6---sArvadhAtukaprakaraNam-anadantam-aGgam/07---ikArAntAnAm-ukArAntAnAM-ca-aGgAnAm-ajAdyapitsu-samagraM-cintanam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 18:

इति + अस्ति → इत्यस्ति; लघु + अतः → लघ्वतः इति व्यवस्था | संस्कृतभाषायां यत्र कश्चन इक्‌-वर्णः अस्ति, परश्च कोऽ‍पि अच्‌-वर्णः, तत्र अव्यवहित-स्थित्याम्‌ इक्‌-स्थाने यण्‌-आदेशः भवति इति अस्माकं सामान्यनियमः | '''इको यणचि''' इति सूत्रम्‌; "इकः स्थाने यण्‌ स्यादचि संहितायां विषये" इति प्रसिद्धा वृत्तिः | यण्‌-सन्धिः इति वदामः |

Line 32 ⟶ 35:

'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम्‌ इकारस्य उकारस्य स्थाने क्रमेण इयङ्‌ उवङ्‌ च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्‌, तस्मात्‌ इत्यर्थः | य्वोः इति विशेषणं "धातु" शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गम्‌, भ्रू प्रातिपदिकम्‌ च उकारान्तः एव अतः तत्र इयङ्‌ इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात्‌ इति अर्थः | श्नुश्च धातुश्च, भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम्‌ | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ्‌ च उवङ्‌ च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्‌, इयङुवङौ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानां इयङुवङौ अचि''' |

'''इणो यण्''' (६.४.८१) = इण्-धातोः यण्‌-आदेशः भवति अजादिप्रत्यये परे | इणः षष्ठ्यन्तं, यण्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''इणः अङ्गस्य यण्‌ अचि''' |

'''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) = असंयोगपूर्व-अनेकाच्‌-इकारान्ताङस्य यण्‌-आदेशो भवति अचि परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृश-धातुः यस्य अन्ते इकारः (न तु केवलम्‌ इकाररूप्यङ्गम्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अल्‌-वर्णस्य यणादेशः (न तु पूर्णाङ्गस्य) | न एकम्‌, अनेकम्‌, अनेके एकाचः यस्मिन्‌ सः अनेकाच्‌ नञ्तत्पुरुषगर्भो बहुव्रीहिः, तस्य अनेकाचः | नास्ति संयोगः पूर्वे यस्य स असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | एः षष्ठ्यन्तम्‌, अनेकाचः षष्ठ्यन्तम्‌, असंयोगपूर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''इणो यण्‌''' (६.४.८१) इत्यस्मात्‌ '''यण्‌''' इत्यस्य अनुवृत्तिः | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात्‌ '''अचि, धातोः''' (विपरिणामेन षष्ठ्यन्तम्‌) इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनेकाचः असंयोगपूर्वस्य एः धातोः अङ्गस्य यण्‌ अचि''' |

Line 44 ⟶ 53:

'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम्‌ इकारस्य उकारस्य स्थाने क्रमेण इयङ्‌ उवङ्‌ च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्‌, तस्मात्‌ इत्यर्थः | य्वोः इति विशेषणं "धातु" शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गम्‌, भ्रू प्रातिपदिकम्‌ च उकारान्तः एव अतः तत्र इयङ्‌ इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात्‌ इति अर्थः | श्नुश्च धातुश्च, भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम्‌ | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ्‌ च उवङ्‌ च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्‌, इयङुवङौ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानां इयङुवङौ अचि''' |

'''इको यणचि''' (६.१.७७) = इकः स्थाने यण्‌-आदेशः स्यात्‌ अचि परे संहितायां विषये | इकः यण्‌ स्यात्‌ असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्‌ (सवर्णे अचि परे '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्येनेन यण्‌ बाधितम्‌) | इकः षष्ठ्यन्तं, यण्‌ प्रथमान्तं, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''इकः यण्‌ अचि संहितायाम्‌''' |

'''हुश्नुवोः सार्वधातुके''' (६.४.८७) = हु-धातुः च अनेकाच्‌ श्नुप्रत्ययान्तम्‌ अङ्गं च, तयोः, असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण्‌-आदेशः भवति अजादि-सार्वधातुकप्रत्यये परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन उकारस्य स्थाने, यण्‌-प्रत्याहारे स्थितेषु वर्णेषु वकारः चितः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते उकारः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्ते उकारस्य स्थाने आदेशः; '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन अचि इत्युक्तौ अजादि-प्रत्यये | हुश्च श्नुश्च तयोरितरेतरद्वन्द्वः हुश्नुवौ, तयोः हुश्नुवोः | न विद्यते पूर्वः संयोगः यस्मात्‌, सः असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | हुश्नुवोः षष्ठ्यन्तं, सार्वधातुके सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः; '''इणो यण्‌''' (६.४.८१) इत्यस्मात् '''यण्‌''' इत्यस्य अनुवृत्तिः; '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इत्यस्मात्‌ '''अनेकाचः''', '''असंयोगपूर्वस्य''' इत्यनयोः अनुवृत्तिः; '''ओः सुपि''' (६.४.८३) इत्यस्मात् '''ओः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनेकाचः हुश्नुवोः असंयोगपूर्वस्य ओः अङ्गस्य यण्‌ अचि सार्वधातुके''' |

