>
 
<big>श्रु श्रवणे → श्रु → शृणु → शृणोति</big>
 
 
<big>श्रु-धातुः भ्वादिगणे स्थापितः धातुपाठे, किञ्च व्यावहारिकत्वेन स्वादीगणीयः एव | कर्त्रर्थे सार्वधातुके परे, श्रु-धातोः शृ इति धात्वादेशो भवति |</big>
 
 
<big>'''श्रुवः शृ च''' (३.१.७४) = कर्त्रर्थक-सार्वधातुकप्रत्यये परे श्रु-धातोः शृ इति धात्वादेशश्च, श्नु-प्रत्ययः धातुतः विहितश्च | श्रुवः पञ्चम्यन्तं, शृ लुप्तप्रथमाकं पदं, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''स्वादिभ्यः श्नुः''' (३.१.७३) इत्यस्मात्‌ '''श्नुः''' इत्यस्य अनुवृत्तिः | '''कर्तरि शप्‌''' (३.१.६८) इत्यस्मात्‌ '''कर्तरि''' इत्यस्य अनुवृत्तिः; '''सार्वधातुके यक्‌''' (३.१.६७) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः; '''धातोरनेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''श्रुवः धातोः शृ च श्नुः प्रत्ययः परश्च कर्तरि सार्वधातुके''' |</big>
 
<big>इति स्वादिगणे समग्रं तिङ्‌-सम्बद्धं सार्वधातुकप्रकरण-चिन्तनं समाप्तम्‌ | परस्मैपदे केवलं धातुद्वयं ज्ञातव्यम्‌— अजन्तधातुः चि, हलन्तधातुः शक्‌; आत्मनेपदे अजन्तधातुः चि, हलन्तधातुः अश्‌ | अनेन सर्वेषां चतुस्त्रिंशतः धातूनां सार्वधातुकलकाररूपाणि ज्ञातानि |</big>
 
 
<big>Swarup – June 2013 (updated October 2015, April 2017)</big>
deletepagepermission, page_and_link_managers, teachers
1,046

edits