6---sArvadhAtukaprakaraNam-anadantam-aGgam/06A---juhotyAdigaNe-ajantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 70:
 
<big>'''न लुमताऽङ्गस्य''' (१.१.६३) = लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात्‌ |</big>
 
 
<big>जुहोत्यादिगणे विकरणप्रत्ययः शप्‌ आसीत्‌, अनन्तरं तस्य श्लु‌ अभवत्‌ | लुमता शपः अदर्शनं जातम्‌, अतः धात्वङ्गे शप्‌-निमित्तकम्‌ अङ्गकार्यं नार्हम्‌ |</big>
 
 
 
Line 78 ⟶ 80:
 
<big>'''श्लौ''' (६.१.१०) = धातोः द्वित्वं भवति श्लौ परे | श्लौ सप्तम्यन्तम्‌; एकं पदमिदं सूत्रम्‌ | '''लिटि धातोरनभ्यासस्य''' (६.१.८) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''धातोः द्वे श्लौ''' |</big>
 
 
<big>जुहोत्यादिगणे श्लुना सर्वेषां धातूनां द्वित्वं भवति | यथा दा → ददा, धा → दधा, भी → बिभी, हु → जुहु |</big>
 
 
 
<big>पाणिनीयव्याकरणे पञ्चसु स्थलेषु द्वित्वं भवति—श्लौ (जुहोत्यादिगणे), लिटि, चङि (लुङ्‌-लकारे), सनि, यङि च |</big>
 
 
<big>अत्रास्ति द्वित्वप्रकरणम्‌—</big>
 
 
 
Line 110 ⟶ 116:
 
<big>'''दाश्वान्साह्वान्मीढ्वांश्च''' (६.१.१२)</big>
 
 
<big>द्वित्वे जाते प्रथभागस्य नाम अभ्यासः, मिलित्वा द्वयोर्नाम अभ्यस्तम्‌ |</big>
 
 
 
<big>'''पूर्वोऽभ्यासः''' (६.१.४) = द्वित्वानन्तरं, यस्मिन्‌ द्विवारम्‌ उच्चारणं जातं तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्‌, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं—'''पूर्वः अभ्यासः द्वयोः''' |</big>
 
 
<big>'''उभे अभ्यस्तम्''' (६.१.५) = द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | उभे प्रथमान्तम्‌, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—'''उभे द्वे अभ्यस्तम्''' |</big>
 
 
 
Line 181 ⟶ 191:
 
<big>१. <u>विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌, तदा धातु-विकरणप्रत्यययोः मेलनम्‌</u></big>
 
 
<big>विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम् नास्ति यतः शप्‌-विकरणप्रत्ययस्य श्लुः भवति | श्लुः तु अङ्गकार्यस्य (अभ्यासकार्यस्य) निमित्तं भवति; तच्च तृतीये सोपाने क्रियते येन एकैकस्य धातोः चर्चा करणीया एकवारम्‌ एव | तदर्थम्‌ अभ्यासकार्यम्‌ अपि तत्रैव |</big>
 
 
 
<big>२. <u>तिङ्‌प्रत्यय-सिद्धिः</u></big>
 
 
<big>जुहोत्यादिगणे अङ्गम्‌ अनदन्तम्‌, अतः अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः भवन्ति | परन्तु यत्र धातुः अभ्यस्तसंज्ञकः अस्ति, तत्र तिङ्‌प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयं वर्तते | जुहोत्यादिगणे सर्वे धातवः अभ्यस्तसंज्ञकाः, अत्र सर्वत्र इमे द्वे कार्ये स्तः—</big>
 
 
 
Line 200 ⟶ 214:
 
<big>२) '''सिजभ्यस्तविदिभ्यश्च''' (३.४.१०९) = ङित्‌-लकारस्य अवस्थायां, सिच्‌-प्रत्ययात्‌, अभ्यस्तसंज्ञकात्‌ धातोः, विद्‌-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्‌-आदेशो भवति | सिच्‌ च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात्‌ '''ङितः''' इत्यस्य अनुवृत्तिः | '''झेर्जुस्‌''' (३.४.१०८) इत्यस्मात्‌ '''झेः जुस्‌''' इत्यनयोः अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः जुस्‌''' |</big>
 
 
<big>अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्‌-आदेशः | जुस्‌ इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि अभ्यस्तसंज्ञकः धातुः अस्ति चेत्‌, लङि अन्‌-स्थाने उः इति प्रत्ययः भवति |</big>
 