{| class="wikitable mw-collapsible mw-collapsed"
Line 102 ⟶ 117:

सामान्यम्‌

'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७)

अपवादः

'''इणो यण्''' (६.४.८१)
Line 115 ⟶ 136:

एकाच्‌ सामान्यशास्त्रम्‌

Line 121 ⟶ 144:

अदादिगणे वी + अन्ति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ्‌ → व्‌ + इय्‌ + अन्ति → वियन्ति

Line 130 ⟶ 155:

अदादिगणे इण्‌-गतौ → इ + अन्ति → '''इणो यण्''' (६.४.८१) इत्यनेन यण्‌ → यन्ति

Line 239 ⟶ 266:

सामान्यम्‌

'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७)'''
Line 262 ⟶ 291:

सामान्यशास्त्रम्‌

Line 271 ⟶ 302:

पुनः अपरेषु गणेषु विकरणप्रत्ययः स्वयम्‌ अजाद्यपित्‌ चेत्‌, प्रसङ्गः आयाति—यथा तुदादिगणे विकरणप्रत्ययः श; अनुबन्धलोपे "अ" इति अजाद्यपित्‌ अस्ति |

गु + श → गु + अ → ग्‌ + उव्‌ + अ → गुव → गुव + ति → गुवति
Line 299 ⟶ 332:

स्वादिगणे सर्वे हलन्तधातवः अपि तथा यतोहि धातु-श्नु इत्यनयोः मेलनेन संयोगः निष्पद्यते एव—

आप्‌ + श्नु → आप्नु → आप्नु + अन्ति → आप्‌ + उव्‌ + अन्ति → आप्नुवन्ति
Line 312 ⟶ 347:

<nowiki>*</nowiki>तृप्‌-धातुः क्षुभ्नादिगणे अस्ति |

Line 318 ⟶ 355:

धेयं यत्‌ '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इति सूत्रेण एकमेव विकरणप्रत्ययान्तम्‌ अङ्गं यस्य उवङ्‌ भवति— सुवादिगणे श्नुप्रत्ययान्तम्‌ अङ्गम्‌ | तदतिरिच्य सर्वे धातवः एव, इकारान्ताः उकारान्ताः च |

विशेषशास्त्रम्

विशेषशास्त्रम्

Line 383 ⟶ 421:

गु + श → गु + अ → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन उवङ्‌ → ग्‌ + उव्‌ + अ → गुव + ति → गुवति

अदादिगणे—

Line 403 ⟶ 444:

ह्री-धातुः → जिह्री + अति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ्‌ → जिह्र्‍ + इय्‌ + अति → जिह्रियति

एकः अन्तिमप्रश्नः उदेति— केचन उकारन्तधातवः सन्ति येषाम्‌ उवङ्‌-आदेशो न दृश्यते एव सार्वधातुकलकारेषु | तत्‌ किमर्थम्‌ ? यथा भू-धातुः भ्वादिगणे, तस्य उवङ्‌ प्रसङ्गः नैव आयाति सार्वधातुकलकारेषु | एतावता कारणं प्रायः जानन्ति—अत्र विकरणप्रत्ययः शप्‌ पित् अस्ति; सार्वधातुकलकारेषु शप्‌ सर्वदा आयाति, अतः धातोः साक्षात्‌ अजादि-कित्‌-ङित्‌-प्रत्ययेन सह सम्पर्कः न कदापि भवति |

Line 412 ⟶ 454:

अत्र भू, अन्ति इत्यनयोः साक्षात्‌ सम्पर्कः नास्ति अतः उवङ्‌-आदेशस्य अवसरः न प्राप्यते | एवमेव भ्वादिगणे २६ अन्ये इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः च धातवः सन्ति | भू-धातुरिव तेषाम्‌ इगन्तस्य गुणः भवति, यस्मात्‌ अजादि-कित्‌-ङित्‌-प्रत्ययेन सह सम्पर्कः न कदापि भवति |

page_and_link_managers, Administrators
5,097

edits