page_and_link_managers, Administrators
5,097
edits
No edit summary |
No edit summary |

(12 intermediate revisions by the same user not shown) | |||
Line 37:

'''इणो यण्''' (६.४.८१) = इण्-धातोः यण्-आदेशः भवति अजादिप्रत्यये परे | इणः षष्ठ्यन्तं, यण् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात् '''अचि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''इणः अङ्गस्य यण् अचि''' |
Line 44 ⟶ 43:

'''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) = असंयोगपूर्व-अनेकाच्-
उ/ऊ प्रसङ्गे—

'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्, तस्मात् इत्यर्थः | य्वोः इति विशेषणं "धातु" शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गम्, भ्रू प्रातिपदिकम् च उकारान्तः एव अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम् | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात् इति अर्थः | श्नुश्च धातुश्च, भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम् | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ् च उवङ् च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्, इयङुवङौ प्रथमान्तम्, अनेकपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''य्वोः श्नुधातुभ्रुवाम् अङ्गानां इयङुवङौ अचि''' |

'''इको यणचि''' (६.१.७७) = इकः स्थाने यण्-आदेशः स्यात् अचि परे संहितायां विषये | इकः यण् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम् (सवर्णे अचि परे '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्येनेन यण् बाधितम्) | इकः षष्ठ्यन्तं, यण् प्रथमान्तं, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''संहितायाम्''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''इकः यण् अचि संहितायाम्''' |
Line 67 ⟶ 63:
[[File:इकारान्तानाम् अङ्गानांम् अजाद्यपित्सु समग्रं चिन्तनम्.png|border|center|frameless|1073x1073px]]

सामान्यम्
Line 131 ⟶ 79:
अपवादः
Line 142 ⟶ 89:

एकाच् सामान्यशास्त्रम्

Line 161 ⟶ 106:

अदादिगणे इण्-गतौ → इ + अन्ति → '''इणो यण्''' (६.४.८१) इत्यनेन यण् → यन्ति
Line 171 ⟶ 115:
जुहोत्यादिगणे ह्री-धातुः → जिह्री + अति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ् → जिह्र् + इय् + अति → जिह्रियति
Line 178 ⟶ 121:

असंयोगपूर्वः इकारान्तधातुः चेत्, '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इति सूत्रेण यण् विधीयते | उदाहरणानि यथा जुहोत्यादिगणे बिभी, चिकि; यङ्-लुकि यथा नेनी इत्यादीनि अङ्गानि |
Line 186 ⟶ 128:

वस्तुतः धातोः इकारः असंयोगपूर्वः चेदपि '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्य प्रसक्तिः अस्ति | किन्तु तत्र '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इति तत् सूत्रं प्रबाध्य यण् विदधाति |
बाध्यबाधकभावः
Line 206 ⟶ 146:
[[File:उकारान्तानाम् अङ्गानांम् अजाद्यपित्सु समग्रं चिन्तनम्.png|border|center|frameless|1072x1072px]]
Line 226 ⟶ 152:

सामान्यम्
'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७)'''
अपवादः
'''हुश्नुवोः सार्वधातुके (६.४.८७)'''
Line 242 ⟶ 163:
सर्वसामान्यम्
'''इको यणचि (६.१.७७)'''

Line 253 ⟶ 171:

इकारान्तेभ्यः ईकारान्तेभ्यः च उकारान्तधातुषु ऊकारान्तधातुषु च क्रमः भिन्नः; अत्र सामान्यशास्त्रे एकाच्-अनेकाच् इत्यनुसृत्य विभजनं नास्ति | किन्तु आम्, इवर्णान्तेषु इयङ् इव, उकारान्तधातोः साक्षात् अजादि-कित्-ङित्-प्रत्ययेन सह सम्पर्कः भवति चेत्, उवङः प्रसङ्गः आयाति | सामान्यशास्त्रम् अस्ति '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) | यथा अदादिगणे विकरणप्रत्ययस्य लुक् भवति अतः धातोः साक्षात् तिङ्प्रत्ययेन सह सम्पर्कः | तिङ्प्रत्ययः अजाद्यपित् चेत्, उवङ्-आदेशः—
Line 262 ⟶ 179:

पुनः अपरेषु गणेषु विकरणप्रत्ययः स्वयम् अजाद्यपित् चेत्, प्रसङ्गः आयाति—यथा तुदादिगणे विकरणप्रत्ययः श; अनुबन्धलोपे "अ" इति अजाद्यपित् अस्ति |
गु + श → गु + अ → ग् + उव् + अ → गुव → गुव + ति → गुवति
Line 279 ⟶ 194:
सू + अ → सुव

Line 287 ⟶ 201:
शक् + श्नु → शक्नु → शक्नु + अन्ति → शक्न् + उव् + अन्ति → शक्नुवन्ति

Line 310 ⟶ 223:
<big
'''क्षुभ्नादिषु च''' (८.४.३९) = क्षुभ्नादिगणे पठितानां शब्दानां नकारस्य स्थाने णकारादेशो न भवति | क्षुभ्ना आदिर्येषां ते क्षुभ्नादयः, तेषु क्षुभ्नादिषु | क्षुभ्नादिषु सप्तम्यम्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''रषाभ्यां नो णः समानपदे''' (८.४.१) इत्यस्मात् '''नः, णः''' इत्यनयोः अनुवृत्तिः | '''न भाभूपूकमिगमिप्यायीवेपाम्''' (८.४.३४) इत्यस्मात् '''न''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''क्षुभ्नादिषु च नः णः न संहितायाम्''' |
धेयं यत् '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इति सूत्रेण एकमेव विकरणप्रत्ययान्तम् अङ्गं यस्य उवङ् भवति— सुवादिगणे श्नुप्रत्ययान्तम् अङ्गम् | तदतिरिच्य सर्वे धातवः एव, इकारान्ताः उकारान्ताः च |

