6---sArvadhAtukaprakaraNam-anadantam-aGgam/02a---svAdigaNaH: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/02a---svAdigaNaH (view source)
Revision as of 19:44, 12 May 2021
, 3 years agono edit summary
No edit summary |
No edit summary |
||
Line 79:
<big>२. <u>तिङ्संज्ञकप्रत्यय-सिद्धिः</u></big>
Line 85:
<big> <u>परस्मैपदम्</u> <u>आत्मनेपदम्</u></big>
<big> <u>लट्-लकारः</u></big>
<big> '''ति''' तः अन्ति ते आते अते</big>
Line 95:
<big> '''मि''' वः मः ए वहे महे</big>
<big> लोट्-लकारः</big>▼
▲<big> <u>लोट्-लकारः</u></big>
<big> '''तु''', तात् ताम् अन्तु ताम् आताम् अताम्</big>
Line 101 ⟶ 103:
<big> हि, तात् तम् त स्व आथाम् ध्वम्</big>
<big> '''आनि आव आम
<big> लङ्-लकारः</big>▼
▲<big> <u>लङ्-लकारः</u></big>
<big> '''त्''' ताम् अन् त आताम् अत</big>
Line 111 ⟶ 115:
<big> '''अम्''' व म इ वहि महि</big>
<big> विधिलिङ्-लकारः</big>▼
▲<big> <u>विधिलिङ्-लकारः</u></big>
<big> यात् याताम् युः ईत ईयाताम् ईरन्</big>
Line 118 ⟶ 124:
<big> याम् याव याम ईय ईवहि ईमहि</big>
<big>३. <u>तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्</u></big>
Line 243 ⟶ 251:
<big>अजाद्यपित्सु, सर्वेषां स्वादिगणीय-धातूनां कृते '''इको यणचि''' (६.१.७७) इत्यनेन यण्-आदेशः प्रसक्तः; तदा तं प्रबाध्य '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन उवङ् विहितः सर्वेषां धातूनां प्रसङ्गे; तदा अजन्तधातूनां कृते उवङ्-आदेशं प्रबाध्य '''हुश्नुवोः सार्वधातुके''' (६.४.८७) इत्यनेन पुनः यण् आदिष्टः | '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यस्य अपि प्रसक्तिः अत्र इति स्मर्यतां, तदा अपित्त्वात् गुणनिषेधो भवति | आहत्य अजाद्यपित्सु सूत्रक्रमः एवं भवति— '''इको यणचि''' (६.१.७७) → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) → '''सार्वधातुकमपित्''' (१.२.४), '''क्क्ङिति च''' (१.१.५) → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) → '''हुश्नुवोः सार्वधातुके''' (६.४.८७) |</big>
Line 249 ⟶ 256:
<big>b) '''<u>द्वितीयभेदः</u>'''—परस्मैपदे लोटि मध्यमपुरुषैकवचने, '''सेर्ह्यपिच्च''' (३.४.८७) इत्यनेन सि-स्थाने हि-आदेशः | तदा सामान्यनियमः एवं यत् अङ्गम् अदन्तं चेत् '''अतो हेः''' (६.४.१०५) इत्यनेन हि-लोपः [वद + हि → वद], अङ्गम् अनदन्तं चेत् हि-लोपः न [शक्नु + हि → शक्नुहि] | परन्तु उकारान्ताङ्गं चेत्, अपि च अन्त्यः उकारः असंयोगपूर्वः चेत्, तर्हि तत्र अङ्गम् अनदन्तं सत्यपि हि-लोपः भवति | सारांशत्वेन हलन्तधातुभ्यः 'हि' तिष्ठति यथासामान्यम्; अपवादे अजन्तधातुभ्यः हि-लोपः [चिनु + हि → चिनु] |</big>
Line 255 ⟶ 263:
<big>c) '''<u>तृतीयभेदः</u>'''—हलाद्यपित्सु किमपि कार्यं नास्ति इति सामान्यनियमः | हलन्तधातूनां कृते अस्य नियमस्य पालनं सर्वत्र; अजन्तधातूनां कृते, हलाद्यपित् प्रत्ययः मकारादिः वकारादिः चेत्, विकल्पेन अङ्गान्तस्य उकारस्य लोपो भवति | चिनु + वः → चिन्वः/चिनुवः |</big>
Line 265 ⟶ 273:
<big><u>'''चतूर्णां सार्वधातुकलकाराणां तिङन्तरूपाणि'''</u></big>
<big>सर्वप्रथमं धातुः अजन्तो वा हलन्तो वा इति जानातु | तदा सर्वत्र अस्माकं चिन्तनक्रमः एवम्—</big>
Line 275 ⟶ 284:
<big>तावत् एव अस्ति; अनयोः प्रश्नयोः उत्तरं जानीमः चेत्, सर्वाणि रूपाणि जानीमः | अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययान् पुरतः स्थापयित्वा (अथवा ज्ञात्वा) शक्, चि (परस्मैपदे), अश्, चि (आत्मनेपदे) इत्येषां तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारयतु |</big>
<big>A. <u>हलन्तधातुषु शक्-धातुः</u></big>
