6---sArvadhAtukaprakaraNam-anadantam-aGgam/08---dhAtupAThe-hal-sandhiH-1: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(7 intermediate revisions by 2 users not shown)
Line 112:
<big>१. हलन्तेभ्यो धातुभ्यो लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययश्चेत्यनयोः योजनविधिः</big>
 
<big>२. हलन्तेभ्यो धातुभ्यस्‌धातुभ्यः सकारादिप्रत्ययानां योजनविधिः (लङ्‌-लकारस्य स्‌-प्रत्ययम्‌ अतिरिच्य)</big>
 
<big>३. हलन्तेभ्यो धातुभ्यस्‌धातुभ्यः तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्‌-लकारस्य त्‌-प्रत्ययम्‌ अतिरिच्य)</big>
 
<big>४. हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः</big>
Line 122:
 
 
<big>लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययश्चेत्यनयोः अपृक्त-संज्ञा भवति | अतस्‌अतः तयोर् योजनविधिर्भिन्नः |</big>
 
 
Line 141:
 
 
<big>'''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) = हलन्तात्‌, दीर्घङ्यन्तात्‌, दीर्घाबन्तात्‌ च सु-ति-सि इत्येषाम्‌ अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्‌-लोपः, लङि प्रथमपुरुषे त्‌-लोपः, मध्यमपुरुषे स्‌-लोपश्च | हल्‌ च ङी च आप्‌ च तेषाम्‌ इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम्‌ | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात्‌ पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल्‌ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''लोपो व्योर्वलि''' (६.१.६५) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे '''लुप्यते''' इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दीर्घात्‌ हल्ङ्याब्भ्यो सुतिसि -अपृक्तं हल्‌ लुप्यते''' |</big>
 
 
Line 349:
 
 
<big>'''राल्लोपः''' (६.४.२१) = रेफात्‌ परस्य छकारस्य वकारस्य च लोपो भवति क्वि, झलादि-प्रत्ययः, अनुनासिकः च परे अस्ति चेत्‌ | रात्‌ पञ्चम्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यस्मात्‌ '''च्छ्वोः''' इत्यस्य अनुवृत्तिः; अत्र धेयं यत्‌ अनुवृत्तौ 'तक्‌तुक्‌-सहितः छकारः' सत्यपि व्याख्याने तुगागमो नापेक्षितः अतः न स्वीकृतः | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात्‌ '''अनुनासिकस्य, क्विझलोः''' इत्यनयोः अनुवृत्तिः* | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य रात्‌ च्छ्वोः लोपः अनुनासिके क्विझलोः''' |</big>
 
 
Line 380:
 
 
<big>(**जिज्ञासुभिः पृच्छ्यते यत्‌ '''उपधायां च''' (८.२.७८) इत्यस्य कृते धातुसंज्ञा एव अपेक्षते अतः तिङ्‌-प्रत्ययस्य विधानात्‌ प्रागेव अनेन उपधादीर्घः क्रियेत | तस्मिन्‌‌ समये '''राल्लोपः''' (६.४.२१) इत्यस्य प्रसक्तिरेव नास्ति | तथा कुर्मश्चेत्‌, न केवलं '''राल्लोपः''' (६.४.२१) इत्यनेन दैर्घ्यस्य कर्यम्‌कार्यम्‌ असिद्धम्‌ अपि तु '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन अपि | अतः अन्ततो गत्वा ह्रस्व-उकारः एव दृश्यते इति कारणतः तस्य गुणो भवति एव | अमोमोः इति |)</big>
 
 
Line 417:
 
 
<big>अस्मिन्नेव प्रसङ्गे कोऽपि प्रष्टुं शक्नोति यत्‌ लङि त्‌-लोपे सति 'असन्स्त्‌' इति स्थितौ संयोगः अस्ति त्रयाणां वर्णानां—नकारसकारतकाराणाम्‌ | तस्मात्‌ सकारः संयोगस्य आदौ नास्ति इति कृत्वा '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इरिइति प्रसक्तं न | किन्तु यथोक्तम्‌ उपरि संयोगः द्वयोर्वर्णयोः एव न तु त्रयाणाम्‌ | अतः अत्र संयोगद्वयं वर्तते— नकारसकारयोः, सकारतकारयोश्च | सकारतकारयोः संयोगः पदान्ते, तत्र च प्रथमसदस्यः सकारः इत्यस्मात्‌ '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इति सूत्रं प्रसक्तं प्राप्तञ्च |</big>
 
 
Line 423:
 
 
<big>पुनः अन्यप्रश्नः— '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन यः सकारलोपः, सः तु '''संयोगान्तस्य लोपः''' (८.२.२३) इयनेनइत्यनेन न दृश्येत ननु कार्यासिद्धत्वात् ? उत्तरमस्ति यत्‌ तथा नास्ति यतोहि '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) अपवादत्वात्‌ प्रथमतया प्रवर्तितम्‌ | अपवादस्य बलेन तस्य कार्यं '''संयोगान्तस्य लोपः''' (८.२.२३) इयनेनइत्यनेन दृश्यते एव | अत्र '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यस्य एव अपवादः अतः तस्य इह किमपि कार्यं नास्ति |</big>
 
 
Line 496:
 
 
<big>'''दादेर्धातोर्घः''' (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ट्यन्तंषष्ठ्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''दादेः धातोः हः घः झलि पदस्य अन्ते च''' |</big>
 
 
page_and_link_managers, Administrators
5,097

edits