6---sArvadhAtukaprakaraNam-anadantam-aGgam/06A---juhotyAdigaNe-ajantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 71:
 
<big>जुहोत्यादिगणे विकरणप्रत्ययः शप्‌ आसीत्‌, अनन्तरं तस्य श्लु‌ अभवत्‌ | लुमता शपः अदर्शनं जातम्‌, अतः धात्वङ्गे शप्‌-निमित्तकम्‌ अङ्गकार्यं नार्हम्‌ |</big>
 
 
 
<big>अधुना नूतनप्रश्नः उदेति यत्‌ अदादिगणे लुक्‌ अपि लुमान्‌ अस्ति, जुहोत्यादिगणे श्लु अपि लुमान्‌ | द्वयमपि लुमान्‌ चेत्‌, द्वयोः भेदः कः ? वस्तुतः द्वयोः कुत्रचित्‌ साम्यं, कुत्रचित्‌ च भेदः | साम्यं अस्मिन्‌, यत्‌ लुमान्‌ सन्‌ प्रत्ययलक्षणं न भवति | पुनः भेदः, यतोहि विशिष्टसूत्राणि भवन्ति लुकः कृते श्लोः कृते च | यथा अदादिगणे '''उतो वृद्धिर्लुकि हलि''' इति सूत्रम्‌ अस्माभिः दृष्टं, येन गुणं प्रबाध्य वृद्धिर्भवति | श्लु इत्यनेन तादृशं कार्यं न प्राप्यते | किन्तु श्लोः विशिष्टं कार्यमपि अस्ति, यत्‌ लुक् इत्यनेन न सिध्यति | तत्र प्रमुखं कार्यम्‌ इदम्‌—</big>
Line 81 ⟶ 79:
 
<big>जुहोत्यादिगणे श्लुना सर्वेषां धातूनां द्वित्वं भवति | यथा दा → ददा, धा → दधा, भी → बिभी, हु → जुहु |</big>
 
 
 
<big>पाणिनीयव्याकरणे पञ्चसु स्थलेषु द्वित्वं भवति—श्लौ (जुहोत्यादिगणे), लिटि, चङि (लुङ्‌-लकारे), सनि, यङि च |</big>
Line 88 ⟶ 84:
 
<big>अत्रास्ति द्वित्वप्रकरणम्‌—</big>
 
 
 
<big>'''एकाचो द्वे प्रथमस्य''' (६.१.१)</big>
Line 117 ⟶ 111:
 
<big>द्वित्वे जाते प्रथभागस्य नाम अभ्यासः, मिलित्वा द्वयोर्नाम अभ्यस्तम्‌ |</big>
 
 
 
<big>'''पूर्वोऽभ्यासः''' (६.१.४) = द्वित्वानन्तरं, यस्मिन्‌ द्विवारम्‌ उच्चारणं जातं तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्‌, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं—'''पूर्वः अभ्यासः द्वयोः''' |</big>
Line 124 ⟶ 116:
 
<big>'''उभे अभ्यस्तम्''' (६.१.५) = द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | उभे प्रथमान्तम्‌, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—'''उभे द्वे अभ्यस्तम्''' |</big>
 
 
 
<big>तत्र द्वित्वस्य अनन्तरं कानिचन कार्याणि सन्ति अभ्यासे; यथा अभ्यासस्य ह्रस्वत्वम्‌, अल्पप्राणत्वं च भवति | इदं सर्वम् अभ्यासकार्यम्‌ इति उच्यते | आर्धधातुकप्रकरणे विस्तरेण परिशीलयाम (लिटि, लुङि, सनि, यङि इत्येषु) | अभ्यासकार्यस्य पुनः विभजनं भवति— सामान्याभ्यासकार्यं, विशेषाभ्यासकार्यं चेति | सामान्याभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति, सर्वेषां धातूनां कृते | विशेषाभ्यासकार्यं भवति द्वित्वस्य निमित्तम्‌ अधिकृत्य; यथा लिटि विशेषाभ्यासकार्यं, पुनः श्लौ पृथक्तया, पुनः सनि, यङि, चङि च |</big>
 
 
 
<big>अत्र सन्ति प्रमुख-सामान्याभ्यासकार्याणि—</big>
Line 165 ⟶ 153:
 
