6---sArvadhAtukaprakaraNam-anadantam-aGgam/06A---juhotyAdigaNe-ajantadhAtavaH: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/06A---juhotyAdigaNe-ajantadhAtavaH (view source)
Revision as of 22:19, 25 May 2021
, 2 years agono edit summary
No edit summary |
No edit summary |
||
Line 59:
<big>अस्मिन् सूत्रे लुमता, लुमत् इति प्रातिपदिकस्य तृतीयाविभक्त्यन्तं रूपम् | इदं मतुप्-प्रत्ययान्तं; प्रथमाविभक्तौ लुमान् | मतुप्-प्रत्ययस्य अर्थः अस्य अस्मिन् वा; यथा बुद्धिमान् इत्युक्ते बुद्धिः अस्य अस्मिन् वा, सः बुद्धिमान् | तर्हि 'लु' अस्य अस्मिन् वा, सः लुमान् | व्याकरणे त्रयः लुमन्तः सन्ति— लुक्, श्लु, लुप् चेति | इदं सूत्रं वक्ति यत् येन अदर्शनं भवति, सः लुमान् अस्ति चेत्, तर्हि प्रत्ययलोपे प्रत्ययलक्षणं न भवति | अनुवृत्ति-सहितसूत्रं तथैव— '''(यदा) लुमता प्रत्ययलोपे (तदा) अङ्गस्य प्रत्ययलक्षणं न''' | अतः '''न लुमताऽङ्गस्य''' (१.१.६३) इति सूत्रं '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यस्य बाधकसूत्रम् | तर्हि अत्र सारांशः एवं यत् श्लु इत्यनेन कस्यचित् प्रत्ययस्य अदर्शनं भवति चेत्, यस्मात् अङ्गात् सः प्रत्ययः लुप्तः जातः, तस्मिन् अङ्गे सः लुप्तप्रत्ययः तदानीम् अङ्गकार्यस्य निमित्तं न भवितुम् अर्हति |</big>
<big>आहत्य लोपप्रकरणे चत्वारि सूत्राणि | क्रमेण—</big>
Line 72 ⟶ 70:
<big>'''न लुमताऽङ्गस्य''' (१.१.६३) = लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात् |</big>
<big>जुहोत्यादिगणे विकरणप्रत्ययः शप् आसीत्, अनन्तरं तस्य श्लु अभवत् | लुमता शपः अदर्शनं जातम्, अतः धात्वङ्गे शप्-निमित्तकम् अङ्गकार्यं नार्हम् |</big>
Line 87 ⟶ 83:
<big>पाणिनीयव्याकरणे पञ्चसु स्थलेषु द्वित्वं भवति—श्लौ (जुहोत्यादिगणे), लिटि, चङि (लुङ्-लकारे), सनि, यङि च |</big>
<big>अत्रास्ति द्वित्वप्रकरणम्—</big>
Line 116 ⟶ 110:
<big>'''दाश्वान्साह्वान्मीढ्वांश्च''' (६.१.१२)</big>
<big>द्वित्वे जाते प्रथभागस्य नाम अभ्यासः, मिलित्वा द्वयोर्नाम अभ्यस्तम् |</big>
<big>'''पूर्वोऽभ्यासः''' (६.१.४) = द्वित्वानन्तरं, यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात् '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-
<big>'''उभे अभ्यस्तम्''' (६.१.५) = द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | उभे प्रथमान्तम्, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम् | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात् '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्—'''उभे द्वे अभ्यस्तम्''' |</big>
<big>तत्र द्वित्वस्य अनन्तरं कानिचन कार्याणि सन्ति अभ्यासे; यथा अभ्यासस्य ह्रस्वत्वम्, अल्पप्राणत्वं च भवति | इदं सर्वम् अभ्यासकार्यम् इति उच्यते | आर्धधातुकप्रकरणे विस्तरेण परिशीलयाम (लिटि, लुङि, सनि, यङि इत्येषु) | अभ्यासकार्यस्य पुनः विभजनं भवति— सामान्याभ्यासकार्यं, विशेषाभ्यासकार्यं चेति | सामान्याभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति, सर्वेषां धातूनां कृते | विशेषाभ्यासकार्यं भवति द्वित्वस्य निमित्तम् अधिकृत्य; यथा लिटि विशेषाभ्यासकार्यं, पुनः श्लौ पृथक्तया, पुनः सनि, यङि, चङि च |</big>
