page_and_link_managers, Administrators
5,097
edits
No edit summary |
No edit summary |
||
Line 149:
<big>'''उभे अभ्यस्तम्''' (६.१.५) = द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | उभे प्रथमान्तम्, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम् | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात् '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्—'''उभे द्वे अभ्यस्तम्''' |</big>
<big>तत्र द्वित्वस्य अनन्तरं कानिचन कार्याणि सन्ति अभ्यासे; यथा अभ्यासस्य ह्रस्वत्वम्, अल्पप्राणत्वं च भवति | इदं सर्वम् अभ्यासकार्यम् इति उच्यते | आर्धधातुकप्रकरणे विस्तरेण परिशीलयाम (लिटि, लुङि, सनि, यङि इत्येषु) | अभ्यासकार्यस्य पुनः विभजनं भवति— सामान्याभ्यासकार्यं, विशेषाभ्यासकार्यं चेति | सामान्याभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति, सर्वेषां धातूनां कृते | विशेषाभ्यासकार्यं भवति द्वित्वस्य निमित्तम् अधिकृत्य; यथा लिटि विशेषाभ्यासकार्यं, पुनः श्लौ पृथक्तया, पुनः सनि, यङि, चङि च |</big>
Line 169 ⟶ 170:
<big>'''ह्रस्वः''' (७.४.५९) = अभ्यासस्य अच्-वर्णः ह्रस्वः स्यात् | '''अचश्च''' (१.२.२८) इति परिभाषा-सूत्रेण यत्र कुत्रापि सूत्रेषु 'ह्रस्व', 'दीर्घ', 'प्लुत' इत्येते शब्दाः आयान्ति, तत्र 'अचः' इति शब्दः सूत्रार्थेऽपि आयाति | अतः 'ह्रस्वः' इत्युक्तौ 'ह्रस्वः अच्-वर्णः'; तथा सर्वत्र | ह्रस्वः प्रथमान्तम्, एकपदमिदं सूत्रम् | '''अत्र''' '''लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात् '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य अभ्यासस्य अचः ह्रस्वः''' |</big>
<big>खा खाद् → ख खाद्</big>
<big>नी नी → नि नी</big>
<big>लू लू → लु लू</big>
<big>से सेव् → सि सेव्</big>
<big>गो गोष्ट् → गु गोष्ट्</big>
<big>ढौ ढौक् → ढु ढौक्</big>
Line 175 ⟶ 189:
<big>*आदिमः इत्युक्तौ 'आदौ यः', न तु 'प्रथमः' | अतः अजादिधातोः द्वित्वं क्रियते चेत्, आदौ अच्-वर्णः न तु हल्-वर्णः इति कारणतः '''हलादिः शेषः''' (७.४.६०) इत्यनेन अभ्यासे सर्वेषां हल्-वर्णानां लोपो भवति | अट् → अट् अट् → अ अट् |</big>
<big>पठ् → पठ् पठ् → प्रथमः पठ् इति भागः अभ्याससंज्ञकः → '''हलादिः शेषः''' (७.४.६०) इत्यनेन अभ्यासस्य आदिमः हल् शेषः, अभ्यासे अपरेषां हलां लोपः → प पठ् | तथैव ज्ञा → ज ज्ञा | एवमेव विचारणीयम्— धन्, निज्, विष्, खाद्, धिष्, विज्, तुर्, भस् |</big>
Line 182 ⟶ 199:
<big>'''स्थानेऽन्तरतमः''' (१.१.५०) = प्रसङ्गम् अवलम्ब्य तुल्यतमः आदेशो भवति | स्थाने सप्तम्यन्तम्, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रम् |</big>
<big>कृ → कृ कृ → कर् कृ → क कृ → च कृ</big>
<big>खन् → खन् खन् → ख खन् → छ खन् → च खन्</big>
<big>'''उरत्''' (७.४.६६) = प्रत्यये परे अभ्यासस्य ऋवर्णस्य स्थाने अत्-आदेशः भवति | उः षष्ठ्यन्तम्, अत् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात् '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य अभ्यासस्य उः अत्''' |</big>▼
<big>गम् → गम् गम् → ग गम् → ज गम्</big>
