6---sArvadhAtukaprakaraNam-anadantam-aGgam/07---ikArAntAnAm-ukArAntAnAM-ca-aGgAnAm-ajAdyapitsu-samagraM-cintanam: Difference between revisions

no edit summary
No edit summary
No edit summary

(15 intermediate revisions by the same user not shown)
Line 18:

इति + अस्ति → इत्यस्ति; लघु + अतः → लघ्वतः इति व्यवस्था | संस्कृतभाषायां यत्र कश्चन इक्‌-वर्णः अस्ति, परश्च कोऽ‍पि अच्‌-वर्णः, तत्र अव्यवहित-स्थित्याम्‌ इक्‌-स्थाने यण्‌-आदेशः भवति इति अस्माकं सामान्यनियमः | '''इको यणचि''' इति सूत्रम्‌; "इकः स्थाने यण्‌ स्यादचि संहितायां विषये" इति प्रसिद्धा वृत्तिः | यण्‌-सन्धिः इति वदामः |

अतः इकारः प्राक्‌, परश्च को‍ऽपि स्वरः, संहितायां विषये इ-स्थाने यकारः | उकारः प्राक्‌, परश्च कोऽपि स्वरः, संहितायां विषये उ-स्थाने वकारः इति सामान्यम्‌ | परन्तु धातु-विषये वार्ता भिन्ना भवति | तिङन्तपदस्य निर्माणावस्थायां सामान्यं भिन्नमिति | तत्र '''इको यणचि''' (६.१.७६) इति सूत्रं प्रबाध्य '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इति सूत्रेण इयङ्‌ उवङ्‌ च सामान्यं भवति | अनेन सूत्रेण अजादिषु प्रत्ययेषु इकारान्तधातुरूपि-अङ्गस्य इकारस्य स्थाने इयङ्‌-आदेशः, उकारान्तधातुरूपि-अङ्गस्य च उकारस्य स्थाने उवङ्‌-आदेशः भवति | अयं सामान्यनियमः—परन्तु अपवादाः सन्ति, अपि च इकारान्तानां च उकारान्तानां च सूत्राणाम्‌ आकृतिः भिन्ना, अतः कदाचित्‌ भ्रमात्मकः विषयः | तर्हि अत्र तस्य समग्रं चिन्तनं कुर्मः, येन विषयः पूर्णतया स्पष्टः स्यात्‌ |

Line 34 ⟶ 30:

इ/ई प्रसङ्गे—

Line 44 ⟶ 37:

'''इणो यण्''' (६.४.८१) = इण्-धातोः यण्‌-आदेशः भवति अजादिप्रत्यये परे | इणः षष्ठ्यन्तं, यण्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''इणः अङ्गस्य यण्‌ अचि''' |

'''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) = असंयोगपूर्व-अनेकाच्‌-इकारान्ताङस्यइकारान्ताङ्गस्य यण्‌-आदेशो भवति अचि परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृश-धातुः यस्य अन्ते इकारः (न तु केवलम्‌ इकाररूप्यङ्गम्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अल्‌-वर्णस्य यणादेशः (न तु पूर्णाङ्गस्य) | न एकम्‌, अनेकम्‌, अनेके एकाचः यस्मिन्‌ सः अनेकाच्‌ नञ्तत्पुरुषगर्भो बहुव्रीहिः, तस्य अनेकाचः | नास्ति संयोगः पूर्वे यस्य स असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | एः षष्ठ्यन्तम्‌, अनेकाचः षष्ठ्यन्तम्‌, असंयोगपूर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''इणो यण्‌''' (६.४.८१) इत्यस्मात्‌ '''यण्‌''' इत्यस्य अनुवृत्तिः | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात्‌ '''अचि, धातोः''' (विपरिणामेन षष्ठ्यन्तम्‌) इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनेकाचः असंयोगपूर्वस्य एः धातोः अङ्गस्य यण्‌ अचि''' |

