page_and_link_managers, Administrators
5,097
edits
No edit summary |
No edit summary |

(29 intermediate revisions by 4 users not shown) | |||
Line 1:
{{DISPLAYTITLE: 07 - इकारान्तानाम् उकारान्तानां च अङ्गानांम् अजाद्यपित्सु समग्रं चिन्तनम्}}
{| class="wikitable mw-collapsible mw-collapsed"
!ध्वनिमुद्रणानि

|'''2017 वर्गः'''

|१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/110_ikArAntAnAm-ukArAntAnAM-ca-angAnAm-ajAdyapitsu-samagraM-cintanam_2017-12-27.mp3 ikArAntAnAm-ukArAntAnAM-ca-angAnAm-ajAdyapitsu-samagraM-cintanam_2017-12-27]

|'''2016 वर्गः'''

|१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/70_ikArAntAnAM-dhAtUnAM-cintanam-ajAdyapitsu-pratyayeShu_2016-05-22.mp3 ikArAntAnAM-dhAtUnAM-cintanam-ajAdyapitsu-pratyayeShu_2016-05-22]
Line 12 ⟶ 13:
|२) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/71_ikArAntAnAm-ukArAntAnAM-ca-angAnAm-ajAdyapitsu-samagraM-cintanam_2016-06-05.mp3 ikArAntAnAm-ukArAntAnAM-ca-angAnAm-ajAdyapitsu-samagraM-cintanam_2016-06-05]

Line 21 ⟶ 24:

सूत्राणि

इ/ई प्रसङ्गे—

'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्, तस्मात् इत्यर्थः | य्वोः इति विशेषणं "धातु" शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गम्, भ्रू प्रातिपदिकम् च उकारान्तः एव अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम् | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात् इति अर्थः | श्नुश्च धातुश्च, भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम् | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ् च उवङ् च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्, इयङुवङौ प्रथमान्तम्, अनेकपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''य्वोः श्नुधातुभ्रुवाम् अङ्गानां इयङुवङौ अचि''' |

'''इणो यण्''' (६.४.८१) = इण्-धातोः यण्-आदेशः भवति अजादिप्रत्यये परे | इणः षष्ठ्यन्तं, यण् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात् '''अचि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''इणः अङ्गस्य यण् अचि''' |

'''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) = असंयोगपूर्व-अनेकाच्-इकारान्ताङ्गस्य यण्-आदेशो भवति अचि परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृश-धातुः यस्य अन्ते इकारः (न तु केवलम् इकाररूप्यङ्गम्; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अल्-वर्णस्य यणादेशः (न तु पूर्णाङ्गस्य) | न एकम्, अनेकम्, अनेके एकाचः यस्मिन् सः अनेकाच् नञ्तत्पुरुषगर्भो बहुव्रीहिः, तस्य अनेकाचः | नास्ति संयोगः पूर्वे यस्य स असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | एः षष्ठ्यन्तम्, अनेकाचः षष्ठ्यन्तम्, असंयोगपूर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | '''इणो यण्''' (६.४.८१) इत्यस्मात् '''यण्''' इत्यस्य अनुवृत्तिः | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात् '''अचि, धातोः''' (विपरिणामेन षष्ठ्यन्तम्) इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अनेकाचः असंयोगपूर्वस्य एः धातोः अङ्गस्य यण् अचि''' |
उ/ऊ प्रसङ्गे—

'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्, तस्मात् इत्यर्थः | य्वोः इति विशेषणं "धातु" शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गम्, भ्रू प्रातिपदिकम् च उकारान्तः एव अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम् | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात् इति अर्थः | श्नुश्च धातुश्च, भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम् | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ् च उवङ् च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्, इयङुवङौ प्रथमान्तम्, अनेकपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''य्वोः श्नुधातुभ्रुवाम् अङ्गानां इयङुवङौ अचि''' |