 
 
Line 210 ⟶ 226:
<big>                                                        <u>लट्‌-लकारः</u></big>
 
<big>                    '''ति'''      तः      अति                                    ते      आते     अते</big>
 
<big>                        '''सि'''     थः       थ                                       से     आथे      ध्वे</big>
Line 223 ⟶ 239:
<big>                  '''तु''', तात्‌    ताम्‌      अतु                                 ताम्‌      आताम्‌     अताम्‌</big>
 
<big>                     हि, तात्‌    तम्‌       त                                    स्व       आथाम्‌     ध्वम्‌</big>
 
<big>                  '''आनि    आव     आम                                  ऐ       आवहै   आमहै'''</big>
Line 231 ⟶ 247:
<big>                                                       <u>लङ्‌-लकारः</u></big>
 
<big>                '''त्‌'''        ताम्‌        उः                                    त      आताम्‌     अत</big>
 
<big>                 '''स्‌'''        तम्‌        त                                     थाः     आथाम्‌    ध्वम्‌</big>
Line 252 ⟶ 268:
 
<big>1. <u>आकारान्तधातवः</u> (6 धातवः सन्ति— माङ्‌ माने (मा), ओहाङ्‌ गतौ (हा), ओहाक्‌ त्यागे (हा), गा स्तुतौ (गा), डुदाञ्‌ दाने (दा), डुधाञ्‌ धारणपोषणयोः (धा) च)</big>
 
 
<big>A. माङ्‌ माने (मा), ओहाङ्‌ गतौ (हा), ओहाक्‌ त्यागे (हा), गा स्तुतौ (गा)</big>
 
 
 
<big>द्वित्वम्‌ अभ्यासकार्यं च—</big>
 
 
<big>भृञाद्यन्तर्गणः | डुभृञ्‌ धारणपोषणयोः, माङ्‌ माने, ओहाङ्‌ गतौ—इमे त्रयः धातवः भृञादयः |</big>
 
 
 
Line 297 ⟶ 317:
 
<big>'''ई हल्यघोः''' (६.४.११३) = श्ना-प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य स्थाने ई-कारादेशः भवति, किति ङिति हलादिसार्वधातुकप्रत्यये परे—परन्तु घुसंज्ञक-धातुः चेत्‌, न भवति (घुसंज्ञक-धातुः नाम दा धा च धातू) | न घुः अघुः, तस्य अघोः | ई लुप्तप्रथमाकं पदं, हलि सप्तम्यन्तम्‌ अघोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यस्मात्‌ '''श्नाभ्यस्तयोः''', '''आतः''' चेत्यनयोः अनुवृत्तिः | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात्‌ '''क्ङिति''' इत्यस्य अनुवृत्तिः; '''अत्‌ उत्सार्वधातुके''' (६.४.११०) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य श्नाभ्यस्तयोः आतः ई क्ङिति हलि सार्वधातुके अघोः''' |</big>
 
 
 
<big>मा - मिमा, हा - जिहा, हा - जहा, गा - जिगा एतेषां धातूनां कृते—</big>
Line 368 ⟶ 386:
 
<big>जहा + यात्‌ → जह् + यात्‌ → जह्यात्‌</big>
 
 
 
<big>तर्हि ओहाक्‌ - हा - जहा, परस्मैपदीधातुः |</big>
Line 375 ⟶ 391:
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
 
<big><u>रूपाणि</u></big>
Line 434 ⟶ 448:
 
<big>'''झयो होऽन्यतरस्याम्‌''' (८.४.६२) = झयः उत्तरस्य हकारस्य विकल्पेन पूर्वसवर्णादेशो भवति | झयः पञ्चम्यन्तं, हः षष्ठ्यन्तम्‌, अन्यतरस्यां सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''उदः स्थास्तम्भोः पूर्वस्य''' (८.४.६१) इत्यस्मात्‌ '''पूर्वस्य''' इत्यस्य अनुवृत्तिः; '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यस्मात्‌ '''सवर्णः''' इत्यस्य अनुवृत्तिः | अन्यतरस्याम्‌ इत्युक्ते विकल्पेन | अनुवृत्ति-सहितसूत्रं— '''झयः हः पूर्वस्य सवर्णः अन्यतरस्याम्‌''' |</big>
 
 
<big>ददा + हि → देहि | दधा + हि → धेहि | (अस्‌-धातोः एधि इति भवति; अग्रे अदादिगणस्य हलन्तधातुपाठे प्रक्रिया द्रष्टव्या |)</big>
 