<big>'''अभ्यासे चर्च''' (८.४.५४) = अभ्यासे झल्‌-स्थाने जश्‌ चर् च आदेशौ भवतः | तत्र '''स्थानेऽन्तरतमः''' (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात्‌ झश्‌-स्थाने जश्‌ अपि च खय्‌-स्थाने चर् | अनुवृत्त्यर्थम्‌ अष्टमाध्याये | अभ्यासे सप्तम्यन्तं, चर्‍ प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां, जश्''' इत्यनयोः अनुवृत्तिः | '''तयोर्यवावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌‍ '''संहितायाम्‌''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—'''अभ्यासे झलां जश्‌ च‍र् च संहितायाम्‌''' |</big>
 
 
 
<big>अस्माभिः ज्ञायते यत्‌ सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति |</big>
Line 192 ⟶ 178:
 
<big>विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम् नास्ति यतः शप्‌-विकरणप्रत्ययस्य श्लुः भवति | श्लुः तु अङ्गकार्यस्य (अभ्यासकार्यस्य) निमित्तं भवति; तच्च तृतीये सोपाने क्रियते येन एकैकस्य धातोः चर्चा करणीया एकवारम्‌ एव | तदर्थम्‌ अभ्यासकार्यम्‌ अपि तत्रैव |</big>
 
 
 
<big>२. <u>तिङ्‌प्रत्यय-सिद्धिः</u></big>
Line 199 ⟶ 183:
 
<big>जुहोत्यादिगणे अङ्गम्‌ अनदन्तम्‌, अतः अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः भवन्ति | परन्तु यत्र धातुः अभ्यस्तसंज्ञकः अस्ति, तत्र तिङ्‌प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयं वर्तते | जुहोत्यादिगणे सर्वे धातवः अभ्यस्तसंज्ञकाः, अत्र सर्वत्र इमे द्वे कार्ये स्तः—</big>
 
 
 
<big>१) '''अदभ्यस्तात्''' (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्‌-आदेशो भवति | अत्‌ प्रथमान्तम्‌, अभ्यस्तात्‌ पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''झोऽन्तः''' (७.१.३) इत्यस्मात्‌ '''झः''' (षष्ठ्यन्तम्‌) इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्‌''' (७.१.२) इत्यस्मात्‌, वचनपरिणामं कृत्वा '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अभ्यस्तात्‌ अङ्गात्‌ प्रत्ययादेः झः अत्‌''' |</big>
Line 215 ⟶ 197:
 
<big>अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्‌-आदेशः | जुस्‌ इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि अभ्यस्तसंज्ञकः धातुः अस्ति चेत्‌, लङि अन्‌-स्थाने उः इति प्रत्ययः भवति |</big>
 
 
 
<big>अतः आहत्य अभ्यस्तसंज्ञक-धातूनां कृते, सार्वधातुकलकारेषु सिद्ध-तिङ्‌प्रत्ययाः एते | जुहोत्यादिगणे एते एव योजनीयाः—</big>
Line 269 ⟶ 249:
 
<big>A. माङ्‌ माने (मा), ओहाङ्‌ गतौ (हा), ओहाक्‌ त्यागे (हा), गा स्तुतौ (गा)</big>
 
 
 
<big>द्वित्वम्‌ अभ्यासकार्यं च—</big>
Line 276 ⟶ 254:
 
<big>भृञाद्यन्तर्गणः | डुभृञ्‌ धारणपोषणयोः, माङ्‌ माने, ओहाङ्‌ गतौ—इमे त्रयः धातवः भृञादयः |</big>
 
 
 
<big>'''भृञामित्‌''' (७.४.७६) = भृञ्‌ माङ्‌ ओहाङ्‌ इत्येषां धातूनाम्‌ अभ्यासस्य ह्रस्वः इकारादेशो भवति श्लौ परे | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इदादेशः, न तु अभ्यासस्य पूर्णस्य | भृञां षष्ठ्यन्तम्‌, इत्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''णिजां त्रयाणां गुणः श्लौ''' (७.४.७५) इत्यस्मात्‌ '''त्रयाणां, शलौ‌''' इत्यनयोः अनुवृत्तिः | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''भृञाम् त्रयाणाम्‌ अङ्गस्य अभ्यासस्य‌‌ इत्‌ शलौ''' |</big>
 
