6---sArvadhAtukaprakaraNam-anadantam-aGgam/08---dhAtupAThe-hal-sandhiH-1: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/08---dhAtupAThe-hal-sandhiH-1 (view source)
Revision as of 03:38, 28 May 2021
, 2 years agono edit summary
No edit summary |
No edit summary |
||
Line 133:
<big>'''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' (६.१.६७) = हलन्तात्, दीर्घङ्यन्तात्, दीर्घाबन्तात् च सु-ति-सि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्-लोपः, लङि प्रथमपुरुषे त्-लोपः, मध्यमपुरुषे स्-लोपश्च | हल् च ङी च आप् च तेषाम् इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम् | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात् पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | '''लोपो व्योर्वलि''' (६.१.६५) इत्यस्मात् '''लोपः''' इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्— '''दीर्घात् हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल् लुप्यते''' |</big>
<big>समग्रदृष्ट्या अस्य सूत्रस्य प्रसक्तिः कुत्र ?</big>
<big>(१) हलन्तधातुतः लङ्-लकारस्य सि, ति च प्रत्यययोः परयोः | अत्र स्, त् इत्यनयोः लोपो भवति |</big>
<big>यथा—</big>
Line 153 ⟶ 156:
<big>(२) हलन्तप्रातिपदिकात् सु-प्रत्ययः | तत्र सु-प्रत्ययस्य उकारः अनुनासिकः अतः '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन लोपः | तदा स् इति अपृक्तसंज्ञक-प्रत्ययः अवशिष्यते | अनेन हलन्त-प्रातिपदिकानाम् एकवचने प्रथमाविभक्त्यन्त-पदानां विसर्गो नास्ति | उदाहरणार्थम्—</big>
<big>सुहृद् + स् → सुहृद्</big>
Line 176 ⟶ 180:
<big>अधुना प्रश्नः उदेति, कुत्र कुत्र लङ्-लकारे त्, स् इत्यनयोः लोपः भवति ? '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' (६.१.६७) इति सूत्रस्य प्रसक्तिः यत्र, तत्रैव | ज्ञातं खलु यत् अस्य सूत्रस्य प्रसक्तिः तदा भवति यदा धातुः हलन्तः | इदमपि वक्तव्यं यत् धातु-तिङ्-प्रत्यययोः मध्ये कोऽपि अजन्तप्रत्ययः नागच्छेत् | अजन्तप्रत्ययः आयाति चेत्, तिङ्-प्रत्ययात् प्राक् हल्-वर्णः नास्ति अतः सूत्रस्य प्रसक्तिः नास्ति (प्रत्ययात् प्राक् हल्-वर्णः स्यात्—'''हल्ङ्याब्भ्यो''') | इह सर्वे विकरणप्रत्ययाः अजन्ताः अतः मध्ये विकरणप्रत्ययः न स्यात् |</big>
<big>तर्हि सार्वधातुकप्रकरणे धातु-तिङ्-प्रत्यययोः मध्ये कुत्र विकरणप्रत्ययः नास्ति ?</big>
Line 188 ⟶ 194:
<big>- यङ्-लुकि</big>
<nowiki>********************************************</nowiki>▼
<big>अदादिगणेः शपः लुक् (लोपः) भवति अतः धातुः हलन्तः चेत्, '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' (६.१.६७) इति सूत्रस्य प्रसक्तिः | जुहोत्यादिगणे शपः श्लु (लोपः) भवति अतः धातुः हलन्तः चेत्, तत्रापि सूत्रस्य प्रसक्तिः | रुधादिगणे विकरणप्रत्ययः धातोः मध्ये आयाति अतः धातुः हलन्तः चेत्, सूत्रस्य प्रसक्तिः अस्ति एव; रुधादिगणीयाः धातवः सर्वे हलन्ताः | यङ्लुकि विकरणप्रत्ययः न भवति, अतः धातुः हलन्तः चेत्, अत्रापि सूत्रस्य प्रसक्तिः |</big>
