<big>यावन्तः प्रत्ययाः धातुभ्यः विहिताः सन्ति, ते सर्वे आरभ्यन्ते एभिः अच्-वर्णैः (नाम अ, आ, इ, ई, उ, ऊ, ए, ऐ इत्येभिः) अथवा एभिः हल्-वर्णैः— य्, र्र् / व्, म्, न् / त्, थ्, ध्, स् | यदा प्रत्ययः अज्भिः वर्णैः आरभ्यते अथवा य्, र्र् इत्येभिः हल्-वर्णैः आरभ्यते, तदा धातुः हलन्तः चेदपि हल्-सन्धिः न भवति (केवलं वर्ण-सम्मेलनं भवति) | धातुः हलन्तः अस्ति चेत् अथवा प्रक्रियायां हलन्तः भवति (यथा धा-धातुः, दधा + तः → दध् + तः → धत्तः), अपि च प्रत्ययः त्, थ्, ध्, स् इत्येभिः वर्णैः आरभ्यते, तस्यां दशायां हल्-सन्धिः प्रचुरः लभ्यते | व्, म्, न् इत्येभिः वर्णैः आरभ्यते चेत्, विशिष्टस्थलेषु लभ्यते* | सन्धिः नाम यत्र द्वयोः वर्णयोः मेलनेन वर्णविकारः भवति | हल्-सन्धिः नाम द्वयोः वर्णयोः एको वा द्वावपि वा हलौ, अपि च हलः विकारो भवति |</big>
<big>A. धातुः हलन्तः, प्रत्ययस्य प्रथमवर्णः अ, आ, इ, ई, उ, ऊ, ए, ऐ; य्, र्र् → वर्णमेलनमेव (सन्धिः न भवति) | व्, म्, न् चेत् आधिक्येन न भवति |</big>
<big>अबिभय् + उः → अबिभयुः (प्रत्ययः उदादिः)</big>
<big>जागर्जागर् + ऊकः → जागरूकः (प्रत्ययः ऊदादिः)</big>
<big>रुन्ध् + ए → रुन्धे (प्रत्ययः एदादिः)</big>
<big>१. हलन्तेभ्यो धातुभ्यो लङ्-लकारस्य त्-प्रत्ययः स्-प्रत्ययश्चेत्यनयोः योजनविधिः</big>
<big>२. हलन्तेभ्यो धातुभ्यस्धातुभ्यः सकारादिप्रत्ययानां योजनविधिः (लङ्-लकारस्य स्-प्रत्ययम् अतिरिच्य)</big>
<big>३. हलन्तेभ्यो धातुभ्यस्धातुभ्यः तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्-लकारस्य त्-प्रत्ययम् अतिरिच्य)</big>
<big>४. हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः</big>
<big>लङ्-लकारस्य त्-प्रत्ययः स्-प्रत्ययश्चेत्यनयोः अपृक्त-संज्ञा भवति | अतस्अतः तयोर् योजनविधिर्भिन्नः |</big>
<big>'''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' (६.१.६७) = हलन्तात्, दीर्घङ्यन्तात्, दीर्घाबन्तात् च सु-ति-सि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्-लोपः, लङि प्रथमपुरुषे त्-लोपः, मध्यमपुरुषे स्-लोपश्च | हल् च ङी च आप् च तेषाम् इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम् | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात् पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | '''लोपो व्योर्वलि''' (६.१.६५) इत्यस्मात् '''लोपः''' इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे '''लुप्यते''' इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्— '''दीर्घात् हल्ङ्याब्भ्यो सुतिसि -अपृक्तं हल् लुप्यते''' |</big>
<big>अजागृ + त् → गुणः → अजागर्अजागर् + त् → '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' इत्यनेन त्-लोपः → अजागर्अजागर् → खरवासयोर्विसर्जनीयः इत्यनेन र्र्-स्थाने विसर्गः → अजागः</big>
<big>अजागृ + स् → गुणः → अजागर्अजागर् + स् → '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' इत्यनेन स्-लोपः → अजागर्अजागर् → '''खरवासयोर्विसर्जनीयः''' इत्यनेन र्र्-स्थाने विसर्गः → अजागः</big>
<big>प्रथमे सोपाने तिङ्-प्रत्ययः संयोजितः अतः '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन पदं जातम् | यद्यपि त्-प्रत्ययः स्-प्रत्ययश्चेत्यनयोर्प्रत्ययश्चेत्यनयोर् लोपो जातः, तथापि तिङ्-प्रत्ययस्तु विहित एव अतः '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यनेन अधुना धातुः न, अपि तु तिङन्तं पदमेव | अधुना अरुणध्, अभिनद्, अहन्, अधोघ्, असंस्त् इति इमानि पदानि एव, अपि च एषां पदानाम् अन्ते यः हल्-वर्णः वर्तते, सः "पदान्तः हल्-वर्णः" | अनेन कारणेन अग्रे गत्वा इमानि विशिष्टानि कार्याणि भवन्ति यत्र यत्र प्राप्तिरस्ति—</big>
