6---sArvadhAtukaprakaraNam-anadantam-aGgam/06A---juhotyAdigaNe-ajantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1:
 
 
<big>ध्वनिमुद्रणानि -</big>
 
<big>2017 वर्गः</big>
 
<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/103_adAdigaNaH---__juhotyAdigaNaH---paricayaH__dvitvam-abhyAsakAryam_2017-11-08.mp3 १) adAdigaNaH---जागृ_+_juhotyAdigaNaH---paricayaH_+_dvitvam-abhyAsakAryam_2017-11-08]</big>
 
<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/104_juhotyAdigaNaH---_______2017-11-15.mp3 २) juhotyAdigaNaH---माङ्‌_+_ओहाङ्‌_+_गा_+_ओहाक्‌_2017-11-15]  </big>
 
<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/105_juhotyAdigaNaH---___2017-11-22.mp3 ३) juhotyAdigaNaH---डुदाञ्‌_+_डुधाञ्‌_2017-11-22]  </big>
 
<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/106_juhotyAdigaNaH---___2017-11-29.mp3 ४) juhotyAdigaNaH---डुदाञ्‌_+_डुधाञ्‌_2017-11-29]   </big>
 
<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/107_juhotyAdigaNaH----_______2017-12-06.mp3 ५) juhotyAdigaNaH---ञिभी-भये_+_कि_+_ह्री_+_हु_2017-12-06]  </big>
 
<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/108_juhotyAdigaNaH---__RukArAntadhAtavaH_2017-12-13.mp3 ६) juhotyAdigaNaH---हु_+_RukArAntadhAtavaH_2017-12-13]</big>
 
<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/109_juhotyAdigaNaH---___2017-12-20.mp3 ७) juhotyAdigaNaH---ऋकारान्तधातवः_+_पॄ_2017-12-20]     </big>
 
<big>2015 वर्गः</big>
 
<big>[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/65_juhotyAdigaNaH-1_paricayaH__dvitvaprakaraNam__abhyAsakAryam_2016-04-20.mp3 1) juhotyAdigaNaH-1_paricayaH_+_dvitvaprakaraNam_+_abhyAsakAryam_2016-04-20]</big>
 
<big>[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/66_juhotyadiganah-2_akarantadhatavah---1234_2016-04-27.mp3 2) juhotyAdigaNaH-2_AkArAntadhAtavaH---(1) माङ्‌ माने = मा, (2) ओहाङ्‌ गतौ = हा, (3) ओहाक्‌ त्यागे = हा, (4) गा स्तुतौ = गा_2016-04-27]</big>
 
<big>[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/67_juhotyAdigaNaH-3_abhyAsakArya-cintanam__dA-dhA-dhAtU_2016-05-04.mp3 3) juhotyAdigaNaH-3_abhyAsakArya-cintanam_+_dA-dhA-dhAtU_2016-05-04]  </big>
 
<big>[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/68_juhotyAdigaNaH-4_samagraM-cintanam_2016-05-08.mp3 4) juhotyAdigaNaH-4_samagraM-cintanam_2016-05-08]</big>
 
<big>[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/69_juhotyAdigaNaH-5_iganta-dhAtavaH_2016-05-15.mp3 5) juhotyAdigaNaH-5_iganta-dhAtavaH_2016-05-15]  </big>
 
<big>6) juhotyAdigaNaH-6_ॠ-कारान्तः-पॄ-धातुः_2016-05-22</big>
 
<big>[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/70_juhotyAdigaNaH-6_---_2016-05-22.mp3 6) juhotyAdigaNaH-6_ॠ-कारान्तः-पॄ-धातुः_2016-05-22]</big>
 
<big>जुहोत्यादिगणे २४ धातवः सन्ति | यथा सर्वेषु गणेषु, कर्त्रर्थके सार्वधातुकप्रत्यये परे, कर्तरि शप्‌ इत्यनेन शप्‌ विहितः अस्ति | तदा जुहोत्यादिभ्यः श्लुः (२.४.७५) इत्यनेन शपः श्लु (लोपः) भवति | अतः जुहोत्यादिगणे कोऽपि विकरणप्रत्ययः न दृश्यते |</big>
 