<big>अत्र सन्ति प्रमुख-सामान्याभ्यासकार्याणि—</big>
<big>'''ह्रस्वः''' (७.४.५९)</big>
<big>'''हलादिः शेषः''' (७.४.६०)</big>
<big>'''शर्पूर्वाः खयः''' (७.४.६१)</big>
<big>'''कुहोश्चुः''' (७.४.६२)</big>
<big>'''उरत्''' (७.४.६६)</big>
<big>'''अभ्यासे चर्च''' (८.४.५४)</big>
<big>'''ह्रस्वः''' (७.४.५९) = अभ्यासस्य अच्-वर्णः ह्रस्वः स्यात् | '''अचश्च''' (१.२.२८) इति परिभाषा-सूत्रेण यत्र कुत्रापि सूत्रेषु 'ह्रस्व', 'दीर्घ', 'प्लुत' इत्येते शब्दाः आयान्ति, तत्र 'अचः' इति शब्दः सूत्रार्थेऽपि आयाति | अतः 'ह्रस्वः' इत्युक्तौ 'ह्रस्वः अच्-वर्णः'; तथा सर्वत्र | ह्रस्वः प्रथमान्तम्, एकपदमिदं सूत्रम् | '''अत्र''' '''लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात् '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य अभ्यासस्य अचः ह्रस्वः''' |</big>
<big>'''हलादिः शेषः''' (७.४.६०) = अभ्यासस्य आदिमः* हल् शेषः, अभ्यासे अपरेषां हलां लोपः | हल् प्रथमान्तम्, आदिः प्रथमान्तं, शेषः प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात् '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''(अङ्गस्य) अभ्यासस्य हलादिः शेषः''' |</big>
<big>*आदिमः इत्युक्तौ 'आदौ यः', न तु 'प्रथमः' | अतः अजादिधातोः द्वित्वं क्रियते चेत्, आदौ अच्-वर्णः न तु हल्-वर्णः इति कारणतः '''हलादिः शेषः''' (७.४.६०) इत्यनेन अभ्यासे सर्वेषां हल्-वर्णानां लोपो भवति | अट् → अट् अट् → अ अट् |</big>
<big>'''कुहोश्चुः''' (७.४.६२) = अभ्यासे कवर्गीयस्य हकारस्य च स्थाने चवर्गीयादेशो भवति | तत्र '''स्थानेऽन्तरतमः''' (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात् हकारस्य स्थाने झकारः, तदा '''अभ्यासे चर्च''' (८.४.५४) इत्यनेन झ-स्थाने जकारः | कुश्च ह् च तयोरितरेतरद्वन्द्वः कुहौ, तयोः कुहोः | कुहोः षष्ठ्यन्तं, चुः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अत्र''' '''लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात् '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य अभ्यासस्य कुहोः चुः |'''</big>
<big>'''स्थानेऽन्तरतमः''' (१.१.५०) = प्रसङ्गम् अवलम्ब्य तुल्यतमः आदेशो भवति | स्थाने सप्तम्यन्तम्, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रम् |</big>
<big>'''उरत्''' (७.४.६६) = प्रत्यये परे अभ्यासस्य ऋवर्णस्य स्थाने अत्-आदेशः भवति | उः षष्ठ्यन्तम्, अत् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात् '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य अभ्यासस्य उः अत्''' |</big>