उ/ऊ प्रसङ्गे—

उ/ऊ प्रसङ्गे—

'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम्‌ इकारस्य उकारस्य स्थाने क्रमेण इयङ्‌ उवङ्‌ च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्‌, तस्मात्‌ इत्यर्थः | य्वोः इति विशेषणं "धातु" शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गम्‌, भ्रू प्रातिपदिकम्‌ च उकारान्तः एव अतः तत्र इयङ्‌ इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात्‌ इति अर्थः | श्नुश्च धातुश्च, भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम्‌ | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ्‌ च उवङ्‌ च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्‌, इयङुवङौ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानां इयङुवङौ अचि''' |

'''इको यणचि''' (६.१.७७) = इकः स्थाने यण्‌-आदेशः स्यात्‌ अचि परे संहितायां विषये | इकः यण्‌ स्यात्‌ असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्‌ (सवर्णे अचि परे '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्येनेन यण्‌ बाधितम्‌) | इकः षष्ठ्यन्तं, यण्‌ प्रथमान्तं, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''इकः यण्‌ अचि संहितायाम्‌''' |

Line 84 ⟶ 64:

[[File:इकारान्तानाम्‌ अङ्गानांम्‌ अजाद्यपित्सु समग्रं चिन्तनम्‌.png|border|center|frameless|1073x1073px]]
{| class="wikitable mw-collapsible mw-collapsed"
|+इ / ई - अजादि किति ङिति परे

! colspan="2" |एकाच्‌
! colspan="2" |अनेकाच्‌

|सामान्यम् = इयङ्
|अपवादः = यण्‌
|सामान्यम् = इयङ्‌
|अपवादः = यण्‌

|इकारान्तधातवः
|अदादिगणे इण्‌-धातुः
|इकारान्तधातवः
|इकारान्तधातवः

|अङ्गम्‌ एकाच्‌
|अङ्गम्‌ एकाच्‌
|अङ्गम्‌ अनेकाच्‌
|अङ्गम्‌ अनेकाच्‌

|उदा—
|इ + अन्ति → यन्ति
|संयोगपूर्वः इकारः
|असंयोगपूर्वः इकारः

|तुदादिगणे रि-धातुः
|'''इणो यण्''' (६.४.८१)
|उदा—  जुहोत्यादिगणे ह्री-धातुः
|उदा— जुहोत्यादिगणे भी-धातुः

| रि + अ + ति → रियति

|जिह्री + अति →
|बिभी + अति →

|अदादिगणे वी-धातुः

|जिह्र्‍ + इय्‌ + अति → जिह्रियति
| बिभ्‌ + य्‌ + अति → बिभ्यति

|वी + अन्ति → व्‌ + इय्‌ + अन्ति → वियन्ति '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७)

|'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ'''
|'''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२)

सामान्यम्‌
Line 145 ⟶ 79:

अपवादः

Line 156 ⟶ 89:

एकाच्‌ सामान्यशास्त्रम्‌

Line 175 ⟶ 106:

अदादिगणे इण्‌-गतौ → इ + अन्ति → '''इणो यण्''' (६.४.८१) इत्यनेन यण्‌ → यन्ति

Line 184 ⟶ 114:
इकारान्तधातोः अङ्गम्‌ अनेकाच्‌ अस्ति चेत्‌, सः इकारः संयोगपूर्वो वा असंयोगपूर्वो वा इति द्रष्टव्यम्‌ | इकारः संयोगपूर्वः चेत्‌, अजाद्यपिति प्रसङ्गे इयङ्‌-आदेशो भवति | अयं सामान्यनियमः, सूत्रम्‌ '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) | उदाहरणार्थं जुहोत्यादिगणे जिह्री, यङ्‌-लुकि पेप्री, शेश्रि, चेक्री च |

जुहोत्यादिगणे ह्री-धातुः → जिह्री + अति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ्‌ → जिह्र्‍जिह्र् + इय्‌ + अति → जिह्रियति

Line 192 ⟶ 121:

असंयोगपूर्वः इकारान्तधातुः चेत्‌, '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इति सूत्रेण यण्‌ विधीयते | उदाहरणानि यथा जुहोत्यादिगणे बिभी, चिकि; यङ्‌-लुकि यथा नेनी इत्यादीनि अङ्गानि |

Line 200 ⟶ 128:

