page_and_link_managers, Administrators
5,097
edits
No edit summary |
No edit summary |

(10 intermediate revisions by the same user not shown) | |||
Line 37:
<big
'''इणो यण्''' (६.४.८१) = इण्-धातोः यण्-आदेशः भवति अजादिप्रत्यये परे | इणः षष्ठ्यन्तं, यण् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात् '''अचि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''इणः अङ्गस्य यण् अचि''' |
Line 43:

'''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) = असंयोगपूर्व-अनेकाच्-
Line 52:

'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्, तस्मात् इत्यर्थः | य्वोः इति विशेषणं "धातु" शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गम्, भ्रू प्रातिपदिकम् च उकारान्तः एव अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम् | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात् इति अर्थः | श्नुश्च धातुश्च, भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम् | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ् च उवङ् च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्, इयङुवङौ प्रथमान्तम्, अनेकपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''य्वोः श्नुधातुभ्रुवाम् अङ्गानां इयङुवङौ अचि''' |

'''इको यणचि''' (६.१.७७) = इकः स्थाने यण्-आदेशः स्यात् अचि परे संहितायां विषये | इकः यण् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम् (सवर्णे अचि परे '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्येनेन यण् बाधितम्) | इकः षष्ठ्यन्तं, यण् प्रथमान्तं, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''संहितायाम्''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''इकः यण् अचि संहितायाम्''' |
Line 63 ⟶ 61:
'''हुश्नुवोः सार्वधातुके''' (६.४.८७) = हु-धातुः च अनेकाच् श्नुप्रत्ययान्तम् अङ्गं च, तयोः, असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण्-आदेशः भवति अजादि-सार्वधातुकप्रत्यये परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन उकारस्य स्थाने, यण्-प्रत्याहारे स्थितेषु वर्णेषु वकारः चितः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्ते उकारस्य स्थाने आदेशः; '''यस्मिन् विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम् २९) इत्यनेन अचि इत्युक्तौ अजादि-प्रत्यये | हुश्च श्नुश्च तयोरितरेतरद्वन्द्वः हुश्नुवौ, तयोः हुश्नुवोः | न विद्यते पूर्वः संयोगः यस्मात्, सः असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | हुश्नुवोः षष्ठ्यन्तं, सार्वधातुके सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात् '''अचि''' इत्यस्य अनुवृत्तिः; '''इणो यण्''' (६.४.८१) इत्यस्मात् '''यण्''' इत्यस्य अनुवृत्तिः; '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इत्यस्मात् '''अनेकाचः''', '''असंयोगपूर्वस्य''' इत्यनयोः अनुवृत्तिः; '''ओः सुपि''' (६.४.८३) इत्यस्मात् '''ओः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अनेकाचः हुश्नुवोः असंयोगपूर्वस्य ओः अङ्गस्य यण् अचि सार्वधातुके''' |
[[File:इकारान्तानाम् अङ्गानांम् अजाद्यपित्सु समग्रं चिन्तनम्.png|border|center|frameless|636x636px]]▼
▲[[File:इकारान्तानाम् अङ्गानांम् अजाद्यपित्सु समग्रं चिन्तनम्.png|border|center|frameless|
Line 74 ⟶ 75:
'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७)
अपवादः
'''इणो यण्''' (६.४.८१)
Line 102 ⟶ 106:

अदादिगणे इण्-गतौ → इ + अन्ति → '''इणो यण्''' (६.४.८१) इत्यनेन यण् → यन्ति
Line 112 ⟶ 115:
जुहोत्यादिगणे ह्री-धातुः → जिह्री + अति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ् → जिह्र् + इय् + अति → जिह्रियति

अनेकाच् विशेषशास्त्रम्
Line 125 ⟶ 128:

वस्तुतः धातोः इकारः असंयोगपूर्वः चेदपि '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्य प्रसक्तिः अस्ति | किन्तु तत्र '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इति तत् सूत्रं प्रबाध्य यण् विदधाति |
बाध्यबाधकभावः
अजादिषु कित्-ङित्-प्रत्ययेषु परेषु इवर्णान्तधातुरूपि-अङ्गे, आरम्भतः कथं कार्यं सिध्यति इति चेत् बाध्यबाधकभावः द्रष्टव्यः | यथा—
Line 143 ⟶ 146:
[[File:उकारान्तानाम् अङ्गानांम् अजाद्यपित्सु समग्रं चिन्तनम्.png|border|center|frameless|
▲[[File:उकारान्तानाम् अङ्गानांम् अजाद्यपित्सु समग्रं चिन्तनम्.png|border|center|frameless|680x680px]]
Line 150 ⟶ 152:

सामान्यम्
'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७)'''
Line 161 ⟶ 159:
'''हुश्नुवोः सार्वधातुके (६.४.८७)'''
सर्वसामान्यम्
'''इको यणचि (६.१.७७)'''
Line 168 ⟶ 169:

सामान्यशास्त्रम्
Line 228:
धेयं यत् '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इति सूत्रेण एकमेव विकरणप्रत्ययान्तम् अङ्गं यस्य उवङ् भवति— सुवादिगणे श्नुप्रत्ययान्तम् अङ्गम् | तदतिरिच्य सर्वे धातवः एव, इकारान्ताः उकारान्ताः च |
Line 253 ⟶ 252:
पृ + श्नु → पृणु → पृण्वन्ति
Line 276 ⟶ 274:
वन् + उ → वनु → वन्वन्ति
Line 284 ⟶ 281:

'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्य सार्वधातुकलकारेषु तर्हि आहत्य केषु धातुगणेषु प्रसक्तिः भवति ?

तुदादिगणे—
Line 295 ⟶ 290:
गु + श → गु + अ → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन उवङ् → ग् + उव् + अ → गुव + ति → गुवति

अदादिगणे—
इङ् अध्ययने अधि + इ + अते → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ् → अधि + इय् + अते → अधीयते
Line 313 ⟶ 306:

ह्री-धातुः → जिह्री + अति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ् → जिह्र् + इय् + अति → जिह्रियति</big
▲ह्री-धातुः → जिह्री + अति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ् → जिह्र् + इय् + अति → जिह्रियति

एकः अन्तिमप्रश्नः उदेति— केचन उकारन्तधातवः सन्ति येषाम् उवङ्-आदेशो न दृश्यते एव सार्वधातुकलकारेषु | तत् किमर्थम् ? यथा भू-धातुः भ्वादिगणे, तस्य उवङ् प्रसङ्गः नैव आयाति सार्वधातुकलकारेषु | एतावता कारणं प्रायः जानन्ति—अत्र विकरणप्रत्ययः शप् पित् अस्ति; सार्वधातुकलकारेषु शप् सर्वदा आयाति, अतः धातोः साक्षात् अजादि-कित्-ङित्-प्रत्ययेन सह सम्पर्कः न कदापि भवति |

भू + शप् → भू + अ → भो + अ → भ् + अव् + अ → भव + अन्ति → भवन्ति |