 
 
<big>त्रिषु धातुषु माङ्‌ माने (अनुबन्धलोपे मा), ओहाङ्‌ गतौ (अनुबन्धलोपे हा) आकारान्तधातू | द्वयमपि ङित्त्वात्‌ आत्मनेपदिधातुः |</big>
Line 449 ⟶ 423:
 
<big>ददा + हि → देहि | दधा + हि → धेहि | (अस्‌-धातोः एधि इति भवति; अग्रे अदादिगणस्य हलन्तधातुपाठे प्रक्रिया द्रष्टव्या |)</big>
 
 
 
<big>दा-धातोः अङ्ग-तिङ्‌प्रत्यययोः मेलने कुत्रचित्‌ चर्त्वसन्धिः भवति '''खरि च''' इत्यनेन सूत्रेण | चर्त्वसन्धौ तत्तत्‌ वर्गस्य प्रथमसदस्यादेशः भवति | ('''खरि च''' इति सूत्रम्‌ अधः विवृतम्‌ |) यथा—</big>
Line 466 ⟶ 438:
 
<big>परस्मैपदम्‌</big>
 
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
Line 546 ⟶ 516:
 
<big>डुधाञ् ञित्त्वात्‌ उभयपदी धातुः | दधा इति अङ्गम्‌ |</big>
 
 
 
<big>परस्मैपदम्‌</big>
Line 553 ⟶ 521:
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
 
<big><u>रूपाणि</u></big>
Line 585 ⟶ 551:
 
<big>त्रयः इ/ईकारान्तधातवः सन्ति | वर्गद्वये विभक्ताः यतः अजाद्यपित्सु कार्यं पृथक्तया क्रियेत | कि ज्ञाने (कि-धातुः), ञिभी भये (भी-धातुः) च असंयोगपूर्वौ धातू; ह्री लज्जायां (ह्री-धातुः) संयोगपूर्वः |</big>
 
 
 
<big>कि → द्वित्वम्‌ अभ्यासकार्यं च परिशीलनीयम्‌</big>
Line 621 ⟶ 585:
 
<big>किमर्थम्‌ 'अजादौ जुसि परे' इति चेत्‌ 'शृणुयुः' | अत्र जुस्‌ भवति किन्तु स च जुस्‌ अजादिः नास्ति, अतः इगन्ताङ्गस्य गुणो न भवति | यासुट्‌-आगमे सति गुणः न भवति |</big>
 
 
 
<big>'''यासुट्‌ परस्मैपदेषूदात्तो ङिच्च''' (३.४.१०३) = लिङ्‌-लकारस्य परस्मैपदि-प्रत्ययानां यासु‌ट्‌-आगमो भवति; स च आगमो ङिद्वत्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''परस्मैपदानां लिङः लस्य उदात्तः यासुट्‌ ङित्‌ च''' |</big>
Line 666 ⟶ 628:
 
<big>ह्री लज्जायां परस्मैपदी धातुः | जिह्री इति संयोगपूर्वम्‌ ईकारान्तम् अङ्गम्‌ |</big>
 
 
 
<big><u>रूपाणि</u></big>
Line 687 ⟶ 647:
 
<big>हु → द्वित्वम्‌ अभ्यासकार्यं च परिशीलनीयम्‌</big>
 
 
 
<big>१) हलादि पित्सु = '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः | जुहु + ति → जुहो + ति → जुहोति</big>
Line 719 ⟶ 677:
 
<big>यथा— जुहु + हि → जुहु + धि → जुहुधि |</big>
 
 
 
<big>हु-धातुः परस्मैपदी | जुहु इति अङ्गम्‌ |</big>
Line 726 ⟶ 682:
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
 
<big><u>रूपाणि</u></big>
Line 744 ⟶ 698:
 
<big>पञ्च ऋकारान्तधातवः सन्ति—डुभृञ्‌ धारणपोषणयोः (भृ), सृ गतौ (सृ), घृ क्षरणदीप्त्योः (घृ), हृ प्रसह्यकरणे (हृ), ऋ गतौ (ऋ) च |</big>
 
 
 
<big><u>अभ्यासकार्यम्‌</u></big>
Line 823 ⟶ 775:
 