वस्तुतः धातोः इकारः असंयोगपूर्वः चेदपि '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्य प्रसक्तिः अस्ति | किन्तु तत्र '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इति तत्‌ सूत्रं प्रबाध्य यण्‌ विदधाति |

बाध्यबाधकभावः

Line 210 ⟶ 136:

तुदादिगणे रि + अ → '''इको यणचि''' (६.१.७७) इत्यनेन यण्‌ → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणः → '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) इत्याभ्यां गुणनिषेधः → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ्‌ → र्‍र् + इय्‌ + अ + ति → रियति

Line 220 ⟶ 146:

[[File:उकारान्तानाम् अङ्गानांम्‌ अजाद्यपित्सु समग्रं चिन्तनम्‌.png|border|center|frameless|1072x1072px]]
{| class="wikitable mw-collapsible mw-collapsed"

उ / ऊ

- अजादि किति ङिति परे
!सामान्यम् = उवङ्
!सामान्यम् = उवङ्
!अपवादः = यण्‌
!अपवादः = यण्‌
!सर्वसामान्यम्‌ = यण्‌

|उकारान्तधातवः
|संयोगपूर्वं श्नुप्रत्ययान्ताङ्गम्
|हु-धातुः
|असंयोगपूर्वं श्नुप्रत्ययान्ताङ्गम्
| श्नुं विहाय प्रत्ययसहितम्‌

| उदा—
|उदा—
|जुहु + अति →
|उदा—
|उकारान्तम्‌ अङ्गम्‌

| अदादिगणे यु-धातुः
|शक्‌ + श्नु → शक्नु
|जुह्‌‍ + व्‌‌ + अति
|चि + श्नु → चिनु
| उदा—

|यु + अन्ति →
|शक्नु + अन्ति →
|→ जुह्वति
|चिनु + अन्ति →
|तनादिगणे

|य्‌ + उव्‌ + अन्ति →
|शक्न्‌ + उव्‌ + अन्ति →
|'''हुश्नुवोः सार्वधातुके'''
|चिन्‌ + व्‌ + अन्ति →
|तन्‌ + उ → तनु

| युवन्ति
|शक्नुवन्ति

|चिन्वन्ति
|तनु + अन्ति →

| colspan="2" |'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७)'''

|'''हुश्नुवोः सार्वधातुके'''
|तन्‌ + व्‌ + अन्ति →

|तन्वन्ति

|'''इको यणचि'''

Line 289 ⟶ 152:

सामान्यम्‌

'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७)'''

अपवादः

'''हुश्नुवोः सार्वधातुके (६.४.८७)'''
Line 305 ⟶ 163:

सर्वसामान्यम्‌

'''इको यणचि (६.१.७७)'''

Line 316 ⟶ 171:

इकारान्तेभ्यः ईकारान्तेभ्यः च उकारान्तधातुषु ऊकारान्तधातुषु च क्रमः भिन्नः; अत्र सामान्यशास्त्रे एकाच्‌-अनेकाच्‌ इत्यनुसृत्य विभजनं नास्ति | किन्तु आम्‌, इवर्णान्तेषु इयङ्‌ इव, उकारान्तधातोः साक्षात्‌ अजादि-कित्‌-ङित्‌-प्रत्ययेन सह सम्पर्कः भवति चेत्‌, उवङः प्रसङ्गः आयाति | सामान्यशास्त्रम्‌ अस्ति '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) | यथा अदादिगणे विकरणप्रत्ययस्य लुक्‌ भवति अतः धातोः साक्षात्‌ तिङ्प्रत्ययेन सह सम्पर्कः | तिङ्‌प्रत्ययः अजाद्यपित्‌ चेत्‌, उवङ्‌-आदेशः—

Line 325 ⟶ 179:

पुनः अपरेषु गणेषु विकरणप्रत्ययः स्वयम्‌ अजाद्यपित्‌ चेत्‌, प्रसङ्गः आयाति—यथा तुदादिगणे विकरणप्रत्ययः श; अनुबन्धलोपे "अ" इति अजाद्यपित्‌ अस्ति |