<big>'''अभ्यासे चर्च''' (८.४.५४) = अभ्यासे झल्-स्थाने जश् चर् च आदेशौ भवतः | तत्र '''स्थानेऽन्तरतमः''' (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात् झश्-स्थाने जश् अपि च खय्-स्थाने चर् | अनुवृत्त्यर्थम् अष्टमाध्याये | अभ्यासे सप्तम्यन्तं, चर् प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | '''झलां जश् झशि''' (८.४.५३) इत्यस्मात् '''झलां, जश्''' इत्यनयोः अनुवृत्तिः | '''तयोर्यवावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''अभ्यासे झलां जश् चर् च संहितायाम्''' |</big>
<big>अस्माभिः ज्ञायते यत् सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति |</big>
<big>१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्, तदा धातु-विकरणप्रत्यययोः मेलनम्</big>
Line 174 ⟶ 170:
<big>जुहोत्यादिगणे अपि तथा, किन्तु द्वित्वम् अभ्यासकार्यं चापि स्तः; द्वित्वस्य निमित्तं श्लु, अभ्यासस्य निमित्तं यः प्रत्ययः अभ्यस्तात् परे अस्ति— `तिङ् वा कृत् वा भवतु | तर्हि आहत्य जुहोत्यादिगणे कार्यस्य क्रमः एतादृशः—</big>
* <big>शप् विधीयते '''कर्तरि शप्''' इत्यनेन</big>
* <big>शपः स्थाने श्लु भवति</big>
* <big>'''श्लौ''' इत्यनेन धातोः द्वित्वं भवति</big>
* <big>सामन्य-अभ्यासकार्यम्; अभ्यस्तोत्तर-प्रत्ययः अस्य निमित्तम् ('''ह्रस्वः, हलादिः शेषः, कुहोश्चुः, उरत्, अभ्यासे चर्च''')</big>
* <big>विशेष-अभ्यासकार्यम्; श्लुः अस्य निमित्तम्; चत्वारि सूत्राणि (अस्मिन् पाठे द्वे— '''भृञामित्, अर्तिपिपर्त्योश्च''')</big>
* <big>अङ्गकार्यं, तिङ् च कृत् च निमित्तम्</big>
<big>१. <u>विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्, तदा धातु-विकरणप्रत्यययोः मेलनम्</u></big>
<big>विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम् नास्ति यतः शप्-विकरणप्रत्ययस्य श्लुः भवति | श्लुः तु अङ्गकार्यस्य (अभ्यासकार्यस्य) निमित्तं भवति; तच्च तृतीये सोपाने क्रियते येन एकैकस्य धातोः चर्चा करणीया एकवारम् एव | तदर्थम् अभ्यासकार्यम् अपि तत्रैव |</big>
<big>२. <u>तिङ्प्रत्यय-सिद्धिः</u></big>
<big>जुहोत्यादिगणे अङ्गम् अनदन्तम्, अतः अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः भवन्ति | परन्तु यत्र धातुः अभ्यस्तसंज्ञकः अस्ति, तत्र तिङ्प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयं वर्तते | जुहोत्यादिगणे सर्वे धातवः अभ्यस्तसंज्ञकाः, अत्र सर्वत्र इमे द्वे कार्ये स्तः—</big>
<big>१) '''अदभ्यस्तात्''' (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्-आदेशो भवति | अत् प्रथमान्तम्, अभ्यस्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''झोऽन्तः''' (७.१.३) इत्यस्मात् '''झः''' (षष्ठ्यन्तम्) इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्''' (७.१.२) इत्यस्मात्, वचनपरिणामं कृत्वा '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत्''' |</big>
<big>धेयं यत् अत्-आदेशस्य तकारः '''हलन्त्यम्''' (१.३.३) इति सूत्रेण इत्-संज्ञकः न, यतोहि अत् तु विभक्तिसंज्ञक-झि-प्रत्ययस्य अवयवस्य आदेशः अतः '''न विभक्तौ तुस्माः''' (१.३.४) इत्यनेन '''हलन्त्यम्''' (१.३.३) बाधितम् |</big>