<big>ग्रह् → ग्रह् ग्रह् → ग ग्रह् → ज ग्रह्</big>
<big>घृ → घृ घृ → घर् घृ → झ घृ → ज घृ</big>
<big>हृ → हृ हृ → हर् हृ → ह हृ → ज हृ</big>
<big>हस् → हस् हस् → ह हस् → झ हस् → ज हस्</big>
▲<big>'''उरत्''' (७.४.६६) =
<big>वृष् → वृष् वृष् → वृ वृष् → वर् वृष् → व वृष्</big>
<big>कृष् → कृष् कृष् → कृ कृष् → कर् कृष् → क कृष् → च कृष्</big>
<big>हृष् → हृष् हृष् → हृ हृष् → हर् हृष् → ह हृष् → ज हृष्</big>
<big>ऋकारान्तधातवः—</big>
<big>भृ → भृ भृ → भर् भृ → भ भृ → ब भृ</big>
<big>हृ → हृ हृ → हर् हृ → ह हृ → ज हृ</big>
<big>कृ → कृ कृ → कर् कृ → क कृ → च कृ</big>
<big>तॄ → तॄ तॄ → तर् तॄ → त तॄ</big>
<big>'''अभ्यासे चर्च''' (८.४.५४) = अभ्यासे झल्-स्थाने जश् चर् च आदेशौ भवतः | तत्र '''स्थानेऽन्तरतमः''' (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात् झश्-स्थाने जश् अपि च खय्-स्थाने चर् | अनुवृत्त्यर्थम् अष्टमाध्याये | अभ्यासे सप्तम्यन्तं, चर् प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | '''झलां जश् झशि''' (८.४.५३) इत्यस्मात् '''झलां, जश्''' इत्यनयोः अनुवृत्तिः | '''तयोर्यवावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''अभ्यासे झलां जश् चर् च संहितायाम्''' |</big>
<big>चर्त्वम्</big>
<big>थु थुड् → तु थुड्</big>
<big>फ फल् → प फल्</big>
<big>छु छुप् → चु छुप्</big>
<big>जश्त्वम्</big>
<big>भु भू → बु भू</big>
<big>ढु ढौक् → डु ढौक्</big>
<big>झ झर्झ् → ज झर्झ्</big>
<big>अस्माभिः ज्ञायते यत् सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति |</big>
Line 198 ⟶ 261:
<big>जुहोत्यादिगणे अपि तथा, किन्तु द्वित्वम् अभ्यासकार्यं चापि स्तः; द्वित्वस्य निमित्तं श्लु, अभ्यासस्य निमित्तं यः प्रत्ययः अभ्यस्तात्
* <big>शप् विधीयते '''कर्तरि शप्''' इत्यनेन</big>
Line 212 ⟶ 275:
<big>विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम् नास्ति यतः शप्-विकरणप्रत्ययस्य श्लुः भवति | श्लुः तु अङ्गकार्यस्य (अभ्यासकार्यस्य) निमित्तं भवति; तच्च तृतीये सोपाने क्रियते येन एकैकस्य धातोः चर्चा करणीया एकवारम् एव | तदर्थम् अभ्यासकार्यम् अपि तत्रैव |</big>
<big>२. <u>तिङ्प्रत्यय-सिद्धिः</u></big>
Line 217 ⟶ 281:
<big>जुहोत्यादिगणे अङ्गम् अनदन्तम्, अतः अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः भवन्ति | परन्तु यत्र धातुः अभ्यस्तसंज्ञकः अस्ति, तत्र तिङ्प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयं वर्तते | जुहोत्यादिगणे सर्वे धातवः अभ्यस्तसंज्ञकाः, अत्र सर्वत्र इमे द्वे कार्ये स्तः—</big>
<big>१) '''अदभ्यस्तात्''' (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्-आदेशो भवति | अत् प्रथमान्तम्, अभ्यस्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''झोऽन्तः''' (७.१.३) इत्यस्मात् '''झः''' (षष्ठ्यन्तम्) इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्''' (७.१.२) इत्यस्मात्, वचनपरिणामं कृत्वा '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत्''' |</big>
|