<big>अत्र उक्तं यत् लङ्-लकारे हल्-सन्धिः पदान्ते भवति यत्र धातुः हलन्तः, अपि च विकरणप्रत्ययः न भवति | लङ्-लकारस्य प्रथमपुरुषस्य मध्यमपुरुषस्य च एकवचने— तिपि सिपि इति प्रसङ्गः |</big>
<big>तर्हि एतादृशी स्थितिः कुत्र प्राप्यते इति प्रश्ने सति, अदादिगणे, जुहोत्यादिगणे, रुधादिगणे, यङ्लुगन्ते च इति उत्तरं लब्धम् | तत्र बहूनां जिज्ञासा व्युत्पन्ना, यङ्लुगन्तं नाम किम् ? अत्र तस्मिन् सम्बन्धे किञ्चित् उपस्थाप्यते, परिचयत्वेन |</big>
<big>पाणिनेः धातुपाठे द्विसहस्रं धातवः सन्ति | भू, दा, पठ्, लिख्, ज्ञा, क्री इत्यादयः द्विसहस्रे धातुषु अस्माकं बहवः परिचिताः | इमे पाणिनीय-धातुपाठे स्थिताः सर्वे धातवः औपदेशिकधातवः इत्युच्यन्ते |</big>
<big>तदा द्वादश प्रत्ययाः सन्ति ये एभ्यः धातुभ्यः विधीयन्ते; यदा इमे प्रत्ययाः विहिताः भवन्ति, तदा नूतनधातवः निष्पन्नाः भवन्ति | एषाम् अस्माभिः नूतनया निष्पादित-धातूनां नाम आतिदेशिकधातवः | यथा णिच्-प्रत्ययस्य संयोजनेन णिजन्तधातुः निष्पन्नः | लिख् इति औपदेशिकधातुः; तस्मात् यदा णिच् विहितो भवति, तदा लेखि इति नूतनः णिजन्तधातुः निष्पन्नः | अयं च आतिदेशिकधातुः | सन्नन्तधातवः अपि तथा | कृ इति औपदेशिकधातुः, चिकीर्ष इति सन्नन्तः आतिदेशिकधातुः; लटि चिकीर्षति |</big>
<big>एषु द्वादशसु प्रत्ययेषु यङ्-प्रत्ययः अन्यतमः | वारं वारम् अथवा अधिकाधिकम् इत्यस्मिन् अर्थे भवति | यथा णिच् अपि च सन्, अस्य यङ्-प्रत्ययस्य धातुना संयोजनेन नूतनधातुः निर्मितः भवति | तदा यङन्तधातुः इति वदामः | यङ्-प्रत्ययस्य किञ्चन वैशिष्ट्यम् अस्ति यत् तस्य लोपः (लुक्) अपि भवितुम् अर्हति | यत्र यङः लुक् भवति तत्र यङ्लुगन्तधातुः इत्युच्यते | यङन्तानां यङ्लुगन्तानां च अर्थः समानः, परन्तु रूपं भिद्यते |</big>
<big>यङ्लुगन्तधातवः आदादिकाः इत्युच्यन्ते यतोहि तत्र शपः लुक् भवति, अदादिगणवत् | (अन्ये सर्वे आतिदेशिकधातवः भ्वादिगणीयाः, यथा सन्नन्ताः, णिजन्ताः, यङन्ताः | तेषां सर्वेषां कृते शप्-विकरणप्रत्ययः भवति |)</big>
<big>हल्-सन्धि-विषये अस्माकम् अभिरुचिः यङ्लुगन्तानां, यतोहि तत्र विकरणप्रत्ययः न भवति— अतः यङ्लुगन्तधातुः हलन्तः चेत्, तस्य लङ्-लकारस्य प्रथमपुरुषस्य मध्यमपुरुषस्य च एकवचने, पदान्ते हल्-सन्धिः अर्हः यथासङ्गम् | एतादृशानि बहूनि रूपाणि अग्रे प्रदर्शितानि |</big>
<big>अधुना अनुभवार्थं यङ्लुगन्तानां लट्-लकारः कथं भवति इति पश्येम | अत्रापि हल्-सन्धेः अवसरः |</big>
<big>पठ्-धातुः इति स्वीकुर्मः |</big>
<big>यथा पठ्-धातुः + णिच् → पाठि इति नूतनधातुः | लटि पाठयति |</big>
<big>तथैव पठ्-धातुः + यङ्-लुक् → पापठ् इति नूतनधातुः | लटि पापट्टि | बालकः वारं वारं अथवा अधिकाधिकं पठति इत्यस्मिन् अर्थे, बालकः पापट्टि |</big>