 
<big>जुहोत्यादिभ्यः श्लुः (२.४.७५) = जुहोत्यादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप्‌-प्रत्ययस्य श्लु (लोपः) भवति | जुहोतिरादिः येषां ते जुहोत्यादयः, तेभ्यः जुहोत्यादिभ्यः | जुहोत्यादिभ्यः पञ्चम्यन्तं, श्लुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अदिप्रभृतिभ्यः शपः (२.४.७२) इत्यस्मात्‌ शपः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं—जुहोत्यादिभ्यः शपः श्लुः |</big>
 
<big>अत्र प्रश्नः उदेति यत्‌ लोप-श्लु‌ इत्यनयोः भेदः कः ? द्वाभ्यां प्रत्ययस्य अदर्शनम्‌ इति तु अस्ति | लोपः इत्युक्ते प्रत्ययः अदृष्टः, परन्तु अदृष्टे सत्यपि कार्यक्षेत्रे लुप्तस्य प्रभावः तदानीमपि अस्ति | एतदर्थं सूत्रम्‌ अस्ति प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) |</big>
 
 
<big>प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) = प्रत्यये लुप्ते सति, प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्‌ | प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन्‌ प्रत्ययलोपे | प्रत्ययस्य लक्षणं निमित्तं यस्य तत्‌ प्रत्ययलक्षणम्‌, बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्— प्रत्ययलोपे प्रत्ययलक्षणम्‌ |</big>
 
<big>तर्हि प्रत्यये लुप्ते तदाश्रितं कार्यं भवति | श्लु‌ न तथा; प्रत्ययस्य श्लु‌ भवति चेत्‌ न केवलं प्रत्ययः गच्छति, अपि तु तदाश्रितं कार्यमपि न स्यात्‌ | तद्विधायकं सूत्रम्‌ अस्ति न लुमताऽङ्गस्य (१.१.६३) |</big>
 
 
<big>न लुमताऽङ्गस्य (१.१.६३) = यस्मिन्‌ शब्दे 'लु' अस्ति, तेन शब्देन प्रत्ययादर्शनं विहितं चेत्‌, सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात्‌ | लुः अस्य अस्ति इति लुमान्‌, तेन लुमता | न अव्ययपदं, लुमता तृतीयान्तम्‌, अङ्गस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न |</big>
 
<big>अस्मिन्‌ सूत्रे लुमता‌, लुमत्‌ इति प्रातिपदिकस्य तृतीयाविभक्त्यन्तं रूपम्‌ | इदं मतुप्‌-प्रत्ययान्तं; प्रथमाविभक्तौ लुमान्‌ | मतुप्‌-प्रत्ययस्य अर्थः अस्य अस्मिन्‌ वा; यथा बुद्धिमान्‌ इत्युक्ते बुद्धिः अस्य अस्मिन्‌ वा, सः बुद्धिमान्‌ | तर्हि 'लु' अस्य अस्मिन्‌ वा, सः लुमान्‌ | व्याकरणे त्रयः लुमन्तः सन्ति‌— लुक्‌, श्लु, लुप्‌ चेति | इदं सूत्रं वक्ति यत्‌ येन अदर्शनं भवति, सः लुमान्‌ अस्ति चेत्‌, तर्हि प्रत्ययलोपे प्रत्ययलक्षणं न भवति | अनुवृत्ति-सहितसूत्रं तथैव— (यदा) लुमता प्रत्ययलोपे (तदा) अङ्गस्य प्रत्ययलक्षणं न | अतः न लुमताऽङ्गस्य (१.१.६३) इति सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यस्य बाधकसूत्रम्‌ | तर्हि अत्र सारांशः एवं यत्‌ श्लु‌ इत्यनेन कस्यचित्‌ प्रत्ययस्य अदर्शनं भवति चेत्‌, यस्मात्‌ अङ्गात्‌ सः प्रत्ययः लुप्तः जातः, तस्मिन्‌ अङ्गे सः लुप्तप्रत्ययः तदानीम्‌ अङ्गकार्यस्य निमित्तं न भवितुम्‌ अर्हति |</big>
 
 
<big>आहत्य लोपप्रकरणे चत्वारि सूत्राणि | क्रमेण—</big>
Line 55 ⟶ 60:
 