गु + श → गु + अ → ग्‌ + उव्‌ + अ → गुव → गुव + ति → गुवति
Line 342 ⟶ 194:

सू + अ → सुव

Line 350 ⟶ 201:

शक्‌ + श्नु → शक्नु → शक्नु + अन्ति → शक्न्‌ + उव्‌ + अन्ति → शक्नुवन्ति

शक्‌ + श्नु → शक्नु → शक्नु + अन्ति → शक्न्‌ + उव्‌ + अन्ति → शक्नुवन्ति

Line 373 ⟶ 223:

'''क्षुभ्नादिषु च''' (८.४.३९) = क्षुभ्नादिगणे पठितानां शब्दानां नकारस्य स्थाने णकारादेशो न भवति | क्षुभ्ना आदिर्येषां ते क्षुभ्नादयः, तेषु क्षुभ्नादिषु | क्षुभ्नादिषु सप्तम्यम्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''रषाभ्यां नो णः समानपदे''' (८.४.१) इत्यस्मात्‌ '''नः, णः''' इत्यनयोः अनुवृत्तिः | '''न भाभूपूकमिगमिप्यायीवेपाम्‌''' (८.४.३४) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''क्षुभ्नादिषु च नः णः न संहितायाम्‌''' |

धेयं यत्‌ '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इति सूत्रेण एकमेव विकरणप्रत्ययान्तम्‌ अङ्गं यस्य उवङ्‌ भवति— सुवादिगणे श्नुप्रत्ययान्तम्‌ अङ्गम्‌ | तदतिरिच्य सर्वे धातवः एव, इकारान्ताः उकारान्ताः च |

विशेषशास्त्रम्

Line 390 ⟶ 237:

१) हु-धातुः उकारान्तः अपि च जुहोत्यादिगणे सन्‌ साक्षात्‌ तस्य अजादि-कित्‌-ङित्‌-प्रत्ययेन सह सम्पर्कः भवति, किन्तु अपवादभूतः अयं धातुः | अयं धातुः साक्षात्‌ उक्तः सूत्रे— '''हुश्नुवोः सार्वधातुके''' (६.४.८७) इत्यनेन यण्‌ | जुहु + अति → जुह्‌‍ + व्‌‌ + अति → जुह्वति |

२) असंयोगपूर्वं श्नुप्रत्ययान्ताङ्गम् अस्ति चेत्, उवङ्‌ प्रबाध्य '''हुश्नुवोः सार्वधातुके''' (६.४.८७) इति सूत्रेण यण्‌ | स्वादिगणे यावन्तः अजन्तधातवः सन्ति, ते सर्वे अस्यां श्रेण्याम्‌ अन्तर्भूताः |

Line 409 ⟶ 252:

पृ + श्नु → पृणु → पृण्वन्ति

सर्वसामान्यशास्त्रम्‌

Line 420 ⟶ 261:

अस्माभिः दृष्टं यत्‌ यत्र कुत्रापि इकारान्तधातुरूपि-अङ्गात्, उकारान्तधातुरूपि-अङ्गात्, अथवा उकारान्ताविकरणप्रत्ययान्तात्‌ अङ्गात्‌ अजादि-कित्‌-ङित्‌-प्रत्ययः भवति, तत्र सदा '''इको यणचि''' (६.१.७७) आगत्य यण्‌ विदधाति | किन्तु एतावता सर्वत्र '''इको यणचि''' इति सूत्रस्य कार्यं बाध्यते | सार्वधातुकलकारेषु एकस्मिन्‌ एव स्थले एतादृश्यां स्थित्यां '''इको यणचि''' इत्यनेन यणः प्राप्तिः | तनादिगणे उ इति विकरणप्रत्ययः | अनेन प्रत्ययसहितम् उकारान्तम अङ्गं निष्पद्यते किन्तु श्नुप्रत्ययान्तम्‌ अङ्गम नास्ति इति कारणतः '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्य प्रसक्तिः नास्त्येव | अतः तनादिगणे सर्वसामान्यशास्त्रेण यण्‌—

Line 434 ⟶ 274:

वन्‌ + उ → वनु → वन्वन्ति

Line 442 ⟶ 281:

'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्य सार्वधातुकलकारेषु तर्हि आहत्य केषु धातुगणेषु प्रसक्तिः भवति ?