<big>अत्र पश्यतु यत् औपदेशिकः पठ्-धातुः चेत् रूपम् एवम्—</big>
<big>पठ् + अ + ति → पठति</big>
Line 220 ⟶ 232:
<big>परन्तु यङ्लुगन्तधातुः चेत्, मध्ये विकरणप्रत्ययः नास्ति | पापठ् + ति | अतः अत्र हल्-सन्धिः भविष्यति | तेन एव कारणेन हल्-सन्धेः अभ्यासार्थं यङ्लुगन्तधातवः समीचीनाः | यथा—</big>
<big>पापठ् + ति → ष्टुत्वम् ('''ष्टुना ष्टुः''') → पापठ् + टि → चर्त्वं ('''खरि च''') → पापट् + टि → वर्णमेलने → पापट्टि |</big>
<big>धेयं यत् औपदेशिक-पठ्-धातोः लट्-लकारे हल्-सन्धेः अवकाशो नास्ति— पठ् + अ + ति → पठति | केवलं वर्णमेलनं, विकरणप्रत्ययस्य कारणात् | परन्तु यङ्लुकि हल्-सन्धि-अवकाशो भवति, विकरणप्रत्ययस्य अभावात् | अतः हल्-सन्धेः अभ्यासार्थं यङ्लुगन्तधातवः समीचीनाः |</big>
<big>अदादिगणे, जुहोत्यादिगणे, रुधादिगणे एषाम् औपदेशिकधातूनां हल्-सन्धेः अवसरः तु अस्ति, विकरणप्रत्ययस्य अभावात् | परन्तु तत्र धातवः परिगणिताः, अपि च एषां गणीय-धातूनाम् अन्ते सर्वे हल्-वर्णाः न प्राप्यन्ते— अतः बहूनां हल्-वर्णानां सन्ध्यभ्यासः तत्र न लभ्यते | दृष्टान्ते यङ्लुकि पापठ् इति ठकारान्तधातुः प्राप्तः, येन ठकारस्य हल्-सन्धि-अभ्यासः भवति | परन्तु अदादिगणे, जुहोत्यादिगणे, रुधादिगणे च कोऽपि ठकारन्तधातुः नास्ति | इत्थञ्च यङ्लुकि सुन्दररीत्या हल्-सन्धेः अभ्यासो भवति | यङ्लुगन्तधातूनाम् अन्ते प्रायः सर्वे हल्-वर्णाः प्राप्यन्ते |</big>
<big>अत्र यङ्लुगन्तधातूनां तावत् एव विषयः | यङ्लुगन्तधातुः कथं निर्मीयते इति भिन्नवार्ता— अग्रे गत्वा, अपरस्मिन् पाठे तामपि प्रक्रियां करिष्यामः | किन्तु अधुना केवलं यङ्लुगन्तधातुम् आदाय हल्-सन्धेः अभ्यासः क्रियते— अस्मिन् पाठे अभ्यासार्थं बहुत्र यङ्लुगन्तधातूनाम् उदाहरणानि दत्तानि |</big>
<big>लङ्-लकारस्य अपृक्तप्रत्यये परे इतोऽपि एकः प्रसङ्गः अस्ति यत्र हल्-सन्धेः अवसरः प्राप्यते | यदि गुणकार्येण वृद्धिकार्येण च कोऽपि धातुः हलन्तो भवति, तत्रापि लङ्-लकारस्य त्-प्रत्ययः स्-प्रत्ययः चेत्यनयोः लोपः |</big>
Line 232 ⟶ 247:
<big>यथा—</big>
<big>अजागृ + त् → गुणः → अजागर् + त् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् इत्यनेन त्-लोपः → अजागर् → खरवासयोर्विसर्जनीयः इत्यनेन र्-स्थाने विसर्गः → अजागः</big>▼
<big>अजागृ +
<big>२. प्रथमसोपानेन पदं निर्मितम् अतः पदं निमित्तीकृत्य कार्याणि</big>▼
▲<big>अजागृ +
<big>प्रथमे सोपाने तिङ्-प्रत्ययः संयोजितः अतः सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन पदं जातम् | यद्यपि त्-प्रत्ययः स्-प्रत्ययश्चेत्यनयोर् लोपो जातः, तथापि तिङ्-प्रत्ययस्तु विहित एव अतः प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यनेन अधुना धातुः न, अपि तु तिङन्तं पदमेव | अधुना अरुणध्, अभिनद्, अहन्, अधोघ्, असंस्त् इति इमानि पदानि एव, अपि च एषां पदानाम् अन्ते यः हल्-वर्णः वर्तते, सः "पदान्तः हल्-वर्णः" | अनेन कारणेन अग्रे गत्वा इमानि विशिष्टानि कार्याणि भवन्ति यत्र यत्र प्राप्तिरस्ति—</big>▼