<big>'''अदभ्यस्तात्''' (७.१.४) इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झ्-स्थाने अत् आदेशः, अतः लटि झि → अति न तु अन्ति; लोटि झि → अतु न तु अन्तु |</big>
<big>२) '''सिजभ्यस्तविदिभ्यश्च''' (३.४.१०९) = ङित्-लकारस्य अवस्थायां, सिच्-प्रत्ययात्, अभ्यस्तसंज्ञकात् धातोः, विद्-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्-आदेशो भवति | सिच् च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात् '''ङितः''' इत्यस्य अनुवृत्तिः | '''झेर्जुस्''' (३.४.१०८) इत्यस्मात् '''झेः जुस्''' इत्यनयोः अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः जुस्''' |</big>
<big>अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्-आदेशः | जुस् इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि अभ्यस्तसंज्ञकः धातुः अस्ति चेत्, लङि अन्-स्थाने उः इति प्रत्ययः भवति |</big>
Line 211 ⟶ 210:
<big>अतः आहत्य अभ्यस्तसंज्ञक-धातूनां कृते, सार्वधातुकलकारेषु सिद्ध-तिङ्प्रत्ययाः एते | जुहोत्यादिगणे एते एव योजनीयाः—</big>
<big> <u>परस्मैपदम्</u> <u>आत्मनेपदम्</u></big>
<big> <u>लट्-लकारः</u></big>
<big> '''ति''' तः अति ते आते अते</big>
<big> '''सि''' थः थ से आथे ध्वे</big>
<big> '''मि''' वः मः ए वहे महे</big>
<big>
<big> '''तु''', तात् ताम् अतु ताम् आताम् अताम्</big>
<big> हि, तात् तम् त स्व आथाम् ध्वम्</big>
<big> '''आनि आव आम ऐ आवहै आमहै'''</big>
<big> <u>लङ्-लकारः</u></big>
<big> '''त्''' ताम् उः त आताम् अत</big>
<big> '''स्''' तम् त थाः आथाम् ध्वम्</big>
<big> '''अम्''' व म इ वहि महि</big>
<big> <u>विधिलिङ्-लकारः</u></big>
<big> यात् याताम् युः ईत ईयाताम् ईरन्</big>
Line 252:
<big>३. <u>तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्</u></big>
<big>1. <u>आकारान्तधातवः</u> (6 धातवः सन्ति— माङ् माने (मा), ओहाङ् गतौ (हा), ओहाक् त्यागे (हा), गा स्तुतौ (गा), डुदाञ् दाने (दा), डुधाञ् धारणपोषणयोः (धा) च)</big>
<big>A. माङ् माने (मा), ओहाङ् गतौ (हा), ओहाक् त्यागे (हा), गा स्तुतौ (गा)</big>
<big>द्वित्वम् अभ्यासकार्यं च—</big>
<big>भृञाद्यन्तर्गणः | डुभृञ् धारणपोषणयोः, माङ् माने, ओहाङ् गतौ—इमे त्रयः धातवः भृञादयः |</big>
<big>'''भृञामित्''' (७.४.७६) = भृञ् माङ् ओहाङ् इत्येषां धातूनाम् अभ्यासस्य ह्रस्वः इकारादेशो भवति श्लौ परे | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इदादेशः, न तु अभ्यासस्य पूर्णस्य | भृञां षष्ठ्यन्तम्, इत् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''णिजां त्रयाणां गुणः श्लौ''' (७.४.७५) इत्यस्मात् '''त्रयाणां, शलौ''' इत्यनयोः अनुवृत्तिः | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात् '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''भृञाम् त्रयाणाम् अङ्गस्य अभ्यासस्य इत् शलौ''' |</big>
<big>त्रिषु धातुषु माङ् माने (अनुबन्धलोपे मा), ओहाङ् गतौ (अनुबन्धलोपे हा) आकारान्तधातू | द्वयमपि ङित्त्वात् आत्मनेपदिधातुः |</big>