'''इको यणचि''' (६.१.७७) = इकः स्थाने यण्-आदेशः स्यात् अचि परे संहितायां विषये | इकः यण् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम् (सवर्णे अचि परे '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्येनेन यण् बाधितम्) | इकः षष्ठ्यन्तं, यण् प्रथमान्तं, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''संहितायाम्''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''इकः यण् अचि संहितायाम्''' |

'''हुश्नुवोः सार्वधातुके''' (६.४.८७) = हु-धातुः च अनेकाच् श्नुप्रत्ययान्तम् अङ्गं च, तयोः, असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण्-आदेशः भवति अजादि-सार्वधातुकप्रत्यये परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन उकारस्य स्थाने, यण्-प्रत्याहारे स्थितेषु वर्णेषु वकारः चितः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्ते उकारस्य स्थाने आदेशः; '''यस्मिन् विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम् २९) इत्यनेन अचि इत्युक्तौ अजादि-प्रत्यये | हुश्च श्नुश्च तयोरितरेतरद्वन्द्वः हुश्नुवौ, तयोः हुश्नुवोः | न विद्यते पूर्वः संयोगः यस्मात्, सः असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | हुश्नुवोः षष्ठ्यन्तं, सार्वधातुके सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात् '''अचि''' इत्यस्य अनुवृत्तिः; '''इणो यण्''' (६.४.८१) इत्यस्मात् '''यण्''' इत्यस्य अनुवृत्तिः; '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इत्यस्मात् '''अनेकाचः''', '''असंयोगपूर्वस्य''' इत्यनयोः अनुवृत्तिः; '''ओः सुपि''' (६.४.८३) इत्यस्मात् '''ओः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अनेकाचः हुश्नुवोः असंयोगपूर्वस्य ओः अङ्गस्य यण् अचि सार्वधातुके''' |
[[File:इकारान्तानाम् अङ्गानांम् अजाद्यपित्सु समग्रं चिन्तनम्.png|border|center|frameless|1073x1073px]]

सामान्यम्
'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७)
अपवादः
'''इणो यण्''' (६.४.८१)
'''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२)

एकाच् सामान्यशास्त्रम्

इकारान्तधातुषु ईकारान्तधातुषु च सर्वप्रथमं भागद्वयं करणीयम् अङ्गम् एकाच् अनेकाच् वा इति | अच् इति स्वरः, एक एव स्वरः यस्मिन् इति एकाच्, अनेके अचः यस्मिन् इति अनेकाच् | इकारान्तेषु एकाच्-धातुषु इयङ्-आदेशो भवति अजाद्यपिति प्रसङ्गे; '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इति सूत्रम् |

अदादिगणे वी + अन्ति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ् → व् + इय् + अन्ति → वियन्ति

एकाच् विशेषशास्त्रम्

केवलम् एक एव अपवादः—इण् गतौ | अजाद्यपिति प्रसङ्गे इण्-धातोः यण्-आदेशो भवति, '''इणो यण्''' (६.४.८१) इति सूत्रेण |

अदादिगणे इण्-गतौ → इ + अन्ति → '''इणो यण्''' (६.४.८१) इत्यनेन यण् → यन्ति

अनेकाच् सामान्यशास्त्रम्

इकारान्तधातोः अङ्गम् अनेकाच् अस्ति चेत्, सः इकारः संयोगपूर्वो वा असंयोगपूर्वो वा इति द्रष्टव्यम् | इकारः संयोगपूर्वः चेत्, अजाद्यपिति प्रसङ्गे इयङ्-आदेशो भवति | अयं सामान्यनियमः, सूत्रम् '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) | उदाहरणार्थं जुहोत्यादिगणे जिह्री, यङ्-लुकि पेप्री, शेश्रि, चेक्री च |
जुहोत्यादिगणे ह्री-धातुः → जिह्री + अति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ् → जिह्र् + इय् + अति → जिह्रियति

