6---sArvadhAtukaprakaraNam-anadantam-aGgam/06A---juhotyAdigaNe-ajantadhAtavaH: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/06A---juhotyAdigaNe-ajantadhAtavaH (view source)
Revision as of 21:38, 24 May 2021
, 2 years agono edit summary
No edit summary |
No edit summary |
||
Line 746:
<big>पिपॄ + तः → उदोष्ठ्यपूर्वस्य इत्यनेन उकारादेशः, उरण् रपरः इत्यनेन रपरत्वम् → पिपुर् + तः → हलि च इत्यनेन उपधायाः उकारस्य दीर्घत्वम् → पिपूर् + तः → पिपूर्तः</big>
<big>लङि—</big>
<big>१. त्-लोपः, स्-लोपः</big>
<big>अपिपॄ + त् → सार्वधातुकार्धधातुकयोः → अपिपर् + त् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) इत्यनेन त्-लोपः → अपिपर् → खरवासयोर्विसर्जनीयः इत्यनेन विसर्गादेशः → अपिपः</big>
<big>तथैव अपिपॄ + स् → अपिपर् + स् → स्-लोपः → अपिपर् → अपिपः</big>
<big>हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) इत्यनेन लङ्-लकारे प्रथमपुरुषे अपृक्तसंज्ञकस्य त्-प्रत्ययस्य लोपः, तथैव च मध्यमपुरुषे स्-प्रत्ययस्य लोपः |</big>
<big>हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) = हलन्तात्, दीर्घङ्यन्तात्, दीर्घाबन्तात् च सु-ति-सि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्-लोपः, लङि प्रथमपुरुषे त्-लोपः, मध्यमपुरुषे स्-लोपश्च | हल् च ङी च आप् च तेषाम् इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम् | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात् पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | लोपो व्योर्वलि (६.१.६५) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्— दीर्घात् हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल् लुप्यते |</big>
<big>अपृक्त एकाल् प्रत्ययः (१.२.४१) = यस्य प्रत्यस्य एकैव अल्, तस्य अपृक्त-संज्ञा भवति | एकश्चासौ अल् एकाल्, कर्मधारयः | अपृक्तः प्रथमान्तम्, एकाल् प्रथमान्तं, प्रत्ययः प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— एकाल् प्रत्ययः अपृक्तः |</big>
<big>खरवसानयोर्विसर्जनीयः (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर् च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम् | रो रि (८.३.१४) इत्यस्मात् रः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— रः पदस्य विसर्जनीयः खरवसानयो: संहितायाम् |</big>
<big>२. जुसि गुणः</big>
<big>अपिपॄ + झि → सिजभ्यस्तविदिभ्यश्च इत्यनेन झि-प्रत्ययस्य स्थाने जुस्-आदेशः → अपिपॄ + उः → जुसि च इत्यनेन इगन्ताङ्गस्य गुणः → अपिपर् + उः → अपिपरुः</big>
<big>जुसि च (७.३.८३) = अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति | जुसि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन इगन्तस्य अङ्गस्य; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्तस्य इकः स्थाने गुणादेशः | क्सस्याचि (७.३.७२) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः | मिदेर्गुणः (७.३.८२) त्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इति परिभाषासूत्रेण इकः स्थानी भवति | अनुवृत्ति-सहितसूत्रम्— इकः अङ्गस्य गुणः अचि जुसि च |</big>
<big>पॄ पालनपूरणयोः परस्मैपदी धातुः | पिपॄ इति अङ्गम् |</big>
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
<big><u>रूपाणि</u></big>
<big>लटि —</big>
Line 782 ⟶ 790:
<big>विधिलिङि—</big>
<big>अनेन जुहोत्यादिगणस्य अजन्तधातवः समाप्ताः |</big>
|