 
 
Line 449 ⟶ 465:
 
<big>डुदाञ् ञित्त्वात्‌ उभयपदी धातुः | ददा इति अङ्गम्‌ |</big>
 
 
<big>परस्मैपदम्‌</big>
 
 
 
Line 485 ⟶ 503:
 
<big>'''दधस्तथोश्च''' (८.२.३८) = द्वित्वकृतस्य झषन्तस्य धाञ्‌-धातोः बशो भष्‌ स्यात्‌ तथोः स्ध्वोः च परयोः | 'दधा' इत्यस्य यत्र आकारलोपः, तत्र 'दध्‌' इति झषन्तरूपं सिध्यति | तादृशस्य 'दध्‌' इत्यस्य दकारस्य स्थाने धकारादेशो भवति तकारे, थकारे, सकारे ध्व-शब्दे च परे | इदं कार्यं वर्णनिमित्तकं न तु अङ्गनिमित्तकं; हल्‌-सन्धिकार्यम्‌ एव, अष्टमाध्याये च | झष्‌-प्रत्याहारे वर्गस्य चतुर्थवर्णाः अन्तर्भूताः— झ्‌, भ्‌, घ्‌, ढ्‌, ध्‌ | बश्‌-प्रत्याहारे ब्‌, ग्‌, ड्‌, द्‌ इत्येते वर्णाः | भष्‌-प्रत्याहारे भ्‌, घ्‌, ढ्‌, ध् इत्येते वर्णाः | तश्च थ्‌ च तथौ, तकारादकारः उच्चारणार्थः, तयोः तथोः | दधः षष्ठ्यन्तं, तथोः सप्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' (८.२.३७) इत्यस्मात्‌ '''बशो, भष्‌, झषन्तस्य, स्ध्वोः''' इत्येषाम्‌ अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''झषन्तस्य दधः बशः भष्‌ स्ध्वोः तथोः च''' |</big>
 
 
<big>यथा—</big>
Line 526 ⟶ 545:
 
<big>चर्‍-प्रत्याहारे च्‌, ट्‌, त्‌, क्‌, प्‌ इत्येते वर्णाः (वर्गाणां प्रथमवर्णाः) अन्तर्भूताः | श्‌, ष्‌, स्‌ अपि अन्तर्भूताः, परन्तु अनेन सूत्रेण श्‌-स्थाने श्‌, ष्‌-स्थाने ष्‌, स्‌-स्थाने स्‌ इति कारणतः कोऽपि भेदः नास्ति तत्र | पदान्ते इदं सूत्रं '''झलां जशोऽन्ते''' इत्यस्य बाधकम्‌ |</big>
 
 
<big>डुधाञ् ञित्त्वात्‌ उभयपदी धातुः | दधा इति अङ्गम्‌ |</big>
 
 
 
<big>परस्मैपदम्‌</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
 
Line 560 ⟶ 583:
 
 
<big>2. <u>इकारान्तधातवः ईकारान्तधातवः च</u> (3 धातवः)</big>
 
 
<big>त्रयः इ/ईकारान्तधातवः सन्ति | वर्गद्वये विभक्ताः यतः अजाद्यपित्सु कार्यं पृथक्तया क्रियेत | कि ज्ञाने (कि-धातुः), ञिभी भये (भी-धातुः) च असंयोगपूर्वौ धातू; ह्री लज्जायां (ह्री-धातुः) संयोगपूर्वः |</big>
 
 
 
Line 587 ⟶ 612:
 
<big>'''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) = असंयोगपूर्व-अनेकाच्‌-इकारान्ताङस्य यण्‌-आदेशो भवति अचि परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृश-धातुः यस्य अन्ते इकारः (न तु केवलम्‌ इकाररूप्यङ्गम्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अल्‌-वर्णस्य यणादेशः (न तु पूर्णाङ्गस्य) | न एकम्‌, अनेकम्‌, अनेके एकाचः यस्मिन्‌ सः अनेकाच्‌ नञ्तत्पुरुषगर्भो बहुव्रीहिः, तस्य अनेकाचः | नास्ति संयोगः पूर्वे यस्य स असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | एः षष्ठ्यन्तम्‌, अनेकाचः षष्ठ्यन्तम्‌, असंयोगपूर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''इणो यण्‌''' (६.४.८१) इत्यस्मात्‌ '''यण्‌''' इत्यस्य अनुवृत्तिः | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात्‌ '''अचि, धातोः''' (विपरिणामेन षष्ठ्यन्तम्‌) इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनेकाचः असंयोगपूर्वस्य एः धातोः अङ्गस्य यण्‌ अचि''' |</big>
 