<big>धेयं यत् अग्रिमेषु सर्वेषु स्थलेषु [a – g] कार्यं विहितं 'पदान्ते' यतः पदस्य (८.१.१६) इति सूत्रस्य अधिकारः | पदस्य (८.१.१६) इत्यस्य अधिकारः ८.१.१७ - ८.३.५५ यावत् | अत्र आहत्य पाठः सप्तसु विभागेषु विभक्तः—</big>▼
▲<big>२. <u>प्रथमसोपानेन पदं निर्मितम् अतः पदं निमित्तीकृत्य कार्याणि</u></big>
▲<big>प्रथमे सोपाने तिङ्-प्रत्ययः संयोजितः अतः '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन पदं जातम् | यद्यपि त्-प्रत्ययः स्-प्रत्ययश्चेत्यनयोर् लोपो जातः, तथापि तिङ्-प्रत्ययस्तु विहित एव अतः '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यनेन अधुना धातुः न, अपि तु तिङन्तं पदमेव | अधुना अरुणध्, अभिनद्, अहन्, अधोघ्, असंस्त् इति इमानि पदानि एव, अपि च एषां पदानाम् अन्ते यः हल्-वर्णः वर्तते, सः "पदान्तः हल्-वर्णः" | अनेन कारणेन अग्रे गत्वा इमानि विशिष्टानि कार्याणि भवन्ति यत्र यत्र प्राप्तिरस्ति—</big>
▲<big>धेयं यत् अग्रिमेषु सर्वेषु स्थलेषु [a – g] कार्यं विहितं 'पदान्ते' यतः '''पदस्य''' (८.१.१६) इति सूत्रस्य अधिकारः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः ८.१.१७ - ८.३.५५ यावत् | अत्र आहत्य पाठः सप्तसु विभागेषु विभक्तः—</big>
<big>a) पदान्ते संयोगः</big>
Line 256 ⟶ 276:
<big>g) मकारान्तधातवः</big>
<big>'''a)''' पदान्ते संयोगः</big>
<big>1. पदस्य अन्ते संयोगोऽस्ति चेत्, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति |</big>
<big>'''संयोगान्तस्य लोपः''' (८.२.२३) = यस्य पदस्य अन्ते संयोगोऽस्ति, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः न तु पूर्णपदस्य | संयोगः अन्ते अस्ति यस्य तत् संयोगान्तं, बहुव्रीहिः, तस्य संयोगान्तस्य | संयोगान्तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''संयोगान्तस्य पदस्य लोपः''' |</big>
<big>यथा— बन्ध् इति औपदेशिकधातुः | तस्य यङ्लुगन्तधातुः बाबन्ध् |</big>
▲<nowiki>*************************************************</nowiki>
<big>अबाबन्ध् + त् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) इत्यनेन त्-लोपः → अबाबन्ध् इति तिङन्तं संयोगान्तं पदम् → संयोगान्तस्य लोपः (८.२.२३) इत्यनेन पदस्य अन्तिमवर्णस्य लोपः → अबाबन्</big>
<big>2. संयोगस्य प्रथमसदस्यः रेफः चेत्, रेफात् परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न |</big>
<big>रात्सस्य (८.२.२४) = यस्य पदस्य अन्ते संयोगोऽस्ति, संयोगस्य प्रथमसदस्यः रेफः चेत्, रेफात् परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न | रात् पञ्चम्यन्तं, सस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | संयोगान्तस्य लोपः (८.२.२३) इति सूत्रस्य पूर्णतया अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— रात् संयोगान्तस्य पदस्य सस्य लोपः |</big>
|