<big>न लुमताऽङ्गस्य (१.१.६३) = लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात्‌ |</big>
 
 
<big>जुहोत्यादिगणे विकरणप्रत्ययः शप्‌ आसीत्‌, अनन्तरं तस्य श्लु‌ अभवत्‌ | लुमता शपः अदर्शनं जातम्‌, अतः धात्वङ्गे शप्‌-निमित्तकम्‌ अङ्गकार्यं नार्हम्‌ |</big>
 
<big>अधुना नूतनप्रश्नः उदेति यत्‌ अदादिगणे लुक्‌ अपि लुमान्‌ अस्ति, जुहोत्यादिगणे श्लु अपि लुमान्‌ | द्वयमपि लुमान्‌ चेत्‌, द्वयोः भेदः कः ? वस्तुतः द्वयोः कुत्रचित्‌ साम्यं, कुत्रचित्‌ च भेदः | साम्यं अस्मिन्‌, यत्‌ लुमान्‌ सन्‌ प्रत्ययलक्षणं न भवति | पुनः भेदः, यतोहि विशिष्टसूत्राणि भवन्ति लुकः कृते श्लोः कृते च | यथा अदादिगणे उतो वृद्धिर्लुकि हलि इति सूत्रम्‌ अस्माभिः दृष्टं, येन गुणं प्रबाध्य वृद्धिर्भवति | श्लु इत्यनेन तादृशं कार्यं न प्राप्यते | किन्तु श्लोः विशिष्टं कार्यमपि अस्ति, यत्‌ लुक् इत्यनेन न सिध्यति | तत्र प्रमुखं कार्यम्‌ इदम्‌—</big>
 
 
<big>श्लौ (६.१.१०) = धातोः द्वित्वं भवति श्लौ परे | श्लौ सप्तम्यन्तम्‌; एकं पदमिदं सूत्रम्‌ | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात्‌ द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— धातोः द्वे श्लौ |</big>
 
<big>जुहोत्यादिगणे श्लुना सर्वेषां धातूनां द्वित्वं भवति | यथा दा → ददा, धा → दधा, भी → बिभी, हु → जुहु |</big>
 
 
<big>पाणिनीयव्याकरणे पञ्चसु स्थलेषु द्वित्वं भवति—श्लौ (जुहोत्यादिगणे), लिटि, चङि (लुङ्‌-लकारे), सनि, यङि च |</big>
 
 
 
<big>अत्रास्ति द्वित्वप्रकरणम्‌—</big>
 
 
<big>एकाचो द्वे प्रथमस्य (६.१.१)</big>
Line 91 ⟶ 102:
 
<big>दाश्वान्साह्वान्मीढ्वांश्च (६.१.१२)</big>
 
 
<big>द्वित्वे जाते प्रथभागस्य नाम अभ्यासः, मिलित्वा द्वयोर्नाम अभ्यस्तम्‌ |</big>
 
<big>पूर्वोऽभ्यासः (६.१.४) = द्वित्वानन्तरं, यस्मिन्‌ द्विवारम्‌ उच्चारणं जातं तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्‌, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात्‌ द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं—पूर्वः अभ्यासः द्वयोः |</big>
 
 
<big>उभे अभ्यस्तम् (६.१.५) = द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | उभे प्रथमान्तम्‌, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात्‌ द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—उभे द्वे अभ्यस्तम् |</big>
 
<big>तत्र द्वित्वस्य अनन्तरं कानिचन कार्याणि सन्ति अभ्यासे; यथा अभ्यासस्य ह्रस्वत्वम्‌, अल्पप्राणत्वं च भवति | इदं सर्वम् अभ्यासकार्यम्‌ इति उच्यते | आर्धधातुकप्रकरणे विस्तरेण परिशीलयाम (लिटि, लुङि, सनि, यङि इत्येषु) | अभ्यासकार्यस्य पुनः विभजनं भवति— सामान्याभ्यासकार्यं, विशेषाभ्यासकार्यं चेति | सामान्याभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति, सर्वेषां धातूनां कृते | विशेषाभ्यासकार्यं भवति द्वित्वस्य निमित्तम्‌ अधिकृत्य; यथा लिटि विशेषाभ्यासकार्यं, पुनः श्लौ पृथक्तया, पुनः सनि, यङि, चङि च |</big>
 