<big>मा → '''श्लौ''' (६.१.१०) इत्यनेन द्वित्वम् → मामा → '''भृञामित्''' (७.४.७६) इत्यनेन अभ्यासस्य ह्रस्वः इकारादेशः → मिमा इति अङ्गम्</big>
<big>हा → '''श्लौ''' (६.१.१०) इत्यनेन द्वित्वम् → हाहा → '''भृञामित्''' (७.४.७६) इत्यनेन अभ्यासस्य ह्रस्वः इकारादेशः → हिहा → '''कुहोश्चुः''' (७.४.६२) इत्यनेन अभ्यासस्य चवर्गादेशः → झिहा → '''अभ्यासे चर्च''' (८.४.५४) इत्यनेन झश्-स्थाने जश् → जिहा → जिहा इति अङ्गम्</big>
<big>ओहाक् त्यागे, अनुबन्धलोपे हा-धातुः, परस्मैपदी |</big>
Line 279 ⟶ 287:
<big>गा स्तुतौ छान्दसः, इत्युक्तौ वेदे प्रयुज्यते न तु लोके | अतः '''बहुलं छन्दसि''' (७.४.७८) इत्यनेन सूत्रेण अभ्यासस्य इत्त्वम् | गागा → गिगा → जिगा |</big>
<big>गा स्तुतौ, परस्मैपदी</big>
Line 286 ⟶ 295:
<big>'''बहुलं छन्दसि''' (७.४.७८) = बहुलं छन्दसि विषये, अभ्यासस्य इकारादेशो भवति श्लौ | यस्य कस्यापि धातोः श्लौ परे द्वित्वं, तस्य वेदप्रसङ्गे अभ्यास-स्थितस्य स्वरस्य इकारादेशः | यथा वच् → विवक्ति, सच् → सिषक्ति, घृ → जिघर्ति. हृ → जिहर्ति |</big>
<big>तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यम्—</big>
<big>'''श्नाभ्यस्तयोरातः''' (६.४.११२) = श्ना-प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति, किति ङिति सार्वधातुकप्रत्यये परे | श्नाश्च अभ्यस्तश्च तयोरितरेतरद्वन्द्वः श्नाभ्यस्तौ, तयोः श्नाभ्यस्तयोः | श्नाभ्यस्तयोः षष्ठ्यन्तम्, आतः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''श्नसोरल्लोपः''' (६.४.१११) इत्यस्मात् '''लोपः''', इत्यस्य अनुवृत्तिः | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात् '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''अत उत्सार्वधातुके''' (६.४.११०) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य श्नाभ्यस्तयोः आतः लोपः क्ङिति सार्वधातुके''' |</big>
<big>'''ई हल्यघोः''' (६.४.११३) = श्ना-प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य स्थाने ई-कारादेशः भवति, किति ङिति हलादिसार्वधातुकप्रत्यये परे—परन्तु घुसंज्ञक-धातुः चेत्, न भवति (घुसंज्ञक-धातुः नाम दा धा च धातू) | न घुः अघुः, तस्य अघोः | ई लुप्तप्रथमाकं पदं, हलि सप्तम्यन्तम् अघोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यस्मात् '''श्नाभ्यस्तयोः''', '''आतः''' चेत्यनयोः अनुवृत्तिः | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात् '''क्ङिति''' इत्यस्य अनुवृत्तिः; '''अत् उत्सार्वधातुके''' (६.४.११०) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य श्नाभ्यस्तयोः आतः ई क्ङिति हलि सार्वधातुके अघोः''' |</big>
<big>मा - मिमा, हा - जिहा, हा - जहा, गा - जिगा एतेषां धातूनां कृते—</big>
<big>१) हलादि पित्सु = आकारान्तेषु गुणः न भवति अतः किमपि कार्यं नास्ति | जिगा + ति → जिगाति</big>
Line 312 ⟶ 325:
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
<big><u>रूपाणि</u></big>
<big>लटि —</big>
Line 324 ⟶ 338:
<big>ओहाङ् गतौ अपि ङित्त्वात् आत्मनेपदी | जिहा इति अङ्गम् | रूपाणि उपरि मिमा इति यथावत् |</big>
