6---sArvadhAtukaprakaraNam-anadantam-aGgam/07---ikArAntAnAm-ukArAntAnAM-ca-aGgAnAm-ajAdyapitsu-samagraM-cintanam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 17:
<big><br />
इति + अस्ति → इत्यस्ति; लघु + अतः → लघ्वतः इति व्यवस्था | संस्कृतभाषायां यत्र कश्चन इक्‌-वर्णः अस्ति, परश्च कोऽ‍पि अच्‌-वर्णः, तत्र अव्यवहित-स्थित्याम्‌ इक्‌-स्थाने यण्‌-आदेशः भवति इति अस्माकं सामान्यनियमः | इको यणचि इति सूत्रम्‌; "इकः स्थाने यण्‌ स्यादचि संहितायां विषये" इति प्रसिद्धा वृत्तिः | यण्‌-सन्धिः इति वदामः |</big>
 
 
<big>अतः इकारः प्राक्‌, परश्च को‍ऽपि स्वरः, संहितायां विषये इ-स्थाने यकारः | उकारः प्राक्‌, परश्च कोऽपि स्वरः, संहितायां विषये उ-स्थाने वकारः इति सामान्यम्‌ | परन्तु धातु-विषये वार्ता भिन्ना भवति | तिङन्तपदस्य निर्माणावस्थायां सामान्यं भिन्नमिति | तत्र इको यणचि (६.१.७६) इति सूत्रं प्रबाध्य अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इति सूत्रेण इयङ्‌ उवङ्‌ च सामान्यं भवति | अनेन सूत्रेण अजादिषु प्रत्ययेषु इकारान्तधातुरूपि-अङ्गस्य इकारस्य स्थाने इयङ्‌-आदेशः, उकारान्तधातुरूपि-अङ्गस्य च उकारस्य स्थाने उवङ्‌-आदेशः भवति | अयं सामान्यनियमः—परन्तु अपवादाः सन्ति, अपि च इकारान्तानां च उकारान्तानां च सूत्राणाम्‌ आकृतिः भिन्ना, अतः कदाचित्‌ भ्रमात्मकः विषयः | तर्हि अत्र तस्य समग्रं चिन्तनं कुर्मः, येन विषयः पूर्णतया स्पष्टः स्यात्‌ |</big>
 
<big>सूत्राणि</big>
 
 
<big>इ/ई प्रसङ्गे—</big>
 
<big>अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम्‌ इकारस्य उकारस्य स्थाने क्रमेण इयङ्‌ उवङ्‌ च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्‌, तस्मात्‌ इत्यर्थः | य्वोः इति विशेषणं "धातु" शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गम्‌, भ्रू प्रातिपदिकम्‌ च उकारान्तः एव अतः तत्र इयङ्‌ इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम्‌ | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात्‌ इति अर्थः | श्नुश्च धातुश्च, भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम्‌ | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ्‌ च उवङ्‌ च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्‌, इयङुवङौ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानां इयङुवङौ अचि |</big>
 
<big>अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम्‌ इकारस्य उकारस्य स्थाने क्रमेण इयङ्‌ उवङ्‌ च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्‌, तस्मात्‌ इत्यर्थः | य्वोः इति विशेषणं "धातु" शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गम्‌, भ्रू प्रातिपदिकम्‌ च उकारान्तः एव अतः तत्र इयङ्‌ इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम्‌ | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात्‌ इति अर्थः | श्नुश्च धातुश्च, भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम्‌ | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ्‌ च उवङ्‌ च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्‌, इयङुवङौ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानां इयङुवङौ अचि''' |</big>
<big>इणो यण् (६.४.८१) = इण्-धातोः यण्‌-आदेशः भवति अजादिप्रत्यये परे | इणः षष्ठ्यन्तं, यण्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— इणः अङ्गस्य यण्‌ अचि |</big>
 
