6---sArvadhAtukaprakaraNam-anadantam-aGgam/07---ikArAntAnAm-ukArAntAnAM-ca-aGgAnAm-ajAdyapitsu-samagraM-cintanam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 18:

इति + अस्ति → इत्यस्ति; लघु + अतः → लघ्वतः इति व्यवस्था | संस्कृतभाषायां यत्र कश्चन इक्‌-वर्णः अस्ति, परश्च कोऽ‍पि अच्‌-वर्णः, तत्र अव्यवहित-स्थित्याम्‌ इक्‌-स्थाने यण्‌-आदेशः भवति इति अस्माकं सामान्यनियमः | '''इको यणचि''' इति सूत्रम्‌; "इकः स्थाने यण्‌ स्यादचि संहितायां विषये" इति प्रसिद्धा वृत्तिः | यण्‌-सन्धिः इति वदामः |

अतः इकारः प्राक्‌, परश्च को‍ऽपि स्वरः, संहितायां विषये इ-स्थाने यकारः | उकारः प्राक्‌, परश्च कोऽपि स्वरः, संहितायां विषये उ-स्थाने वकारः इति सामान्यम्‌ | परन्तु धातु-विषये वार्ता भिन्ना भवति | तिङन्तपदस्य निर्माणावस्थायां सामान्यं भिन्नमिति | तत्र '''इको यणचि''' (६.१.७६) इति सूत्रं प्रबाध्य '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इति सूत्रेण इयङ्‌ उवङ्‌ च सामान्यं भवति | अनेन सूत्रेण अजादिषु प्रत्ययेषु इकारान्तधातुरूपि-अङ्गस्य इकारस्य स्थाने इयङ्‌-आदेशः, उकारान्तधातुरूपि-अङ्गस्य च उकारस्य स्थाने उवङ्‌-आदेशः भवति | अयं सामान्यनियमः—परन्तु अपवादाः सन्ति, अपि च इकारान्तानां च उकारान्तानां च सूत्राणाम्‌ आकृतिः भिन्ना, अतः कदाचित्‌ भ्रमात्मकः विषयः | तर्हि अत्र तस्य समग्रं चिन्तनं कुर्मः, येन विषयः पूर्णतया स्पष्टः स्यात्‌ |

Line 34 ⟶ 30:

इ/ई प्रसङ्गे—

'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम्‌ इकारस्य उकारस्य स्थाने क्रमेण इयङ्‌ उवङ्‌ च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्‌, तस्मात्‌ इत्यर्थः | य्वोः इति विशेषणं "धातु" शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गम्‌, भ्रू प्रातिपदिकम्‌ च उकारान्तः एव अतः तत्र इयङ्‌ इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात्‌ इति अर्थः | श्नुश्च धातुश्च, भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम्‌ | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ्‌ च उवङ्‌ च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्‌, इयङुवङौ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानां इयङुवङौ अचि''' |

Line 48 ⟶ 40:

'''इणो यण्''' (६.४.८१) = इण्-धातोः यण्‌-आदेशः भवति अजादिप्रत्यये परे | इणः षष्ठ्यन्तं, यण्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''इणः अङ्गस्य यण्‌ अचि''' |

Line 58 ⟶ 45:

'''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) = असंयोगपूर्व-अनेकाच्‌-इकारान्ताङस्य यण्‌-आदेशो भवति अचि परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृश-धातुः यस्य अन्ते इकारः (न तु केवलम्‌ इकाररूप्यङ्गम्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अल्‌-वर्णस्य यणादेशः (न तु पूर्णाङ्गस्य) | न एकम्‌, अनेकम्‌, अनेके एकाचः यस्मिन्‌ सः अनेकाच्‌ नञ्तत्पुरुषगर्भो बहुव्रीहिः, तस्य अनेकाचः | नास्ति संयोगः पूर्वे यस्य स असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | एः षष्ठ्यन्तम्‌, अनेकाचः षष्ठ्यन्तम्‌, असंयोगपूर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''इणो यण्‌''' (६.४.८१) इत्यस्मात्‌ '''यण्‌''' इत्यस्य अनुवृत्तिः | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात्‌ '''अचि, धातोः''' (विपरिणामेन षष्ठ्यन्तम्‌) इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनेकाचः असंयोगपूर्वस्य एः धातोः अङ्गस्य यण्‌ अचि''' |

Line 73 ⟶ 59:

'''इको यणचि''' (६.१.७७) = इकः स्थाने यण्‌-आदेशः स्यात्‌ अचि परे संहितायां विषये | इकः यण्‌ स्यात्‌ असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्‌ (सवर्णे अचि परे '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्येनेन यण्‌ बाधितम्‌) | इकः षष्ठ्यन्तं, यण्‌ प्रथमान्तं, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''इकः यण्‌ अचि संहितायाम्‌''' |

Line 80 ⟶ 64:

'''हुश्नुवोः सार्वधातुके''' (६.४.८७) = हु-धातुः च अनेकाच्‌ श्नुप्रत्ययान्तम्‌ अङ्गं च, तयोः, असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण्‌-आदेशः भवति अजादि-सार्वधातुकप्रत्यये परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन उकारस्य स्थाने, यण्‌-प्रत्याहारे स्थितेषु वर्णेषु वकारः चितः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते उकारः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्ते उकारस्य स्थाने आदेशः; '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन अचि इत्युक्तौ अजादि-प्रत्यये | हुश्च श्नुश्च तयोरितरेतरद्वन्द्वः हुश्नुवौ, तयोः हुश्नुवोः | न विद्यते पूर्वः संयोगः यस्मात्‌, सः असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | हुश्नुवोः षष्ठ्यन्तं, सार्वधातुके सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः; '''इणो यण्‌''' (६.४.८१) इत्यस्मात् '''यण्‌''' इत्यस्य अनुवृत्तिः; '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इत्यस्मात्‌ '''अनेकाचः''', '''असंयोगपूर्वस्य''' इत्यनयोः अनुवृत्तिः; '''ओः सुपि''' (६.४.८३) इत्यस्मात् '''ओः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनेकाचः हुश्नुवोः असंयोगपूर्वस्य ओः अङ्गस्य यण्‌ अचि सार्वधातुके''' |

Line 86 ⟶ 69:
{| class="wikitable mw-collapsible mw-collapsed"
|+इ / ई - अजादि किति ङिति परे

[[File:इकारान्तानाम्‌ अङ्गानांम्‌ अजाद्यपित्सु समग्रं चिन्तनम्‌.png|border|center|frameless|549x549px|इकारान्तानाम्‌ अङ्गानांम्‌ अजाद्यपित्सु समग्रं चिन्तनम्‌]]

! colspan="2" |एकाच्‌
page_and_link_managers, Administrators
5,097

edits