 
<big>लङि विशेषः‌—</big>
Line 594 ⟶ 620:
 
<big>'''जुसि च''' (७.३.८३) = अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति | जुसि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन इगन्तस्य अङ्गस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य इकः स्थाने गुणादेशः | '''क्सस्याचि''' (७.३.७२) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः | '''मिदेर्गुणः''' (७.३.८२) त्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इति परिभाषासूत्रेण '''इकः''' स्थानी भवति | अनुवृत्ति-सहितसूत्रम्‌— '''इकः अङ्गस्य गुणः अचि जुसि च''' |</big>
 
 
<big>किमर्थम्‌ 'अजादौ जुसि परे' इति चेत्‌ 'शृणुयुः' | अत्र जुस्‌ भवति किन्तु स च जुस्‌ अजादिः नास्ति, अतः इगन्ताङ्गस्य गुणो न भवति | यासुट्‌-आगमे सति गुणः न भवति |</big>
 
 
 
<big>'''यासुट्‌ परस्मैपदेषूदात्तो ङिच्च''' (३.४.१०३) = लिङ्‌-लकारस्य परस्मैपदि-प्रत्ययानां यासु‌ट्‌-आगमो भवति; स च आगमो ङिद्वत्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''परस्मैपदानां लिङः लस्य उदात्तः यासुट्‌ ङित्‌ च''' |</big>
 
 
<big>यथासामान्यम्‌—</big>
Line 608 ⟶ 637:
 
 
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर्‍ च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात्‌ '''रः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रः पदस्य विसर्जनीयः खरवसानयो: संहितायाम्''' |</big>
 
 
<big>अत्र भी-धातोः एकः विशेषः—</big>
Line 616 ⟶ 646:
 
<big>भी + तः → बिभी + तः → बिभीतः, बिभितः |</big>
 
 
<big>ञिभी भये परस्मैपदी धातुः | बिभी इति असंयोगपूर्वम्‌ ईकारान्तम्‌ अङ्गम्‌ |</big>
Line 634 ⟶ 665:
 
<big>कि ज्ञाने (कि-धातुः) इत्यस्य कार्यं तथैव; चिकि इति अङ्गम्‌ अपि असंयोगपूर्वम्‌ अतः अजाद्यपित्सु यणादेशः |</big>
 
 
<big>ह्री लज्जायां परस्मैपदी धातुः | जिह्री इति संयोगपूर्वम्‌ ईकारान्तम् अङ्गम्‌ |</big>
 
 
 
Line 653 ⟶ 686:
 
<big>एक एव उकारान्तधातुः अस्ति— हु दानादनयोः (हु-धातुः) |</big>
 
 
<big>हु → द्वित्वम्‌ अभ्यासकार्यं च परिशीलनीयम्‌</big>
 
 
 
Line 667 ⟶ 702:
 
<big>'''हुश्नुवोः सार्वधातुके''' (६.४.८७) = हु-धातुः च अनेकाच्‌ श्नुप्रत्ययान्तम्‌ अङ्गं च, तयोः, असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण्‌-आदेशः भवति अजादि-सार्वधातुकप्रत्यये परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन उकारस्य स्थाने, यण्‌-प्रत्याहारे स्थितेषु वर्णेषु वकारः चितः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते उकारः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्ते उकारस्य स्थाने आदेशः; '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन अचि इत्युक्तौ अजादि-प्रत्यये | हुश्च श्नुश्च तयोरितरेतरद्वन्द्वः हुश्नुवौ, तयोः हुश्नुवोः | न विद्यते पूर्वः संयोगः यस्मात्‌, सः असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | हुश्नुवोः षष्ठ्यन्तं, सार्वधातुके सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः; '''इणो यण्‌''' (६.४.८१) इत्यस्मात् '''यण्‌''' इत्यस्य अनुवृत्तिः; '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इत्यस्मात्‌ '''अनेकाचः''', '''असंयोगपूर्वस्य''' इत्यनयोः अनुवृत्तिः; '''ओः सुपि''' (६.४.८३) इत्यस्मात् '''ओः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनेकाचः हुश्नुवोः असंयोगपूर्वस्य ओः अङ्गस्य यण्‌ अचि सार्वधातुके''' |</big>
 