 
<big>एरनेकाचोऽसंयोगपूर्वस्य (६.४.८२) = असंयोगपूर्व-अनेकाच्‌-इकारान्ताङस्य यण्‌-आदेशो भवति अचि परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृश-धातुः यस्य अन्ते इकारः (न तु केवलम्‌ इकाररूप्यङ्गम्‌; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अल्‌-वर्णस्य यणादेशः (न तु पूर्णाङ्गस्य) | न एकम्‌, अनेकम्‌, अनेके एकाचः यस्मिन्‌ सः अनेकाच्‌ नञ्तत्पुरुषगर्भो बहुव्रीहिः, तस्य अनेकाचः | नास्ति संयोगः पूर्वे यस्य स असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | एः षष्ठ्यन्तम्‌, अनेकाचः षष्ठ्यन्तम्‌, असंयोगपूर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | इणो यण्‌ (६.४.८१) इत्यस्मात्‌ यण्‌ इत्यस्य अनुवृत्तिः | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात्‌ अचि, धातोः (विपरिणामेन षष्ठ्यन्तम्‌) इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अनेकाचः असंयोगपूर्वस्य एः धातोः अङ्गस्य यण्‌ अचि |</big>
<big>'''इणो यण्''' (६.४.८१) = इण्-धातोः यण्‌-आदेशः भवति अजादिप्रत्यये परे | इणः षष्ठ्यन्तं, यण्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''इणः अङ्गस्य यण्‌ अचि''' |</big>
 
 
<big>'''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) = असंयोगपूर्व-अनेकाच्‌-इकारान्ताङस्य यण्‌-आदेशो भवति अचि परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृश-धातुः यस्य अन्ते इकारः (न तु केवलम्‌ इकाररूप्यङ्गम्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अल्‌-वर्णस्य यणादेशः (न तु पूर्णाङ्गस्य) | न एकम्‌, अनेकम्‌, अनेके एकाचः यस्मिन्‌ सः अनेकाच्‌ नञ्तत्पुरुषगर्भो बहुव्रीहिः, तस्य अनेकाचः | नास्ति संयोगः पूर्वे यस्य स असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | एः षष्ठ्यन्तम्‌, अनेकाचः षष्ठ्यन्तम्‌, असंयोगपूर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''इणो यण्‌''' (६.४.८१) इत्यस्मात्‌ '''यण्‌''' इत्यस्य अनुवृत्तिः | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात्‌ अचि, धातोः (विपरिणामेन षष्ठ्यन्तम्‌) इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनेकाचः असंयोगपूर्वस्य एः धातोः अङ्गस्य यण्‌ अचि''' |</big>
 
<big>उ/ऊ प्रसङ्गे—</big>
 
<big>'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम्‌ इकारस्य उकारस्य स्थाने क्रमेण इयङ्‌ उवङ्‌ च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्‌, तस्मात्‌ इत्यर्थः | य्वोः इति विशेषणं "धातु" शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गम्‌, भ्रू प्रातिपदिकम्‌ च उकारान्तः एव अतः तत्र इयङ्‌ इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात्‌ इति अर्थः | श्नुश्च धातुश्च, भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम्‌ | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ्‌ च उवङ्‌ च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्‌, इयङुवङौ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानां इयङुवङौ अचि''' |</big>
 
 
<big>'''इको यणचि''' (६.१.७७) = इकः स्थाने यण्‌-आदेशः स्यात्‌ अचि परे संहितायां विषये | इकः यण्‌ स्यात्‌ असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्‌ (सवर्णे अचि परे '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्येनेन यण्‌ बाधितम्‌) | इकः षष्ठ्यन्तं, यण्‌ प्रथमान्तं, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | संहितायाम्‌ (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''इकः यण्‌ अचि संहितायाम्‌''' |</big>
 
<big>इको यणचि (६.१.७७) = इकः स्थाने यण्‌-आदेशः स्यात्‌ अचि परे संहितायां विषये | इकः यण्‌ स्यात्‌ असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्‌ (सवर्णे अचि परे अकः सवर्णे दीर्घः (६.१.१०१) इत्येनेन यण्‌ बाधितम्‌) | इकः षष्ठ्यन्तं, यण्‌ प्रथमान्तं, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | संहितायाम्‌ (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— इकः यण्‌ अचि संहितायाम्‌ |</big>
 
