6---sArvadhAtukaprakaraNam-anadantam-aGgam/08---dhAtupAThe-hal-sandhiH-1: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/08---dhAtupAThe-hal-sandhiH-1 (view source)
Revision as of 21:00, 27 May 2021
, 3 years agono edit summary
No edit summary |
No edit summary |
||
Line 47:
<big>यावन्तः प्रत्ययाः धातुभ्यः विहिताः सन्ति, ते सर्वे आरभ्यन्ते एभिः अच्-वर्णैः (नाम अ, आ, इ, ई, उ, ऊ, ए, ऐ इत्येभिः) अथवा एभिः हल्-वर्णैः— य्, र् / व्, म्, न् / त्, थ्, ध्, स् | यदा प्रत्ययः अज्भिः वर्णैः आरभ्यते अथवा य्, र् इत्येभिः हल्-वर्णैः आरभ्यते, तदा धातुः हलन्तः चेदपि हल्-सन्धिः न भवति (केवलं वर्ण-सम्मेलनं भवति) | धातुः हलन्तः अस्ति चेत् अथवा प्रक्रियायां हलन्तः भवति (यथा धा-धातुः, दधा + तः → दध् + तः → धत्तः), अपि च प्रत्ययः त्, थ्, ध्, स् इत्येभिः वर्णैः आरभ्यते, तस्यां दशायां हल्-सन्धिः प्रचुरः लभ्यते | व्, म्, न् इत्येभिः वर्णैः आरभ्यते चेत्, विशिष्टस्थलेषु लभ्यते* | सन्धिः नाम यत्र द्वयोः वर्णयोः मेलनेन वर्णविकारः भवति | हल्-सन्धिः नाम द्वयोः वर्णयोः एको वा द्वावपि वा हलौ, अपि च हलः विकारो भवति |</big>
<big>(*वक्ष्यमाणसूत्रैः '''लोपो व्योर्वलि''' (६.१.६६), '''च्छ्वोः शूडनुनासिके च''' (६.४.१९), '''राल्लोपः''' (६.४.२१) इति)</big>
<big>A. धातुः हलन्तः, प्रत्ययस्य प्रथमवर्णः अ, आ, इ, ई, उ, ऊ, ए, ऐ; य्, र् → वर्णमेलनमेव (सन्धिः न भवति) | व्, म्, न् चेत् आधिक्येन न भवति |</big>
<big>यथा—</big>
Line 73 ⟶ 76:
<big>दीप् + रः → दीप्रः (प्रत्ययः रेफादिः)</big>
<big>आधिक्येन सन्धिः न भवति—</big>
Line 81 ⟶ 85:
<big>यत् + नः → यत्नः (प्रत्ययः नकारादिः)</big>
<big>B. धातुः हलन्तः, प्रत्ययस्य प्रथमवर्णः त्, थ्, ध्, स् → हल्-सन्धिः</big>
<big>यथोक्तं हल्-सन्धौ हलः विकारो भवति |</big>
<big>कुत्रचित् पूर्ववर्णस्य विकारः — भिनद् + ति → भिनत् + ति → भिनत्ति</big>
Line 91 ⟶ 97:
<big>कुत्रचित् पूर्वपरयोर्विकारः — दोघ् + ति → दोग् + धि → दोग्धि</big>
<big>अग्रिमेषु चतुर्षु पाठेषु हलन्तेभ्यो धातुभ्यः कथं तकारादिप्रत्ययाः, थकारादिप्रत्ययाः, धकारादिप्रत्ययाः, सकारादिप्रत्ययाश्च संयुज्यन्ते इति ज्ञास्यामः |</big>
<big>C. हल्-सन्धि-विधयः चतुर्षु विभागेषु विभक्ताः</big>
<big>१. हलन्तेभ्यो धातुभ्यो लङ्-लकारस्य त्-प्रत्ययः स्-प्रत्ययश्चेत्यनयोः योजनविधिः</big>
Line 103 ⟶ 111:
<big>४. हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः</big>
<big>D. हलन्तेभ्यो धातुभ्यः लङ्-लकारस्य त्-प्रत्ययः स्-प्रत्ययश्चेत्यनयोः योजनविधिः</big>
Line 108 ⟶ 117:
<big>लङ्-लकारस्य त्-प्रत्ययः स्-प्रत्ययश्चेत्यनयोः अपृक्त-संज्ञा भवति | अतस् तयोर् योजनविधिर्भिन्नः |</big>
<big>'''अपृक्त एकाल् प्रत्ययः''' (१.२.४१) = यस्य प्रत्यस्य एकैव अल्, तस्य अपृक्त-संज्ञा भवति | एकश्चासौ अल् एकाल्, कर्मधारयः | अपृक्तः प्रथमान्तम्, एकाल् प्रथमान्तं, प्रत्ययः प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''एकाल् प्रत्ययः अपृक्तः''' |</big>
<big>अत्र योजनविधौ सोपानत्रयं वर्तते—</big>
Line 118 ⟶ 128:
<big>३. जश्त्वसन्धिः चर्त्वसन्धिश्च</big>
<big>१. हलन्तेभ्यो धातुभ्यः ति, सि-सम्बन्धिनां प्रत्ययानां अपृक्त-प्रत्ययानां लोपो भवति</big>▼
▲<big>१. <u>हलन्तेभ्यो धातुभ्यः ति, सि-सम्बन्धिनां प्रत्ययानां अपृक्त-प्रत्ययानां लोपो भवति</u></big>
<big>हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) = हलन्तात्, दीर्घङ्यन्तात्, दीर्घाबन्तात् च सु-ति-सि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्-लोपः, लङि प्रथमपुरुषे त्-लोपः, मध्यमपुरुषे स्-लोपश्च | हल् च ङी च आप् च तेषाम् इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम् | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात् पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | लोपो व्योर्वलि (६.१.६५) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्— दीर्घात् हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल् लुप्यते |</big>▼