अनेकाच् विशेषशास्त्रम्

असंयोगपूर्वः इकारान्तधातुः चेत्, '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इति सूत्रेण यण् विधीयते | उदाहरणानि यथा जुहोत्यादिगणे बिभी, चिकि; यङ्-लुकि यथा नेनी इत्यादीनि अङ्गानि |
जुहोत्यादिगणे कि → चिकि + अति → '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इत्यनेन असंयोगपूर्वे यण् → चिक् + य् + अति → चिक्यति

वस्तुतः धातोः इकारः असंयोगपूर्वः चेदपि '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्य प्रसक्तिः अस्ति | किन्तु तत्र '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इति तत् सूत्रं प्रबाध्य यण् विदधाति |
बाध्यबाधकभावः
अजादिषु कित्-ङित्-प्रत्ययेषु परेषु इवर्णान्तधातुरूपि-अङ्गे, आरम्भतः कथं कार्यं सिध्यति इति चेत् बाध्यबाधकभावः द्रष्टव्यः | यथा—

तुदादिगणे रि + अ → '''इको यणचि''' (६.१.७७) इत्यनेन यण् → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणः → '''सार्वधातुकमपित्''' (१.२.४), '''क्क्ङिति च''' (१.१.५) इत्याभ्यां गुणनिषेधः → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ् → र् + इय् + अ + ति → रियति

अदादिगणे इण्-गतौ इ + अन्ति → '''इको यणचि''' (६.१.७७) इत्यनेन यण् → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणः → '''सार्वधातुकमपित्''' (१.२.४), '''क्क्ङिति च''' (१.१.५) इत्याभ्यां गुणनिषेधः → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ् → '''इणो यण्''' (६.४.८१) इत्यनेन यण् → यन्ति

जुहोत्यादिगणे भी-धातुः बिभी + अति → '''इको यणचि''' (६.१.७७) इत्यनेन यण् → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणः → '''सार्वधातुकमपित्''' (१.२.४), '''क्क्ङिति च''' (१.१.५) इत्याभ्यां गुणनिषेधः → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ् → '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इत्यनेन यण् → बिभ् + य् + अति → बिभ्यति
[[File:उकारान्तानाम् अङ्गानांम् अजाद्यपित्सु समग्रं चिन्तनम्.png|border|center|frameless|1072x1072px]]

'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७)'''
अपवादः
Line 235 ⟶ 160:
'''हुश्नुवोः सार्वधातुके (६.४.८७)'''
सर्वसामान्यम्
'''इको यणचि (६.१.७७)'''

सामान्यशास्त्रम्

इकारान्तेभ्यः ईकारान्तेभ्यः च उकारान्तधातुषु ऊकारान्तधातुषु च क्रमः भिन्नः; अत्र सामान्यशास्त्रे एकाच्-अनेकाच् इत्यनुसृत्य विभजनं नास्ति | किन्तु आम्, इवर्णान्तेषु इयङ् इव, उकारान्तधातोः साक्षात् अजादि-कित्-ङित्-प्रत्ययेन सह सम्पर्कः भवति चेत्, उवङः प्रसङ्गः आयाति | सामान्यशास्त्रम् अस्ति '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) | यथा अदादिगणे विकरणप्रत्ययस्य लुक् भवति अतः धातोः साक्षात् तिङ्प्रत्ययेन सह सम्पर्कः | तिङ्प्रत्ययः अजाद्यपित् चेत्, उवङ्-आदेशः—

यु + अन्ति → य् + उव् + अन्ति → युवन्ति

पुनः अपरेषु गणेषु विकरणप्रत्ययः स्वयम् अजाद्यपित् चेत्, प्रसङ्गः आयाति—यथा तुदादिगणे विकरणप्रत्ययः श; अनुबन्धलोपे "अ" इति अजाद्यपित् अस्ति |
गु + श → गु + अ → ग् + उव् + अ → गुव → गुव + ति → गुवति

ध्रु + अ → ध्रुव
Line 266 ⟶ 195:
सू + अ → सुव

पुनः अन्यप्रसङ्गः अस्ति यत्र सामान्यं प्रवर्तते—संयोगपूर्वं श्नुप्रत्ययान्ताङ्गम् | तत्रापि अजादौ किति ङिति प्रत्यये परे उवङ्-आदेशो विहितः |
Line 274 ⟶ 203:
शक् + श्नु → शक्नु → शक्नु + अन्ति → शक्न् + उव् + अन्ति → शक्नुवन्ति