<big>'''हुश्नुवोः सार्वधातुके''' (६.४.८७) = हु-धातुः च अनेकाच्‌ श्नुप्रत्ययान्तम्‌ अङ्गं च, तयोः, असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण्‌-आदेशः भवति अजादि-सार्वधातुकप्रत्यये परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन उकारस्य स्थाने, यण्‌-प्रत्याहारे स्थितेषु वर्णेषु वकारः चितः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते उकारः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्ते उकारस्य स्थाने आदेशः; यस्मिन्‌ विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम्‌ २९) इत्यनेन अचि इत्युक्तौ अजादि-प्रत्यये | हुश्च श्नुश्च तयोरितरेतरद्वन्द्वः हुश्नुवौ, तयोः हुश्नुवोः | न विद्यते पूर्वः संयोगः यस्मात्‌, सः असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | हुश्नुवोः षष्ठ्यन्तं, सार्वधातुके सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः; इणो यण्‌ (६.४.८१) इत्यस्मात् यण्‌ इत्यस्य अनुवृत्तिः; एरनेकाचोऽसंयोगपूर्वस्य (६.४.८२) इत्यस्मात्‌ अनेकाचः, असंयोगपूर्वस्य इत्यनयोः अनुवृत्तिः; ओः सुपि (६.४.८३) इत्यस्मात् ओः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अनेकाचः हुश्नुवोः असंयोगपूर्वस्य ओः अङ्गस्य यण्‌ अचि सार्वधातुके |</big>
 
{| class="wikitable mw-collapsible mw-collapsed"
Line 88 ⟶ 95:
<big>सामान्यम्‌</big>
 
<big>'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७)</big>
 
<big>अपवादः</big>
 
<big>'''इणो यण्''' (६.४.८१)</big>
 
<big>'''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२)</big>
 
<big>एरनेकाचोऽसंयोगपूर्वस्य (६.४.८२)</big>
 
<big>एकाच्‌ सामान्यशास्त्रम्‌</big>
 
<big>इकारान्तधातुषु ईकारान्तधातुषु च सर्वप्रथमं भागद्वयं करणीयम्‌ अङ्गम्‌ एकाच्‌ अनेकाच्‌ वा इति | अच्‌ इति स्वरः, एक एव स्वरः यस्मिन्‌ इति एकाच्, अनेके अचः यस्मिन् इति अनेकाच्‌ | इकारान्तेषु एकाच्‌-धातुषु इयङ्‌-आदेशो भवति अजाद्यपिति प्रसङ्गे; अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इति सूत्रम्‌ |</big>
 
<big>इकारान्तधातुषु ईकारान्तधातुषु च सर्वप्रथमं भागद्वयं करणीयम्‌ अङ्गम्‌ एकाच्‌ अनेकाच्‌ वा इति | अच्‌ इति स्वरः, एक एव स्वरः यस्मिन्‌ इति एकाच्, अनेके अचः यस्मिन् इति अनेकाच्‌ | इकारान्तेषु एकाच्‌-धातुषु इयङ्‌-आदेशो भवति अजाद्यपिति प्रसङ्गे; '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इति सूत्रम्‌ |</big>
<big>अदादिगणे वी + अन्ति → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन इयङ्‌ → व्‌ + इय्‌ + अन्ति → वियन्ति</big>
 
 
<big>अदादिगणे वी + अन्ति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ्‌ → व्‌ + इय्‌ + अन्ति → वियन्ति</big>
 
<big>एकाच्‌ विशेषशास्त्रम्‌</big>
 
 
<big>केवलम्‌ एक एव अपवादः—इण् गतौ | अजाद्यपिति प्रसङ्गे इण्‌-धातोः यण्‌-आदेशो भवति, इणो यण् (६.४.८१) इति सूत्रेण |</big>
 
<big>अदादिगणे इण्‌-गतौ → इ + अन्ति → '''इणो यण्''' (६.४.८१) इत्यनेन यण्‌ → यन्ति</big>
 
<big>अनेकाच्‌ सामान्यशास्त्रम्‌</big>
 
<big>इकारान्तधातोः अङ्गम्‌ अनेकाच्‌ अस्ति चेत्‌, सः इकारः संयोगपूर्वो वा असंयोगपूर्वो वा इति द्रष्टव्यम्‌ | इकारः संयोगपूर्वः चेत्‌, अजाद्यपिति प्रसङ्गे इयङ्‌-आदेशो भवति | अयं सामान्यनियमः, सूत्रम्‌ '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) | उदाहरणार्थं जुहोत्यादिगणे जिह्री, यङ्‌-लुकि पेप्री, शेश्रि, चेक्री च |</big>
 