▲<big>'''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' (६.१.६७) = हलन्तात्, दीर्घङ्यन्तात्, दीर्घाबन्तात् च सु-ति-सि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्-लोपः, लङि प्रथमपुरुषे त्-लोपः, मध्यमपुरुषे स्-लोपश्च | हल् च ङी च आप् च तेषाम् इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम् | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात् पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | '''लोपो व्योर्वलि''' (६.१.६५) इत्यस्मात् '''लोपः''' इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्— '''दीर्घात् हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल् लुप्यते''' |</big>
<big>समग्रदृष्ट्या अस्य सूत्रस्य प्रसक्तिः कुत्र ?</big>
<big>(१) हलन्तधातुतः लङ्-लकारस्य सि, ति च प्रत्यययोः परयोः | अत्र स्, त् इत्यनयोः लोपो भवति |</big>
Line 138 ⟶ 151:
<big>असंस्त् + त् → असंस्त् असंस्त् + स् → असंस्त्</big>
<big>(२) हलन्तप्रातिपदिकात् सु-प्रत्ययः | तत्र सु-प्रत्ययस्य उकारः अनुनासिकः अतः '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन लोपः | तदा स् इति अपृक्तसंज्ञक-प्रत्ययः अवशिष्यते | अनेन हलन्त-प्रातिपदिकानाम् एकवचने प्रथमाविभक्त्यन्त-पदानां विसर्गो नास्ति | उदाहरणार्थम्—</big>
<big>सुहृद् + स् → सुहृद्</big>
Line 151 ⟶ 165:
<big>सरित् + स् → सरित्</big>
<big>(३) दीर्घङ्यन्तात् नाम स्त्रिलिङ्गे दीर्घ-ईकारान्तात् प्रातिपदिकात् | नदी + सु → नदी + स् → नदी |</big>
Line 156 ⟶ 171:
<big>(४) दीर्घाबन्तात् नाम स्त्रिलिङ्गे दीर्घ-आकारान्तात् प्रातिपदिकात् | लता + सु → लता + स् → लता |</big>
<big>लङ्-लकारस्य प्रसङ्गः</big>▼
▲<big><u>लङ्-लकारस्य प्रसङ्गः</u></big>
<big>अधुना प्रश्नः उदेति, कुत्र कुत्र लङ्-लकारे त्, स् इत्यनयोः लोपः भवति ? हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) इति सूत्रस्य प्रसक्तिः यत्र, तत्रैव | ज्ञातं खलु यत् अस्य सूत्रस्य प्रसक्तिः तदा भवति यदा धातुः हलन्तः | इदमपि वक्तव्यं यत् धातु-तिङ्-प्रत्यययोः मध्ये कोऽपि अजन्तप्रत्ययः नागच्छेत् | अजन्तप्रत्ययः आयाति चेत्, तिङ्-प्रत्ययात् प्राक् हल्-वर्णः नास्ति अतः सूत्रस्य प्रसक्तिः नास्ति (प्रत्ययात् प्राक् हल्-वर्णः स्यात्—हल्ङ्याब्भ्यो) | इह सर्वे विकरणप्रत्ययाः अजन्ताः अतः मध्ये विकरणप्रत्ययः न स्यात् |</big>▼
▲<big>अधुना प्रश्नः उदेति, कुत्र कुत्र लङ्-लकारे त्, स् इत्यनयोः लोपः भवति ? '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' (६.१.६७) इति सूत्रस्य प्रसक्तिः यत्र, तत्रैव | ज्ञातं खलु यत् अस्य सूत्रस्य प्रसक्तिः तदा भवति यदा धातुः हलन्तः | इदमपि वक्तव्यं यत् धातु-तिङ्-प्रत्यययोः मध्ये कोऽपि अजन्तप्रत्ययः नागच्छेत् | अजन्तप्रत्ययः आयाति चेत्, तिङ्-प्रत्ययात् प्राक् हल्-वर्णः नास्ति अतः सूत्रस्य प्रसक्तिः नास्ति (प्रत्ययात् प्राक् हल्-वर्णः
<big>तर्हि सार्वधातुकप्रकरणे धातु-तिङ्-प्रत्यययोः मध्ये कुत्र विकरणप्रत्ययः नास्ति ?</big>
<big>- अदादिगणे</big>
Line 169 ⟶ 187:
<big>- यङ्-लुकि</big>
<nowiki>********************************************</nowiki>
<big>अदादिगणेः शपः लुक् (लोपः) भवति अतः धातुः हलन्तः चेत्, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) इति सूत्रस्य प्रसक्तिः | जुहोत्यादिगणे शपः श्लु (लोपः) भवति अतः धातुः हलन्तः चेत्, तत्रापि सूत्रस्य प्रसक्तिः | रुधादिगणे विकरणप्रत्ययः धातोः मध्ये आयाति अतः धातुः हलन्तः चेत्, सूत्रस्य प्रसक्तिः अस्ति एव; रुधादिगणीयाः धातवः सर्वे हलन्ताः | यङ्लुकि विकरणप्रत्ययः न भवति, अतः धातुः हलन्तः चेत्, अत्रापि सूत्रस्य प्रसक्तिः |</big>
|