<big>२. जुसि गुणः</big>
 
 
 
<big>अबिभृ + झि → '''सिजभ्यस्तविदिभ्यश्च''' इत्यनेन झि-प्रत्ययस्य स्थाने जुस्‌-आदेशः → अबिभृ + उः → '''जुसि च''' इत्यनेन इगन्ताङ्गस्य गुणः → अबिभर्‍ + उः → अबिभरुः</big>
Line 833 ⟶ 783:
 
<big>डुभृञ्‌ धारणपोषणयोः ञित्त्वात्‌ उभयपदी धातुः | बिभृ इति अङ्गम्‌ |</big>
 
 
 
<big>परस्मैपदम्‌</big>
Line 840 ⟶ 788:
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
 
<big><u>रूपाणि</u></big>
Line 875 ⟶ 821:
 
<big>एक एव ॠकारान्तधातुः अस्ति, पॄ पालनपूरणयोः |</big>
 
 
 
<big>'''अर्तिपिपर्त्योश्च''' (७.४.७७) = ऋ-धातोः पॄ-धातोः च अभ्यासस्य अन्त्यवर्णस्य ह्रस्व-इकारादेशो भवति श्लौ परे | अनेन सूत्रेण ॠ, पॄ धात्वोः अभ्यासस्य इत्त्वं भवति श्लौ | '''इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्‌''' (३.३.१०८, वार्तिकम्‌) इति वार्तिकेन ऋ → अर्ति, पॄ → पिपर्ति; द्वावपि सुबन्तौ | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इदादेशः, न तु अभ्यासस्य पूर्णस्य | अर्तिश्च पिपर्तिश्च तयोरितरेतरद्वन्द्वः अर्तिपिपर्ती, तयोः अर्तिपिपर्त्योः | अर्तिपिपर्त्योः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''भृञामित्‌''' (७.४.७६) इत्यस्मात्‌ '''इत्‌''' इत्यस्य अनुवृत्तिः | '''निजां त्रयाणां गुणः श्लौ''' (७.४.७५) इत्यस्मात्‌ '''शलौ‍''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अर्तिपिपर्त्योः च अङ्गस्य अभ्यासस्य इत्‌ श्लौ‌''' |</big>
Line 909 ⟶ 853:
 
<big>पिपॄ + तः → '''उदोष्ठ्यपूर्वस्य''' इत्यनेन उकारादेशः, '''उरण्‌ रपरः''' इत्यनेन रपरत्वम् → पिपुर्‍ + तः → '''हलि च''' इत्यनेन उपधायाः उकारस्य दीर्घत्वम् → पिपूर्‍ + तः → पिपूर्तः</big>
 
 
 
<big>लङि‌—</big>
Line 937 ⟶ 879:
 
<big>अपिपॄ + झि → '''सिजभ्यस्तविदिभ्यश्च''' इत्यनेन झि-प्रत्ययस्य स्थाने जुस्‌-आदेशः → अपिपॄ + उः → '''जुसि च''' इत्यनेन इगन्ताङ्गस्य गुणः → अपिपर्‍‍ + उः → अपिपरुः</big>
 
 
 
<big>'''जुसि च''' (७.३.८३) = अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति | जुसि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन इगन्तस्य अङ्गस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य इकः स्थाने गुणादेशः | '''क्सस्याचि''' (७.३.७२) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः | '''मिदेर्गुणः''' (७.३.८२) त्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इति परिभाषासूत्रेण '''इकः''' स्थानी भवति | अनुवृत्ति-सहितसूत्रम्‌— '''इकः अङ्गस्य गुणः अचि जुसि च''' |</big>
Line 964 ⟶ 904:
 
<big>[https://static.miraheze.org/samskritavyakaranamwiki/3/3e/%E0%A5%AC_-_%E0%A4%9C%E0%A5%81%E0%A4%B9%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A5%87_%E0%A4%85%E0%A4%9C%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A4%B5%E0%A4%83_%28c%29.pdf ६ - जुहोत्यादिगणे अजन्तधातवः (c).pdf] (135k) Swarup Bhai, May 19, 2019, 6:18 PM v.1</big>
 
 
<big>Swarup – August 2013 (Updated May 2016)</big>
deletepagepermission, page_and_link_managers, teachers
1,082

edits