 
<big>लङि—</big>
Line 674 ⟶ 710:
 
<big>'''जुसि च''' (७.३.८३) = अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति | जुसि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन इगन्तस्य अङ्गस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य इकः स्थाने गुणादेशः | '''क्सस्याचि''' (७.३.७२) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः | '''मिदेर्गुणः''' (७.३.८२) त्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इति परिभाषासूत्रेण '''इकः''' स्थानी भवति | अनुवृत्ति-सहितसूत्रम्‌— '''इकः अङ्गस्य गुणः अचि जुसि च''' |</big>
 
 
<big>लोटि—</big>
Line 681 ⟶ 718:
 
<big>झलन्तधातवः सन्ति येषाम्‌ अन्तिमो वर्णः झल्‌-प्रत्याहारे अन्तर्भूतः | अदादिगणे, जुहोत्यादिगणे, रुधादिगणे च एतादृशधातवः सम्भवन्ति | अग्रे धातूनां हल्‌-सन्धिविषयः आयाति, तदा एषां गणानां हलन्तधातून्‌ अवलोकयेम |</big>
 
 
<big>यथा— जुहु + हि → जुहु + धि → जुहुधि |</big>
 
 
 
<big>हु-धातुः परस्मैपदी | जुहु इति अङ्गम्‌ |</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
 
Line 702 ⟶ 743:
 
<big>4. <u>ऋकारान्तधातवः</u> (5 धातवः)</big>
 
 
<big>पञ्च ऋकारान्तधातवः सन्ति—डुभृञ्‌ धारणपोषणयोः (भृ), सृ गतौ (सृ), घृ क्षरणदीप्त्योः (घृ), हृ प्रसह्यकरणे (हृ), ऋ गतौ (ऋ) च |</big>
 
 
 
Line 715 ⟶ 758:
 
 
<big>'''भृञामित्‌''' (७.४.७६) इत्यनेन अभ्यासस्य इकारादेशः | '''अनेन उरत्''' (७.४.६६) इति सामान्याभ्यासकार्यं बाधितम्‌ |</big>
 
<big>भृ → द्वित्वम्‌ अभ्यासकार्यं च परिशीलनीयम्‌</big>
Line 757 ⟶ 800:
 
<big>४) अजाद्यपित्सु = '''इको यणचि''' इत्यनेन यण्‌-आदेशः | बिभृ + अति → बिभ्र् + अति → बिभ्रति</big>
 
 
<big>लङि‌—</big>
Line 778 ⟶ 822:
 
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर्‍ च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात्‌ रः इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रः पदस्य विसर्जनीयः खरवसानयो: संहितायाम्''' |</big>
 
 
<big>२. जुसि गुणः</big>
 
 
 
Line 786 ⟶ 832:
 
<big>'''जुसि च''' (७.३.८३) = अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति | जुसि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन इगन्तस्य अङ्गस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य इकः स्थाने गुणादेशः | '''क्सस्याचि''' (७.३.७२) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः | '''मिदेर्गुणः''' (७.३.८२) त्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इति परिभाषासूत्रेण '''इकः''' स्थानी भवति | अनुवृत्ति-सहितसूत्रम्‌— '''इकः अङ्गस्य गुणः अचि जुसि च''' |</big>
 
 
<big>डुभृञ्‌ धारणपोषणयोः ञित्त्वात्‌ उभयपदी धातुः | बिभृ इति अङ्गम्‌ |</big>
 
 
 
<big>परस्मैपदम्‌</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
 
Line 824 ⟶ 874:
 
<big>5. <u>ॠकारान्तधातवः</u> (1 धातुः)</big>
 
 
<big>एक एव ॠकारान्तधातुः अस्ति, पॄ पालनपूरणयोः |</big>
 
 
 
Line 881 ⟶ 933:
 
 
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर्‍ च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात्‌ '''रः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रः पदस्य विसर्जनीयः खरवसानयो: संहितायाम्''' |</big>
 
 
 
<big>२. जुसि गुणः</big>
 
 
<big>अपिपॄ + झि → '''सिजभ्यस्तविदिभ्यश्च''' इत्यनेन झि-प्रत्ययस्य स्थाने जुस्‌-आदेशः → अपिपॄ + उः → '''जुसि च''' इत्यनेन इगन्ताङ्गस्य गुणः → अपिपर्‍‍ + उः → अपिपरुः</big>
 
 
 
deletepagepermission, page_and_link_managers, teachers
1,046

edits