 
<big>अत्र सन्ति प्रमुख-सामान्याभ्यासकार्याणि—</big>
Line 113 ⟶ 127:
 
<big>अभ्यासे चर्च (८.४.५४)</big>
 
 
<big>ह्रस्वः (७.४.५९) = अभ्यासस्य अच्‌-वर्णः ह्रस्वः स्यात्‌ | अचश्च (१.२.२८) इति परिभाषा-सूत्रेण यत्र कुत्रापि सूत्रेषु 'ह्रस्व', 'दीर्घ', 'प्लुत' इत्येते शब्दाः आयान्ति, तत्र 'अचः' इति शब्दः सूत्रार्थेऽपि आयाति | अतः 'ह्रस्वः' इत्युक्तौ 'ह्रस्वः अच्‌-वर्णः'; तथा सर्वत्र | ह्रस्वः प्रथमान्तम्‌, एकपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अभ्यासस्य अचः ह्रस्वः |</big>
 
<big>हलादिः शेषः (७.४.६०) = अभ्यासस्य आदिमः* हल्‌ शेषः, अभ्यासे अपरेषां हलां लोपः | हल्‌ प्रथमान्तम्‌, आदिः प्रथमान्तं, शेषः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— (अङ्गस्य) अभ्यासस्य हलादिः शेषः‌ |</big>
 
 
<big>*आदिमः इत्युक्तौ 'आदौ यः', न तु 'प्रथमः' | अतः अजादिधातोः द्वित्वं क्रियते चेत्‌, आदौ अच्‌-वर्णः न तु हल्‌-वर्णः इति कारणतः हलादिः शेषः (७.४.६०) इत्यनेन अभ्यासे सर्वेषां हल्‌-वर्णानां लोपो भवति | अट्‌ → अट्‌ अट्‌ → अ अट्‌ |</big>
 
 
<big>'''कुहोश्चुः''' (७.४.६२) = अभ्यासे कवर्गीयस्य हकारस्य च स्थाने चवर्गीयादेशो भवति | तत्र स्थानेऽन्तरतमः (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात्‌ हकारस्य स्थाने झकारः, तदा अभ्यासे चर्च (८.४.५४) इत्यनेन झ-स्थाने जकारः | कुश्च ह्‌ च तयोरितरेतरद्वन्द्वः कुहौ, तयोः कुहोः | कुहोः षष्ठ्यन्तं, चुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य अभ्यासस्य कुहोः चुः |'''</big>
 
<big>स्थानेऽन्तरतमः (१.१.५०) = प्रसङ्गम्‌ अवलम्ब्य तुल्यतमः आदेशो भवति | स्थाने सप्तम्यन्तम्‌, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ |</big>
 
 
<big>उरत् (७.४.६६) = प्रत्यये परे अभ्यासस्य ऋवर्णस्य स्थाने अत्‌-आदेशः भवति | उः षष्ठ्यन्तम्‌, अत्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अभ्यासस्य उः अत्‌ |</big>
 
<big>अभ्यासे चर्च (८.४.५४) = अभ्यासे झल्‌-स्थाने जश्‌ चर् च आदेशौ भवतः | तत्र स्थानेऽन्तरतमः (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात्‌ झश्‌-स्थाने जश्‌ अपि च खय्‌-स्थाने चर् | अनुवृत्त्यर्थम्‌ अष्टमाध्याये | अभ्यासे सप्तम्यन्तं, चर्‍ प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | झलां जश्‌ झशि (८.४.५३) इत्यस्मात्‌ झलां, जश् इत्यनयोः अनुवृत्तिः | तयोर्यवावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌‍ संहितायाम्‌ इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—अभ्यासे झलां जश्‌ च‍र् च संहितायाम्‌ |</big>
 
 
<big>अस्माभिः ज्ञायते यत्‌ सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति |</big>
Line 135 ⟶ 154:
 
<big>३. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌</big>
 
 
<big>जुहोत्यादिगणे अपि तथा, किन्तु द्वित्वम्‌ अभ्यासकार्यं चापि स्तः; द्वित्वस्य निमित्तं श्लु, अभ्यासस्य निमित्तं यः प्रत्ययः अभ्यस्तात्‌ परे अस्ति— `तिङ्‌ वा कृत्‌ वा भवतु | तर्हि आहत्य जुहोत्यादिगणे कार्यस्य क्रमः एतादृशः—</big>
 