Line 288 ⟶ 299:
<big>'''आदेशप्रत्यययोः''' (८.३.५९) = इण्-प्रत्याहारात् कवर्गीयात् च आदेशरूपी अथवा प्रत्ययावयवः अपदान्तः सकारः अस्ति चेत्, तस्य सकारस्य स्थाने षकारादेशो भवति; नुम्, विसर्गः, शर्-प्रत्याहारस्थ-वर्णः च मध्ये सन्ति चेदपि कार्यं भवति | अस्य कार्यस्य नाम षत्वविधिः | इण्-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं '''स्थानेऽन्तरतमः''' इत्यनेन ट्, ठ्, ड्, ढ्, ण्, ष् इत्येषु मूर्धन्यवर्णेषु सकारेण षकारस्य नैकट्यम्, अतः षकारः एव आदिष्टः भवति | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम् एकपदमिदं सूत्रम् | '''सहे साडः सः''' (८.३.५६) इत्यस्मात् '''सः''' इत्यस्य अनुवृत्तिः | '''नुंविसर्जनीयशर्व्यवायेऽपि''' (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | '''इण्कोः''' (८.३.५७), '''अपदान्तस्य मूर्धन्यः''' (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि''' |</big>
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
Line 303 ⟶ 316:
<big>B. <u>अजन्तधातुषु चि-धातुः</u> उभयपदी | अत्र परस्मैपदे |</big>
<big>चि + श्नु → चि + नु → गुणस्य प्रसक्तिः, तदा निषेधः → चिनु इत्यङ्गम् | अधः सर्वत्र चिनु इत्यङ्गं स्वीकृत्य कार्याणि प्रवर्तनीयानि |</big>
Line 323 ⟶ 338:
<big>C. <u>हलन्तधातुषु अश्-धातुः</u> आत्मनेपदे | [अश्नु इति अङ्गम्] (अश् व्याप्तौ)</big>
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
Line 339 ⟶ 356:
<big>D. <u>अजन्तधातुषु चि-धातुः</u> उभयपदी | अत्र आत्मनेपदे | [चिनु इति अङ्गम्]</big>
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
Line 417 ⟶ 436:
<big><u>हलन्तधातवः</u></big>
<big>शक्लृ शक्तौ → शक् → शक्नु → शक्नोति</big>
Line 454 ⟶ 474:
<big>'''*क्षुभ्नादिषु च''' (८.४.३९) = क्षुभ्नादिगणे पठितानां शब्दानां नकारस्य स्थाने णकारादेशो न भवति | क्षुभ्ना आदिर्येषां ते क्षुभ्नादयः, तेषु क्षुभ्नादिषु | क्षुभ्नादिषु सप्तम्यम्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''रषाभ्यां नो णः समानपदे''' (८.४.१) इत्यस्मात् '''नः''', '''णः''' इत्यनयोः अनुवृत्तिः | '''भाभूपूकमिगमिप्यायीवेपाम्''' (८.४.३४) इत्यस्मात् '''न''' इत्यस्य अनुवृत्तिः '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''क्षुभ्नादिषु च नः णः न संहितायाम्''' |</big>
<big>श्रु श्रवणे → श्रु → शृणु → शृणोति</big>
Line 462 ⟶ 484:
<big>'''श्रुवः शृ च''' (३.१.७४) = कर्त्रर्थक-सार्वधातुकप्रत्यये परे श्रु-धातोः शृ इति धात्वादेशश्च, श्नु-प्रत्ययः धातुतः विहितश्च | श्रुवः पञ्चम्यन्तं, शृ लुप्तप्रथमाकं पदं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | '''स्वादिभ्यः श्नुः''' (३.१.७३) इत्यस्मात् '''श्नुः''' इत्यस्य अनुवृत्तिः | '''कर्तरि शप्''' (३.१.६८) इत्यस्मात् '''कर्तरि''' इत्यस्य अनुवृत्तिः; '''सार्वधातुके यक्''' (३.१.६७) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः; '''धातोरनेकाचो हलादेः क्रियासमभिहारे यङ्''' (३.१.२२) इत्यस्मात् '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''श्रुवः धातोः शृ च श्नुः प्रत्ययः परश्च कर्तरि सार्वधातुके''' |</big>
<big>इति स्वादिगणे समग्रं तिङ्-सम्बद्धं सार्वधातुकप्रकरण-चिन्तनं समाप्तम् | परस्मैपदे केवलं धातुद्वयं ज्ञातव्यम्— अजन्तधातुः चि, हलन्तधातुः शक्; आत्मनेपदे अजन्तधातुः चि, हलन्तधातुः अश् | अनेन सर्वेषां चतुस्त्रिंशतः धातूनां सार्वधातुकलकाररूपाणि ज्ञातानि |</big>
<big>Swarup – June 2013 (updated October 2015, April 2017)</big>
'''start here...'''
<big>---------------------------------</big>
|