विशेषशास्त्रम्
Line 327 ⟶ 237:

१) हु-धातुः उकारान्तः अपि च जुहोत्यादिगणे सन् साक्षात् तस्य अजादि-कित्-ङित्-प्रत्ययेन सह सम्पर्कः भवति, किन्तु अपवादभूतः अयं धातुः | अयं धातुः साक्षात् उक्तः सूत्रे— '''हुश्नुवोः सार्वधातुके''' (६.४.८७) इत्यनेन यण् | जुहु + अति → जुह् + व् + अति → जुह्वति |

२) असंयोगपूर्वं श्नुप्रत्ययान्ताङ्गम् अस्ति चेत्, उवङ् प्रबाध्य '''हुश्नुवोः सार्वधातुके''' (६.४.८७) इति सूत्रेण यण् | स्वादिगणे यावन्तः अजन्तधातवः सन्ति, ते सर्वे अस्यां श्रेण्याम् अन्तर्भूताः |
Line 346 ⟶ 252:
पृ + श्नु → पृणु → पृण्वन्ति

सर्वसामान्यशास्त्रम्
Line 357 ⟶ 261:

अस्माभिः दृष्टं यत् यत्र कुत्रापि इकारान्तधातुरूपि-अङ्गात्, उकारान्तधातुरूपि-अङ्गात्, अथवा उकारान्ताविकरणप्रत्ययान्तात् अङ्गात् अजादि-कित्-ङित्-प्रत्ययः भवति, तत्र सदा '''इको यणचि''' (६.१.७७) आगत्य यण् विदधाति | किन्तु एतावता सर्वत्र '''इको यणचि''' इति सूत्रस्य कार्यं बाध्यते | सार्वधातुकलकारेषु एकस्मिन् एव स्थले एतादृश्यां स्थित्यां '''इको यणचि''' इत्यनेन यणः प्राप्तिः | तनादिगणे उ इति विकरणप्रत्ययः | अनेन प्रत्ययसहितम् उकारान्तम अङ्गं निष्पद्यते किन्तु श्नुप्रत्ययान्तम् अङ्गम नास्ति इति कारणतः '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्य प्रसक्तिः नास्त्येव | अतः तनादिगणे सर्वसामान्यशास्त्रेण यण्—
Line 371 ⟶ 274:
वन् + उ → वनु → वन्वन्ति
Line 379 ⟶ 281:

'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्य सार्वधातुकलकारेषु तर्हि आहत्य केषु धातुगणेषु प्रसक्तिः भवति ?

तुदादिगणे—
Line 390 ⟶ 290:
गु + श → गु + अ → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन उवङ् → ग् + उव् + अ → गुव + ति → गुवति

अदादिगणे—
इङ् अध्ययने अधि + इ + अते → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ् → अधि + इय् + अते → अधीयते
यु + अन्ति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन उवङ् → य् + उव् + अन्ति → युवन्ति
स्वादिगणे—
शक् + श्नु → शक्नु → शक्नु + अन्ति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन उवङ् → शक्न् + उव् + अन्ति → शक्नुवन्ति
जुहोत्यादिगणे—
ह्री-धातुः → जिह्री + अति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ् → जिह्र् + इय् + अति → जिह्रियति

एकः अन्तिमप्रश्नः उदेति— केचन उकारन्तधातवः सन्ति येषाम् उवङ्-आदेशो न दृश्यते एव सार्वधातुकलकारेषु | तत् किमर्थम् ? यथा भू-धातुः भ्वादिगणे, तस्य उवङ् प्रसङ्गः नैव आयाति सार्वधातुकलकारेषु | एतावता कारणं प्रायः जानन्ति—अत्र विकरणप्रत्ययः शप् पित् अस्ति; सार्वधातुकलकारेषु शप् सर्वदा आयाति, अतः धातोः साक्षात् अजादि-कित्-ङित्-प्रत्ययेन सह सम्पर्कः न कदापि भवति |

भू + शप् → भू + अ → भो + अ → भ् + अव् + अ → भव + अन्ति → भवन्ति |
अत्र भू, अन्ति इत्यनयोः साक्षात् सम्पर्कः नास्ति अतः उवङ्-आदेशस्य अवसरः न प्राप्यते | एवमेव भ्वादिगणे २६ अन्ये इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः च धातवः सन्ति | भू-धातुरिव तेषाम् इगन्तस्य गुणः भवति, यस्मात् अजादि-कित्-ङित्-प्रत्ययेन सह सम्पर्कः न कदापि भवति |

परन्तु आर्धधातुकलकारेषु च आर्धधातुककृत्-प्रत्ययेषु च एषाम् इयङ् उवङ् इत्यनयोः अवसरः अर्हः | अग्रे गत्वा यदा आर्धधातुकप्रकरणं कृत्-प्रकरणं च कुर्मः, तदा द्रक्ष्यामः |
इति इकारान्तानाम् उकारान्तानां च धातूनाम् अङ्गानां च अजाद्यपित्सु समग्रं चिन्तनम् समाप्तम् |