<big>शप्‌ विधीयते कर्तरि शप्‌ इत्यनेन</big>
 
<nowiki>***************</nowiki>I can not space this as it is in the old site. If I add an extra space, it is too far apart. And I can not specify required spacing
<big>शपः स्थाने श्लु भवति</big>
 
* <big>शप्‌ विधीयते कर्तरि शप्‌ इत्यनेन</big>
<big>श्लौ इत्यनेन धातोः द्वित्वं भवति</big>
* <big>शपः स्थाने श्लु भवति</big>
 
* <big>श्लौ इत्यनेन धातोः द्वित्वं भवति</big>
* <big>सामन्य-अभ्यासकार्यम्‌; अभ्यस्तोत्तर-प्रत्ययः अस्य निमित्तम्‌ (ह्रस्वः, हलादिः शेषः, कुहोश्चुः, उरत्, अभ्यासे चर्च)</big>
 
* <big>विशेष-अभ्यासकार्यम्‌; श्लुः अस्य निमित्तम्‌; चत्वारि सूत्राणि (अस्मिन्‌ पाठे द्वे— भृञामित्‌, अर्तिपिपर्त्योश्च)</big>
* <big>अङ्गकार्यं, तिङ्‌ च कृत्‌ च निमित्तम्‌</big>
 
<big>अङ्गकार्यं, तिङ्‌ च कृत्‌ च निमित्तम्‌</big>
 
<big>१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌, तदा धातु-विकरणप्रत्यययोः मेलनम्‌</big>
 
 
<big>विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम् नास्ति यतः शप्‌-विकरणप्रत्ययस्य श्लुः भवति | श्लुः तु अङ्गकार्यस्य (अभ्यासकार्यस्य) निमित्तं भवति; तच्च तृतीये सोपाने क्रियते येन एकैकस्य धातोः चर्चा करणीया एकवारम्‌ एव | तदर्थम्‌ अभ्यासकार्यम्‌ अपि तत्रैव |</big>
 
<big>२. तिङ्‌प्रत्यय-सिद्धिः</big>
 
 
<big>जुहोत्यादिगणे अङ्गम्‌ अनदन्तम्‌, अतः अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः भवन्ति | परन्तु यत्र धातुः अभ्यस्तसंज्ञकः अस्ति, तत्र तिङ्‌प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयं वर्तते | जुहोत्यादिगणे सर्वे धातवः अभ्यस्तसंज्ञकाः, अत्र सर्वत्र इमे द्वे कार्ये स्तः—</big>
 
<big>१) अदभ्यस्तात् (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्‌-आदेशो भवति | अत्‌ प्रथमान्तम्‌, अभ्यस्तात्‌ पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | झोऽन्तः (७.१.३) इत्यस्मात्‌ झः (षष्ठ्यन्तम्‌) इत्यस्य अनुवृत्तिः | आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्‌ (७.१.२) इत्यस्मात्‌, वचनपरिणामं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अभ्यस्तात्‌ अङ्गात्‌ प्रत्ययादेः झः अत्‌ |</big>
 
 
<big>धेयं यत्‌ अत्‌-आदेशस्य तकारः हलन्त्यम्‌ (१.३.३) इति सूत्रेण इत्‌-संज्ञकः न, यतोहि अत्‌ तु विभक्तिसंज्ञक-झि-प्रत्ययस्य अवयवस्य आदेशः अतः न विभक्तौ तुस्माः (१.३.४) इत्यनेन हलन्त्यम्‌ (१.३.३) बाधितम्‌ |</big>
 
<big>अदभ्यस्तात् (७.१.४) इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झ्‌-स्थाने अत्‌ आदेशः, अतः लटि झि → अति न तु अन्ति; लोटि झि → अतु न तु अन्तु |</big>
 