<big>गा-धातुः परस्मैपदी | जिगा इति अङ्गम् |</big>
<big><u>रूपाणि</u></big>
<big>लटि —</big>
Line 337 ⟶ 352:
<big>विधिलिङि—</big>
<big>ओहाक् - हा - जहा, परस्मैपदिधातुः | तिङ्प्रत्यय-निमित्तके अङ्गकार्ये विशेषः—</big>
<big>'''जहातेश्च''' (६.४.११६) = ओहाक्-धातोः आकारस्य स्थाने ह्रस्वः इकारादेशो विकल्पेन भवति हलादौ किति ङिति सार्वधातुक-प्रत्यये परे | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन ओहाक्-धातुरूप्यङ्गस्य अन्ते स्थितस्य आ-कारस्य स्थाने इदादेशः, न तु पूर्णतया अङ्गस्य | जहातेः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''इद् दरिद्रस्य''' (६.४.११४) इत्यस्मात् '''इत्''' इत्यस्य अनुवृत्तिः | '''भियोऽन्यतरस्याम्''' (६.४.११५) इत्यस्मात् '''अन्यतरस्याम्''' इत्यस्य अनुवृत्तिः | '''ई हल्यघोः''' (६.४.११३) इत्यस्मात् '''हलि''' इत्यस्य अनुवृत्तिः | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात् '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''अत उत्सार्वधातुके''' (६.४.११०) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''जहातेः च अङ्गस्य इत् हलि क्ङिति सार्वधातुके अन्यतरस्याम्''' |</big>
<big>जहा + तः → जहितः | अपक्षे '''ई हल्यघोः''' (६.४.११३) इत्यनेन आकारस्य ईकारः | जहा +
<big>
<big>अपक्षे '''ई हल्यघोः''' (६.४.११३) इत्यनेन आकारस्य ईकारः | जहा + हि → जहाहि, जहिहि, जहीहि |</big>
<big>वैयाकरणेषु अत्र मतभेदः अस्ति | काशिकायाम् उपरितनव्याख्यानम् अस्ति | सिद्धान्तकौमुद्याम् उच्यते यत् 'च' इत्यस्य बलेन '''ई हल्यघोः''' (६.४.११३) इत्यस्मात् ईकारस्यापि अनुवृत्तिः भवति '''आ च हौ''' (६.४.११७) इति सूत्रे; तस्मात् अनेन एव सूत्रेण विकल्पेन त्रयः अपि आदेशाः सिध्यन्ति; अनया दृष्ट्या '''ई हल्यघोः''' (६.४.११३) इत्यस्य पृथक् आवश्यकता नास्ति |</big>
<big>'''लोपो यि''' (६.४.११८) = यकारादौ सार्वधातुक-प्रत्यये परे, ओहाक्-धातोः आकारस्य लोपो भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन ओहाक्-धातुरूप्यङ्गस्य अन्ते स्थितस्य आ-कारस्य लोपः, न तु पूर्णतया अङ्गस्य | '''जहातेश्च''' (६.४.११३) इत्यस्मात् '''जहातेः''' इत्यस्य अनुवृत्तिः | '''अत उत्सार्वधातुके''' (६.४.११०) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''जहातेः अङ्गस्य लोपः यि सार्वधातुके''' |</big>
<big>जहा + यात् → जह् + यात् → जह्यात्</big>
<big>तर्हि ओहाक् - हा - जहा, परस्मैपदीधातुः |</big>
Line 358 ⟶ 381:
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
<big><u>रूपाणि</u></big>
<big>लटि —</big>
Line 367 ⟶ 391:
<big>विधिलिङि—</big>
<big>B. डुदाञ् (दा), डुधाञ् (धा) धातू</big>
Line 373 ⟶ 398:
<big>धा → द्वित्वम् अभ्यासकार्यं च परिशीलनीयम्</big>
<big>१) हलादि पित्सु = आकारान्तेषु गुणः न भवति अतः किमपि कार्यं नास्ति | ददा + ति → ददाति</big>
Line 378 ⟶ 404:
<big>२) अजादि पित्सु = आकारान्तेषु गुणः न भवति; केवलं सन्धिकार्यम् | ददा + आनि → ददानि</big>