<big>पितृ + ङस् → अनुबन्धलोपे → पितृ + अस् → '''ऋत उत्''' (६.१.११११०९) इत्यनेन ऋकारान्तात् उत्तरयोः ङसिङसोः अति परे पूर्वपरयोः उकारः एकादेशः → पित् + उ + स् → '''उरण् रपरः''' (१.१.५१) इत्यनेन ऋ-स्थाने यः अण्, सः रपरः भवति → पित् + उर्उर् + स् → '''रात्सस्य''' (८.२.२४) इत्यनेन स्-लोपः → पितुर् → '''खरवसानयोर्विसर्जनीयः''' इत्यनेन अवसाने र्र्-स्थाने विसर्गादेशः → पितुः</big>
<big>'''राल्लोपः''' (६.४.२१) = रेफात् परस्य छकारस्य वकारस्य च लोपो भवति क्वि, झलादि-प्रत्ययः, अनुनासिकः च परे अस्ति चेत् | रात् पञ्चम्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यस्मात् '''च्छ्वोः''' इत्यस्य अनुवृत्तिः; अत्र धेयं यत् अनुवृत्तौ 'तक्तुक्-सहितः छकारः' सत्यपि व्याख्याने तुगागमो नापेक्षितः अतः न स्वीकृतः | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात् '''अनुनासिकस्य, क्विझलोः''' इत्यनयोः अनुवृत्तिः* | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य रात् च्छ्वोः लोपः अनुनासिके क्विझलोः''' |</big>
<big>अमोमुर्छ् + त् → '''राल्लोपः''' (६.४.२१) इत्यनेन छ्-लोपः → अमोमुर्अमोमुर् + त् → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधा-गुणः → अमोमोर्अमोमोर् + त् → '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' (६.१.६७) इत्यनेन त्-लोपः → अमोमोर्अमोमोर्</big>
<big>मोमुर्छ् + मि (लटि) → मकारस्य अनुनासिकत्वात् '''राल्लोपः''' (६.४.२१) इत्यनेन छलोपः → मोमुर्मोमुर् + मि → '''पुगन्तलघूपधस्य च''' (७.३.८६) → मोमोर्मि</big>
<big>मोमुर्छ् + मः → मकारस्य अनुनासिकत्वात् '''राल्लोपः''' (६.४.२१) इत्यनेन छलोपः → मोमुर्मोमुर् + मः → '''हलि च''' (८.२.७७) → मोमूर्मः</big>
<big>भ्वादौ तुर्वी-धातुः → तुर्व् → यङ्लुगन्तधातुः तोतुर्व्</big>
<big>तोतुर्व् + मि → मकारस्य अनुनासिकत्वात् '''राल्लोपः''' (६.४.२१) इत्यनेन वलोपः → तोतुर्तोतुर् + मि → '''पुगन्तलघूपधस्य च''' (७.३.८६) → तोतोर्मि</big>
<big>तोतुर्व् + मः → मकारस्य अनुनासिकत्वात् '''राल्लोपः''' (६.४.२१) इत्यनेन वलोपः → तोतुर्तोतुर् + मः → '''हलि च''' (८.२.७७) → तोतूर्मः</big>
<big>(**जिज्ञासुभिः पृच्छ्यते यत् '''उपधायां च''' (८.२.७८) इत्यस्य कृते धातुसंज्ञा एव अपेक्षते अतः तिङ्-प्रत्ययस्य विधानात् प्रागेव अनेन उपधादीर्घः क्रियेत | तस्मिन् समये '''राल्लोपः''' (६.४.२१) इत्यस्य प्रसक्तिरेव नास्ति | तथा कुर्मश्चेत्, न केवलं '''राल्लोपः''' (६.४.२१) इत्यनेन दैर्घ्यस्य कर्यम्कार्यम् असिद्धम् अपि तु '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन अपि | अतः अन्ततो गत्वा ह्रस्व-उकारः एव दृश्यते इति कारणतः तस्य गुणो भवति एव | अमोमोः इति |)</big>
<big>[अग्रे अमोमोर्अमोमोर् → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशः → अमोमोः]</big>
<big>अस्मिन्नेव प्रसङ्गे कोऽपि प्रष्टुं शक्नोति यत् लङि त्-लोपे सति 'असन्स्त्' इति स्थितौ संयोगः अस्ति त्रयाणां वर्णानां—नकारसकारतकाराणाम् | तस्मात् सकारः संयोगस्य आदौ नास्ति इति कृत्वा '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इरिइति प्रसक्तं न | किन्तु यथोक्तम् उपरि संयोगः द्वयोर्वर्णयोः एव न तु त्रयाणाम् | अतः अत्र संयोगद्वयं वर्तते— नकारसकारयोः, सकारतकारयोश्च | सकारतकारयोः संयोगः पदान्ते, तत्र च प्रथमसदस्यः सकारः इत्यस्मात् '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इति सूत्रं प्रसक्तं प्राप्तञ्च |</big>
<big>पुनः अन्यप्रश्नः— '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन यः सकारलोपः, सः तु '''संयोगान्तस्य लोपः''' (८.२.२३) इयनेनइत्यनेन न दृश्येत ननु कार्यासिद्धत्वात् ? उत्तरमस्ति यत् तथा नास्ति यतोहि '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) अपवादत्वात् प्रथमतया प्रवर्तितम् | अपवादस्य बलेन तस्य कार्यं '''संयोगान्तस्य लोपः''' (८.२.२३) इयनेनइत्यनेन दृश्यते एव | अत्र '''पूर्वत्रासिद्धम्''' (८.२.१) इत्यस्य एव अपवादः अतः तस्य इह किमपि कार्यं नास्ति |</big>