 
<big>२) सिजभ्यस्तविदिभ्यश्च (३.४.१०९) = ङित्‌-लकारस्य अवस्थायां, सिच्‌-प्रत्ययात्‌, अभ्यस्तसंज्ञकात्‌ धातोः, विद्‌-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्‌-आदेशो भवति | सिच्‌ च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | नित्यं ङितः (३.४.९९) इत्यस्मात्‌ ङितः इत्यस्य अनुवृत्तिः | झेर्जुस्‌ (३.४.१०८) इत्यस्मात्‌ झेः जुस्‌ इत्यनयोः अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः जुस्‌ |</big>
 
<big>अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्‌-आदेशः | जुस्‌ इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि अभ्यस्तसंज्ञकः धातुः अस्ति चेत्‌, लङि अन्‌-स्थाने उः इति प्रत्ययः भवति |</big>
 
 
<big>अतः आहत्य अभ्यस्तसंज्ञक-धातूनां कृते, सार्वधातुकलकारेषु सिद्ध-तिङ्‌प्रत्ययाः एते | जुहोत्यादिगणे एते एव योजनीयाः—</big>
Line 179 ⟶ 202:
 
<big>                        मि      वः       मः                                      ए      वहे        महे</big>
 
 
 
<big>                                                       लोट्‌-लकारः</big>
Line 187 ⟶ 212:
 
<big>                  आनि    आव     आम                                  ऐ       आवहै   आमहै</big>
 
 
 
<big>                                                       लङ्‌-लकारः</big>
Line 195 ⟶ 222:
 
<big>                 अम्‌      व         म                                      इ       वहि        महि</big>
 
 
 
<big>                                                    विधिलिङ्‌-लकारः</big>
Line 203 ⟶ 232:
 
<big>                 याम्‌      याव       याम                                     ईय      ईवहि        ईमहि</big>
 
 
<big>३. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌</big>
 
<big>1. आकारान्तधातवः (6 धातवः सन्ति— माङ्‌ माने (मा), ओहाङ्‌ गतौ (हा), ओहाक्‌ त्यागे (हा), गा स्तुतौ (गा), डुदाञ्‌ दाने (दा), डुधाञ्‌ धारणपोषणयोः (धा) च)</big>
 
 
<big>A. माङ्‌ माने (मा), ओहाङ्‌ गतौ (हा), ओहाक्‌ त्यागे (हा), गा स्तुतौ (गा)</big>
 
<big>द्वित्वम्‌ अभ्यासकार्यं च—</big>
 
 
<big>भृञाद्यन्तर्गणः | डुभृञ्‌ धारणपोषणयोः, माङ्‌ माने, ओहाङ्‌ गतौ—इमे त्रयः धातवः भृञादयः |</big>
 
<big>भृञामित्‌ (७.४.७६) = भृञ्‌ माङ्‌ ओहाङ्‌ इत्येषां धातूनाम्‌ अभ्यासस्य ह्रस्वः इकारादेशो भवति श्लौ परे | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इदादेशः, न तु अभ्यासस्य पूर्णस्य | भृञां षष्ठ्यन्तम्‌, इत्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | णिजां त्रयाणां गुणः श्लौ (७.४.७५) इत्यस्मात्‌ त्रयाणां, शलौ‌ इत्यनयोः अनुवृत्तिः | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— भृञाम् त्रयाणाम्‌ अङ्गस्य अभ्यासस्य‌‌ इत्‌ शलौ |</big>
 
 
<big>त्रिषु धातुषु माङ्‌ माने (अनुबन्धलोपे मा), ओहाङ्‌ गतौ (अनुबन्धलोपे हा) आकारान्तधातू | द्वयमपि ङित्त्वात्‌ आत्मनेपदिधातुः |</big>
 
<big>मा → श्लौ (६.१.१०) इत्यनेन द्वित्वम्‌ → मामा → भृञामित्‌ (७.४.७६) इत्यनेन अभ्यासस्य ह्रस्वः इकारादेशः → मिमा इति अङ्गम्‌</big>
 
 
<big>हा → श्लौ (६.१.१०) इत्यनेन द्वित्वम्‌ → हाहा → भृञामित्‌ (७.४.७६) इत्यनेन अभ्यासस्य ह्रस्वः इकारादेशः → हिहा → कुहोश्चुः (७.४.६२) इत्यनेन अभ्यासस्य चवर्गादेशः → झिहा → अभ्यासे चर्च (८.४.५४) इत्यनेन झश्‌-स्थाने जश्‌ → जिहा → जिहा इति अङ्गम्‌</big>
Line 225 ⟶ 259:
 
