6---sArvadhAtukaprakaraNam-anadantam-aGgam/06A---juhotyAdigaNe-ajantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 79:
 
 
<big>जुहोत्यादिगणे श्लुना सर्वेषां धातूनां द्वित्वं भवति | यथा दा → ददादादा, धा → दधाधाधा, भी → बिभीभीभी, हु → जुहुहुहु |</big>
 
<big>पाणिनीयव्याकरणे पञ्चसु स्थलेषु द्वित्वं भवति—श्लौ (जुहोत्यादिगणे), लिटि, चङि (लुङ्‌-लकारे), सनि, यङि च |</big>
Line 118:
 
 
<big>बहुत्र धातुः एकाच्‌ एव; तथा भवति चेत्‌ समग्रधातोरेव द्वित्वं भवति | यथा अस्मिन् गणेजुहोत्यादिगणे मा → मामा, हा → हाहा | धातुः अनेकाच्‌ चेत्‌, अपि च हलादिः इति चेत्‌ '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यनेन प्रथमस्य एकाच्‌-भागस्य द्वित्वं भवति | धातुः अनेकाच्‌ चेत्‌, अपि च अजादिः इति चेत्‌ '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वं भवति | '''एकाच्‌-भागः''' इत्युक्ते यदा हि प्रथमः अच्‌-वर्णः आयाति, स च वर्णः भागस्य अन्तो भवति | नाम, स्वरवर्णः भागस्य अन्तिमवर्णो भवति | अग्रिमवर्णः अग्रिमभागस्य प्रथमवर्णः |</big>
 
 
Line 151:
 
<big>तत्र द्वित्वस्य अनन्तरं कानिचन कार्याणि सन्ति अभ्यासे; यथा अभ्यासस्य ह्रस्वत्वम्‌, अल्पप्राणत्वं च भवति | इदं सर्वम् अभ्यासकार्यम्‌ इति उच्यते | आर्धधातुकप्रकरणे विस्तरेण परिशीलयाम (लिटि, लुङि, सनि, यङि इत्येषु) | अभ्यासकार्यस्य पुनः विभजनं भवति— सामान्याभ्यासकार्यं, विशेषाभ्यासकार्यं चेति | सामान्याभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति, सर्वेषां धातूनां कृते | विशेषाभ्यासकार्यं भवति द्वित्वस्य निमित्तम्‌ अधिकृत्य; यथा लिटि विशेषाभ्यासकार्यं, पुनः श्लौ पृथक्तया, पुनः सनि, यङि, चङि च |</big>
 
 
<big>अत्र सन्ति प्रमुख-सामान्याभ्यासकार्याणि—</big>
page_and_link_managers, Administrators
5,097

edits