<big>३) हलाद्यपित्सु = '''श्नाभ्यस्तयोरातः''' इत्यनेन आकारस्य लोपः | ददा + तः → दद् + तः → '''खरि च''' इत्यनेन चर्त्वसन्धिः → दत्तः</big>
<big>४) अजाद्यपित्सु = '''श्नाभ्यस्तयोरातः''' इत्यनेन आकारस्य लोपः | ददा + अति → दद् + अति → ददति</big>
<big>हलाद्यपित्सु आकारस्य स्थाने किमर्थम् ईकारादेशः न भवति ? '''ई हल्यघोः''' (६.४.११३) इत्यस्य प्रसक्तिः अत्र तु नास्त्येव | 'ई हलि अघोः'—अघोः इत्युक्ते न घुः अघुः, तस्य | घु इति काचन संज्ञा अस्ति; दा-धातुः धा-धातुः च घु-संज्ञकधातू स्तः | अस्य कृते अधः '''दाधा घ्वदाप्''' (१.१.२०) इति सूत्रं विवृतम् अस्ति |</big>
<big>'''ई हल्यघोः''' (६.४.११३) = श्ना-प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य स्थाने ई-कारादेशः भवति, किति ङिति हलादिसार्वधातुकप्रत्यये परे—परन्तु घुसंज्ञक-धातुः चेत्, न भवति (घुसंज्ञक-धातुः नाम दा धा च धातू) | न घुः अघुः, तस्य अघोः | ई लुप्तप्रथमाकं पदं, हलि सप्तम्यन्तम् अघोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यस्मात् '''श्नाभ्यस्तयोः, आतः''' चेत्यनयोः अनुवृत्तिः | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात् '''क्ङिति''' इत्यस्य अनुवृत्तिः; '''अत् उत्सार्वधातुके''' (६.४.११०) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य श्नाभ्यस्तयोः आतः ई क्ङिति हलि सार्वधातुके अघोः''' |</big>
<big>'''दाधा घ्वदाप्''' (१.१.२०) = दा-रूप-धातोः, धा-रूप-धातोः च घु-संज्ञा भवति, दाप् दैप् च विहाय | यस्य धातोः स्वरूपं दा धा च, अथवा आदेशेन यस्य धातोः रूपं दा धा च भवति, तस्य धातोः घु-संज्ञा भवति | आहत्य षट् धातवः गृहीताः— डुदाञ्, दाण्, दो, देङ्, डुधाञ्, धेट् च | अनुबन्धलोपानन्तरं चत्वारः दा-धातवः सन्ति, द्वौ धा-धातू स्तश्च | दाश्च दाश्च दाश्च दाश्च तेषामेकशेषो दाः, धाश्च धाश्च तयोरितरेतरद्वन्द्वो धौ, दाश्च धौ च तेषामितरेतरद्वन्द्वो दाधाः | न दाप्, अदाप् | दाधाः प्रथमान्तं, घु लुप्प्रथमाकम्, अदाप् प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''दाधाः घु अदाप्''' |</big>
<nowiki>*************************</nowiki>
<big>अस्मिन् सूत्रे कथं दो, देङ्, धेट् इत्येषां ग्रहणम् ? एते तु दा-रूप-धा-रूप-धातवः न सन्ति | लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति परिभाषया प्रतिपदोक्तस्यैव ग्रहणं भवेत् | डुदाञ्, दाण्, डुधाञ् इत्येषां प्रतिपदोक्ततत्वात् ग्रहणं भवति | किन्तु दो, देङ्, धेट् इत्येषां लक्षण-माध्यमेन एव आकारान्तत्वं सिध्यति | आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन अशिति प्रत्येये परे एजन्तधातूनाम् आत्त्वम् | लक्षणेन एव एषां त्रयाणाम् आत्त्वम् इति कृत्वा ग्रहणं न स्यात् | किन्तु उक्तपरिभाषायाः अपवादत्वेन गामादाग्रहणेष्वविशेषः इति तदग्रिमपरिभाषया, लक्षणेन एव दा-धा इत्यनयोः आकारान्तत्वं सिध्यति चेदपि तयोः ग्रहणं भवति | 'अदाप्' इत्यस्य कथनेन दाप्, दैप् इत्येषु दैप् इत्यस्य ग्रहणम् अपि तथैव भवति |</big>
|