<big>हा‌ → द्वित्वम्‌ अभ्यासकार्यं च परिशीलनीयम्‌</big>
 
 
<big>गा स्तुतौ छान्दसः, इत्युक्तौ वेदे प्रयुज्यते न तु लोके | अतः बहुलं छन्दसि (७.४.७८) इत्यनेन सूत्रेण अभ्यासस्य इत्त्वम्‌ | गागा → गिगा → जिगा |</big>
Line 231 ⟶ 266:
 
<big>गा → द्वित्वम्‌ अभ्यासकार्यं च परिशीलनीयम्‌</big>
 
 
<big>बहुलं छन्दसि (७.४.७८) = बहुलं छन्दसि विषये, अभ्यासस्य इकारादेशो भवति श्लौ | यस्य कस्यापि धातोः श्लौ परे द्वित्वं, तस्य वेदप्रसङ्गे अभ्यास-स्थितस्य स्वरस्य इकारादेशः | यथा वच्‌ → विवक्ति, सच्‌ → सिषक्ति, घृ → जिघर्ति. हृ → जिहर्ति |</big>
 
<big>तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यम्‌—</big>
 
 
<big>श्नाभ्यस्तयोरातः (६.४.११२) = श्ना-प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति, किति ङिति सार्वधातुकप्रत्यये परे | श्नाश्च अभ्यस्तश्च तयोरितरेतरद्वन्द्वः श्नाभ्यस्तौ, तयोः श्नाभ्यस्तयोः | श्नाभ्यस्तयोः षष्ठ्यन्तम्‌, आतः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | श्नसोरल्लोपः (६.४.१११) इत्यस्मात्‌ लोपः, इत्यस्य अनुवृत्तिः | गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यस्मात्‌ क्ङिति इत्यस्य अनुवृत्तिः | अत उत्सार्वधातुके (६.४.११०) इत्यस्मात्‌ सार्वधातुके इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य श्नाभ्यस्तयोः आतः लोपः क्ङिति सार्वधातुके |</big>
 
<big>ई हल्यघोः (६.४.११३) = श्ना-प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य स्थाने ई-कारादेशः भवति, किति ङिति हलादिसार्वधातुकप्रत्यये परे—परन्तु घुसंज्ञक-धातुः चेत्‌, न भवति (घुसंज्ञक-धातुः नाम दा धा च धातू) | न घुः अघुः, तस्य अघोः | ई लुप्तप्रथमाकं पदं, हलि सप्तम्यन्तम्‌ अघोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | श्नाभ्यस्तयोरातः (६.४.११२) इत्यस्मात्‌ श्नाभ्यस्तयोः, आतः चेत्यनयोः अनुवृत्तिः | गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यस्मात्‌ क्ङिति इत्यस्य अनुवृत्तिः; अत्‌ उत्सार्वधातुके (६.४.११०) इत्यस्मात्‌ सार्वधातुके इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य श्नाभ्यस्तयोः आतः ई क्ङिति हलि सार्वधातुके अघोः |</big>
 
 
<big>मा - मिमा, हा - जिहा, हा - जहा, गा - जिगा एतेषां धातूनां कृते—</big>
Line 252 ⟶ 290:
 
<big>माङ्‌ माने ङित्त्वात्‌ आत्मनेपदी | मिमा इति अङ्गम्‌ |</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
Line 264 ⟶ 303:
 
<big>विधिलिङि—</big>
 
 
<big>ओहाङ्‌ गतौ अपि ङित्त्वात्‌ आत्मनेपदी | जिहा इति अङ्गम्‌ | रूपाणि उपरि मिमा इति यथावत्‌ |</big>
 
<big>गा-धातुः परस्मैपदी | जिगा इति अङ्गम्‌ |</big>
 
 
<big>रूपाणि</big>
Line 737 ⟶ 778:
 
 
<big>६ - जुहोत्यादिगणे अजन्तधातवः (c).pdf (135k) Swarup Bhai, May 19, 2019, 6:18 PM v.1</big>
deletepagepermission, page_and_link_managers, teachers
1,046

edits