<big>जुहोत्यादिगणे ह्री-धातुः → जिह्री + अति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ्‌ → जिह्र्‍ + इय्‌ + अति → जिह्रियति</big>
 
<big>अनेकाच्‌ विशेषशास्त्रम्‌</big>
 
<big>असंयोगपूर्वः इकारान्तधातुः चेत्‌, '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इति सूत्रेण यण्‌ विधीयते | उदाहरणानि यथा जुहोत्यादिगणे बिभी, चिकि; यङ्‌-लुकि यथा नेनी इत्यादीनि अङ्गानि |</big>
 
<big>जुहोत्यादिगणे कि → चिकि + अति → '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इत्यनेन असंयोगपूर्वे यण्‌ → चिक्‌ + य्‌ + अति → चिक्यति</big>
 
<big>वस्तुतः धातोः इकारः असंयोगपूर्वः चेदपि '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्य प्रसक्तिः अस्ति | किन्तु तत्र '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इति तत्‌ सूत्रं प्रबाध्य यण्‌ विदधाति |</big>
 
<big>बाध्यबाधकभावः</big>
Line 126 ⟶ 137:
<big>अजादिषु कित्‌-ङित्‌-प्रत्ययेषु परेषु इवर्णान्तधातुरूपि-अङ्गे, आरम्भतः कथं कार्यं सिध्यति इति चेत्‌ बाध्यबाधकभावः द्रष्टव्यः | यथा—</big>
 
<big>तुदादिगणे रि + अ → '''इको यणचि''' (६.१.७७) इत्यनेन यण्‌ → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणः → '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) इत्याभ्यां गुणनिषेधः → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ्‌ → र्‍ + इय्‌ + अ + ति → रियति</big>
 
<big>अदादिगणे इण्‌-गतौ इ + अन्ति → '''इको यणचि''' (६.१.७७) इत्यनेन यण्‌ → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणः → '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) इत्याभ्यां गुणनिषेधः → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ्‌ → '''इणो यण्''' (६.४.८१) इत्यनेन यण्‌ → यन्ति</big>
 
<big>जुहोत्यादिगणे भी-धातुः बिभी + अति → '''इको यणचि''' (६.१.७७) इत्यनेन यण्‌ → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणः → '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) इत्याभ्यां गुणनिषेधः → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ्‌ → '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इत्यनेन यण्‌ → बिभ्‌ + य्‌ + अति → बिभ्यति</big>
 
<big><br />
Line 245 ⟶ 256:
<big>वन्‌ + उ → वनु → वन्वन्ति</big>
 
<big>सर्वसामान्यनियमः तु इको यणचि (६.१.७७) अस्ति इति स्मर्यताम्‌ | इदं सूत्रं प्रबाध्य एव अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) कार्यं करोति | उवङ्‌ विधीयते उकारान्तधातुः अस्ति चेत्‌ अथवा श्नुप्रत्ययान्तम्‌ अङ्गम्‌ अस्ति चेत्‌ | तन्-धातुः न उकारान्तधातुः, न वा तस्य अङ्गं श्नुप्रत्ययान्तम्‌ | इको यणचि इत्यस्य प्रसक्तिः अस्ति यथा सर्वत्र अजादि-प्रत्यये परे; अत्र अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इति सूत्रं न बाधते; अतः इको यणचि इत्यनेन एव यण्‌-आदेशो विहितः |</big>
 
<big>सर्वसामान्यनियमः तु '''इको यणचि''' (६.१.७७) अस्ति इति स्मर्यताम्‌ | इदं सूत्रं प्रबाध्य एव '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) कार्यं करोति | उवङ्‌ विधीयते उकारान्तधातुः अस्ति चेत्‌ अथवा श्नुप्रत्ययान्तम्‌ अङ्गम्‌ अस्ति चेत्‌ | तन्-धातुः न उकारान्तधातुः, न वा तस्य अङ्गं श्नुप्रत्ययान्तम्‌ | इको यणचि इत्यस्य प्रसक्तिः अस्ति यथा सर्वत्र अजादि-प्रत्यये परे; अत्र अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इति सूत्रं न बाधते; अतः इको यणचि इत्यनेन एव यण्‌-आदेशो विहितः |</big>
<big>अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्य सार्वधातुकलकारेषु तर्हि आहत्य केषु धातुगणेषु प्रसक्तिः भवति ?</big>
 