<big>'''दादेर्धातोर्घः''' (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ट्यन्तंषष्ठ्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''हो ढः''' (८.२.३१) इत्यस्मात् '''हः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात् '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''दादेः धातोः हः घः झलि पदस्य अन्ते च''' |</big>
<big>अचकास् + स् → स्-लोपः → अचकास् → '''सिपि धातो रुर्वा''' (८.२.७४) इत्यनेन विकल्पेन रु-आदेशः → अचकाद् / अचकारु → अचकारु चेत् उ इत्यस्य इत्-संज्ञा लोपश्च, '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन अवसाने र्र्-स्थाने विसर्गादेशः → अचकाः</big>
<big>अमोमोद् + स् → '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' इत्यनेन स्-लोपः → अमोमोद् इति पदम् → '''वाऽवसाने''' (८.४.५६) इत्यनेन विकल्पेन पदान्ते चर्-आदेशः → अमोमोत् / अमोमोद् → '''दश्च''' इत्यनेन अन्तिमदकारस्य विकल्पेन रुत्वम् → अमोमोद् / अमोमोरु → अमोमोरु चेत् उ इत्यस्य इत्-संज्ञा लोपश्च, '''खरवसानयोर्विसर्जनीयः''' इत्यनेन अवसाने र्-र् स्थाने विसर्गादेशः → अमोमोः | त्रीणि रूपाणि अमोमोत् / अमोमोद् / अमोमोः</big>
<big>'''वाऽवसाने''' (८.४.५६) = अवसाने झलः विकल्पेन चर्चर्-आदेशो भवति | अनेन अवसानावस्थायां विकल्पेन जश्त्वं चर्त्वं वा | वा अव्ययपदम्, अवसाने सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''झलां जश् झशि''' (८.४.५३) इत्यस्मात् '''झलां''' इत्यस्य अनुवृत्तिः | '''अभ्यासे चर्च''' (८.४.५४) इत्यस्मात् '''चर्चर्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अवसाने झलां चरो वा''' |</big>
<big>जुहोत्यादिगणे—</big>
<big>धन् → दधन्, धिष् → दिधिष्, निज् → नेनिज्, तुर्तुर् → तुतुर्तुतुर्, जन् → जजन्,</big>
<big>सिपि परे अवरीवृत् → यथा तिपि परे → अवरीवर्त् / अवरीवर्द् → '''दश्च''' (८.२.७५) इत्यनेन सिपि परे धातोः पदान्त-दकारस्य स्थाने विकल्पेन रु-आदेशो भवति → अवरीवर्र्अवरीवर्र् → '''रो रि''' (८.३.१४) इत्यनेन रेफस्य रेफे परे लोपः → र-लोपः → अवरीवर्अवरीवर् → '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यनेन ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः → अवरीवार्अवरीवार् → '''खरवसानयोर्विसर्जनीयः''' इत्यनेन अवसाने र्र्-स्थाने विसर्गादेशः → अवरीवाः</big>
<big>'''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) = ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः | ढकाररेफयोः लोपस्य निमित्तकढकाररेफे परे, अण्-प्रत्याहारे स्थितस्य दीर्घादेशो भवति | ढ्रलोपे इति द्वन्द्वगर्भ-उपपदतत्पुरुषसमासः— ढ् च र्र् च ढ्रौ, इतरेतरद्वन्द्वः, ढ्रौ लोपयतीति ढ्रलोपः, तस्मिन् ढ्रलोपे | ढ्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः | ढ्रलोपे सप्तम्यन्तं, पूर्वस्य षष्ठ्यन्तं, दीर्घः प्रथमान्तम्, अणः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूरणम्— '''ढ्रलोपे पूर्वस्य अणः दीर्घः''' |</big>
<big>विसर्गसन्धौ रेफस्य प्रसिद्धोदाहरणम् | पुनः रमते → पुनर्पुनर् + रमते → '''रो रि''' (८.३.१४) इत्यनेन रेफस्य रेफे परे लोपः → पुन + रमते → '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' → पुना रमते | अस्मिन् वृत्तान्ते रेफः एव रेफस्य लोपस्य निमित्तम् | रेफलोपनिमित्तकरेफात् प्राक् अण्-प्रत्याहारे अन्यतमवर्णोऽस्ति (अकारः इति) अतः अणः दीर्घत्वं भवति |</big>
<big>[https://static.miraheze.org/samskritavyakaranamwiki/04/0646/%E0%A5%AE_-_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A5%8D_8D%E2%80%8C-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83_%E0%A5%A7.pdf ८ - धातुपाठे हल्-सन्धिः १.pdf] (132k) Swarup Bhai, Jul 23, 2019, 11:25 PM v.1</big>
|