6---sArvadhAtukaprakaraNam-anadantam-aGgam/06A---juhotyAdigaNe-ajantadhAtavaH: Difference between revisions

no edit summary
m (Protected "06A - जुहोत्यादिगणे अजन्तधातवः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
Line 109:
 
<big>'''दाश्वान्साह्वान्मीढ्वांश्च''' (६.१.१२)</big>
 
 
 
<big>'''एकाचो द्वे प्रथमस्य''' (६.१.१) = अधिकारसूत्रं— प्रथमस्य एकाच्‌-भागस्य द्वित्वं भवति | जागृ → जा जागृ | पच्‌ → पच्‌ पच्‌ | इ → इ इ | षष्ठाध्यायस्य प्रदमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | एकाचः षष्ठ्यन्तं, द्वे प्रथमान्तं, प्रथमस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''प्रथमस्य एकाचः द्वे''' |</big>
 
 
<big>'''अजादेर्द्वितीयस्य''' (६.१.२) | अधिकारसूत्रम्‌— अजादिधातोः द्वितीयस्य एकाच्‌-भागस्य द्वित्वं भवति | ऊर्णु → ऊर्णु नु | षष्ठाध्यायस्य प्रदमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | अजादेः षष्ठ्यन्तं, द्वितीयस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''अजादेः द्वितीयस्य''' ('''एकाचः द्वे''') |</big>
 
 
<big>बहुत्र धातुः एकाच्‌ एव; तथा भवति चेत्‌ समग्रधातोरेव द्वित्वं भवति | यथा अस्मिन् गणे मा → मामा, हा → हाहा | धातुः अनेकाच्‌ चेत्‌, अपि च हलादिः इति चेत्‌ '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यनेन प्रथमस्य एकाच्‌-भागस्य द्वित्वं भवति | धातुः अनेकाच्‌ चेत्‌, अपि च अजादिः इति चेत्‌ '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वं भवति | '''एकाच्‌-भागः''' इत्युक्ते यदा हि प्रथमः अच्‌-वर्णः आयाति, स च वर्णः भागस्य अन्तो भवति | नाम, स्वरवर्णः भागस्य अन्तिमवर्णो भवति | अग्रिमवर्णः अग्रिमभागस्य प्रथमवर्णः |</big>
 
 
<big>धातुः अनेकाच्‌ चेत्‌, अपि च हलादिः इति चेत्‌</big>
 
<big>यथा भू + य ( यङ्प्रत्ययः) → '''भूय''' इत्यस्य '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातुसंज्ञा → '''सन्यङोः''' (६.१.९) इत्यनेन द्वित्वम्‌ → '''भूय''' इति धातुः अनेकाच्‌, हलादिः च अतः प्रथमस्य एकाच्‌-भागस्य द्वित्वम्‌ → ऊ-कारः स्वरः अतः स च ऊकारः प्रथमभागस्य अन्तिमवर्ग्णः → 'भू' इति प्रथमभागः, तस्य च द्वित्वम्‌ → भू भू य</big>
 
 
<big>किन्तु धातुः अजादिः अस्ति चेत् '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वं भवति—</big>
 
<big>अश्‌ य ( यङ्प्रत्ययः) → '''अश्य''' इत्यस्य '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातुसंज्ञा → '''सन्यङोः''' (६.१.९) इत्यनेन अजादेः द्वितीयस्य द्वित्वम्‌ → अश्य इति धातौ '''अ'''श्य इत्यस्य प्रथमः अ-कारः स्वरः अतः स च अकारः प्रथमभागस्य अन्तिमवर्ग्णः → 'श्य' इति द्वितीयभागः, तस्य च द्वित्वम्‌ → अ श्य श्य</big>
 
 
<big>'''न न्द्राः संयोगादयः''' (६.१.३) = अचः पराः संयोगादयः नदराः द्विर्न भवन्ति | न्‌ च द्‍ च रश्च तेषामितरेतरद्वन्द्वो न्द्राः | संयोगस्य आदयः, संयोगादयः षष्ठीतत्पुरुषः | न अव्ययपदं, न्द्राः प्रथमान्तं, संयोगादयः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यसमत्‌ '''अजादेः''' इत्यस्य अनुवृत्तिः | अच्‌ चासौ आदिश्च अजादिः, तस्मात्‌ अजादेः कर्मधारयः | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यसमत्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अजादेः संयोगादयः न्द्राः''' '''न द्वे''' |</big>
 
 
<big>यथा—</big>
 
<big>ऊर्णु → ऊ इति प्रथमः एकाच्‌-भागः, र्णु इति द्वितीयः एकाच्‌-भागः → '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वम्‌ → '''न न्द्राः संयोगादयः''' (६.१.३) इत्यनेन संयोगादि-रेफस्य द्वित्वं न भवति अतः 'नु' इत्यस्य एव द्वित्वम्‌ → ऊर्णु नु</big>
 
 
<big>उन्द्‌ + सन्‌ → इडागमः, षत्वादेशः → उन्दिष → त्रयः एकाच्‌-भागाः उ, न्दि, ष → '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वम्‌ → 'न्दि' इति द्वितीयः एकाच्‌-भागः → '''न न्द्राः संयोगादयः''' (६.१.३) इत्यनेन संयोगादि-नकारस्य द्वित्वं न भवति अतः 'दि' इत्यस्य एव द्वित्वम्‌ → प्रथमः तृतीयः च एकाच्‌-भागौ यथावत्‌ तिष्ठतः → उन्दि + दि + ष → उन्दिदिष</big>
 
 
 
page_and_link_managers, Administrators
5,152

edits