Line 289 ⟶ 218:
तृप् → तृप्नुवन्ति*

<nowiki>*</nowiki>तृप्-धातुः क्षुभ्नादिगणे अस्ति |

'''क्षुभ्नादिषु च''' (८.४.३९) = क्षुभ्नादिगणे पठितानां शब्दानां नकारस्य स्थाने णकारादेशो न भवति | क्षुभ्ना आदिर्येषां ते क्षुभ्नादयः, तेषु क्षुभ्नादिषु | क्षुभ्नादिषु सप्तम्यम्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''रषाभ्यां नो णः समानपदे''' (८.४.१) इत्यस्मात् '''नः, णः''' इत्यनयोः अनुवृत्तिः | '''न भाभूपूकमिगमिप्यायीवेपाम्''' (८.४.३४) इत्यस्मात् '''न''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''क्षुभ्नादिषु च नः णः न संहितायाम्''' |
Line 298 ⟶ 230:

विशेषशास्त्रम्
अपवादभूतसूत्रम् एकमेव— '''हुश्नुवोः सार्वधातुके''' (६.४.८७) | अनेन उवङ्-स्थाने यण्-आदेशः |

१) हु-धातुः उकारान्तः अपि च जुहोत्यादिगणे सन् साक्षात् तस्य अजादि-कित्-ङित्-प्रत्ययेन सह सम्पर्कः भवति, किन्तु अपवादभूतः अयं धातुः | अयं धातुः साक्षात् उक्तः सूत्रे— '''हुश्नुवोः सार्वधातुके''' (६.४.८७) इत्यनेन यण् | जुहु + अति → जुह् + व् + अति → जुह्वति |

२) असंयोगपूर्वं श्नुप्रत्ययान्ताङ्गम् अस्ति चेत्, उवङ् प्रबाध्य '''हुश्नुवोः सार्वधातुके''' (६.४.८७) इति सूत्रेण यण् | स्वादिगणे यावन्तः अजन्तधातवः सन्ति, ते सर्वे अस्यां श्रेण्याम् अन्तर्भूताः |

चि + श्नु → चिनु → चिनु + अन्ति → चिन् + व् + अन्ति → चिन्वन्ति
रि + श्नु → रिणु → रिणु + अन्ति → रिण्वन्ति
Line 317 ⟶ 254:

सर्वसामान्यशास्त्रम्
'''इको यणचि''' (६.१.७७)

अस्माभिः दृष्टं यत् यत्र कुत्रापि इकारान्तधातुरूपि-अङ्गात्, उकारान्तधातुरूपि-अङ्गात्, अथवा उकारान्ताविकरणप्रत्ययान्तात् अङ्गात् अजादि-कित्-ङित्-प्रत्ययः भवति, तत्र सदा '''इको यणचि''' (६.१.७७) आगत्य यण् विदधाति | किन्तु एतावता सर्वत्र '''इको यणचि''' इति सूत्रस्य कार्यं बाध्यते | सार्वधातुकलकारेषु एकस्मिन् एव स्थले एतादृश्यां स्थित्यां '''इको यणचि''' इत्यनेन यणः प्राप्तिः | तनादिगणे उ इति विकरणप्रत्ययः | अनेन प्रत्ययसहितम् उकारान्तम अङ्गं निष्पद्यते किन्तु श्नुप्रत्ययान्तम् अङ्गम नास्ति इति कारणतः '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्य प्रसक्तिः नास्त्येव | अतः तनादिगणे सर्वसामान्यशास्त्रेण यण्—

तन् + उ → तनु → तनु + अन्ति → तन् + व् + अन्ति → तन्वन्ति
क्षण् + उ → क्षणु → क्षण्वन्ति
Line 335 ⟶ 276:

सर्वसामान्यनियमः तु '''इको यणचि''' (६.१.७७) अस्ति इति स्मर्यताम् | इदं सूत्रं प्रबाध्य एव '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) कार्यं करोति | उवङ् विधीयते उकारान्तधातुः अस्ति चेत् अथवा श्नुप्रत्ययान्तम् अङ्गम् अस्ति चेत् | तन्-धातुः न उकारान्तधातुः, न वा तस्य अङ्गं श्नुप्रत्ययान्तम् | '''इको यणचि''' इत्यस्य प्रसक्तिः अस्ति यथा सर्वत्र अजादि-प्रत्यये परे; अत्र '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इति सूत्रं न बाधते; अतः '''इको यणचि''' इत्यनेन एव यण्-आदेशो विहितः |

'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्य सार्वधातुकलकारेषु तर्हि आहत्य केषु धातुगणेषु प्रसक्तिः भवति ?

तुदादिगणे—
रि + अ → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ् →
गु + श → गु + अ → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन उवङ् → ग् + उव् + अ → गुव + ति → गुवति

अदादिगणे—
इङ् अध्ययने अधि + इ + अते → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ् → अधि + इय् + अते → अधीयते
यु + अन्ति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन उवङ् → य् + उव् + अन्ति → युवन्ति
स्वादिगणे—
Line 358 ⟶ 305:
शक् + श्नु → शक्नु → शक्नु + अन्ति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन उवङ् → शक्न् + उव् + अन्ति → शक्नुवन्ति
जुहोत्यादिगणे—
ह्री-धातुः → जिह्री + अति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ् → जिह्र् + इय् + अति → जिह्रियति

एकः अन्तिमप्रश्नः उदेति— केचन उकारन्तधातवः सन्ति येषाम् उवङ्-आदेशो न दृश्यते एव सार्वधातुकलकारेषु | तत् किमर्थम् ? यथा भू-धातुः भ्वादिगणे, तस्य उवङ् प्रसङ्गः नैव आयाति सार्वधातुकलकारेषु | एतावता कारणं प्रायः जानन्ति—अत्र विकरणप्रत्ययः शप् पित् अस्ति; सार्वधातुकलकारेषु शप् सर्वदा आयाति, अतः धातोः साक्षात् अजादि-कित्-ङित्-प्रत्ययेन सह सम्पर्कः न कदापि भवति |

भू + शप् → भू + अ → भो + अ → भ् + अव् + अ → भव + अन्ति → भवन्ति |
अत्र भू, अन्ति इत्यनयोः साक्षात् सम्पर्कः नास्ति अतः उवङ्-आदेशस्य अवसरः न प्राप्यते | एवमेव भ्वादिगणे २६ अन्ये इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः च धातवः सन्ति | भू-धातुरिव तेषाम् इगन्तस्य गुणः भवति, यस्मात् अजादि-कित्-ङित्-प्रत्ययेन सह सम्पर्कः न कदापि भवति |

इति इकारान्तानाम् उकारान्तानां च धातूनाम् अङ्गानां च अजाद्यपित्सु समग्रं चिन्तनम् समाप्तम् |

[https://static.miraheze.org/samskritavyakaranamwiki/e/e0/%E0%A5%AD_-_%E0%A4%87%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%AE%E0%A5%8D_%E0%A4%89%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%82_%E0%A4%9A_%E0%A4%85%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%AE%E0%A5%8D_%E0%A4%85%E0%A4%9C%E0%A4%BE%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A4%BF%E0%A4%A4%E0%A5%8D%E0%A4%B8%E0%A5%81_%E0%A4%B8%E0%A4%AE%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%82_%E0%A4%9A%E0%A4%BF%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A8%E0%A4%AE%E0%A5%8D.pdf ७ - इकारान्तानाम् उकारान्तानां च अङ्गानाम् अजाद्यपित्सु समग्रं चिन्तनम्.pdf] (66k) Swarup Bhai, Mar 31, 2019, 6:02 AM v.1

Swarup – August 2013 (updated May 2016)