Line 449 ⟶ 287:

रि + अ → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ्‌ → र् + इय्‌ + अ + ति → रियति

रि + अ → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ्‌ → र्‍ + इय्‌ + अ + ति → रियति

गु + श → गु + अ → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन उवङ्‌ → ग्‌ + उव्‌ + अ → गुव + ति → गुवति

अदादिगणे—

इङ्‌ अध्ययने अधि + इ + अते → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ्‌ → अधि + इय्‌ + अते → अधीयते

यु + अन्ति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन उवङ्‌ → य्‌ + उव्‌ + अन्ति → युवन्ति

स्वादिगणे—

शक्‌ + श्नु → शक्नु → शक्नु + अन्ति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन उवङ्‌ → शक्न्‌ + उव्‌ + अन्ति → शक्नुवन्ति

जुहोत्यादिगणे—

ह्री-धातुः → जिह्री + अति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ्‌ → जिह्र् + इय्‌ + अति → जिह्रियति
जुयोत्यादिगणे—

ह्री-धातुः → जिह्री + अति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ्‌ → जिह्र्‍ + इय्‌ + अति → जिह्रियति

एकः अन्तिमप्रश्नः उदेति— केचन उकारन्तधातवः सन्ति येषाम्‌ उवङ्‌-आदेशो न दृश्यते एव सार्वधातुकलकारेषु | तत्‌ किमर्थम्‌ ? यथा भू-धातुः भ्वादिगणे, तस्य उवङ्‌ प्रसङ्गः नैव आयाति सार्वधातुकलकारेषु | एतावता कारणं प्रायः जानन्ति—अत्र विकरणप्रत्ययः शप्‌ पित् अस्ति; सार्वधातुकलकारेषु शप्‌ सर्वदा आयाति, अतः धातोः साक्षात्‌ अजादि-कित्‌-ङित्‌-प्रत्ययेन सह सम्पर्कः न कदापि भवति |

एकः अन्तिमप्रश्नः उदेति— केचन उकारन्तधातवः सन्ति येषाम्‌ उवङ्‌-आदेशो न दृश्यते एव सार्वधातुकलकारेषु | तत्‌ किमर्थम्‌ ? यथा भू-धातुः भ्वादिगणे, तस्य उवङ्‌ प्रसङ्गः नैव आयाति सार्वधातुकलकारेषु | एतावता कारणं प्रायः जानन्ति—अत्र विकरणप्रत्ययः शप्‌ पित् अस्ति; सार्वधातुकलकारेषु शप्‌ सर्वदा आयाति, अतः धातोः साक्षात्‌ अजादि-कित्‌-ङित्‌-प्रत्ययेन सह सम्पर्कः न कदापि भवति |

भू + शप्‌ → भू + अ → भो + अ → भ्‌ + अव्‌ + अ → भव + अन्ति → भवन्ति |

अत्र भू, अन्ति इत्यनयोः साक्षात्‌ सम्पर्कः नास्ति अतः उवङ्‌-आदेशस्य अवसरः न प्राप्यते | एवमेव भ्वादिगणे २६ अन्ये इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः च धातवः सन्ति | भू-धातुरिव तेषाम्‌ इगन्तस्य गुणः भवति, यस्मात्‌ अजादि-कित्‌-ङित्‌-प्रत्ययेन सह सम्पर्कः न कदापि भवति |

परन्तु आर्धधातुकलकारेषु च आर्धधातुककृत्‌-प्रत्ययेषु च एषाम्‌ इयङ्‌ उवङ्‌ इत्यनयोः अवसरः अर्हः | अग्रे गत्वा यदा आर्धधातुकप्रकरणं कृत्‌-प्रकरणं च कुर्मः, तदा द्रक्ष्यामः |

इति इकारान्तानाम्‌ उकारान्तानां च धातूनाम्‌ अङ्गानां च अजाद्यपित्सु समग्रं चिन्तनम्‌ समाप्तम्‌ |
page_and_link_managers, Administrators
5,097

edits