 
<big>'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्य सार्वधातुकलकारेषु तर्हि आहत्य केषु धातुगणेषु प्रसक्तिः भवति ?</big>
 
<big>तुदादिगणे—</big>
Line 254 ⟶ 267:
 
<big>गु + श → गु + अ → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उवङ्‌ → ग्‌ + उव्‌ + अ → गुव + ति → गुवति</big>
 
 
<big>अदादिगणे—</big>
Line 260 ⟶ 274:
 
<big>यु + अन्ति → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उवङ्‌ → य्‌ + उव्‌ + अन्ति → युवन्ति</big>
 
 
<big>स्वादिगणे—</big>
 
<big>शक्‌ + श्नु → शक्नु → शक्नु + अन्ति → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उवङ्‌ → शक्न्‌ + उव्‌ + अन्ति → शक्नुवन्ति</big>
 
 
<big>जुयोत्यादिगणे—</big>
 
<big>ह्री-धातुः → जिह्री + अति → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन इयङ्‌ → जिह्र्‍ + इय्‌ + अति → जिह्रियति</big>
 
 
<big>एकः अन्तिमप्रश्नः उदेति— केचन उकारन्तधातवः सन्ति येषाम्‌ उवङ्‌-आदेशो न दृश्यते एव सार्वधातुकलकारेषु | तत्‌ किमर्थम्‌ ? यथा भू-धातुः भ्वादिगणे, तस्य उवङ्‌ प्रसङ्गः नैव आयाति सार्वधातुकलकारेषु | एतावता कारणं प्रायः जानन्ति—अत्र विकरणप्रत्ययः शप्‌ पित् अस्ति; सार्वधातुकलकारेषु शप्‌ सर्वदा आयाति, अतः धातोः साक्षात्‌ अजादि-कित्‌-ङित्‌-प्रत्ययेन सह सम्पर्कः न कदापि भवति |</big>
 
<big>भू + शप्‌ → भू + अ → भो + अ → भ्‌ + अव्‌ + अ → भव + अन्ति → भवन्ति |</big>
 
 
<big>अत्र भू, अन्ति इत्यनयोः साक्षात्‌ सम्पर्कः नास्ति अतः उवङ्‌-आदेशस्य अवसरः न प्राप्यते | एवमेव भ्वादिगणे २६ अन्ये इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः च धातवः सन्ति | भू-धातुरिव तेषाम्‌ इगन्तस्य गुणः भवति, यस्मात्‌ अजादि-कित्‌-ङित्‌-प्रत्ययेन सह सम्पर्कः न कदापि भवति |</big>
 
<big>परन्तु आर्धधातुकलकारेषु च आर्धधातुककृत्‌-प्रत्ययेषु च एषाम्‌ इयङ्‌ उवङ्‌ इत्यनयोः अवसरः अर्हः | अग्रे गत्वा यदा आर्धधातुकप्रकरणं कृत्‌-प्रकरणं च कुर्मः, तदा द्रक्ष्यामः |</big>
 
 
<big>इति इकारान्तानाम्‌ उकारान्तानां च धातूनाम्‌ अङ्गानां च अजाद्यपित्सु समग्रं चिन्तनम्‌ समाप्तम्‌ |</big>
 
 
<big>[https://static.miraheze.org/samskritavyakaranamwiki/e/e0/%E0%A5%AD_-_%E0%A4%87%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%AE%E0%A5%8D_%E0%A4%89%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%82_%E0%A4%9A_%E0%A4%85%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%AE%E0%A5%8D_%E0%A4%85%E0%A4%9C%E0%A4%BE%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A4%BF%E0%A4%A4%E0%A5%8D%E0%A4%B8%E0%A5%81_%E0%A4%B8%E0%A4%AE%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%82_%E0%A4%9A%E0%A4%BF%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A8%E0%A4%AE%E0%A5%8D.pdf ७ - इकारान्तानाम्‌ उकारान्तानां च अङ्गानाम्‌ अजाद्यपित्सु समग्रं चिन्तनम्‌.pdf] (66k) Swarup Bhai, Mar 31, 2019, 6:02 AM v.1</big>
 
 
 
deletepagepermission, page_and_link_managers, teachers
1,046

edits